सामग्री पर जाएँ

गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)/अध्यायाः ५६-६०

विकिस्रोतः तः
← अध्यायाः ५१-५५ गणेशपुराणम्/खण्डः १(उपासनाखण्डम्)
अध्यायाः ५६-६०
[[लेखकः :|]]
अध्यायाः ६१-६५ →

भृगुरुवाच ।
एवं ते कथितं राजन् माहात्म्यं सकलं मया ।
पुनश्च शृणु व्यासेन यच्छ्रुतं ब्रह्मणो मुखात् ।। १ ।।
सोमकान्त उवाच ।
कथं श्रुतं ब्रह्ममुखाद् व्यासेनामितबुद्धिना ।
न तृप्तिमधिगच्छामि तन्मे वद महामुने ।।२।।
भृगुरुवाच ।
एवं श्रुत्वा कथां व्यासोऽपृच्छद् ब्रह्माणमादरात् ।
स चापि कथयामास सादरं पृच्छतेऽनघ ।। ३ ।।
व्यास उवाच ।
पुनः कथय मे ब्रह्मन गणनाथ कथां पराम् ।
तृष्णा मे वर्धते भूयः श्रोतुं विघ्नेश सत्कथाम् ।।४।।
ब्रह्मोवाच ।
अपरां शृणु मे व्यास कथां कौतुकसंयुताम् ।
शूरसेन प्रभृतिभिरनुभूतां गजाननीम् ।।५ । ।
मध्यदेशेभवद्राजा शूरसेनो महाबली ।
सहस्राख्य पुरे रम्ये वेदवेदांग पारगः ।।६।।
धनवान् रुपवान् दाता होता पाता जनस्य ह ।
शक्तित्रययुतो मानी षाड्गुण्य परिनिष्ठितः ।।७।।
उपायानां चतुर्णां च चालने चतुरोऽरिहा ।
चतुर्विध बलोपेतो द्विजदेवेषु भक्तिमान् ।।८।।
पृथिवीमंडलं यस्य वशवर्त्यभवत्सदा ।
नगरं शक्रनगराद्विशिष्टं भाति भूतले ।।९। ।
यस्य पत्नी पुण्यशीला नाम्नाऽभूत् पुण्यशालिनी ।
यस्या रुपेण सदृशी नासीत् त्रैलोक्यमंडले ।। १.५६.१ ०।।
पातिव्रत्य गुणैर्यस्या लज्जां प्राप्ताऽप्यरुंधती ।
असूया त्यागयोगेनाप्यनसूयाऽभवल्लघुः ।। ११ ।।
स कदाचिन्नृपोऽमात्यैः संवृतो वीरसत्तमैः ।
उपविष्टो नृपसभां ददृशे गगनेचरम् ।। १ २।।
विमानं वह्निसदृशं नेत्रतेजोहरं परम् ।
गान श्रवण सक्तास्ते राज्ञा सह सभासदः ।। १३ । ।
विह्वलास्ते किं किमिति ज्ञातुं दूतानचोदयन् ।
ते दूता प्रागमन्द्रष्टुं विमानं सूर्यसन्निभम् ।। १४।।
कस्यचिद्वैश्यपुत्रस्य राजदूतस्य कुण्डिन. ।
पतितं दृष्टिपातेन तद्विमानं महीतले ।। १५।।
ततो दूताः समागम्य शशंसुः नृपतिं तदा ।
तद्विमानं महाराज पुण्यकृद्देव संयुतम् ।। १ ६।।
दैदीप्यमानं पतितं दुष्टदृष्ट्या महीतले ।
ततोऽति हर्षितो राजा प्रकृतिद्वयसंयुतः ।। १७।।
अश्वारुढो ययौ तत्र विमानं द्रष्टुमत्सुकः ।
मन्यमानो महाभाग्यं स्वजनैः परिवारितः ।। १८।।
अनेकवाद्य निर्घोषैः विमानस्यान्तिकं ययौ ।
ददृशुस्तत्र शक्रं वै नमुरुत्तीर्य यानतः ।। १९।।
नानालंकार संयुक्तं सर्वदेवगणैर्युतम् ।
बद्धांजलिपुटो राजा प्रोवाच बलसूदनम् ।।१.५६.२ ० ।।
धन्येयमद्य धरणी धन्यं जन्म च संपदः ।
पूर्वजाः सर्वचक्षूंषि धन्यान्यद्य शचीपते ।। २१ ।।
यद्दर्शनं मृत्युलोके भवतां सानुगस्य मे ।
यस्य ते वशगा लोका ब्रह्मेशानादयः सुराः ।।२ २ ।।
शताश्वमेधतो दृश्यो नान्यथा जायते क्वचित् ।
न जाने केन पुण्येन सोऽद्य दृष्टोऽखिलैर्जनै ।।२ ३।।
इदं च ते विमानं यत् कथं निपतितं भुवि ।
एतन्मे संशयं देव छेत्तुमर्हसि सांप्रतम् ।।२४।।
यतवान्कुत्र च भवान्गन्ता वा शंस मे प्रभो ।
शक्र उवाच ।
राजन् शृणु महाश्चर्यं कथितं नारदेन मे ।।२५ ।।
तदहं कथयिष्ये त्वां शृणुष्वैकमना नृप ।
नारद उवाच ।
मृत्युलोकं गतः शक्र भ्रुशुंडेराश्रमं प्रति ।
गणेशस्य स्वरूपेण तिष्ठतो जपतोऽनिशम् ।। २६। ।
तद् ध्यानात्तत्स्वरूपस्य दृष्टं कौतुकमद्भुतम् ।
पूजितस्तेन मुनिना गजानन स्वरुपिणा ।। २७।।
न वा तं मुनिमापृच्छ्य दर्शनार्थे तवागत ।
भूमौ सारूप्यता नैव दृष्टाऽन्यत्र शतक्रतो ।।२८।।
शक्र उवाच ।
अहं च नारदं पूज्य विसृज्य च क्षणेन तम् ।
अत्युत्सुकतया यातो मुनिं दृष्टुं तथाविधम् । ।२९ । ।
विमानवरमास्थाय मनोमरुत वेगवत् ।
मुनिं दृष्टवा च संपूज्य द्विरदाननरूपिणम् ।। १.५६.३० ।।
भ्रुशुंडिं प्रणिपत्याथ तस्य पूजां प्रगृह्य च ।
चलितः सपरीवारो गन्तुकामोऽमरावतीम् ।। ३१ ।।
यावत्ते नगराभ्याशे विमानमिदमागतम् ।
तावद् दूतस्य ते दृष्ट्या कुष्ठिनः पापकारिणः ।। ३२ ।।
पतितं भूमिभागेऽस्मिन्सर्वं ते कथितं नृप ।
शूरसेन उवाच ।
तपसा केन वा शक्र गजानन स्वरुपता ।। ३३ ।।
प्राप्ता भ्रुशुंडिना तेन तद्वदस्व मम प्रभो ।
न हि मे तृप्तिरस्तीह शुण्वतस्तत्कथामृतम् ।।३४।।
इति श्री गणेशपुराण उपासनाखंडे षट्पचाशत्तमोऽध्यायः ५६ ( २४६३)

शक्र उवाच ।
हन्त ते कथयिष्यामि कथामेतां पुरातनीम् ।
यथा तेनापि सादृश्यं गणनाथस्य भक्तितः ।। १ । ।
दंडकारण्य देशेषु नगरे नंदुराभिधे ।
एकः कैवर्तको दुष्टो नाम्ना नामैव विश्रुतः ।।२ ।।
आबाल्याच्चौर्य निरतो यौवने जारकर्मकृत्।
प्रत्यक्षं दृष्टिविगमाद्भरते च शपत्यपि ।। ३ ।।
शपथान्कुरुते मिथ्या परम्हद्भेद कारकान् ।
ततो निःसारितो ग्रामाद् द्यूतमद्यरतो यतः ।।४।।
लोकैर्बहिर्दूरतर गिरि कन्दर कानने ।
स्थितः कान्तायुतो मार्गे जघान पथिकान्बहून् ।।५।।
एवं बहुधनो जातो नानालंकरणै स्त्रियम् ।
भूषयामास ससुतां तोषयामास मायया ।।६ ।।
शस्त्र खड्गं च खेटं च पाशान्धनुरनुत्तमम् ।
दंडं चोभयतो लोहं वहन्पूर्णे महेषुधी।
वृक्षाग्रे कोटरे वापि स्थितो मारयते बहून् ।।७। ।
नानाविधानि वस्तूनि वासांस्याभरणानि च ।
गृहे संचयते नीत्वा विक्रीणाति पुरान्तरे । ।८ ।।
यथेष्टं भजते नित्यं विषयान्मन्दिरे निजे ।
एवं पापसमाचारो हन्त्यरण्ये पशूनपि ।।९।।
एकदा कस्यचित् पृष्ठे धावितो योजनावधि ।
स तु तस्माद्गतो दूरं स्खलित्वा पतितो भुवि ।। १.५७.१० ।।
तत उत्थाय कष्टेन शनै शनैर्ययौ खलः ।
अपश्यत्पथि गच्छन्स तीर्थं गाणेश्वरं शुभं ।। ११ ।।
अकरोन्मज्जनं तत्र श्रममेव व्यपोहितुम् ।
ततोऽगच्छन्स्वविषयं ददर्श पथि मुद्गलम् ।। १ २। ।
जपन्तं गणनाथस्य मन्त्रं नामसमन्वितम् ।
खड्गमुद्यम्य निष्कोशं मुद्गलस्यान्तिकं ययौ ।। १३ ।।
कैवर्तको नाम नामा हन्तुं कृतमतिस्तदा ।
जगलुस्तस्य शस्त्राणि खड्गोऽपि दृढमुष्टितः ।। १४।।
अन्यथा चाभवद् बुद्धिस्तस्य दुष्टस्य तत्क्षणात् ।
द्विरदानन भक्तस्य मुद्गलस्य प्रभावतः ।। १५।।
जहास मुनिमुख्योऽसौ दृष्ट्वा तं तु तथाविधम् ।
पप्रच्छ संयतः कस्माच्छस्त्राणि गलितानि ते ।। १ ६।।
बद्धान्यपि च सर्वाणि पतितानि कुतो वद ।
इन्द्र उवाच ।
गणेशतीर्थस्नानेन मुनेरालोकनेन च ।
ज्ञानवैराग्य युक्तोऽसावब्रवीन् मुद्गरुं वचः ।। १ ७। ।
कैवर्तक उवाच ।
आश्चर्यं परमं मन्ये कुंडस्नानेन मे मतिः ।
विपरीताभवद् ब्रह्मन् विशेषाद्दर्शनेन ते ।। १ ८। ।
बाल्यात् प्रभृति मे दुष्टा बुद्धिः पापरताऽभवत् ।
असंख्यातानि पापानि कृतान्यद्यावधि प्रभो ।। १ ९।।
इदानीमेव निर्विण्णा मतिर्मे त्वत्प्रसादतः ।
नादास्ये पुनरेतानि शस्त्राणि पतितानि मे ।।१.५७.२ ० ।।
कुरू मेऽनुग्रहं पूर्णमुद्धरस्व भवार्णवात् ।
साधवो ह्यनुगृह्णन्ति दीनान् दुष्कृतिनोऽपि च । । २१ ।।
न साधु संगमः क्वापि वृथा दृष्टो महामुने ।
यथा शेवधि सम्पर्को न धातुषु वृथा भवेत् ।।२ २ ।
। शक्र उवाच ।
एवमुक्तो मुद्गलोऽसौ तं जगाद कृपान्वितः ।
शरणागत संत्यागे रमरन्दोषं विशेषतः ।।२ ३ ।
। मुद्गल उवाच ।
विधिप्रयुक्ते दानादौ नाधिकारोऽस्ति कुत्रचित् ।
तथापि नामजपं कथयामि प्रसादत ।।२४।।
गजाननस्य परमं सर्वसिद्धिकरं नृणाम् ।
ततः प्रणाममकरोत् कैवर्तो मुद्गलं मुनिम । ।२५ ।।
गणेशाय नम इति नाममंत्रमुपादिशत् ।।२ ६ ।।
स्व यष्टिं रोपयामास पुरस्तस्य धरातले ।
उवाच चैनं संप्रीत्या यावदागमनं मम ।।२७।।
तावज्जपस्व नामेदं यावद्यष्टिश्च सांकुरा ।
एकासन गतो वायुभक्ष एकाग्रमानसः ।।२८।।
सायं प्रातर्जलं देहि यष्टिमूले निरन्तरम् ।।२९।।
शक्र उवाच ।
उपदिष्टो मुद्गलेन नामा कैवर्तकस्तदा ।
निराशो जीविते तस्थौ तस्मिन्नन्तर्हिते मुनौ ।। १.५७.३० ।।
एकासन गतोऽरण्ये जजाप नाममंत्रकम् ।
पुरोधाय मुनेर्यष्टि वृक्षच्छाया समाश्रितः ।। ३१ ।।
निराहारो निरीहश्च जितेन्द्रिय गणो वशी ।
एवं सहस्रवर्षान्ते सा यष्टिः सांकुराऽभवत् ।। ३ २।।
ततः प्रतीक्षामकरोन्मुनेरागमनस्य यः ।
वल्मीकवेष्टित तनुर्लताजाल समन्वितः ।।३ ३ ।।
ततो मुनि मुद्गलोऽपि दैवाच्च देशमाययौ ।
सस्मार च तदा यष्टिं तं च कैवर्तकं यदा ।।३४।।
ददर्श भ्रममाणः स सांकशं यष्टिमुत्तमाम् ।
वल्मीकाक्रान्त देहं च तं च कैवर्तकं मुनिः ।। ३५।।
दुश्चरं मुनिभिः सर्वैरास्थितं तप उत्तमम् ।
लक्षितं नेत्रमात्रेण यतता मुनिना तदा ।।३ ६।।
उत्साद्य तस्य देहस्थं वल्मीकं मुनिसत्तमः ।
मंत्रितेन जलेनास्य सिषेचांगं च सर्वशः ।।३७।।
सदैव दिव्यदेहं तं जगाद मुनिसत्तमः ।
प्राप्तवन्तं गणेशस्य सारूप्यं करयो गतः ।।३ ८।।
द्विकरं प्रजपंतं च नाम वैनायकं शुभम् ।
उन्मीलीते तदा नेत्रे मुनिना बोधितस्तु सः ।।३ ९ ।।
तस्य नेत्रोद्भवे वह्निर्विद्युद्वद् गगनं गतः ।
त्रिलोकीमुद्यतो दग्धुं मुनिना वारितो यतः ।।१.५७.४० ।।
सोऽपि तं मुनिमानम्य स्वगुरुं करूणायुतम् ।
आलिलिंग मुदा युक्तस्तनयः पितरं यथा ।।४ १ ।।
उपदिष्ये मुद्गलेन नाम कैवर्तकस्तदा ।
वल्मीकात् पुनरुत्पन्नं मानयामास तं सुतम् ।।४२ ।।
चकार नाम कर्मास्य मुद्गलो मुनिरादरात् ।
भ्रुशुंडीति ततो नृप ।।४३।।
एकाक्षरं च मन्त्रं च तस्मै प्राहाथ मुद्गल ।।४४।।
वरानस्मै ददौ पश्चाद्भव त्वं मुनिसत्तमः ।
इन्द्रादि देवगंधर्वैः सिद्धैरर्च्यतमो भव ।।४५।।
यथा गजाननो देवो ध्यातो दृष्टोऽघनाशनः ।
तथाहि त्वमपि मुने भ्रूशुंडिः प्रथितो भव । । ४६ ।।
यस्य ते दर्शनं स्यात्स कृतकृत्यं भवेन्नर ।
आयुश्च कल्पलक्षं ते भविता मम् वाक्यतः ।।४७।।
एवं बहुविधा तस्मै वरान्यच्छति मुद्गले ।
ययुरिन्द्रादयो द्रष्टुं मुनयो नारदादयः । ।४८।।
ऊचुस्तं प्रणिपत्यैव भ्रूशुंडे तव दर्शनात ।
सार्थकं जन्म नो विद्या पितरौ च तपो यशः ।।४९।।
त्वमेव गणनाथोऽसि पूजनीयोऽसि नो मुने ।
स तु संपूज्यवान्सर्वान् प्रणम्य च विसृज्य च ।।१.५७.५ ० ।।
पुनः पद्मासन गतो जजापैकाक्षरं मनुम् ।
पुरो मूर्तिं प्रतिष्ठाप्य गणेशस्य मनोहराम् ।।५ १ ।।
उपचारैः षोडशभिरपूपुजद्दिनेदिने ।
आश्रमश्च बभौ वापी सरोवृक्ष लतादिभि । ।५ २ ।।
त्यक्तवैरे सिंहमृगै नकुलैर्भुजगोत्तमैः ।
ततो वर्षशतस्यान्ते प्रसन्नोऽभूद् गजाननः ।।५३ ।।
उवाच मत्स्वरूपस्त्वं किमर्थं तपसे तपः ।
कृतकृत्योऽसि सायुज्यमायुषोऽन्ते च लप्स्यसे ।।५४।।
इदं क्षेत्र सुविख्यातं नामलेति भविष्यति ।
अनुष्ठान कृतामत्र नानासिद्धिप्रदं नृणाम् ।।५५ ।।
मन्मूर्ति दर्शनादत्र न पुनर्जन्मभाग्भवेत् ।
अपुत्रच्च लभेत् पुत्रान् विद्यार्थी ज्ञानमाप्नुयात् ।।५ ६।
शक्र उवाच ।
इति ते कथितं सर्वं शूरसेन नृपोत्तम ।
यत्वया परिपृष्टं मे किमन्यच्छ्रोतुमिच्छसि ।।५७।। ।।५७।। (२५२०)
इति श्री गणेश पुराणे उपासनाखंडे भ्रूशुंड्युपाख्यानं नाम सप्तपंचाशत्तमोऽध्यायः ।।५७।।

अध्याय ५८ प्रारंभ :-
ब्रह्मोवाच ।
एवं श्रुत्वा शूरसेनो मरुत्वद् वाक्यमुत्तमम् ।
पुनः पप्रच्छ तं व्यास प्रतिश्रुत्वा कथामृतम् ॥१॥
शूरसेन उवाच ।
केनोपायेन देवेशं यानं ते गगनं व्रजेत् ।
तमुपायं कुरु विभो वद वा किं करोमि ते ॥२॥
ब्रह्मोवाच ।
एवं पुनः कृतप्रश्नं नृपं प्राह सुरारिहा ।
शृण्वतां सर्वलोकानां स्मयमान इदं वचः ॥३॥
इन्द्र उवाच ।
कश्चित्स्यादिह संकष्टचतुर्थी व्रतकारकः ।
विप्रो वा क्षत्रियो वापि नगरे ते नृपोत्तम ॥४॥
तस्याब्दकृतपुण्येन सम्यग् दत्तेन भूभुज ।
इदानीं प्रचले देसन्नान्यथाऽघुतपूरूषै ॥५॥
नृप उवाच ।
कथं व्रतं तु संकष्टचतुर्थ्या वद मे मुने ।
किं पुण्यं किं फलं तस्य को विधिः कस्य पूजनम् ॥६॥
पुरा केन कृतं चात्र सिद्धिर्यस्मिञ् कृतेऽभवत् ।
एतत्सर्वं शुनाशीर कृपया वद विस्तरात् ॥७॥
शक्र उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
कृतवीर्यस्य संवादं नारदेन महात्मना ॥८॥
बभूव बलवान्राजा कृतवीर्यो महीनले ।
सत्यशीलो वदान्यश्च यज्वा मानी महारथः ॥९॥
जितेन्द्रियो मिताहारो देवद्विजनिषेवकः ।
यस्याश्वगजयोधानां रथिनां सर्वधन्विनाम् ॥१.५८.१०॥
न संख्या विद्यते राजन् सह्याद्रिविषयासिनाम् ।
मन्दिरे यस्य सौवर्णाः पर्यंका भाजनानि च ॥११॥
नासीदौदुंबरं पात्रं पाकार्थमपि सर्वदा ।
यस्य द्वादश साहस्रा ब्राह्मणाः पंक्तिभोजिनः ॥१२॥
सुगन्धा नाम यस्यासीत्पत्नी धर्मपरायणा ।
पतिव्रता पतिप्राणा त्रैलोक्येऽतिमनोरमा॥१३॥
नानालंकार सुभगा द्विजदेवातिथिप्रिया ।
एवं तौ दंपती राजन्नपुत्रौ संबभूवतुः ॥१४॥
पुत्रार्थं सर्वदानानि व्रतानि च तपांसि च ।
चक्रतुर्नियमानन्यान् यज्ञांश्च बहुदक्षिणान् ॥१५॥
नानातीर्थानि क्षेत्राणि जग्मतुः पुत्रलिप्सया ।
तथापि नाभवत् पुत्रो जन्मान्तर कृतेनसोः ॥१६॥
एकदा दुःखितो राजा समाहूय स मन्त्रिणः ।
राज्यं मुद्रां च कोशं च जनांजनपदास्तथा ॥१७॥
तेभ्यो निवेद्य सर्वं तौ जग्मतुर्वनमुत्तमम ।
वल्कलाजिनसंवीतौ दम्पती तपआस्थितौ ॥१८॥
जितेन्द्रियौ जिताहारौ जीर्णपर्णानिलाशिनौ ।
चक्षुर्मात्रेण लक्ष्यौ तौ दृष्ट्वाऽयं नारदो मुनिः ॥१९॥
जनकं कृतवीर्यस्य पितृलोकस्थमब्रवीत् ।
अपुत्रत्वात् प्रायगतो विद्यते तनयस्तव ॥१.५८.२०॥
कृतवीर्यो मृत्युलोके श्वःपरश्वो मरिष्यति ।
यदि तस्य भवेत्पुत्रो नाकलोकप्रदर्शकः ॥२१॥
कृतवीर्यस्तदा जीवेन्मृतो वा स्वर्गमाप्नुयात् ।
इत्युक्त्वा नारदो यातः पश्यति स्माद्भुतं भुवि ॥२२॥
भ्रूशुंडे: पितरौ पुत्रौ तस्य पत्नीं सकन्यकाम् ।
अग्निज्वालाकुले घोरे कुम्भीपाके ह्यधोमुखान् ॥२३॥
याम्यदूतैस्ताड्यमानान् क्रन्दन्तो विविधान् रवान् ।
तेषामाक्रन्दितं श्रुत्वा नारदः करुणानिधिः ॥२४॥
आगत्य कथयामास तेषां दुःखं भ्रुशुंडये ।
नारद उवाच ।
शक्रादयो देवगणा मुनयः कपिलादयः ॥२५॥
यस्य ते दर्शनं कर्तुं यान्ति हेरम्बरूपिणः ।
तत्कथं पितरौपत्नी पुत्राःपुत्र्यश्च किंकराः ॥२६॥
यमलोके कुम्भिपाके पच्यन्ते तव दोषतः ।
त्वं चापि ज्ञानसंपन्नः कथं तन्नावबुध्यसे ॥२७॥
पूर्वजानां त्वमुद्धारे यत्नं कुरु महामुने ।
शक्र उवाच ।
भ्रूशुंडिरति संतप्तो वाक्यं श्रुत्वा मुनीरितम् ।
दुःखितः पितृदुःखेन भृशं जज्वाल वह्निवत् ।
उपायं चिन्तयामास तेषामुद्धारकारकम् ।
ददौ श्रेयं स संकष्टचतुर्थीं व्रतजं तदा ॥२९॥
विलोक्य प्रणिधानेन भ्रुशुंडी स परोक्षवित् ।
ध्यात्वा गजाननं देवं करे धृत्वा शुभं पयः ॥१.५८.३०॥
उवाच पितॄनुद्दिश्य याचन्देवं गजाननम् ।
भ्रुशुंडिरुवाच।
यदि भक्त्या कृतं मेऽस्ति गणनाथ व्रतं तव ॥३१॥
तदा तस्य प्रभावेन शीघ्रमुद्धर पूर्वजान् ।
एवमुक्त्वा तु तत्तोयं गजाननकरेऽक्षिपत् ॥३२॥
क्षिप्तमात्रे तदा तोये गजाननप्रसादतः ।
विमानानि समारुह्य सर्वे ते देवरूपिणः ॥३३॥
सेव्यमाना अप्सरोभिः स्तूयमानाश्च चारणैः ।
गंधर्वैर्गीयमानास्ते गणेशस्थानमाप्नुवन् ॥३४॥
अन्येऽपि कुंभिपाके च नरा दुष्कृतिनोऽभवन् ।
तेऽपि सर्वे विमानस्थाः पदं गाणेश्वरं ययुः । ॥३५॥
एवं व्रतस्य महिमा मया ते परिकीर्तितः ।
यदेकदिनपुण्येन सर्वे सद्गतिं गतः। ॥३६॥
जन्मावधि कृतं येन संकष्टं व्रतमादरात् ।
शेषोऽपि तस्य पुण्यस्य संख्या कर्तुं न वै क्षम: ॥३७॥
अतस्तस्य प्रभावेन विमानं प्रचलेन्मम ॥३८॥ (२५५८)
इति श्री गणेशपुराण उपासनाखंडे संकष्टचतुर्थीव्रतकथनं नामाष्टपंचाशत्तमोऽध्यायः॥

अध्याय ५९ प्रारंभ :-
राजोवाच ।
कुंभीपाकाद्विनिःसृत्य तेषु यातेषु वै दिवम्।
कमुपायं स कृतवान् कृतवीर्यपिता तदा ॥१॥
शक्र उवाच ।
ब्रह्मलोकं जगामाशु ददर्श कमलासनम्।
दुःखितो नारदाच्छ्रुत्वा वंशविच्छेदमात्मनः ॥२॥
प्रणम्य तमपृच्छत्स वंशविच्छेद कारणम् ।
मम पुत्रोऽतिधर्मात्मा वदान्यो यज्ञकारकः ॥३॥
देवतातिथिभक्तश्च मान्य मानयिता भृशम् ।
नानाविधप्रयत्नं स पुत्रार्थं कृतवान् विधे ॥४॥
तथापि नाभवत्कस्मात्तस्य पुत्रः सुरेश्वर ।
राज्यं प्रकृतिसात्कृत्वा वायुभक्षः स्थितो वने ॥५॥
अस्थिमात्रावशेषोऽसावद्य श्वो वा मरिष्यति ।
जन्मांतरीयं तस्यैनो येन गच्छेल्लयं प्रभो ॥६॥
तमुपायं दयां कृत्वा वद मे कमलासन ।
तं प्रापयिष्ये तत्राहं स्ववंशस्य विवृद्धये ॥७॥
एवं सुललितां वाणीं श्रुत्वोचाच तथा विधिः ।
श्रूयतां तव पुत्रस्य पूर्वजन्म मयेरितम् ॥८॥
सामनाम्ना भवेत्पूर्वं तत्रैव नगरेऽन्त्यजः ।
दुष्कर्माऽतितरां यस्य दर्शनं पुण्यनाशकृत् ॥९॥
एकदा तेन विचश्य लोभेन पथि घातिताः ।
द्वादश ब्राह्मणाः शान्तास्त्यक्तास्तेन गुहांतरे ॥१.५९.१०॥
सर्वं तदीयमादाय निशि स्वगृहमागतः ।
माघकृष्णचतुर्थ्यां स उदये शशिनो नृप ॥११॥
गणेशेति गणेशेति पुत्रमाहूय सत्वरम् ।
अलब्धान्नजलस्तेन सहैव बुभुजे मुदा ॥१२॥
कालेन तव पुत्रोऽसौ पंचत्वमगमन्निशि ।
चन्द्रोदये चतुर्थ्यां तु कृष्णायामेव भूभुज ॥१३॥
अज्ञानकृत संकष्टचतुर्थीव्रत संभवात् ।
पुण्याद्विनायकं धाम जगाम सुखदं तु सः ॥१४॥
विमानवरमारूढो वीक्ष्यमाणोप्सरो गणैः ।
वैमानिकैः स्तूयमानो दिव्यपुष्पैरथार्चितः ॥१५॥
तेनैव पुण्यशेषेण कृतवीर्याभिधो नृपः ।
तवपुत्र समापेदे पुत्रत्वमधुना भुवि ॥१६॥
तदघौघक्षयात्तस्य पुत्र उत्पत्स्यतेऽनघ ।
इति ब्रह्मवचः श्रुत्वा चकम्पे स नृपोत्तम ॥१७॥
पप्रच्छु पुनरेवासावुपायं पापनाशनम् ।
कृतवीर्य पितोवाच ।
ब्रह्महत्या कृतं तस्य पापं नश्येत्कथं विधे ॥१८॥
तद्वदस्व दयासिंधो यद्यपि स्यात्सुदुष्करम् ।
ब्रह्मोवाच ।
स चेद्व्रतं तु संकष्टचतुर्थीसंज्ञकं तव ॥१९॥
सुतः करिष्यते सम्यक्तदा पापात्प्रमोक्ष्यते ।
राजोवाच ।
कथं तत्क्रियते ब्रह्मन्कस्मिन्मासे व्रतं शुभे ॥१.५९.२०॥
तत्सर्वं वद मे स्वामिन्येन पापं लयं व्रजेत् ।
ब्रह्मोवाच ।
चतुर्थी भौमवारे तु माघे कृष्णे भवेद्यदि ॥२१॥
शुभे मुहूर्ते चन्द्रे च कुर्यात्प्रारंभमस्य ह ।
दन्तधावनपूर्वाणि स्नानानि चैकविंशतिम् । ॥२२॥
कुर्वीत नित्यकर्माणि जपेन्मन्त्रं ततः परम् ।
निराहारो भवेन्मौनि परनिन्दाविवर्जितः ।
दुष्टकर्म च तांबूलं वर्जयेन्नियमेन च ।
वर्जयेज्जलपाणं च परद्रोहं च पैशुनम् ॥२४॥
तिलामलककल्केन दिनान्ते स्नानमाचरेत् ।
एकाक्षरं शडर्णं वा जपेद्वा वैदिकं ममुम् ॥२५॥
गणेशप्रीतये तस्य नाममन्त्रं यथाविधि ।
ध्यायेत् स्थिरेण मनसा देवदेवं गजाननम् ॥२६॥
मुहूर्तमात्रेण ततः पूजयेद्गणनायकम् ।
उपचारैः षोडशभिः नैवेद्यैर्विविधैरपि ॥२७॥
मोदकापूप शष्कुली लड्डुकैर्वटकैरपि ।
पायसैर्विविधैरन्नैर्व्यंजनैर्लेह्यचोष्यकैः ॥२८॥
फलैर्नानाविधैः पूग तांबूलैर्दक्षिणादिभिः ।
एकविंशतिदूर्वाभिर्दीपैश्च कुसुमैरपि ॥२९॥
चन्द्रोदयेऽर्घ्यदानेन तिथये मन्त्रपूर्वकम् ।
गजाननाय पश्चात्तु चन्द्राय च ततः परम् ॥१.५९.३०॥
निवेद्य पूजनं नत्वा क्षमाप्य च ततः पुनः ।
ब्राह्मणान्भोजयेद्भक्त्या शक्त्या वा चैकविंशतिम् ॥३१॥
दश द्वादश वाऽशक्तो दक्षिणाभिः सुतोषयेत् ।
कथां श्रुत्वा ततः सम्यक् स्वयं भुंजीत वाग्यतः ॥३२॥
गीतवादित्रघोषेण शेषां रात्रिं ततो नयेत् ।
एवं व्रतं चैकवर्षं कृतं चेद्यत्नतो नृप ॥३३॥
सर्वपाप क्षयात्तस्य भविता पुत्र उत्तमः ।
अन्यं वा चिन्तयेत्कामं यं यं तं प्राप्नुयान्नरः ॥३४॥
सर्वसंकटनाशः स्यात् परचक्राद् भयं न हि ।
शमीमूले जपंस्तिष्ठन्नुपवास परायणः ॥३५॥
आचन्द्रोदयपर्यन्तं व्रतमेतत्समाचरेत् ।
अन्धो मूको जडः पंगुस्तदीप्सितमवाप्नुयात् ॥३६॥
दारान् पुत्रान् धनं राज्यं लभते नात्र संशयः ।
श्रवणादिषु मासेषु घृतलड्डवादिकं पृथक् ॥३७॥
भक्षेयद्वर्षपर्यन्तं तस्य सिद्धिरनुत्तमा ।
श्रावणे सप्त लड्डूका नभस्ये दधिभक्षणम् ॥३८
आश्विने चोपवासं च कार्तिके दुग्धपानकम् ।
मार्गशीर्षे निराहारं पौषे गोमूत्रपानकम् ॥३९॥
तिलां च भक्षयेन्माघे फाल्गुने घृतशर्कराम् ।
चैत्रमासे पंचगव्यं वैशाखे शतपत्रिकाम् ॥१.५९.४०॥
घृतस्य भोजनं ज्येष्ठे आषाढे मधुभक्षणम् ।
कृतवीर्यपितोवाच ।
अंगारकचतुर्थ्यां तु विशेषोऽभिहितः कुतः ॥४१॥
वद त्वं कृपया ब्रह्मन् प्रश्रयावनताय मे ।
शृण्वतो न च मे तृप्तिर्गजानन कथां शुभाम् ॥४२॥ (२६००)
इति श्रीगणेशपुराण उपासनाखंडे चतुर्थीव्रतकथनं नामैकोनषष्टितमोऽध्यायः ॥५९॥

अध्याय ६० प्रारंभ :-
ब्रह्मोवाच ।
अंगारकचतुर्थ्यास्तु महिमानं महीपते ।
शृणुष्वावहितो भूत्वा कथयामि समासतः ॥१॥
अवन्ती नगरे राजन् भारद्वाजो महामुनिः ।
वेदवेदांगवित्प्राज्ञः सर्वशास्त्रविशारदः ॥२॥
अग्निहोत्ररतो नित्यं शिष्याध्ययनतत्परः ।
नदीतीरगतस्तिष्ठन्ननुष्ठानरतो मुनिः ॥३॥
एकस्मिन्नेव समये दृष्टा तेनाप्सरोवरा ।
तां दृष्ट्वा चकमे भोक्तुं भारद्वाजो महामुनिः ॥४॥
अकस्मात् कामिनीं दृष्ट्वा कामासक्तोऽभवन्मुनिः ।
कामबाणाभिभूतः स निपपात महीतले ॥५॥
अतिविह्वलगात्रस्य तस्य रेत प्रचस्खले ।
प्रविष्टं तस्य तद्रेतः पृथिवीं बिलमध्यतः ॥६॥
तत एकः कुमारोऽभूज्जपाकुसुम सन्निभः ।
तं धरित्री स्नेहवशात् पालयामास सादरम् ॥७॥
जनुः स्वं तेन धन्यं सा मनुते पितरौ कुलम् ।
ततः स सप्तवर्षस्तां पप्रच्छ जननीं निजाम् ॥८॥
मयि लोहितिमा कस्मान्मानुषं देहमास्थिते ।
कश्च मे जनको मातस्तन्ममाचक्ष्व सांप्रतम् ॥९॥
धरण्युवाच ।
भारद्वाजमुनेर्रेतः स्खलितं मयि संगतम् ।
ततो जातोऽसि रे पुत्र वर्धितोऽसि मया शुभम् ॥१.६०.१०॥
स उवाच ।
तर्हि तं मे मुनिं मातदर्शयस्व तपोनिधिम् ।
ब्रह्मोवाच ।
तमादाय तदा देवी भारद्वाजं जगाम कुः। ॥११॥
उवाच प्रणिपत्यैनं त्वद्वीर्यप्रसवं सुतम् ।
वर्धितं तं पुरोधार्य स्वीकुरुष्व मुनेऽधुना ॥१२॥
तदाज्ञया ययौ धात्री स्वधाम रुचिरं तदा ।
भारद्वाजः सुतं लब्ध्वा मुमुदे चालिलिंग तम् ॥१३॥
आघ्राय शिर उत्संगे स्थापयामास तं मुदा ।
सुमुहूर्ते शुभे लग्ने चकारोपनयं मुनिः ॥१४॥
वेदशास्त्राण्युपादिश्य गणेशस्य मनुं शुभम् ।
उवाच कुर्वनुष्ठानं गणेशप्रीतये चिरम् ॥१५॥
संतुष्टो दास्यते कामान्सर्वांस्तव मनोगतान् ।
ततः स नर्मदातारे पद्मासनगतो मुनिः ॥१६॥
संनियम्येन्द्रियाण्याशु ध्यायन्हेरंबमन्तरा ।
जजाप परमं मन्त्रं वायुभक्षो भृशं कृशः ॥१७॥
एवं वर्षसहस्रं स तपस्तेपे सुदारुणम् ।
माघकृष्णचतुर्थ्यांतमुदये शशिनोऽमले ॥१८॥
दर्शयामास रूपं स्वं गणनाथोऽथ दिग्भुजम् ।
दिव्यांबरं भालचन्द्रं नानायुधलसत्करम् ॥१९॥
चारुशुंडं लसद्दन्तं शूपकर्णं सकुंडलम् ।
सूर्यकोटिप्रतीकाशं नानालंकारमंडितम् ॥१.६०.२०॥
ददर्श रूपं देवस्य स बालः पुरतः स्थितम् ।
उत्थाय प्रणिपत्यैनं तुष्टाव जगदीश्वरम् ॥२१॥
भौम उवाच ।
नमस्ते विघ्ननाशाय नमस्ते विघ्नकारिणे ।
सुरासुराणामीशाय सर्वशक्त्युपबर्हिणे ॥२२॥
निरामयाय नित्याय निर्गुणाय गुणच्छिदे ।
नमो ब्रह्मविदां श्रेष्ठ स्थितिसंहारकारिणे ॥२३॥
नमस्ते जगदाधार नमस्त्रैलोक्य पालक ।
ब्रह्मादये ब्रह्मविदे ब्रह्मणे ब्रह्मरूपिणे ॥२४॥
लक्ष्यालक्ष्य स्वरूपाय दुर्लक्षणभिदे नमः ।
नमः श्रीगणनाथाय परेशाय नमो नमः ।
इति स्तुतः प्रसन्नात्मा परमात्मा गजाननः ॥२५॥
उवाच श्लक्ष्णया वाचा बालकं संप्रहर्षयन् ।
गजानन उवाच ।
तवोग्रतपसा तुष्टो भक्त्या स्तुत्याऽनयाऽपि च ॥२६॥
बालभावेऽपि धैर्याच्च ददामि वांछितान् वरान् ।
एवमुक्तो भूमिपुत्रो वच ऊचे गजाननम् ॥२७॥
भौम उवाच ।
धन्या दृष्टिर्जननमपि मे दर्शनाच्च सुरेश,
धन्यं ज्ञानं कुलमपि विभो भूः सशैलाऽद्य धन्या ।
धन्यं चैतत्सकलमपि तपो येन दृष्टोऽखिलेशो,
धन्या वाणी वसतिरपि यया संस्तुतो मूढभावात् ॥२८॥
यदि तुष्टोऽसि देवेश स्वर्गे भवतु मे स्थिति: ।
अमृतं पातुमिच्छामि देवैः सह गजानन ॥२९॥
कल्याणकारि मे नाम ख्यातिमेतु जगत्त्रये ।
दर्शनं मे चतुर्थ्यां ते जातं पुण्यप्रदं विभो ॥१.६०.३०॥
अतः सा पुण्यदा नित्यं सर्वसंकष्टहारिणी ।
कामदा व्रतकर्तॄणां त्वत्प्रसादात् सदाऽस्तु च ॥३१॥
गणेश उवाच ।
अमृतं पास्यसे सम्यग् देवैः सह धरासुत ।
मंगलेति च नाम्ना त्वं लोके ख्यातिं गमिष्यसि ॥३२॥
अंगारकेति रक्तत्वाद्वसुमत्या यतः सुतः ।
अंगारकचतुर्थीं ये करिष्यन्ति नरा भुवि ॥३३॥
तेषामब्दसमं पुण्यं संकष्टीव्रतसंभवम् ।
निर्विघ्नता सर्वकार्ये भविष्यति न संशयः ॥३४॥
अवन्तीनगरे राजा भविष्यसि परन्तप ।
व्रतानामुत्तमं यस्मात्कृतं ते व्रतमुत्तमम् ॥३५॥
यस्य संकीर्तनान्मर्त्यः सर्वान् कामानवाप्नुयात् ।
ब्रह्मोवाच ।
इति दत्वा वरो देवः पिदधे द्विरदाननः । ॥३६॥
ततस्तु मंगले देवं स्थापयामास भक्तितः ।
शुंडामुखं दशभुजं सर्वावयवसुंदरम् ॥३७॥
प्रासादं कारयामास गजाननमुदावहम् ।
संज्ञा मंगलमूर्तीति देवदेवस्य सोऽकरोत् ।। ३८॥
ततोऽभवत् कामदातृ क्षेत्रं सर्वजनस्य तत् ।
अनुष्ठानात् पूजनाच्च दर्शनात् सर्वमोक्षदम् ॥ ३९ ॥
ततो विनायको देवो विमानवरमुत्तमम् ।
प्रेषयामास स्वगणैर्भौममानेतुमन्तिकम् ॥ १.६०.४० ॥
ते गत्वा तेन देहेन तं भौममानयन् बलात् ।
गणेशस्यान्तिकं राजंस्तद्भुतमिवाभवत् ॥४१॥
ततो भौमोऽभवत् ख्यातः त्रैलोक्ये सचराचरे ।
यतो भौमेन संकष्टचतुर्थी भौमसंयुता ॥४२॥
कृता प्राप्तं च स्वर्गं चामृतपानं सुरैः सह ।
अतश्चांगारकयुता चतुर्थी प्रथिता भुवि ॥४३॥
चिन्तिार्थप्रदानेन चिन्तामणिरिति प्रथाम् ।
प्रयातो मंगलमूर्तिः सर्वानुग्रहकारकः ॥४४॥
पारिनेंरात्तु नगरात् पश्चिमे प्रथितोऽभवत् ।
चिन्तामणिरिति ख्यीतः सर्वविघ्न निवारणः ॥४५॥
अधुना सिद्धगंधर्वै पूज्यते स विधूदये ।
ददाति वांछितानर्थान् पुत्रपौत्रादि संपद ॥४६॥ (२६४६)
इति श्रीगणेशपुराण उपासनाखंडेऽ अंगारक चतुर्थी व्रतोपाख्याने षष्टितमोऽध्यायः ॥६०॥