गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ६१-६५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायाः ५६-६० गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायाः ६१-६५
[[लेखकः :|]]
अध्यायाः ६६-७० →

अध्याय ६१ प्रारंभ :-
ब्रह्मोवाच ।
एकदाऽहं गतो राजन्कैलासं गिरिशालयम् ।
उपविष्टः सभामध्येऽपश्यन्नारदमागतम् ॥१॥
तेनापूर्वं फलं चैकं शंकराय निवेदितम् ।
ययाचे गणपदस्तु कुमारोऽपि च शम्भवे ॥२॥
कस्मै देयं फलमिदमपृच्छच्छंकरोपि माम्।
अहं प्रोवाच बलाय कुमारायेति तं तदा ॥३॥
दत्तं शिवेन तस्मै तच्चुक्रोध च गजाननः ।
ततो ब्रह्मा स्वभवनं गत्वा स्रष्टुमियेष सः ॥४॥
ततो विघ्नकरो विघ्नं चकार परमाद्भुतं ।
उग्र रूपं समास्थाय भीषयामास मां तदा ॥५॥
मयि भ्रान्तेऽथ स विधुर्दृष्ट्वा क्रूरतरं तु तम् ।
अहसत्परं चन्द्र स्वगणै र्द्विरदानमम् ॥६॥
ततः परमक्रुद्धोऽसावशपत्तं विभुं तदा ।
अदर्शनीय त्रैलोक्ये मद्वन्यात्वं भविष्यसि ॥७॥
कदाचित्केन दृष्टः स महापातकवान्भवेत् ।
एवं शप्त्वा गतो देवो निजधाम गणैर्वृतः ॥८॥
चन्द्रस्तु मलिनो दीनो लीनश्चिन्तामये हृदे ।
अणिमादि गुणोपेते जगत्कारणकारणे ॥९॥
कथमाचरितं दौष्ट्यमज्ञानाद् बालवन्मया ।
अदर्शनीयः सर्वेषां विवर्णो मलिनोऽभवम् ॥१.६१.१०॥
कथं सुरूपो वन्द्यश्च कलाभिः सुरतोषकः ।
एतस्मिन्नंतरे देवैः श्रुतः शापो महान्विधोः ॥११॥
तत्रेयुर्वह्नि शक्राद्या यत्रास्तेऽसौ गजाननः ।
विजिज्ञपुः सुरोघास्ते विघ्नकारणकारिणे ॥१२॥
देवा ऊचुः ।
त्वं देवदेव जगतामसि वन्दनीय, स्त्वं पासि हंसि विदधासि यथेष्टमीश ।
त्वं निर्गुणोऽपि गुणकृद् गुणिनां त्र्यधीश, त्वामेव देव शरणं वयमद्य याताः ॥१३॥
पाहीश नोऽखिलजगत्तव शापभीतं, चन्द्रेऽपराधिनि कथं पतितं सुकष्टम् ।
तस्माद् वयं च जगदीश चगच्चचन्द्रः, शर्माप्नुयाम भुवनेश तथाविधेहि ॥१४॥
कष्टे निपतितं विश्वमदृश्ये शशिनि प्रभो।
अनुग्रहं च चन्द्रेऽस्मिंस्त्रैलोक्ये कर्तुमर्हसि ॥१५॥
नाज्ञासीद्यस्य ते रूपं महिमानं श्रुतित्रयम् ।
स कस्य स्तवनीयः स्याँ त्तथापि स्तूयवेऽखिलैः ॥१६॥
कृतकृत्या वयं तेऽद्य दर्शनाद्भाषणादपि ।
शरणं ते प्रपन्नाः स्म प्रपन्नार्ति हराव्य:य ॥१७॥
इति तद्वचनं श्रुत्वा जगाद द्विरदाननः ।
सुप्रसन्नः स्तवैस्तेषां धर्मकामार्थमोक्षदः ॥१८॥
विकट उवाच ।
प्रसन्नोऽहं सुरा: स्तुत्या वृणुध्वं वांछितं महत् ।
असाध्यमपि वो दद्यां त्रिषु लोकेषु यद्भवेत् ॥१९॥
देवा ऊचुः ।
सुधाकरेऽनुग्रहं ते सर्वं ईहामहे वयम् ।
अनुगृहीते तस्मिंस्तु सर्वेषां नो ग्रहो भवेतं ॥१.६१.२०॥
गणेश उवाच ।
एकाब्दं वा तदर्धं वा तदर्धार्धमथापि वा।
अदर्शनीयोऽस्तु शशी ब्रूतान्यं वा वरं सुराः ॥२१॥
ततस्ते दंडवत्सर्वे प्रणेमुर्द्विरदाननम् ।
उवाच प्रणतांस्तांस्तु विकटो भावपूर्वकम् ॥२२॥
अप्रमाणं कथमहो वचनं कर्तुमुद्यतः ।
शरणं च प्रपन्नानां न त्यागं कर्तुमुत्सहे ॥२३॥
मेरुश्चलेत् पतेत् सूर्यो वह्निः शीतो भवेद्यदि ।
मर्यादामुत्सृजेत् सिंधुर्वचो मे नानृतं भवेत् ॥२४॥
अथापि गूढतो वाक्यं शृणुध्वं सुरसत्तमः ।
भाद्रशुक्लचतुर्थ्यां यो ज्ञानतोऽज्ञानतोऽपि वा ॥२५॥
अभिशापी भवेच्चन्द्रदर्शनाद् भृशदुःखभाक् ।
इति तद्वचनं श्रुत्वा देवा मुमुदिरेऽखिलाः ॥२६॥
ओमिति प्रणिपत्योचुः पुष्पवृष्टिं च चिक्षिपुः ।
तदनुज्ञां गृहीत्वेयुर्देवाश्चन्द्रमसं प्रति ॥२७॥
तमूचुस्त्वं मूढतरो योऽहसद् द्विरदाननम् ।
त्रैलोक्यं संकटे क्षिप्तं त्वया श्रेष्ठापराधिना ॥२८॥
त्रैलोक्यनायके देवे जगत् त्रय विधायिनि ।
अव्यये निर्गुणे नित्ये परब्रह्म स्वरूपिणि ॥२९॥
गजाननेऽखिलगुरावपराधं यतोऽचरः ।
एवं नियमितं तेन सर्वलोकहितेप्सुना ॥१.६१.३०॥
अस्माभिः परमक्लेशात् प्रसन्नोऽसौ कृतो विभुः ।
भाद्रपदचतुर्थ्यां त्वं न द्रष्टव्यः कदाचन ॥३१॥
त्वं चापि शरणं याहि देवदेवं गजाननम्।
तत्प्रसादाच्छुद्धतनुः परां ख्यातिमवाप्स्यसि ॥३२॥
इति चन्द्रो वचः श्रुत्वा देवानां हितमात्मनः ।
जगाम शरणं देवं शरणागतवत्सलम् ॥३३॥
गजाननं सुरेशानं महेशानादिवन्दितम् ।
जजाप परमं मन्त्रमेकाक्षरमघापहम् ॥३४॥
विधुरिन्दोपदिष्टं स परमेण समाधिना।
दश द्वादश वर्षाणि तपस्तेपे सुदारुणम् ॥३५॥
गंगाया दक्षिणे तीरे सर्वसिद्धिप्रदायिनि ।
ततः प्रसन्नो भगवान् पुरो यातो गजाननः ॥३६॥
रक्तमाल्यांबरधरो रक्तचंदनचर्चितः ।
चतुर्भुजो महाकायः सिन्दूरारुणविग्रहः ॥३७॥
प्रभया भासयंल्लोकान् कोटिसूर्याधिक प्रभाः ।
तेजः समूहं दृष्ट्वा तं प्रचकंपे भृशं शशी ॥३८॥
परमं धैर्यमास्थाय कृतांजलिपुरः पुरः ।
तर्कयामास मनसा प्रायोऽयं द्विरदाननः ।।३९॥
वरं दातुमिहायात इति मत्वा ननाम तम् ।
तुष्टाव परया भक्त्या देवदेवं गजाननम् ॥१.६१.४०॥
चन्द्र उवाच ।
नमामि देवं द्विरदाननं तं, यः सर्वविघ्नं हरते जनानाम् ।
धर्मार्थकामांस्तनुतेऽखिलामां, तस्मै नमो विघ्नविनाशनाय ॥४१॥
कृपानिधे ब्रह्ममयाय देव, विश्वात्मने विश्वविधान दक्ष ।
विश्वस्य बीजाय जगन्मयाय, त्रैलोक्यसंहारकृते नमस्ते ॥४२॥
त्रयीमयायाखिलबुद्धिदात्रे, बुद्धिप्रदीपाय सुराधिपाय ।
नित्याय सत्याय च नित्यबुद्धे, नित्यं निरीहाय नमोऽस्तु नित्यम् ॥४३॥
अज्ञानदोषेण कृतोऽपराधस्तं क्षन्तुमर्होऽसि दयाकरस्त्वम् ।
तवापि दोषः शरणागतस्य, त्यागे महात्मन् कुरु मेऽनुकंपाम् ॥४४॥
ब्रह्मोवाच ।
इति तद्वचनं श्रुत्वा सुप्रसन्नो गजाननः ।
तस्मै वरान्ददौ देवः स्तुत्या नत्या सुतोषितः ॥४५॥
यथापूर्वं स्थितं रूपं तथा तत्ते भविष्यति ।
भाद्रशुक्लचतुर्थ्यां त्वां यो नरः संप्रपश्यति ॥४६॥
तस्याभिशापो नूनं स्यात्पापं हानिश्च मूर्खता ।
तस्यामदर्शनीयोऽसि यदुक्तं मे सुरैः सह ॥४७॥
कृष्णपक्षे चतुर्थ्यां तु व्रतं यत्क्रियते नरैः ।
तवोदयेहं पूज्यस्त्वं पूजनीयः प्रयत्नतः ॥४८॥
दर्शनीयः प्रयत्नेन विपरीते व्रतं वृथा।
ललाटे कलया तिष्ठ मम प्रीतिकरः शशिन् ॥४९॥
प्रतिमासं द्वितीयायां नमस्यश्च भविष्यसि ।
एवं लब्धवरश्चन्द्रो यथापूर्वोऽभवत्तदा ॥१.६१.५०॥
स्थापयामास वरद मूर्ति देवर्षिभिः सह ।
भालचन्द्रेति नामास्य चक्रुस्ते मुनयः सुराः ॥५१॥
प्रासादं कारयामास कांचनं रत्नसंयुतम् ।
उपचारैः षोडशभिः पूजयायास सादरम् ॥५२॥
पूजयित्वा सुराः सर्वै मुनयश्च वरान्ददुः ।
सिद्धिक्षेत्रमिदं लोके विख्यातं तु भविष्यति ॥५३॥
अनुष्ठानवतामत्र सर्वसिद्धिकरं भवेत् ।
ततस्ते देव मुनयो नत्वा तं द्विरदाननम् ॥५४॥
ययुः प्रसन्नमनसः स्वं स्वं स्थानं मुदा युताः ।
यातेषु देवमुनिषु देवोऽपि पिधदे वपुः ॥५५॥
अन्तर्हिते भालचन्द्रे चन्द्रौ हृष्टमना इव ।
स्वं धाम प्रतिपेदे वै स्वं धाम प्रययौ तदा ॥५६॥ (२७०२)
इति श्रीगणेशपुराण उपासनाखंडे चन्द्रशापानुग्रहवर्णनं नामैकषष्टितमोऽध्यायः ॥६१॥

अध्याय ६२ प्रारंभ :-
कृतवीर्य पितोवाच ।
चतुर्थ्यां कृष्णपक्षे तु भक्तिचन्द्रोदये यतः ।
क्रियते तन्निमित्तं यत्पृष्टं तन्मे निरूपितम् ॥१॥
दुर्वांकुरार्पणस्यापि श्रोतुमिच्छामि कारणम् ।
किमर्थं गणनाथस्य प्रिया दुर्वांकुरा वद ॥२॥
ब्रह्मोवाच ।
हन्त ते कथयिष्यामि दुर्वांकुरसमर्पणे ।
यत्फलं गणानाथस्य श्रूयन्तां तं नृपोत्तम ॥३॥
जाम्बेति नगरी ख्याता देशे दक्षिणतोऽभवत्। ।
क्षत्रियः सुलभोऽस्यां तु गुणी दानी धनी बली ४|॥
 विवेक्यासिन् मान्यमानी शमी दमपरायणः ।
सर्व शास्त्रार्थतत्वज्ञः सर्व वेदार्थ तत्ववित् ॥५॥
विकटे भक्तिमान्नित्यं स्तुतिस्तोत्र परायणः ।
तस्य भार्या सुमुद्राऽसिन्नाम्ना परम विश्रुता ॥६॥
अत्यन्त सुन्दरी साध्वी स्वरूपाद्धिक् कृताप्सराः ।
देव विप्रातिथिपरा पत्युश्चित्तानुवतिनी ॥७॥
पतिव्रतानां सर्वासां मान्या श्रेष्ठतमा नृप ।
एकस्मिन् दिवसे तौ तु दम्पती स्नाननिर्मलौ ॥८॥
उपविष्टौ पुराणार्थं परस्परमनोनुगौ ।
यावत्तावत् समायातो ब्राह्मणो मधुसूदनः ।
भिक्षाभिलाषी सततं परमेश्वरचिन्तकः ॥९॥
कुचैलश्च दरिद्रत्वात् साम्बरोऽपि दिगंबर: ।
सुलभस्तं तु दृष्ट्वैव प्रणनाम मुदायुतः ॥१.६२.१०॥
जहास चैनं सहसा मोहाविष्टो द्विजोत्तमम् ।
स उवाच ततः शापं प्रतिक्षुब्धो महामुनिः ॥११॥
क्रोधसंरक्तनयनस्त्रैलोक्यं प्रदहन्निव ।
हलकर्षण को नित्यं नित्यं दुःखसमन्वितः ॥१२॥
वृषो भव कुबुद्धे त्वं योऽहसद्विवृतै र्द्विजैः ।
भर्तुः शापं परिश्रुत्य सुमुद्रा क्रोधमूर्छिता ॥१३॥
अशपत्तं द्विजं रुष्टा सर्पिणीव पदाहता ।
यतस्त्वयाऽविवेकेन शापो दत्तः पतेर्मम ॥१४॥
अतस्त्वं चक्रिवान्भूत्वा विष्टाशी भव कुद्धिन ।
सोऽपि तामशपत्क्रूरं श्रुत्वा शापं तदीरितम् ॥१५॥
स्त्रीत्वात्त्वमशपो यस्मात्त्वं चांडाली भविष्यसि ।
दरिद्रा दोषबहुला विण्मूत्रादाऽशुभंकरी ॥१६॥
एवं परस्परं शप्त्वा त्यक्त्वा देहान् सुदुर्लभान् ।
सुलभो वृषभो जातो हलकर्षणवान्भवत् ॥१७।।
न विश्रांतिः क्षणं तस्य विप्रशापात्तदाऽभवत् ।
द्विजोऽपि रासभेर्योनौ जातोऽसौ मधुसूदनः ॥१८॥
जाता सुमुद्रा चाण्डाली दुष्टा प्राणिविहिंसिका ।
दरिद्रा पैशाचवती विण्मूत्राशनतत्परा ॥१९॥
अति शुष्कशरीरा सा दन्तुरा विकटानना ।
कदाचिदटमाना सा दक्षिणे नगरस्य तु ॥१.६२.२०॥
प्रासादं गणनाथस्य ददर्श परमाद्भुतम् ।
नानावृक्ष लता जालैर्नाना पक्षिगणैर्युतम् ॥२१॥
यत्र योगीश्वरा केचिदनुष्ठानरताः सदा ।
उपासका गणेशस्य नियमस्था वसन्ति हि ॥२२॥
केचित्कामार्थिन: केचित् पुत्र मोक्षधनार्थिनः ।
कदाचिद्भाद्रमासस्य चतुर्थ्यां तु गृहे गृहे ॥२३॥
तस्मिन्पुरे संप्रवृत्तो गणनाथ महोत्सवः ।
अतिवृष्टिः प्रवृत्ता च महाप्रलय सूचिका ॥२४॥
चांडाली वृष्टिभीता सा याति यद्यन्निशनम् ।
ततस्ततोऽखिलजनं निरस्ता ताडनादिभिः ॥२५॥
ततो देवालयं याता पाणावग्निं प्रगृह्य सा।
तत्राप्यताडयन् केचिद्योगिभिस्ते निराकृताः ॥२६॥
प्रज्वाल्य सा तृणैरग्निमुष्णान्यंगाणि कुर्वती ।
अकस्माद् वायुना प्रागादेको दूर्वांकुरस्तदा ॥२७॥
पतितो गणनाथस्य मस्तके दैवयोगतः ।
स रासभः शीत मीतो यातो देवालयं तदा ॥२८॥
तदा वृषो लांगलात्तु मुक्तो दैवात्समाययौ ।
प्रासादं गणनाथस्य भाविनोऽर्थस्य गौरवात् ॥२९॥
उभावपि तृणं तस्याश्चांडाल्यास्तौ बभक्षतुः ।
परिसुप्ते जने तत्र तयोर्युद्धमवर्तत ॥१.६२.३०॥
लत्ताभ्यां चैव शृंगाभ्यां गजाननसमीपतः ।
तयोरास्यान्निपतितौ शुंडायां च पदे तदा ॥३१॥
दूर्वांकुरो गणेशस्य तुतोष च गजानन ।
ततः सा यष्टिमादाय देवान्तिकमुपागमत् ॥३२॥
अहन्नतीं खर वृषौ स्वयं पूजां बभक्ष च ।
खुरशब्दं तयोः श्रुत्वा बुबुधे निद्रितो जनः ॥३३॥
बहिश्चकार दंडेन मुष्टिकूर्परघाततः ।
पलायनपरा साऽपि ताडिता शर्करादिभिः॥३४॥
चांडाल्या रासभस्यापि स्पर्शशंकाकुलैर्जनैः।
स्नापितस्तीर्थतोयेन मन्त्रितेन गजाननः।
पूजितः परया भक्त्या नानाद्रव्यैरनेकशः॥३५॥
वृष रासभ चांडालीरतिदुष्टा जनाः पुनः।
ताडयामासुरव्यग्रा लगुडैर्जानुभिस्तलैः ।
देवद्वारे च पिहिते गतिस्तेषां न विद्यते ॥३६॥
भ्रमतां क्रंदतां तेषां त्रयाणां दारुणैः स्वरैः।
मनस्तु देवदेवस्य विकटस्य तदा ह्रतम् ॥३७॥
एतेषां तु प्रसंगेन पुनः पूजा ममाभवत् ।
एतैश्च पूजितश्चाहमेकदूर्वांकुरादिभिः ॥३८॥
प्रदक्षिणा बहुतरा कृता दुष्टेशु सत्स्वपि ।
भाद्रशुक्लचतुर्थ्यां मे दूर्वामेकां समर्पयेत् ॥३९॥
स मे मान्यश्च पूज्यश्च यश्च कुर्यात्प्रदक्षिणाम् ।
तस्मादेतां विमानेन स्वधाम प्रापयाम्यहम् ॥१.६२.४०॥
एवं विमानमप्रैषीत् स्वगणैरुपलक्षितम् ।
स्वरूपधारिभिर्देवो गन्धर्वाप्सरसां गणैः ॥४१॥
युतं वादित्रनिचयैः पुष्पैः परिमलैरपि ।
दिव्यभोगसमायुक्तं पताकाध्वजमंडितम् ४२॥
तानादाय गणास्ते तु गजाननस्वरूपिणः ।
तस्मिन् विमाने निक्षिप्य दिव्यदेहान्मुदायुतान् ॥४३॥
गजाननाज्ञया तस्य धाम संप्रापयं जवात् ।
पश्यतां सर्वलोकानामाश्चर्यमभवद्हृदिः ॥४४॥
एतेषां पूर्वपुण्येन गतिरेषेति चाब्रुवन् ।
ततो योगीश्वराः केचित्त्यक्त्वा ध्यानं गता गणान् ॥४५॥
पप्रच्छु कथमेतेषां ब्रूत पुण्या गतिरूर्ध्वगा ।
अति पातकिनामेषां पुण्यलेशो न विद्यते ॥४६॥
गतिः सुदुर्लभा कस्मात् प्राप्ता नो गदतानघाः ।
तदेवाशु चरिष्याम स्त्यक्त्वाऽनुष्ठानमात्मनः ॥४७॥
असंख्यातो गतः कालो न देवो दृक्पथं गतः ।
विरक्तानां वायुभुजामनुष्ठानवतां सदा ॥४८॥
धामप्राप्तिः कदा नः स्याद् गणेशस्य वदन्तु नः ॥४९॥ (२७५१)
इति श्रीगणेशपुराण उपासनाखंडे दूर्वोपाख्यानं नाम द्विषष्टितमोऽध्यायः ॥६२॥

अध्याय ६३ प्रारंभ :-
गणा उवाच ।
शृणुध्वं योगिनः सर्वे स्थिरीकृत्य मनश्चलम्।
यन्न शेषो भवेद् वक्तुं समर्थश्चतुराननः ॥१॥
तद् वक्तुं कः समर्थः स्याद्यथाशक्ति वदाम च।
कुर्वन्ति स्तवनं यस्य सर्वदाऽजशिवादयः ॥२॥
तस्य को गणनाथस्य महिमानं वदेत् स्फुटम् ।
इत्थं तदीयां लीलां वा तथापि शृणुतानघाः ॥३॥
दुर्वांकुराणां महिमा न ज्ञातो मुनिभिः सुरैः ।
यज्ञैर्दानैस्तपोभिश्च व्रतैर्होमै र्न वाप्यते ॥४॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
वासवस्य च संवादं नारदस्य महात्मनः ॥५॥
एकदा नारदोऽगच्छद्वासवं द्रष्टुमुत्सुकः ।
पूजिता परया भक्त्या कृतासन परिग्रहम् ॥६॥
मुनिं पप्रच्छ बलहा दूर्वामाहात्म्यमादरात् ।
इन्द्र उवाच ।
किमर्थं देवदेवस्य गणेशस्य महात्मनः ।
विशेषतः प्रिया ब्रह्मन् महादूर्वांकुरा मुने ॥७॥
मुनिरुवाच ।
कथयामि यथा ज्ञातं दूर्वामाहात्म्यमुत्तमम्।
स्थावरे नगरे पूर्वं कौंडिन्योऽभून्महामुनिः ॥८॥
उपासको गणेशस्य तपोबलसमन्वितः ।
रमणीयतरस्तस्य ग्राम दक्षिण भागतः ॥९॥
आश्रमः सुमहानासील्लतावृक्ष समन्वितः ।
सरांसि फुल्लपद्मानि यत्रासन् सुमहांति च ॥१.६३.१०॥
भ्रमरैरुपजुष्टानि हंसकारंडकैरपि ।
चक्रवाकैर्बकैश्चैव कच्छपैर्जल कुक्कुटैः ॥११॥
स तु ध्यानरतस्तत्र प्रारभत्तप उत्कटम् ।
पुरः स्थाप्य महामूर्ति गणेशस्य चतुर्भुजाम् ॥१२॥
सुप्रसन्नां सुवरदां दुर्वायुक्तां सुपूजिताम् ।
जजाप परमं मन्त्रं षडर्णं देवतोषकम् ॥१३॥
पप्रच्छ संशयाविष्टा पत्नी नाम्नाऽऽश्रयाऽस्य तम् ।
आश्रयोवाच ।
स्वामिन् गजानने देवे दूर्वांभारं दिनेदिने ॥१४॥
समर्पयसि कस्मात्त्वं तृणैः कोऽपि न तुष्यति ।
अस्ति चेत् पुण्यमेतेन तन्मे त्वं कृपया वद ॥१५॥
कौंडिन्य उवाच ।
शृणु प्रिये प्रवक्ष्यामि दूर्वामाहात्म्यमुत्तमम ।
धर्मस्य नगरे पूर्वमासीदुत्सव उत्तम: ॥१६॥
सर्वे देवा सगन्धर्वा आहूताश्चाप्सरो गणाः ।
सिद्धचारण नागाश्च मुनयो यक्ष राक्षसाः ॥१७॥
तिलोत्तमाया नृत्यन्त्याः प्रावारो न्यपतत् भुवि ।
ददर्श तस्याः स यमः कुचौ चारू बृहत्तमौ ॥१८॥
अभवत्कामसंतप्तोऽविश्रान्तो निरपत्रपः ।
इयेषालिंगितुं तस्याश्चुम्बितुं च तदाननम् ॥१९॥
सदसो निर्गतस्तस्माल्लज्जयाऽधोमुखो यमः ।
गच्छतस्तस्य रेतश्च स्खलितं पतितं भुवि ॥१.६३.२०॥
ज्वालामाल्यभवत्तस्मात्स पुरूषो विकृताननः ।
कुर्वन्दंष्ट्राखं क्रूरं त्रासयन् भुवनत्रयम् ॥२१॥
ददाह पृथिवीं सर्वां जटाभिर्गगनं स्पृशत् ।
चकम्पे तस्य शब्देन त्रिलोकी मानसं भृशम् ॥२२॥
तदैव विष्णूमगमस्ते तु सर्वे सभासदः ।
स्तुतिं नानाविधां कृत्वा नानास्तोत्रैर्यथामति ॥२३॥
प्रार्थयामासुरव्यग्राः सर्वलोकहिताय तम् ।
स तैः सर्वैः समगमद् गजाननमनामयम् ॥२४॥
तस्य नाशं ततो ज्ञात्वा तुष्टुवुः सर्व एव तम् ।
देवामुनयश्चोचुः।
नमो विघ्नस्वरुपाय नमस्ते विघ्नहारिणे ॥२५॥
नमस्ते सर्वरूपाय सर्वसाक्षिन्नमोऽस्तु ते ।
नमो देवाय महते नमस्ते जगदादये ॥२६॥
नमः कृपानिधे तुभ्यं जगत्पालन हेतवे ।
नमस्ते पूर्णतमसे सर्वसंहारकारिणे ॥२७॥
नमस्ते भक्तवरद सर्वदात्रे नमोनमः ।
नमस्तेऽनन्यशरण सर्वकामप्रपूरक ॥२८॥
नमस्ते वेदविदुषे नमस्ते वेदकारिणे ।
कमन्यं शरणं यामः को नु नः स्याद् भयापह ॥२९॥
अकाल एव प्रलयः कथं लब्धो जनैरयम् ।
हा गजानन देवेश हा हा विघ्नहराव्यय ॥१.६३.३०॥
सर्वेषां मरणे प्राप्ते कथमस्मानुपेक्षसे ।
इति तद्वचनं श्रुत्वा करूणाब्धिर्गजाननः ॥३१॥
आविरासीत्पुरस्तेषां शिशुरूपोऽरिभीतिहा ।
बिभ्रत् कमलनयने शतचन्द्रनिभाननम् ॥३२॥
कोटिसूर्यप्रभाजालः कोटिकन्दर्पजिद्वपुः ।
कुंदकुड्मलशोभांजि द्दशनोऽधरबिंबजित् ॥३३॥
उन्नसो भृकुटी चारुनयनः कंबुकंठयुक् ।
विशालवक्षा जानुस्पृग् भुजद्वययुतो बली ॥३४॥
गंभीर नाभि विलसदुदरोतिलसत्कटिः ।
रंभाशोभा परिस्पर्धि गुरू रुश्चासजानुयुक् ॥३५॥
सुचारू जंघा गुल्फश्री विलसत् पादपद्मकः ।
नानालंकार शोभाढ्यो महार्घवसनावृतः ॥३६॥
एवं देवं निरीक्ष्यैव नगरस्य पुरो भुवि ।
उत्तस्थुर्देवमुनयो जयशब्दपुरःसरम् ॥३७॥
प्रणेमुर्दंडवद् भूमौ शक्रं देवगणा यथा ।
देवा ऋषय ऊचुः ।
को भवान् कुत आयातः किं कार्यं वद नो विभो ॥३८॥
वयमेवं विजानीमो ब्रह्मैव बालरूपधृक ।
अनलासुर संत्रासात् त्यक्त्वा कर्माणि संस्थितान् ॥३९॥
आविर्भूतं तु नस्त्रातुं दुष्टसंहारकारकम् ।
इति तद्वचनं श्रुत्वा शिशुरूपी गजाननः ॥१.६३.४०॥
बभाषे हास्यवदनः सर्वान् देवमुनीन् प्रति ।
बाल उवाच ।
भवन्तो ज्ञानसंपन्ना यदुक्तं सत्यमेव तत् ॥४१॥
अहं तस्य वधायैव दुष्टस्य परपीडिनः ।
निजेच्छया बालरूपी वेगेनागां सुरर्षयः ॥४२॥
उपायं वच्मि वस्तस्य वधे तं कुरुतानघाः ।
सर्वैर्भवद्भिस्तं दृष्ट्वा नोदनीयो बलादहम् ॥४३॥
द्रष्टव्यं कौतुकं तस्य मम चैव महत्तरम् ।
एवं श्रुत्वा कृपावाक्यं सर्वे ते हर्षनिर्भरा ॥४४॥
उचुः परस्परं सर्वे न जानीमोऽस्य पौरुषम् ।
ईश्वरो बालरूपेण कर्तृमस्य वधं नु किम् ॥४५॥
अवतीर्णो भवेत् त्रातुं पीडितं भुवनत्रयम् ।
इत्थमुक्त्वा तु ते सर्वे प्रणेमुः सादरं च तम् ॥४६॥
एतस्मिन्नेव काले तु कालानलस्वरूपधृक्।
दहन् दश दिशो भक्षन्नरलोकं समाययौ ॥४७॥
कोलाहलो महानासील्लोकानां क्रन्दतां तदा ।
दृष्ट्वैव सर्वे मुनयः पलायनपरा ययुः ॥४८॥
तं च ते मुनयः प्रोचुः शीघ्रं कुरु पलायनम् ।
नो चेद्धिंसिष्यते त्वाद्य सुमहाननलो ध्रुवम् ॥४९॥
तिमिंगिलो यथा मीनानुरगान् गरूडो यथा।
इति तद्वचनं श्रुत्वा परमात्मा गजाननः ॥१.६३.५०॥
बालरूपधरोऽतिष्ठत् पर्वतो हिमवानिव।
सुरर्षयो ययुर्दूरात त्यक्त्वा तत्रैव बालकम् ॥५१॥ (२८०२)
इति श्रीगणेशपुराण उपासनाखंडे दुर्वामाहात्म्ये त्रिषष्टितमोऽध्यायः ॥६३॥

अध्याय ६४ प्रारंभ :-
आश्रयोवाच ।
देवर्षिषु प्रयातेषु बाले चाचलवत्स्थिते ।
किमासीत् कौतुकं तत्र बाल कालानलोद्भवम् ॥१॥
तत्सर्वं विस्तरान्मह्यं कथयाशु महामुने ।
नारद उवाच ।
एवं तया कृतः प्रश्नः कौण्डिन्यो मुनिसत्तमः ॥२॥
यदब्रवीच्छचीभर्तस्तत्त्वं शृणु मयोदितम् ।
कौंडिन्य उवाच ।
अचले चलवद्वाले स्थिते तस्मिन्गजानने ॥३॥
कालानल इवाक्षोभ्य आययौ सोऽनलासुरः ।
तस्मिन्क्षणेऽचला वाऽपि चचालाचलसंयुता ॥४॥
नमोदध्वान सदृश घनगर्जितनिःस्वनैः ।
निपेतुर्वृक्षशाखाभ्यः पक्षिवृन्दानि भूतले ॥५॥
निर्वारिर्वारिधिर्जातो वृक्षा उन्मूलितास्तदा ।
प्रकम्पनेन महता न प्राज्ञायत किंचन ॥६॥
तस्मिन्नेव क्षणे देवो बालरूपी गजाननः ।
वधारा नलरूपं तं दैत्यं मायाबलेन हि ॥७॥
प्राशत्सर्वेषु पश्यत्सु जलधिं कुम्भजो यथा।
ततः सोऽचिन्तयद्देवो यद्ययं जठरे गतः ॥८॥
दहेत् त्रिभुवनं कुक्षौ दृष्टमाश्चर्यमुत्कटम् ।
ततः शक्रो ददौं चन्द्रं तस्य वह्नेः प्रशान्तये ॥९॥
भालचन्द्रेति तं देवास्तुष्टुवुर् मुनयोऽपि च ।
तथापि न च शान्तोऽभूदनल: कंठमूर्ध्वगः ॥१.६४.१०॥
ततो ब्रह्मा ददौ सिद्धि बुद्धी मानस कन्यके ।
रम्भोरु पद्मनयने केशशं वैलसंयुते ॥११॥
चन्द्रवक्त्रेऽमृतगिरौ कूपनाभी सरिद् बली।
मृणालमध्ये प्रवाल हस्ते शंत्यस्य कारणे ॥१२॥
उवाचे मे समालिंग्य तव शान्तोऽनलो भवेत ।
तयोरालिंगने शान्तः किंचिदेव हुताशनः ॥१३॥
ददौ सुकोमलं तस्मै कमलं कमलापतिः ।
पद्मपाणिरिति प्रोचुस्तं सर्वे सुरमानुषाः ॥१४॥
अशान्तेऽग्नौ तु वरुणः सिषेच शीतलैर्जलैः ।
सहस्रफणिनं नागं गिरिशोऽस्मै ददावथ ॥१५॥
तेन बद्धोदरो यस्माद् व्यालबद्धोदरोऽभवत् ।
तथापि शैत्यं नापेदे कंठोऽस्यानलसंयुतः ॥१६॥
अष्टाशीति सहस्राणि मुनयस्तं प्रपेदिरे ।
अमृता इव दूर्वास्ते प्रत्येकं सेकविंशतिम् ॥१७॥
आरोपयन् मस्तकेऽस्य ततः शान्तोऽनलोऽभवत्।
तुतोष परमात्माऽसौ दुर्वांकुरभराचितः ॥१८॥
एवं ज्ञात्वा तु ते सर्वे पुपूजस्तं गजाननम् ।
दुर्वांकुरैरनेकैस्तै र्चहर्षांसौ गजाननः ॥१९॥
उवाच च मुनीन् देवान् मत्पूजा भक्तिनिर्मिता।
महती स्वल्पिका वापि वृथा दुर्वांकुरैविना ॥१.६४.२०॥
विना दूर्वांकुरैः पूजा फलं केनापि नाप्यते ।
तस्मादुषसि मद् भक्तैरेकावाऽप्येकविंशतिः ॥२१॥
भक्त्या समर्पिता दूर्वा ददाति यत्फलं महत् ।
न तत्क्रतुशतैर्दानैर्व्रतानुष्ठान संचयैः ॥२२॥
तपोभिरुग्रैर्नियमैः कोटिजन्मार्जितैरपि ।
प्राप्यते मुनयो देवा यद् दूर्वाभिरवाप्यते ॥२३॥
कौंडिन्य उवाच ।
इति तद्वचनं श्रुत्वा देवा दूर्वांकुरैः पुनः ।
आनर्चुः परमात्मानं देवदेवं गजाननम् ॥२४॥
जगर्जानन्दयुक्तोऽसौ नादयन्रोदसी भृशम् ।
हृष्टानां सर्वदेवानां मुनीनां च नृणामपि ॥२५॥
अनेकशो वरान् दत्वा पिदधे बालरूपधृक् ।
कालानलप्रशमन इति तं ते समूचिरे ॥२६॥
प्रासादे निर्मिते सर्वे स्थाप्य मूर्तिं गजाननीम् ।
विघ्नहरोऽयमित्यस्याभिधां चक्रुर्मुदा सुराः ॥२७॥
अत्र स्नानं तथा दानं तपोऽनुष्ठानमेव च ।
अनन्तं जायते विघ्नं हरस्यास्य प्रसादतः ॥२८॥
जयः प्राप्तो यतस्तेन पुरं च विजयांभिधम् ।
सर्वेषां च हता विघ्ना विघ्नहर्तेति सोऽभवत् ॥२९॥
कौंडिन्य उवाच ।
इति ते कथितं सर्वं दूर्वामाहात्म्यमुत्तमम ।
श्रवणात् पठनाच्चास्य सर्वपापक्षयो भवेत ॥१.६४.३०॥
पुरातनमितिहासं शृणु मे गदतः प्रिये ॥३१॥ (२८३३)
इति श्रीगणेशपुराण उपासनाखंडे दूर्वामाहात्म्यवर्णनं नाम चतुःषष्टितमोऽध्यायः ॥६४॥

अध्याय प्रारंभ ६५ :-
कौण्डिन्य उवाच ।
कस्मिंश्चित्समये देवि सुखासीनं गजाननम् ।
नारदो मुनिरभ्यागाद् दृष्टुं तं बहुवासरैः ॥१॥
साष्टांगप्रणिपत्यैनं प्राह नः सार्थकं जनुः ।
यत्पुण्यं निचयैर्जातं दर्शनं ते गजानन ॥२॥
इत्युक्त्वा स्वांजलिं बद्ध्वा तस्थौ तत्पुरतो मुनिः ।
धृत्वा करेण तत्पाणिमुपवेश यदासने ॥३॥
गजाननो महाभागो महाभागं महामुनिम् ।
नारदो भगवांस्तेन संतुष्टो मुनिपुंगवः ४
उवाच तं गणाधीशमाश्चर्यं हृदि मेऽस्ति यत् ।
तन्निवेदितुमायातो नत्वा त्वां पुनराव्रजे ॥५॥
गजानन उवाच ।
किमाश्चर्यं त्वया दृष्टं हृदि किं तेऽभिवर्तते ।
वद सर्वं विशेषेण ततो व्रज निजाश्रमम् ॥६॥
नारद उवाच ।
मैथिले विषये देव जनको राजसत्तमः ।
अतिमानी वदान्यश्च वेदवेदांगपारगः ॥७॥
अन्नदानरतो नित्यं ब्राह्मणान् पूजयत्यसौ ।
नानालंकारवासोभिर्दक्षिणाभिरनेकशः ॥८॥
दीनान्धकृपणेभ्यश्च बहु द्रव्यं ददात्यसौ।
याचकैर्याच्यते यद्यत्तत्तत्तेन प्रदीयते ॥९॥
तथापि न व्ययं याति द्रव्यं तस्य महात्मनः ।
गजाननस्य संतुष्ट्या द्रव्यं तद् वर्धते नु किम् ॥१.६५.१०॥
इत्याश्चर्यं महद्दृष्टुं प्रयातस्तद् गृहानहम् ।
ब्रह्मज्ञानाभिमानेन उपहासं ममाकरोत् ॥११॥
अहं च तमुवाचेत्थं धन्योऽसि नृपसत्तम ।
चिन्तितं तेऽपि भक्त्याऽयं प्रयच्छति गजाननः ॥१२॥
स तु गर्वादुवाचेत्थमहमीशो जगत् त्रये।
अहं दाता च भोक्ता च पाता दापयिता तथा ॥१३॥
मत्स्वरूपं विना नान्यद् विद्यते भुवनत्रये ।
कर्ता च कारणं चाहं करणं मुनिसत्तम ॥१४॥
नारद उवाच ।
इति तद्वचनं श्रुत्वा क्रोधेनाहं जगाद तम् ।
ईश्वराज्जगतः कर्ता नान्यः कश्चन विद्यते ॥१५॥
त्वं तु धर्ममिमं राजन् दम्भेनैव करोषि किम् ।
दर्शयिष्ये साक्ष्यमस्य स्वल्पकालेन तेऽनघ ॥१६॥
इत्युक्त्वा तमहं यातस्त्वदन्तिकमिभानन ।
कौंडिन्य उवाच ।
आकर्ण्येत्थं मुनेर्वाक्यं पूजयामास तं विभुः ॥१७॥
अर्घ्यादिभिरलंकारैर्दिव्यैः पुष्पैः सचंदनैः ।
मुनिराज्ञां प्रगृह्यैव वैकुंठे विष्णुमभ्यगात् ॥१८॥
गजाननोऽपि मिथिलां राजभक्तिं परीक्षितुम् ।
कुत्सितं वेषमादाय सर्वज्ञोऽपि समाययौ ॥१९॥
अनेकक्षतसंयुक्तं स्रवद्रक्तममंगलम् ।
मक्षिकानिचयाक्रांतं रदहीनमिवातुरम् ॥१.६५.२०॥
गच्छंतं तादृशं दृष्ट्वा नरा नासानिरोधनम् ।
कुर्वन्ति वाससा केचित् ष्ठीवनं च यथातथा ॥२१॥
स्खलन् मूर्छन् पतन् गच्छन् अर्भकावलि संयुत।।
नृपद्वारं समागम्य द्वारपालानुवाच सः ॥२२॥
राज्ञै निवेद्यतां दूता अतिथिं मां समापतम् ।
ब्राह्मणं क्षुधितं वृद्धमिच्छाभोजनकांक्षिणम् ॥२३॥
ते तद्वाक्यं तथाचरण्युर्गत्वा तं जनकं नृपम् ।
आनीयतामिति प्राह दूता द्रष्टुं तु कौतुकम् ॥२४॥
ते दूता प्रापयामासुः कुचैलमलिनं नृपम् ।
ददर्श दूराज्जनको कम्पन्तं मक्षिकावृतम् ॥२५॥
असृक् स्रवन्तं वृद्धं तं ब्राह्मणं श्रमवारिणम् ।
तर्कयामास जनक ईश्वरो रूपधृङ्नु किम् ॥२६॥
छलितुं मां समायातो यदि पुण्यं भवेन्मम ।
समाधास्ये मनो ह्यस्य भविष्यं नान्यथा भवेत् ॥२७॥
इत्येवं चिंतयत्येव जनके नृपसत्तमे ।
प्रवेशितो द्वारपालैर्ब्राह्मणः पर्यदृश्यत ॥२८॥
ब्राह्मण उवाच ।
चन्द्रांशुधवलां कीर्तिं श्रुत्वा तेऽहं समागत: ।
देहि मे भोजनं राजन् क्षुधितस्य चिराद् भृशम् ॥२९॥
मम तृप्तिर्भवेद्याय तावदन्नं प्रदीयताम् ।
तवक्रतुशतं पुण्यं भविष्यति नरेश्वर ॥१.६५.३०॥
कौंडिन्य उवाच ।
इति वाचं निशम्यासौ गृहमध्ये निनाय तम्।
संपूज्य विधिवच्चैनं स्वाद्वन्नमुपवेशयत् ॥३३॥
तद्दत्तं पुरतस्तस्य बभक्ष तत्क्षणेन सः ।
असंख्यातेषु पात्रेषु पंक्तुं क्षिप्तः सुतंदुलाः ॥३४॥
दीयते पुरतस्तस्य यः सिद्धश्चोदनोऽभवत् ।
स भक्षयति सर्वं तं तत ऊचे जनो नृपम् ॥३५॥
राक्षसोऽयं भवेत्प्रायः किमर्थं दीयते बहु ।
राक्षसेभ्यः प्रदानेन न किंचित् पुण्यमाप्यते ॥३६॥
केचिदूचुस्त्रिभुवने भक्षितेऽप्यस्य नो भवेत् ।
तृप्तिः परमिका राजन् धान्यमस्मै प्रदीयताम् ॥३७॥
ततो धान्यानि सर्वांणि गृहे भूमौ स्थितानि च ।
आनीय चिक्षिपुस्तस्य पुरग्रामगतानि च ॥३८॥
पुंसोऽस्य द्विजरूपस्य सर्वभक्षस्य चातिथेः ।
न तृप्तिमगमत्सोऽथ भक्षितेषु च तेषु च ॥३९॥
ततो दूता नृपं प्रोचुर्धान्यं क्वापि न लभ्यते।
इति दूतवचः श्रुत्वा जनकेऽधोमुखे स्थिते ॥१.६५.४०॥
स्वस्तीत्युक्त्वागमद्विप्रो न तृप्तोऽसौ गृहं गृहं।
दीयतामन्न मित्याह ते जनास्तं जगुस्तदा ॥४१॥
सर्वेषां गृहगं धान्यं सर्वं राज्ञा समाहृतम् ।
जग्धं त्वयाऽखिलं ब्रह्मन् गम्यतां यत्र ते रुचिः ॥४२॥
द्विज उवाच ।
कीर्तिरस्य श्रुता लोकान् न दाता जनकात्परः ।
तृप्तिकामः समायातो ह्यतप्तोऽहं कथं व्रजे ॥४३॥
तूष्णीं भूतेषु लोकेषु बभ्रमन् स ददर्श ह ।
विरोचना त्रिशिरसोर्मन्दिरं द्विजयोर्वरम् ॥४४॥
तन्मध्यं प्राविशत्सो हि गृहस्वामीव सत्तया ।
सर्वोपस्काररहितं धातुपात्रविवर्जितम् ॥४५॥ (२८७८)
इति श्रीगणेशपुराण उपासनाखंडे पंचषष्टितमोऽध्यायः ॥६५॥


[सम्पाद्यताम्]

१.३७.३२ पुष्पके प्रासादे चतुःषष्टिः स्तम्भाः भवन्ति। किमेते ६४ स्तम्भाः ६४ कलानां रूपाः सन्ति, अयं अन्वेषणीयः