ऐतरेय आरण्यकम्/आरण्यक १/अध्यायः ५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ४ ऐतरेय आरण्यकम्
अध्यायः ५

अथ प्रथमारण्यके पञ्चमोऽध्यायः । तत्र प्रथमः खण्डः । (विंशः)

1.5.1

वशं शंसति वशे म इदं सर्वमसदिति, [ इति ।] ता एकविंशतिर्भवन्त्येकविंशतिर्हि ता अन्तरुदरे विकृतयः, इति । अथो एकविंशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठोदरमन्नाद्यानाम्, इति । ता विच्छन्दसो भवन्ति विक्षुद्रमिव वा अन्तस्त्यमणीय इव च स्थवीय इव च, इति । ताः प्रणावं छन्दस्कारं यथोपपादं शंसति यथोपपादमिव वा अन्तस्त्यं हसीय इव च द्राघीय इव च, इति । अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति । तामत्रोत्सृजति द्वादशकृत्वः शस्त्वा द्वादशविधा वा इमे प्राणाः सप्त शीर्षण्या द्वौ स्तन्यौ त्रयोऽवाञ्चोऽत्र वै प्राणा आप्यन्तेऽत्र संस्क्रियन्ते तस्मादेनामत्रोत्सृजति, इति । इन्द्राग्नी युवं सु न इत्यैन्द्राग्ना ऊरू उर्वष्ठीवे प्रतिष्ठे, इति । ताः षट्पदा भवन्ति प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्द्विप्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति, इति । द्वितीया सप्तपदा भवति तां गायत्रीं चानुष्टुभं च करोति ब्रह्म वै गायत्री वागनुष्टुब्ब्रह्मणैव तद्वाचं संदधाति, इति । त्रिष्टुभमन्ततः शंसति वीर्यं वै त्रिष्टुब्वीर्येणैव तत्पशून्परिगच्छति तस्मात्पशवो वीयर्मनूपतिष्ठन्त ईर्यतां चैवाभ्युत्थानं च, इति ।।] इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये प्रथमः खण्डः ।। १ ।। ( २०)

1.5.2

प्र वो महे मन्दमानायान्धस इत्यैन्द्रे निष्केवल्ये तास्त्रिष्टुब्जगत्यो भवन्ति, इति । तदाहुरथ कस्मात्त्रिष्टुब्जगतीषु निविदं दधातीति न ह वा एतस्याह्न एकं छन्दो निविदं दाधार न विव्याचेति तस्मास्त्रिष्टुब्जगतीषु निविदं दधाति, इति । तदेतदहस्त्रिनिवित्कं विद्याद्वशो निविद्वालखिल्या निविन्निविदेव निविदेवमेनत्त्रिनिवित्कं विद्यात्, इति । अथ सूक्ते वनेन वायो न्यधायि चाकन्यो जात एव प्रथमो मनस्वानिति, इति । तयोरस्त्यन्ने समस्य यदसन्मनीषा इत्यन्नाद्यस्यावरुद्ध्यै, इति । अथाऽऽवपनमेते अन्तरेणैन्द्रीणां दशतीनां त्रिष्टुब्जगतीनां संपन्नानां यावतीरावपन्ते तावन्त्यूर्ध्वमायुषो वर्षाणि जीवन्त्येतेन हैवाऽऽवपनेनाऽऽयुराप्यते, इति । प्रजां मे पशवोऽर्जयन्नित्येव सजनीयमनु शंसति, इति । तार्क्ष्यं शंसति स्वस्त्ययनं वै तार्क्ष्यः स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते, इति । एकपदा शंसत्येकधेदं सर्वमसानीत्यथो सर्वां छन्दस्कृतिमाप्नवानीति, इति। । इन्द्रं विश्वा अवीवृधन्निति पदानुषङ्गास्ताः सप्तानुषजति सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधात्यष्टमीं नानुषजति वागष्टमी नेन्मे वाक्प्राणैरनुषक्ताऽसदिति तस्मादु सा वाक्समानायतना प्राणैः सत्यननुषक्ता इति । विराजः शंसत्यन्नं वै विराजोऽन्नाद्यस्यावरुद्ध्यै, इति । इन्द्रं विश्वा अवीवृधन्निति पदानुषङ्गास्ताः सप्तानुषजति सप्त वै शीर्षन्प्राणाः शीर्षन्नेव तत्प्राणान्दधात्यष्टमीं नानुषजति वागष्टमी नेन्मे वाक्प्राणैरनुषक्ताऽसदिति तस्मादु सा वाक्समानायतना प्राणैः सत्यननुषक्ता, इति । विराजः शंसत्यन्नं वै विराजोऽन्नाद्यस्यावरुद्ध्यै, इति । वासिष्ठेन परिदधाति वसिष्ठोऽसानीति, इति । एष स्तोमो मह उग्राय वाह इति महद्वत्या रूपसमृद्धया, इति । धुरी वात्यो न वाजयन्नधायीत्यन्तो वै धूरन्त एतदहरेतस्याह्नो रूपम्, इति । इन्द्र त्वाऽयमर्क ईट्टे वसूनामित्यर्कवत्या रूपसमृद्धया, इति । दिवीव द्यामधि नः श्रोमतं धा इति यत्र ह क्व च ब्रह्मण्या वागुद्यते तद्धास्य कीर्तिर्भवति यत्रैवं विद्वानेतया परिदधाति तस्मादेवं विद्वानेतयैव परिदध्यात्, इति । इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये द्वितीयः खण्डः ।। २ ।। ( २१)

1.5.3

तत्सवितुर्वृणीमहेऽद्या नो देव सवितरिति वैश्वदेवस्य प्रतिपदनुचरावैकाहिकौ रूपसमृद्धौ, इति । बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । तद्देवस्य सवितुर्वार्यं महदिति सावित्रमन्तो वै महदन्त एतदहरेतस्याह्नो रूपम्, इति । कतरा पूर्वा कतराऽपराऽयोरिति द्यावापृथिवीयं समानोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपम्, इति । अनश्वो जातो अनभीशुरुक्थ्य इत्यार्भवम्, इति । रथस्त्रिचक्र इति पदे तत्त्रिवत्तदन्तो वै त्रिवदन्त एतदहरेतस्याह्नो रूपम्, इति । अस्य वामस्य पलितस्य होतुरिति वैश्वदेवं बहुरूपं वा एतदहरेतस्याह्नो रूपम्, इति । गौरीर्मिमाय सलिलानि तक्षतीत्येतदन्तम्, इति । आ नो भद्राः क्रतवो यन्तु विश्वत इति वैश्वदेवं निविद्धानमैकाहिकं रूपसमृद्धम्, इति । बहु वा एतस्मिन्नहनि किंच किंच वारणं क्रियते शान्त्या एव शान्तिर्वै प्रतिष्ठैकाहः शान्त्यामेव तत्प्रतिष्ठायामन्ततः प्रतितिष्ठन्ति प्रतितिष्ठति य एवं वेद येषां चैवं विद्वानेतद्धोता शंसति, इति । वैश्वानराय धिषणामृतावृधे इत्याग्निमारुतस्य प्रतिपदन्तो वै धिषणाऽन्त एतदहरेतस्याह्नो रूपम्, इति । प्र यज्यवो मरुतो भ्राजदृष्टय इति मारुतं समानोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपम्, इति । जातवेदसे सुनवाम सोममिति जातवेदस्यां पुरस्तात्सूक्तस्य शंसति स्वस्त्ययनं वै जातवेदस्या स्वस्तितायै स्वस्त्ययनमेव तत्कुरुते, इति । इमं स्तोममर्हते जातवेदस इति जातवेदस्यं समानोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपमह्नो रूपम्, इति ।।

इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये तृतीयः खण्डः ।। ३ ।। ( २२)

इति बहवृचब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमोऽध्यायः समाप्तः ।। ५ ।।

इति बहवृचब्राह्मणारण्यकाण्डे प्रथमारण्यकं समाप्तम् ।। १ ।।