सामग्री पर जाएँ

पञ्चविंशब्राह्मणम्/अध्यायः ९

विकिस्रोतः तः
अतिरात्रादि निरूपणं

9.1
देवा वा उक्थान्यभिजित्य रात्रिं नाशक्नुवन्नभिजेतुं तेऽसुरान् रात्रिं तमः प्रविष्टां नानुव्यपश्यंस्त एतमनुष्टुप्शिरसं प्रगाथमपश्यन् विराजं ज्योतिः तान् विराजा ज्योतिषानुपश्यन्तोऽनुष्टुभा वज्रेण रात्रेर्निराघ्नन्
यदेषोऽनुष्टुप्शिराः प्रगाथो भवति विराडेव ज्योतिषानुपश्यन्ननुष्टुभा वज्रेण रात्रेर्भ्रातृव्यं निर्हन्ति
तान् समन्तं पर्यायं प्राणुदन्त यत् पर्यायं प्राणुदन्त तत् पर्यायाणां पर्यायत्वम्
प्रथमानि पदानि पुनरादीनि भवन्ति प्रथमस्य पर्यायस्य
प्रथमैर्हि पदैः पुनरादाय प्रथमरात्रात् प्राणुदन्त
पान्तमा वो अन्धस इति प्रस्तौति
अहर्वै पान्तमन्धो रात्रिरह्नैव तद्रात्रिमारभन्ते
तासु वैतहव्यम्
वीतहव्यः श्रायसो ज्योग्निरुद्ध एतत् सामापश्यत् सोऽवगच्छत् प्रत्यतिष्ठदवगच्छति प्रतितिष्ठत्येतेन तुष्टुवानः
तमइव वा एते प्रविशन्ति ये रात्रिमुपयन्ति यदोको निधनं रात्रेर्मुखे भवति प्रज्ञात्यै
यदा वै पुरुषः स्वमोक आगच्छति सर्वं तर्हि प्रजानाति सर्वमस्मै दिवा भवति
ते मध्यमं पर्यायमश्रयन्त तेषामौर्ध्वसद्मनेन वाचमवृञ्जत
वाचं भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद
त्रिणिधनं भवति
यथा वा अह्नो माध्यन्दिनं सवनं त्रिणिधनायतनमेवमेष रात्रेर्मध्यमः पर्यायस्त्रिणिधनायतनः सलोकत्वाय
मध्यमानि पदानि पुनरादीनि भवन्ति मध्यमस्य पर्यायस्य मध्यमैर्हि पदैः पुनरादायं मध्यमरात्रात् प्राणुदन्त
त उत्तमं पर्यायमश्रयन्त तेषां घृतश्च्युन्निधनेन पशूनवृञ्जत पशवो वै घृतश्च्युतः
पशून् भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद
उत्तमानि पदानि पुनरादीनि भवन्त्युत्तमस्य पर्यायस्योत्तमैर्हि पदैःपुनरादायमुत्तमरात्रात् प्राणुदन्त
तान् सन्धिनाभिपलायन्त
तानाश्विनेनासंहाय्यमगमयन्
असंहाय्यं भ्रातृव्यं गमयति य एवंव्वेद
एषा वा अग्निष्टोमस्य संमा यद्रात्रिः
द्वादश स्तोत्राण्यग्निष्टोमो द्वादश स्त्रोत्राणि रात्रिः
एषा वा उक्थस्य संमा यद्रात्रिः
त्रीण्युक्थानि त्रिदेवत्यः सन्धिः
यथा वा अह्न उक्थान्येवमेष रात्रेः सन्धिर्नानारूपाण्यह्न उक्थानि नानारूपा एते तृचा भवन्ति
रथन्तरं प्रतिष्ठाकामाय सन्धिं कुर्यात्
इयं वै रथन्तरमस्यामेव प्रतितिष्ठति
बृहत् स्वर्गकामाय सन्धिं कुर्यात्
स्वर्गो लोको बृहत् स्वर्ग एव लोके प्रतितिष्ठति
वारवन्तीयं वा वामदेव्यं वा श्रुद्ध्यं वै तेषामेकं पशुकामाय सन्धिं कुर्यात्
पशवो वा एतानि सामानि पशुष्वेव प्रतितिष्ठति
आश्विनं होतानुशंसति
प्रजापतिर्वा एतत् सहस्रमसृजत तद्देवेभ्यः प्रायच्छत् तस्मिन्न समराधयंस्ते सूर्यं काष्ठां कृत्वाजिमधावन्
तेषामश्विनौ प्रथमावधावतां तावन्ववदन् सह नोऽस्त्विति तावब्रूतां किं ततः स्यादिति यत् कामयेथे इत्यब्रुवंस्तावब्रूतामस्मद्देवत्यमिदमुक्थमुच्याता इति तस्मादाश्विनमुच्यते
सर्वाः खलु देवताः शस्यन्ते
क्षिप्रं शस्यमाजिमिव ह्येते धावन्त्या सूर्यस्योदेतोः शंसेत् सूर्यं हि काष्ठामकुर्वत
9.2
पान्तमा वो अन्धस इति वैतहव्यमन्यक्षेत्रंवा एते प्रयन्ति ये रात्रिमुपयन्ति यदोकोनिधनं रात्रेर्मुखे भवत्योकसोऽप्रच्यावाय
प्र व इन्द्राय मादनमिति गौरीवितम्
ब्रह्म यद्देवा व्यकुर्वत ततो यदत्यरिच्यत तद्गौरीवितमभवत्
अतिरिक्तं गौरीवितमतिरिक्तमेतत् स्तोत्रं यद्रात्रिरतिरिक्त एवातिरिक्तं दधाति
वयमु त्वा तदिदर्था इति काण्वम्
एतेन वै कण्व इन्द्रस्य सांविद्यमगच्छदिन्द्रस्यैवैतेन सांविद्यं गच्छति
इन्द्राय मद्वने सुतमिति श्रौतकक्षं क्षत्रसाम प्र क्षत्रमेवैतेन भवति
अयं त इन्द्र सोम इति दैवोदासम्
अग्निष्टोमेन वै देवा इमंल्लोकमभ्यजयन्नन्तरिक्षमुक्थेनातिरात्रेणामुं. त इमंल्लोकं पुनरभ्यकामयन्त त इहेत्यस्मिंल्लोके प्रत्यतिष्ठन् यदेतत् साम भवति प्रतिष्ठित्यै
ऊर्ध्वसद्मनमपि शर्वरीषु प्रोहन्ति
असुरा वा एषु लोकेष्वासंस्तान् देवा ऊर्ध्वसद्मनेनैभ्यो लोकेभ्यः प्राणुदन्त
तद्य एवंव्वेदैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्य स्व आयतने सत्त्रमास्ते
आ तू न इन्द्र क्षुमन्तमित्याकूपारम् (मैत्रावरुण साम)
अकूपाराङ्गिरसस्यासीत् तस्या यथा गोधायास्त्वगेवं त्वगासीत् तामेतेन त्रिःसाम्नेन्द्रः पूत्वा सूर्यत्वचसमकरोत् तद्वाव सा तर्ह्यकामयत यत्कामा एतेन साम्ना स्तुवते स एभ्यः कामः समृध्यते
अभि त्वा वृषभा सुतं इत्यार्षभं क्षत्रसाम क्षत्रमेवैतेन भवति
इदंव्वसो सुतमन्ध इति गारमेतेन वै गर इन्द्रमप्रीणात् प्रीत एवास्यैतेनेन्द्रो भवति
इदं ह्यन्वोजसेति माधुच्छन्दसं प्रजापतेर्वा एषा तनूरयातयाम्नी प्रयुज्यते
आ त्वेता निषीदतेति दैवातिथम्
देवातिथिः सपुत्रोऽशनायंश्चरन्नरण्य उर्वारूण्यविन्दत् तान्येतेन साम्नोपासीदत् ता अस्मै गावः पृश्नयो भूत्वोदतिष्ठन् यदेतत् साम भवति पशूनां पुष्ट्यै
योगेयोगे तवस्तरमिति सौमेधं रात्रिषाम रात्रेरेव समृध्यै
इन्द्र सुतेषु सोमेष्विति कौत्सम्
कुत्सश्च लुशश्चेन्द्रं व्यह्वयेतां स इन्द्रः कुत्समुपावर्तत तं शतेन वार्ध्रीभिराण्डयोरबध्नात् तं लुशोऽभ्यवदत् प्रमुच्यस्व परि कुत्सादिहागहि किमु त्वावानाण्डयोर्बद्ध आसाता इति तास्संच्छिद्य प्राद्रवत् स एतत् कुत्सः सामापश्यत् तेनैनमन्ववदत् स उपावर्तत
यदेतत् साम भवति सेन्द्रत्वाय
9.3
यदि सत्त्राय दीक्षेरन्नथ साम्युत्तिष्ठेत् सोममपभज्य विश्वजितातिरात्रेण यजेत सर्ववेदसेन सर्वस्मा एव दीक्षते सर्वमाप्नोति
या इद्दक्षिणा ददाति ताभिरिति प्रयुङ्क्ते
यदि पर्यायैरस्तुतमभिव्युच्छेत् पन्चदशभिर्होत्रे स्तुयुः पञ्चभिःपञ्चभिरितरेभ्यः
अग्ने विवस्वदुषस इति सन्धिना स्तुयुः प्राणा वै त्रिवृत् स्तोमानां प्रतिष्ठा रथन्तरं साम्नां प्राणांस्चैवोपयन्ति प्रतिष्ठां च
षष्टिं च त्रीणि च शतानि होता शंसति
तावत्यः संवत्सरस्य रात्रयः संवत्सरसंमिताभिरेव तदृग्भिराशीविनमाप्नोति
यदर्वाक्स्तुवन्ति तदस्तुतं यत् सम्प्रति स्तुवन्ति तत् स्तुतं यदतिष्टुवन्ति तत् सुष्टुतम्
यद्यर्वाक्स्तुयुर्यावतीभिर्न स्तुयुस्तावतीभिर्वातिष्टुयुर्भूयोऽक्षराभिर्वा
यद्यतिष्टुयुर्यावतीभिरतिष्टुयुस्तावतीभिर्वा न स्तुयुः कनीयोऽक्षराभिर्वा
यद्यर्वाक्स्तुयुस्त्रीडमग्निष्टोमसाम कार्यं निधनमेकेडया ये द्वे ताभ्यामेव तत् समं क्रियते
यद्यतिष्टुयुः स्वारमग्निष्टोमसाम कार्यमूनमिव वा एतत् साम्नो यत् स्वरस्तेनैव तत् समं क्रियते
9.4
यदि सोमौ संसुतौ स्यातां महति रात्रेः प्रातरनुवाकमुपाकुर्यात्
पूर्वो वाचं पूर्वश्छन्दांसि पूर्वो देवता वृङ्क्ते
वृषण्वतीं प्रतिपदं कुर्यादिन्द्रो वै वृषा प्रातःसवनादेवैषामिन्द्रंव्वृङ्क्ते
अथो खल्वाहुः सवनमुखेसवनमुखे कार्या सवनमुखात्सवनमुखादेवैषामिन्द्रंव्वृङ्क्ते
सुसमिद्धे होतव्यमग्निर्वै सर्वा देवताः सर्वा एव देवताः पश्यञ्जुहोति
संवेशायोपवेशाय गायत्र्यै च्छन्दसेऽभिभूतये स्वाहा संवेशायोपवेशाय त्रिष्टुभे च्छन्दसेऽभिभूतये स्वाहा संवेशायोपवेशाय जगत्यै च्छन्दसेऽभिभूतये स्वाहेति जुहोति
च्छन्दांसि वा अभिभूतयस्तैरेवैनानभिभवत्युभे बृहद्रथन्तरे कार्ये
यत्र वा इन्द्रस्य हरी तदिन्द्रः. इन्द्रस्य वै हरी बृहद्रथन्तरे यदुभे बृहद्रथन्तरे भवतः पूर्व एवेन्द्रस्य हरी आरभन्ते
तैरश्रवसे कार्ये
तुरश्रवसश्च वै पारावतानां च सोमौ संसुतावास्तां तत एते तुरश्रवाः सामनी अपश्यत् ताभ्यामस्मा इन्द्रः शल्मलिनां यमुनाया हव्यं निरावहत् यत् तैरश्रवसे भवतो हव्यमेवैषांव्वृङ्क्ते
पूर्वेऽभिषुणुयुः
या वै पूर्वाः प्रस्नान्ति ताः पूर्वास्तीर्थं जयन्ति पूर्व एवेन्द्रमारभन्ते
विहव्यं शस्यम्
जमदग्नेश्च वा ऋषीणां च सोमौ संसुतावास्तां तत एतज्गमदग्निर्विहव्यमपश्यत् तमिन्द्र उपावर्तत यद्विहव्यं होता शंसतीन्द्रमेवैषांव्वृङ्क्ते
यदीतरोऽग्निष्टोमः स्यादुक्थः कार्यो यद्युक्थोऽतिरात्रो यो वै भूयान् यज्ञक्रतुः स इन्द्रस्य प्रियो भूयसैवैषां यज्नक्रतुनेन्द्रंव्वृङ्क्ते
अथो खल्वाहुर्दुष्प्राप इव वै परः पन्था यमेवाग्रे यज्ञक्रतुमारभेत तस्मान्नेयादिति
सजनीयं शस्यमगस्त्यस्य कयाशुभीयं शस्यम्
अस्या अमुष्या अद्यश्वान्मिथुनादहोरात्राभ्यामेवैनान्निर्भजति
9.5
यदि सोममक्रीतमपहरेयुरन्यः क्रेतव्यः
यदि क्रीतं योऽन्योऽभ्याशं स्यात् स आहृत्यः सोमविक्रयणे तु किं चिद्दद्यात्
यदि सोमं न विन्देयुः पूतीकानभिषुणुयुर्यदि न पूतीकानर्ज्जुनानि
गायत्री सोममाहरत् तस्या अनु विसृज्य सोमरक्षिः पर्णमच्छिनत् तस्य योऽंशुः परापतत् स पूतीकोऽभवत् तस्मिन् देवा ऊतिमविन्दन्नूतीको वा एष यत् पूतीकानभिषुण्वन्त्यूतिमेवास्मै विन्दन्ति
प्रतिधुक्च प्रातः पूतीकाश्च शृतं च मध्यन्दिने पूतीकाश्च दधि चापराह्णे पूतीकाश्च
सोमपीथो वा एतस्मादपक्रामतीत्याहुर्यस्य सोममपहरन्तीति स ओषधीश्च पशूंश्च प्रविशति तमोषधिभ्यश्च पशुभ्यश्चावरुन्धे
इन्द्रो वृत्रमहंस्तस्य यो नस्तः सोमः समधावत् तानि बभ्रुतूलान्यर्जुनानि यो वपाया उत्खिन्नायास्तानि लोहिततूलानि यानि बभ्रुतूलान्यर्जुनानि तान्यभिषुणुयादेतद्वै ब्रह्मणो रूपं साक्षादेव सोममभिषुणोति
श्रायन्तीयं ब्रह्मसाम कार्यं सदेवैनं करोति
यज्ञायज्ञीयमनुष्टुभि प्रोहेद्वाचैवैनं समर्धयति वारवन्तीयमग्निष्टोमसाम कार्यमिन्द्रियस्य वीर्यस्य परिगृहीत्यै
पञ्च दक्षिणा देयाः
पाङ्क्तो यज्ञो यावान् यज्ञस्तमेवारभते
अवभृथादुदेत्य पुनर्दीक्षेत
तत्र तद्दद्याद्यद्दास्यं स्यात्
9..6
यदि कलशो दीर्येत वषट्कारणिधनं ब्रह्मसाम कुर्यात्
अवषट्कृतो वा एतस्य सोमः परासिच्यते यस्य कलशो दीर्यते यद्वषट्कारणीधनं ब्रह्मसाम भवति वषट्कृत एवास्य सोमो भवति
विधुं दद्राणं समने बहूनामित्येतासु कार्यम्
एष हि बहूनां समने दीर्यते यत् कलशः
तदाहुर्न वा आर्त्यार्तिरनूद्यार्त्या वा एष आर्तिमनुवदति यः कलशो दीर्णे दद्राणवतीषु करोतीति
श्रायन्तीयमेव कार्यम्
प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानोऽमन्यत स एतच्छ्रायन्तीयमपश्यत् तेनात्मानं समश्रीणात् प्रजया पशुभिरिन्द्रियेण
दुग्ध इव एष रिरिचानो यस्य कलशो दीर्यते यच्छ्रायन्तीयं ब्रह्मसाम भवति पुनरेवात्मानं संश्रीणाति प्रजया पशुभिरिन्द्रियेण
यदि श्रायन्तीयं ब्रह्मसाम स्याद्वैष्णवीष्वनुष्टुप्सु वषट्कारणिधनं कुर्यात्
यद्वै यज्ञस्य स्रवति वाचं प्रतिस्रवति वागनुष्टुप्यज्ञो विष्णुर्वाचैव यज्ञस्य च्छिद्रमपिदधाति
यद्वै यज्ञस्य स्रवत्यन्ततः स्रवति वारवन्तीयमग्निष्टोमसाम कार्यं यज्ञस्यैव च्छिद्रं वारयते
9.7
यदि प्रातस्सवनात् सोमोऽतिरिच्येत अस्ति सोमो अयं सुत इति मरुत्वतीषु गायत्रेषु स्तुयुः
माध्यन्दिनं वा एष सवनं निकामयमानोऽभ्यतिरिच्यते यः प्रातस्सवनादतिरिच्यते तस्मान्मरुत्वतीषु स्तुवन्ति मरुत्वद्धि माध्यन्दिनं सवनं तस्मादु गायत्रीषु गायत्रं हि प्रातस्सवनम्
यस्मात् स्तोमादतिरिच्यते स एव स्तोमः कार्यः सलोमत्वाय
ऐन्द्रावैष्णवं होतानुशंसति
वीर्यं वा इन्द्रो यज्ञो विष्णुर्वीर्य एव यज्ञे प्रतितिष्ठति
यदि माध्यन्दिनात् सवनादतिरिच्येत बण्महां असि सूर्येत्यादित्यवतीषु गौरीवितेन स्तुयुः
तृतीयसवनं वा एष निकामयमानोऽभ्यतिरिच्यते यो माध्यन्दिनात् सवनादतिरिच्यते तस्मादादित्यवतीषु स्तुवन्त्यादित्यं हि तृतीयसवनं तस्मादु बृहतीषु बार्हतं हि माध्यन्दिनं सवनम्
यस्मात् स्तोमादतिरिच्येत स एव स्तोमः कार्यः सलोमत्वायैन्द्रावैष्णवं होतानुशंसति वीर्यं वा इन्द्रो यज्ञो विष्णुर्वीर्य एव यज्ञे प्रतितिष्ठति
यदि तृतीयसवनादतिरिच्येत विष्णोः शिपिविष्टवतीषु गौरीवितेन स्तुयुः
यज्ञो वै विष्णुश्शिपिविष्टो यज्ञ एव विष्णौ प्रतितिष्ठत्यतिरिक्तं गौरीवितमतिरिक्त एवातिरिक्तं दधाति
एतदन्यत् कुर्युरुक्थानि प्रणयेयुरुक्थानि वा एष निकामयमानोऽभ्यतिरिच्यते योऽग्निष्टोमादतिरिच्यते यद्युक्थ्येभ्योऽतिरिच्येतातिरात्रः कार्यो रात्रिं वा एष निकामयमानोऽभ्यतिरिच्यते य उक्थ्येभ्योऽतिरिच्यते यदि रात्रेरतिरिच्येत विष्णोः शिपिविष्टवतीषु बृहता स्तुयुरेषु तु वा अतिरिच्यत इत्याहुर्यो रात्रेरतिरिच्यत इति
अमुं वा एष लोकं निकामयमानोऽभ्यतिरिच्यते यो रात्रेरतिरिच्यते बृहता स्तुवन्ति बृहदमुं लोकमाप्तुमर्हति तमेवाप्नोति
9.8
यदि दीक्षितानां प्रमीयते दग्ध्वास्थीन्युपनह्य यो नेदिष्ठी स्यात् तं दीक्षयित्वा सह यजेरन्
एतदन्यत् कुर्युरभिषुत्यान्यत् सोममगृहीत्वा ग्रहान् यासौ दक्षिणा स्रक्तिस्तद्वा स्तुयुर्मार्जालीये वा
अपि वा एतस्य यज्ञे यो दीक्षितः प्रमीयते तमेतेन निरवदयन्ते
यामेन स्तुवन्ति यमलोकमेवैनं गमयन्ति
तिसृभिः स्तुवन्ति तृतीये हि लोके पितरः
पराचीभिः स्तुवन्ति पराङ्हीतोऽसौ लोकः
सर्पराज्ञ्या ऋग्भिः स्तुवन्ति
अर्बुदः सर्प एताभिर्मृतां त्वचमपाहत मृतामेवैताभिस्त्वचमपघ्नते
ता ऋचोऽनुब्रुवन्तस्त्रिर्मार्जालीयं परियन्ति सव्यानूरूनाघ्नानाः
स्तुतमनुशंसत्यमुष्मिन्नेवैनं लोके निध्नुवन्ति
यन्ति वा एते पथ इत्याहुर्ये मृताय कुर्वन्तीत्यैन्द्रवायवाग्रान् ग्रहान् गृह्णते पुनः पन्थानमपियन्ति
अग्न आयूंषि पवस इति प्रतिपत्कार्या य एव जीवन्ति तेष्वायुर्दधाति
संवत्सरेऽस्थीनि याजयेयुः संव्वत्सरो वै सर्वस्य शान्तिर्यत् पुरा संव्वत्सराद्याजयेयुर्वाचमरुष्कृतां क्रूरामृच्छेयुः
वृतः पवमानाः स्युः सप्तदशमितरत् सर्वम्
यत् त्रिवृतः पवमाना भवन्ति प्राणा वै त्रिवृत् प्राणानेवोपयन्ति यत् सप्तदशमितरत् सर्वं प्रजापतिर्वै सप्तदशः प्रजतिमेवोपयन्ति
प्राणापानैर्वा एते व्यृध्यन्त इत्याहुर्ये मृताय कुर्वन्तीति मैत्रावरुणाग्रान् ग्रहान् गृह्णते प्राणापानौ मित्रावरुणौ प्राणापानैरेव समृध्यन्ते
9.9
यस्य कलश उपदस्यति कलशमेवास्योपदस्यन्तं प्राणोऽनूपदस्यति प्राणो हि सोमः
तदाहुः पयोऽवनयेदिति
अथो खल्वाहुरन्तर्हितमिव वा एतद्यत् पयो हिरण्यमेवापोऽभ्यवनयेद्धिरण्यमभ्युन्नयेदिति
प्राणा वा आपोऽमृतं हिरण्यममृत एवास्य प्राणान् दधाति स सर्वमायुरेति
यस्य नाराशंस उपवायति नाराशंसमेवास्योप+वायन्तं प्राणोऽनूपदस्यति प्राणो हि सोमः
यमध्वर्युरन्ततो ग्रहं गृह्णीयात् तस्याप्तुमवनयेत्
प्रायश्चित्यै वै ग्रहो गृह्यते प्रायश्चित्येवास्मै प्रायश्चित्तिं करोति
यदि पीतापीतौ सोमौ संगच्छेयातामन्तः परिध्यङ्गारान्निर्वर्त्य जुहुयात् हुतस्य चाहुतस्य चाहुतस्य हुतस्य च । पीतापीतस्य सोमस्येन्द्राग्नी पिबतं सुतं स्वाहेति सैव तस्य प्रायश्चित्तिः
प्रजापतये स्वाहेत्यभक्षणीयस्य जुहुयादुत्तरार्ध्यपूर्वार्ध्य उपरवः
इन्दुरिन्दुमवागादित्यववृष्टस्य भक्षयेत्
तस्य त इन्द्रविन्द्रपीतस्येन्द्रियावतस्सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
हिरण्यगर्भः समवर्तताग्र इत्याज्येनाभ्युपाकृतस्य जुहुयादग्नीध्रं परेत्य भूतानां जातः पतिरेक आसीत् स दाधार पृथिवीं द्यामुतेमां तस्मै त इन्दो हविषा विधेम स्वाहेति सैव तस्य प्रायश्चित्तिः
यदि ग्रावापि शीर्यते पशुभिर्यजमानो व्यृध्यते पशवो वै ग्रावाणो द्युतानस्य मारुतस्य साम्ना स्तुयुः
मारुता वै ग्रावाणः स्वेनैवैनांस्तद्रूपेण समर्धयति
यदि सोममभिदहेद्ग्रहानध्वर्युः स्पाशयेत स्तोत्राण्युद्गाता शस्त्राणि होताथ यथापूर्वं यज्ञेन चरेयुः पञ्च दक्षिणा देयाः पाङ्क्तो यज्ञो यावान् यज्ञस्तमारभतेऽवभृथादुदेत्य पुनर्दीक्षते तत्र तद्दद्याद्यद्दास्यं स्यात् पुरा द्वादश्या दीक्षेत यद्द्वादशीमतिनयेदन्तर्धीयेत
9.10
यदि महावीरो भिद्येत तं भिन्नमभिमृशेद्य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः मा भेम निष्ट्या इवेन्द्र त्वदरणा इव । वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि । अमन्महीदनाशवोऽनुग्राभश्च वृत्रहन् । सकृत् सुते महता शूर राधसानु स्तोमं मदेमहीति महावीरं भिन्नमभिमृशेत् सैव तस्य प्रायश्चित्तिः
असुर्यं वा एतस्माद्वर्णं कृत्वा तेज इन्द्रियं वीर्यमन्नाद्यं प्रजाः पशवोऽपक्रामन्ति यस्य यूपो विरोहति स ईश्वरः पापीयान् भवितोः
त्वाष्ट्रं पशुं बहुरूपमालभेत त्वष्टा वै पशूनां रूपाणां विकर्ता तमेव तदुपधावति स एनं तेजसेइन्द्रियेण वीर्येणान्नाद्येन प्रजया पशुभिः पुनस्समर्धयति सैव तस्य प्रायश्चित्तिः

९.१.१ रात्रिपर्य्यायविधानं

देवा वा उक्थान्यभिजित्य रात्रिं नाशक्नुवन्नभिजेतुं तेऽसुरान्रात्रिं तमः प्रविष्टां नानुव्यपश्यंस्त एतं अनुष्टुप्शिरसं प्रगाथं अपश्यन्विराजं ज्योतिः तान्विराजा ज्योतिषानुपश्यन्तोऽनुष्टुभा वज्रेण रात्रेर्निराघ्नन्

९.१.२ इदानीन्तनैरपि अयं कर्त्तव्यः

यदेषोऽनुष्टुप्शिराः प्रगाथो भवति विराडेव ज्योतिषानुपश्यन्ननुष्टुभा वज्रेण रात्रेर्भ्रातृव्यं निर्हन्ति

९.१.३ पर्य्याय शब्दनिर्व्वचनं

तान्समन्तं पर्यायं प्राणुदन्त यत्पर्यायं प्राणुदन्त तत्पर्यायाणां पर्यायत्वम्

९.१.४ प्रग्रथनप्रकारकथनं

प्रथमानि पदानि पुनरादीनि भवन्ति प्रथमस्य पर्यायस्य

९.१.५ देवैः पूर्व्वमनुष्ठितत्वं

प्रथमैर्हि पदैः पुनरादाय प्रथमरात्रात्प्राणुदन्त

९.१.६ प्रस्तावभागकथनं

पान्तं आ वो अन्धस इति प्रस्तौति

९.१.७ तस्य प्रशंसनं

अहर्वै पान्तं अन्धो रात्रिरह्नैव तद्रात्रिं आरभन्ते

९.१.८ प्रगाथसामविधानं

तासु वैतहव्यम्

९.१.९ प्रतिष्ठाहेतुत्वेनास्य प्रशंसा ।

वीतहव्यः श्रायसो ज्योग्निरुद्ध एतत्सामापश्यत्सोऽवगच्छत्प्रत्यतिष्ठदवगच्छति प्रतितिष्ठत्येतेन तुष्टुवानः

९.१.१० ओकोनिधनप्रशंसा

तम इव वा एते प्रविशन्ति ये रात्रिं उपयन्ति यदोको निधनं रात्रेर्मुखे भवति प्रज्ञात्यै

९.१.११ लोकप्रसिद्धिबलेन प्रज्ञातिहेतुत्वसमर्थनं

यदा वै पुरुषः स्वं ओक आगच्छति सर्वं तर्हि प्रजानाति सर्वं अस्मै दिवा भवति

९.१.१२ मध्यमपर्य्यायविधानं

ते मध्यमं पर्यायं अश्रयन्त तेषां और्ध्वसद्मनेन वाचं अवृञ्जत

९.१.१३ उक्तार्थस्य फलकथनं

वाचं भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद

९.१.१४ त्रिणिधनविधानं

त्रिणिधनं भवति

९.१.१५ उक्तस्य प्रशंसनं

यथा वा अह्नो माध्यन्दिनं सवनं त्रिणिधनायतनं एवं एष रात्रेर्मध्यमः पर्यायस्त्रिणिधनायतनः सलोकत्वाय

९.१.१६ स्तोत्रीयासु मध्यमपादावृत्तिः

मध्यमानि पदानि पुनरादीनि भवन्ति मध्यमस्य पर्यायस्य मध्यमैर्हि पदैः पुनरादायं मध्यमरात्रात्प्राणुदन्त

९.१.१७ उत्तमपर्य्यायकथनं

त उत्तमं पर्यायं अश्रयन्त तेषां घृतश्च्युन्निधनेन पशूनवृञ्जत पशवो वै घृतश्च्युतः

९.१.१८ उक्तार्थवेदितुः प्रशंसनं

पशून्भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद

९.१.१९ अन्य पादावृत्तिकर्त्तव्यता

उत्तमानि पदानि पुनरादीनि भवन्त्युत्तमस्य पर्यायस्योत्तमैर्हि पदैःपुनरादायं उत्तमरात्रात्प्राणुदन्त

९.१.२० सन्धिस्तोत्रस्य विधिः

तान्सन्धिनाभिपलायन्त

९.१.२१ असुराणामसंघातायाश्विनकथनं

तानाश्विनेनासंहाय्यं अगमयन्

९.१.२२ तद्वेदितुः फलं

असंहाय्यं भ्रातृव्यं गमयति य एवंव्वेद

९.१.२३ तत् प्रशंसनं

एषा वा अग्निष्टोमस्य संमा यद्रात्रिः

९.१.२४ साम्यप्रदर्शनं

द्वादश स्तोत्राण्यग्निष्टोमो द्वादश स्त्रोत्राणि रात्रिः

९.१.२५ साम्येन संन्धिप्रशंसनं

एषा वा उक्थस्य संमा यद्रात्रिः

९.१.२६ उभयोः साम्यप्रदर्शनं

त्रीण्युक्थानि त्रिदेवत्यः सन्धिः

९.१.२७ सन्धिसामप्रशंसनं

यथा वा अह्न उक्थान्येवं एष रात्रेः सन्धिर्नानारूपाण्यह्न उक्थानि नानारूपा एते तृचा भवन्ति

९.१.२८ प्रतिष्ठाकामाय सन्धिकथनं

रथन्तरं प्रतिष्ठाकामाय सन्धिं कुर्यात्

९.१.२९ तस्य प्रशंसा

इयं वै रथन्तरं अस्यां एव प्रतितिष्ठति

९.१.३० बृहत्स्वर्गाय सन्धिकथनं

बृहत्स्वर्गकामाय सन्धिं कुर्यात्

९.१.३१ बृहत्स्वर्गयोः साम्यप्रदर्शनं

स्वर्गो लोको बृहत्स्वर्ग एव लोके प्रतितिष्ठति

९.१.३२ पशुकामाय वैकल्पिकसन्धिसामानि

वारवन्तीयं वा वामदेव्यं वा श्रुद्ध्यं वै तेषां एकं पशुकामाय सन्धिं कुर्यात्

९.१.३३ तेषां प्रशंसा

पशवो वा एतानि सामानि पशुष्वेव प्रतितिष्ठति

९.१.३४ तस्य होत्रनुवचनं

आश्विनं होतानुशंसति

९.१.३५ आश्विनविवरणं

प्रजापतिर्वा एतत्सहस्रं असृजत तद्देवेभ्यः प्रायच्छत्तस्मिन्न समराधयंस्ते सूर्यं काष्ठां कृत्वाजिं अधावन्

९.१.३६ आश्विनसम्बन्धप्रदर्शनं

तेषां अश्विनौ प्रथमावधावतां तावन्ववदन्सह नोऽस्त्विति तावब्रूतां किं ततः स्यादिति यत्कामयेथे इत्यब्रुवंस्तावब्रूतां अस्मद्देवत्यं इदं उक्थं उच्याता इति तस्मादाश्विनं उच्यते

९.१.३७ शस्त्रसम्बन्धप्रदर्शनं

सर्वाः खलु देवताः शस्यन्ते

९.१.३८ प्रशंसननियमकथनं

क्षिप्रं शस्यं आजिं इव ह्येते धावन्त्या सूर्यस्योदेतोः शंसेत्सूर्यं हि काष्ठां अकुर्वत

९.२.१ अनुवादेन होतृसामप्रशंसनं

पान्तं आ वो अन्धस इति वैतहव्यं अन्यक्षेत्रंवा एते प्रयन्ति ये रात्रिं उपयन्ति यदोकोनिधनं रात्रेर्मुखे भवत्योकसोऽप्रच्यावाय

९.२.२ मैत्रावरुणसामविधानं

प्र व इन्द्राय मादनं इति गौरीवितम्

९.२.३ तस्य प्रशंसनम्

ब्रह्म यद्देवा व्यकुर्वत ततो यदत्यरिच्यत तद्गौरीवितं अभवत्

९.२.४ रात्रिपर्य्याये योग्यताकथनं

अतिरिक्तं गौरीवितं अतिरिक्तं एतत्स्तोत्रं यद्रात्रिरतिरिक्त एवातिरिक्तं दधाति

९.२.५ ब्राह्मणाच्छंशिनः सामविधानं

वयं उ त्वा तदिदर्था इति काण्वम्

९.२.६ तस्य प्रशंसा

एतेन वै कण्व इन्द्रस्य सांविद्यं अगच्छदिन्द्रस्यैवैतेन सांविद्यं गच्छति

९.२.७ अच्छावाकसामप्रशंसनं

इन्द्राय मद्वने सुतं इति श्रौतकक्षं क्षत्रसाम प्र क्षत्रं एवैतेन भवति

९.२.८ मध्यमे पर्य्याये होतुः सामविधानं

अयं त इन्द्र सोम इति दैवोदासम्

९.२.९ निधनद्वारास्य प्रशंसनं

अग्निष्टोमेन वै देवा इमंल्लोकं अभ्यजयन्नन्तरिक्षं उक्थेनातिरात्रेणामुं. त इमंल्लोकं पुनरभ्यकामयन्त त इहेत्यस्मिंल्लोके प्रत्यतिष्ठन्यदेतत्साम भवति प्रतिष्ठित्यै

९.२.१० होतर्व्वैकल्पिकस्तोत्रविधानं

ऊर्ध्वसद्मनं अपि शर्वरीषु प्रोहन्ति

९.२.११ तस्य प्रशंसनं

असुरा वा एषु लोकेष्वासंस्तान्देवा ऊर्ध्वसद्मनेनैभ्यो लोकेभ्यः प्राणुदन्त

९.२.१२ उक्तार्थवेदितुः प्रशंसा

तद्य एवंव्वेदैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्य स्व आयतने सत्त्रं आस्ते

९.२.१३ मैत्रावरुणसामविधानं

आ तू न इन्द्र क्षुमन्तं इत्याकूपारम्

९.२.१४ तस्य प्रशंसा

अकूपाराङ्गिरसस्यासीत्तस्या यथा गोधायास्त्वगेव त्वगासीत्तां एतेन त्रिःसाम्नेन्द्रः पूत्वा सूर्यत्वचसं अकरोत्तद्वाव सा तर्ह्यकामयत यत्कामा एतेन साम्ना स्तुवते स एभ्यः कामः समृध्यते

९.२.१५ ब्राह्मणाच्छंशिसाम प्रशंसनं

अभि त्वा वृषभा सुतं इत्यार्षभं क्षत्रसाम क्षत्रं एवैतेन भवति

९.२.१६ अच्छावाकसामप्रशंसा

इदंव्वसो सुतं अन्ध इति गारं एतेन वै गर इन्द्रं अप्रीणात्प्रीत एवास्यैतेनेन्द्रो भवति

९.२.१७ तृतीयपर्य्याये होतृसामविधानं

इदं ह्यन्वोजसेति माधुच्छन्दसं प्रजापतेर्वा एषा तनूरयातयाम्नी प्रयुज्यते

९.२.१८ मैत्रावरुणसामविधानं

आ त्वेता निषीदतेति दैवातिथम्

९.२.१९ तस्य प्रशंसनं

देवातिथिः सपुत्रोऽशनायंश्चरन्नरण्य उर्वारूण्यविन्दत्तान्येतेन साम्नोपासीदत्ता अस्मै गावः पृश्नयो भूत्वोदतिष्ठन्यदेतत्साम भवति पशूनां पुष्ट्यै

९.२.२० ब्राह्मणाच्छंशिसामप्रशंसा

योगे-योगे तवस्तरं इति सौमेधं रात्रिषाम रात्रेरेव समृध्यै

९.२.२१ अच्छावाकसामविधानं

इन्द्र सुतेषु सोमेष्विति कौत्सम्

९.२.२२ तस्य प्रशंसा

कुत्सश्च लुशश्चेन्द्रं व्यह्वयेतां स इन्द्रः कुत्सं उपावर्तत तं शतेन वार्ध्रीभिराण्डयोरबध्नात्तं लुशोऽभ्यवदत्प्रमुच्यस्व परि कुत्सादिहागहि किं उ त्वावानाण्डयोर्बद्ध आसाता इति तास्संच्छिद्य प्राद्रवत्स एतत्कुत्सः सामापश्यत्तेनैनं अन्ववदत्स उपावर्तत

९.२.२३ तेन किमित्यत आह

यदेतत्साम भवति सेन्द्रत्वाय

९.३.१ साम्युत्थाने प्रायश्चित्तं

यदि सत्त्राय दीक्षेरन्नथ साम्युत्तिष्ठेत्सोमं अपभज्य विश्वजितातिरात्रेण यजेत सर्ववेदसेन सर्वस्मा एव दीक्षते सर्वं आप्नोति

९.३.२ सर्व्वस्वदक्षिणा

या इद्दक्षिणा ददाति ताभिरिति प्रयुङ्क्ते

९.३.३ व्युष्टेः पूर्वं पर्य्यायाः न समापयेयुः ।

यदि पर्यायैरस्तुतं अभिव्युच्छेत्पन्चदशभिर्होत्रे स्तुयुः पञ्चभिः-पञ्चभिरितरेभ्यः

९.३.४ सन्धिस्तोत्राय सामकथनं

अग्ने विवस्वदुषस इति सन्धिना स्तुयुः प्राणा वै त्रिवृत्स्तोमानां प्रतिष्ठा रथन्तरं साम्नां प्राणांस्चैवोपयन्ति प्रतिष्ठां च

९.३.५ आश्विनशस्त्रस्य संख्याविधानं

षष्टिं च त्रीणि च शतानि होता शंसति

९.३.६ तत्संख्यास्तुतिः

तावत्यः संवत्सरस्य रात्रयः संवत्सरसंमिताभिरेव तदृग्भिराशीविनं आप्नोति

९.३.७ स्तुतीनां स्वरूपप्रदर्शनं

यदर्वाक्स्तुवन्ति तदस्तुतं यत्सम्प्रति स्तुवन्ति तत्स्तुतं यदतिष्टुवन्ति तत्सुष्टुतम्

९.३.८ विहितन्यूनसंस्तवे प्रायश्चित्तं

यद्यर्वाक्स्तुयुर्यावतीभिर्न स्तुयुस्तावतीभिर्वातिष्टुयुर्भूयोऽक्षराभिर्वा

९.३.९ अतिष्टुतौ प्रायश्चित्तं

यद्यतिष्टुयुर्यावतीभिरतिष्टुयुस्तावतीभिर्वा न स्तुयुः कनीयोऽक्षराभिर्वा

९.३.१० अस्तुतावन्त्यकल्पकथनं

यद्यर्वाक्स्तुयुस्त्रीडं अग्निष्टोमसाम कार्यं निधनं एकेडया ये द्वे ताभ्यां एव तत्समं क्रियते

९.३.११ अतिष्टुतौ सामान्तरं आह

यद्यतिष्टुयुः स्वारं अग्निष्टोमसाम कार्यं ऊनं इव वा एतत्साम्नो यत्स्वरस्तेनैव तत्समं क्रियते

९.४.१ प्रातरनुवाकोपाकरणकालविशेषविधानं

यदि सोमौ संसुतौ स्यातां महति रात्रेः प्रातरनुवाकं उपाकुर्यात्

९.४.२ एवं सति को लाभस्तदाह

पूर्वो वाचं पूर्वश्छन्दांसि पूर्वो देवता वृङ्क्ते

९.४.३ इन्द्रस्य यजमानान्तराद्वर्जनं दर्शयति

वृषण्वतीं प्रतिपदं कुर्यादिन्द्रो वै वृषा प्रातःसवनादेवैषां इन्द्रंव्वृङ्क्ते

९.४.४ तत्र पक्षान्तरप्रदर्शनं

अथो खल्वाहुः सवनमुखे-सवनमुखे कार्या सवनमुखात्-सवनमुखादेवैषां इन्द्रंव्वृङ्क्ते

९.४.५ सर्व्वदेवतापरिग्रहप्रदर्शनं

सुसमिद्धे होतव्यं अग्निर्वै सर्वा देवताः सर्वा एव देवताः पश्यञ्जुहोति

९.४.६ प्रवृत्तहोमानन्तरमुद्गानविधानं

संवेशायोपवेशाय गायत्र्यै च्छन्दसेऽभिभूतये स्वाहा संवेशायोपवेशाय त्रिष्टुभे च्छन्दसेऽभिभूतये स्वाहा संवेशायोपवेशाय जगत्यै च्छन्दसेऽभिभूतये स्वाहेति जुहोति

९.४.७ होमे किं प्रयोजनं तदाह

च्छन्दांसि वा अभिभूतयस्तैरेवैनानभिभवत्युभे बृहद्रथन्तरे कार्ये

९.४.८ पृष्ठस्तोत्रबृहतोः प्रशंसा

यत्र वा इन्द्रस्य हरी तदिन्द्रः. इन्द्रस्य वै हरी बृहद्रथन्तरे यदुभे बृहद्रथन्तरे भवतः पूर्व एवेन्द्रस्य हरी आरभन्ते

९.४.९ सामद्वय विधानं

तौरश्रवसे कार्ये

९.४.१० आख्यानप्रदर्शनेन प्रयोगानुगुण्यमाह

तुरश्रवसश्च वै पारावतानां च सोमौ संसुतावास्तां तत एते तुरश्रवाः सामनी अपश्यत्ताभ्यां अस्मा इन्द्रः शल्मलिनां यमुनाया हव्यं निरावहत्यत्तैरश्रवसे भवतो हव्यं एवैषांव्वृङ्क्ते

९.४.११ अध्वर्य्युकर्त्तृकमभिषवविधानं

पूर्वेऽभिषुणुयुः

९.४.१२ ततः किमित्याह

या वै पूर्वाः प्रस्नान्ति ताः पूर्वास्तीर्थं जयन्ति पूर्व एवेन्द्रं आरभन्ते

९.४.१३ संसुतसोमे होतुः कृत्यविधानं

विहव्यं शस्यम्

९.४.१४ इन्द्रस्य शंसनार्थमाख्यानप्रदर्शनं

जमदग्नेश्च वा ऋषीणां च सोमौ संसुतावास्तां तत एतज्गमदग्निर्विहव्यं अपश्यत्तं इन्द्र उपावर्तत यद्विहव्यं होता शंसतीन्द्रं एवैषांव्वृङ्क्ते

९.४.१५ पूर्व्वपक्षत्वेन संस्थाभेदप्रदर्शनं ।

यदीतरोऽग्निष्टोमः स्यादुक्थः कार्यो यद्युक्थोऽतिरात्रो यो वै भूयान्यज्ञक्रतुः स इन्द्रस्य प्रियो भूयसैवैषां यज्नक्रतुनेन्द्रंव्वृङ्क्ते

९.४.१६ स्वाभिमतपक्षप्रदर्शनं

अथो खल्वाहुर्दुष्प्राप इव वै परः पन्था यं एवाग्रे यज्ञक्रतुं आरभेत तस्मान्नेयादिति

९.४.१७ होतुः सूक्तद्वयविधानं

सजनीयं शस्यं अगस्त्यस्य कयाशुभीयं शस्यम्

९.४.१८ उभयप्रशंसनं

अस्या अमुष्या अद्यश्वान्मिथुनादहोरात्राभ्यां एवैनान्निर्भजति

९.५.१ सोमापहरणे प्रायश्चित्तकथनं

यदि सोमं अक्रीतं अपहरेयुरन्यः क्रेतव्यः

९.५.२ क्रयोत्तरकाले सोमापहरणे प्रायश्चित्तं

यदि क्रीतं योऽन्योऽभ्याशं स्यात्स आहृत्यः सोमविक्रयणे तु किं चिद्दद्यात्

९.५.३ सोमप्रतिनिधिकथनं

यदि सोमं न विन्देयुः पूतीकानभिषुणुयुर्यदि न पूतीकानर्ज्जुनानि

९.५.४ पूतिकानां सोमप्रतिनिधित्वकथनं

गायत्री सोमं आहरत्तस्या अनु विसृज्य सोमरक्षिः पर्णं अच्छिनत्तस्य योऽंशुः परापतत्स पूतीकोऽभवत्तस्मिन्देवा ऊतिं अविन्दन्नूतीको वा एष यत्पूतीकानभिषुण्वन्त्यूतिं एवास्मै विन्दन्ति

९.५.५ पूतिकाभिषवयज्ञे गव्यसाहित्यकथनं

प्रतिधुक्च प्रातः पूतीकाश्च शृतं च मध्यन्दिने पूतीकाश्च दधि चापराह्णे पूतीकाश्च

९.५.६ प्रतिधुगादेः पूतिकानाञ्च सोमप्रतिनिधित्वं

सोमपीथो वा एतस्मादपक्रामतीत्याहुर्यस्य सोमं अपहरन्तीति स ओषधीश्च पशूंश्च प्रविशति तं ओषधिभ्यश्च पशुभ्यश्चावरुन्धे

९.५.७ अर्जुनतृणादेः सोमकार्य्यक्षमत्वं

इन्द्रो वृत्रं अहंस्तस्य यो नस्तः सोमः समधावत्तानि बभ्रुतूलान्यर्जुनानि यो वपाया उत्खिन्नायास्तानि लोहिततूलानि यानि बभ्रुतूलान्यर्जुनानि तान्यभिषुणुयादेतद्वै ब्रह्मणो रूपं साक्षादेव सोमं अभिषुणोति

९.५.८ ब्राह्मणाच्छंशिनः पृष्ठस्तोत्रनिवर्त्तकमेकं साम

श्रायन्तीयं ब्रह्मसाम कार्यं सदेवैनं करोति

९.५.९ सामद्वयविधानं

यज्ञायज्ञीयं अनुष्टुभि प्रोहेद्वाचैवैनं समर्धयति वारवन्तीयं अग्निष्टोमसाम कार्यं इन्द्रियस्य वीर्यस्य परिगृहीत्यै

९.५.१० दक्षिणाविधानं

पञ्च दक्षिणा देयाः

९.५.११ तस्य प्रशंसनं

पाङ्क्तो यज्ञो यावान्यज्ञस्तं एवारभते

९.५.१२ सोमेन साङ्गानुष्ठेयविधानं

अवभृथादुदेत्य पुनर्दीक्षेत

९.५.१३ तत्र दक्षिणाविधानं

तत्र तद्दद्याद्यद्दास्यं स्यात्

९.६.१ द्रोणकलशभेदने प्रायश्चित्तं

यदि कलशो दीर्येत वषट्कारणिधनं ब्रह्मसाम कुर्यात्

९.६.२ ततः किमित्याह

अवषट्कृतो वा एतस्य सोमः परासिच्यते यस्य कलशो दीर्यते यद्वषट्कारणीधनं ब्रह्मसाम भवति वषट्कृत एवास्य सोमो भवति

९.६.३ साम्न आधारभूताः ऋचः

विधुं दद्राणं समने बहूनां इत्येतासु कार्यम्

९.६.४ कलशविदारणे ऋचः प्रयोगार्हता

एष हि बहूनां समने दीर्यते यत्कलशः

९.६.५ उक्तपक्षस्य दोषकथनं

तदाहुर्न वा आर्त्यार्तिरनूद्यार्त्या वा एष आर्तिं अनुवदति यः कलशो दीर्णे दद्राणवतीषु करोतीति

९.६.६ कलशविदारणे कर्त्तव्यमाह

श्रायन्तीयं एव कार्यम्

९.६.७ अस्य साम्नः दोषनिवारणसामर्थ प्रदर्शनं

प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानोऽमन्यत स एतच्छ्रायन्तीयं अपश्यत्तेनात्मानं समश्रीणात्प्रजया पशुभिरिन्द्रियेण

९.६.८ तस्य फलकथनं

दुग्ध इव एष रिरिचानो यस्य कलशो दीर्यते यच्छ्रायन्तीयं ब्रह्मसाम भवति पुनरेवात्मानं संश्रीणाति प्रजया पशुभिरिन्द्रियेण

९.६.९ वषट्कृतसोमे कर्त्तव्यतामाह

यदि श्रायन्तीयं ब्रह्मसाम स्याद्वैष्णवीष्वनुष्टुप्सु वषट्कारणिधनं कुर्यात्

९.६.१० अनुष्टुप्सु साम्नःकरणप्रशंसा

यद्वै यज्ञस्य स्रवति वाचं प्रतिस्रवति वागनुष्टुप्यज्ञो विष्णुर्वाचैव यज्ञस्य च्छिद्रं अपिदधाति

९.६.११ सामान्तरविधानं

यद्वै यज्ञस्य स्रवत्यन्ततः स्रवति वारवन्तीयं अग्निष्टोमसाम कार्यं यज्ञस्यैव च्छिद्रं वारयते

९.७.१ प्रातसवने सामातिरेकप्रायश्चित्तं

यदि प्रातस्सवनात्सोमोऽतिरिच्येत अस्ति सोमो अयं सुत इति मरुत्वतीषु गायत्रेषु स्तुयुः

९.७.२ अतिरिक्तसोमानुगुणस्तुतिः

माध्यन्दिनं वा एष सवनं निकामयमानोऽभ्यतिरिच्यते यः प्रातस्सवनादतिरिच्यते तस्मान्मरुत्वतीषु स्तुवन्ति मरुत्वद्धि माध्यन्दिनं सवनं तस्मादु गायत्रीषु गायत्रं हि प्रातस्सवनम्

९.७.३ अतिरिक्तस्तोमक्लृप्तिप्रदर्शनं

यस्मात्स्तोमादतिरिच्यते स एव स्तोमः कार्यः सलोमत्वाय

९.७.४ होतरनुशंसनविशेषमाह

ऐन्द्रावैष्णवं होतानुशंसति

९.७.५ उभयदेवत्यप्रशंसा

वीर्यं वा इन्द्रो यज्ञो विष्णुर्वीर्य एव यज्ञे प्रतितिष्ठति

९.७.६ माध्यन्दिने सोमातिरेके प्रायश्चित्तं

यदि माध्यन्दिनात्सवनादतिरिच्येत बण्महां असि सूर्येत्यादित्यवतीषु गौरीवितेन स्तुयुः

९.७.७ बृहतीषु गौरीवितानुगुण्यप्रदर्शनं

तृतीयसवनं वा एष निकामयमानोऽभ्यतिरिच्यते यो माध्यन्दिनात्सवनादतिरिच्यते तस्मादादित्यवतीषु स्तुवन्त्यादित्यं हि तृतीयसवनं तस्मादु बृहतीषु बार्हतं हि माध्यन्दिनं सवनम्

९.७.८ स्तोमक्लृप्तहेतुरनुशंसन विधानं

यस्मात्स्तोमादतिरिच्येत स एव स्तोमः कार्यः सलोमत्वायैन्द्रावैष्णवं होतानुशंसति वीर्यं वा इन्द्रो यज्ञो विष्णुर्वीर्य एव यज्ञे प्रतितिष्ठति

९.७.९ तृतीयसवने सोमातिरेके प्रायश्चित्तं

यदि तृतीयसवनादतिरिच्येत विष्णोः शिपिविष्टवतीषु गौरीवितेन स्तुयुः

९.७.१० गौरीवितस्तोत्रे ऽतिशयकथनं

यज्ञो वै विष्णुश्शिपिविष्टो यज्ञ एव विष्णौ प्रतितिष्ठत्यतिरिक्तं गौरीवितं अतिरिक्त एवातिरिक्तं दधाति

९.७.११ पक्षान्तरकथनं

एतदन्यत्कुर्युरुक्थानि प्रणयेयुरुक्थानि वा एष निकामयमानोऽभ्यतिरिच्यते योऽग्निष्टोमादतिरिच्यते यद्युक्थ्येभ्योऽतिरिच्येतातिरात्रः कार्यो रात्रिं वा एष निकामयमानोऽभ्यतिरिच्यते य उक्थ्येभ्योऽतिरिच्यते यदि रात्रेरतिरिच्येत विष्णोः शिपिविष्टवतीषु बृहता स्तुयुरेषु तु वा अतिरिच्यत इत्याहुर्यो रात्रेरतिरिच्यत इति

९.७.१२ कुतोबृहतोविधानमित्याह

अमुं वा एष लोकं निकामयमानोऽभ्यतिरिच्यते यो रात्रेरतिरिच्यते बृहता स्तुवन्ति बृहदमुं लोकं आप्तुं अर्हति तं एवाप्नोति

९.८.१ सत्रमध्ये दीक्षितानां मरणे कर्तव्यं

यदि दीक्षितानां प्रमीयते दग्ध्वास्थीन्युपनह्य यो नेदिष्ठी स्यात्तं दीक्षयित्वा सह यजेरन्

९.८.२ तत्र उद्गातृकृत्यमाह

एतदन्यत्कुर्युरभिषुत्यान्यत्सोमं अगृहीत्वा ग्रहान्यासौ दक्षिणा स्रक्तिस्तद्वा स्तुयुर्मार्जालीये वा

९.८.३ तेन किमित्याह

अपि वा एतस्य यज्ञे यो दीक्षितः प्रमीयते तं एतेन निरवदयन्ते

९.८.४ केन साधनेन स्तुतिः

यामेन स्तुवन्ति यमलोकं एवैनं गमयन्ति

९.८.५ आधारभूतानां ऋचां संख्या

तिसृभिः स्तुवन्ति तृतीये हि लोके पितरः

९.८.६ आवृत्तिप्रकारकथनं

पराचीभिः स्तुवन्ति पराङ्हीतोऽसौ लोकः

९.८.७ तासां ऋचां स्वरूपमाह

सर्पराज्ञ्या ऋग्भिः स्तुवन्ति

९.८.८ मृतस्यापनयने अनुकूला ऋचः

अर्बुदः सर्प एताभिर्मृतां त्वचं अपाहत मृतां एवैताभिस्त्वचं अपघ्नते

९.८.९ ऋचानुवचनविधानं

ता ऋचोऽनुब्रुवन्तस्त्रिर्मार्जालीयं परियन्ति सव्यानूरूनाघ्नानाः

९.८.१० ऋचामनुशंसनविधानं

स्तुतं अनुशंसत्यमुष्मिन्नेवैनं लोके निध्नुवन्ति

९.८.११ तेषामिन्द्रवायवाग्रत्वं

यन्ति वा एते पथ इत्याहुर्ये मृताय कुर्वन्तीत्यैन्द्रवायवाग्रान्ग्रहान्गृह्णते पुनः पन्थानं अपियन्ति

९.८.१२ अग्निपावमानीप्रतिपत् विधानं

अग्न आयूंषि पवस इति प्रतिपत्कार्या य एव जीवन्ति तेष्वायुर्दधाति

९.८.१३ संवत्सरान्ते कर्त्तव्यताकथनं

संवत्सरेऽस्थीनि याजयेयुः संव्वत्सरो वै सर्वस्य शान्तिर्यत्पुरा संव्वत्सराद्याजयेयुर्वाचं अरुष्कृतां क्रूरां ऋच्छेयुः

९.८.१४ तत्र स्तोमपरिमाणमाह

वृतः पवमानाः स्युः सप्तदशं इतरत्सर्वम्

९.८.१५ तदुभयप्रशंसनं

यत्त्रिवृतः पवमाना भवन्ति प्राणा वै त्रिवृत्प्राणानेवोपयन्ति यत्सप्तदशं इतरत्सर्वं प्रजापतिर्वै सप्तदशः प्रजतिं एवोपयन्ति

९.८.१६ प्रातिस्विकग्रहाग्रत्वविधानं

प्राणापानैर्वा एते व्यृध्यन्त इत्याहुर्ये मृताय कुर्वन्तीति मैत्रावरुणाग्रान्ग्रहान्गृह्णते प्राणापानौ मित्रावरुणौ प्राणापानैरेव समृध्यन्ते

९.९.१ द्रोणकलशस्थसोमक्षये दोषकथनं

यस्य कलश उपदस्यति कलशं एवास्योपदस्यन्तं प्राणोऽनूपदस्यति प्राणो हि सोमः

९.९.२ शाखान्तरीयमतप्रदर्शनं

तदाहुः पयोऽवनयेदिति

९.९.३ स्वमतप्रदर्शनं

अथो खल्वाहुरन्तर्हितं इव वा एतद्यत्पयो हिरण्यं एवापोऽभ्यवनयेद्धिरण्यं अभ्युन्नयेदिति

९.९.४ प्राणोपदासपरिहारः

प्राणा वा आपोऽमृतं हिरण्यं अमृत एवास्य प्राणान्दधाति स सर्वं आयुरेति

९.९.५ नाराशंसोपशोषणे दोषमाह

यस्य नाराशंस उपवायति नाराशंसं एवास्योप+वायन्तं प्राणोऽनूपदस्यति प्राणो हि सोमः

९.९.६ तत्र कर्त्तव्यताकथनं

यं अध्वर्युरन्ततो ग्रहं गृह्णीयात्तस्याप्तुं अवनयेत्

९.९.७ ग्रहावनयनप्रशंसा

प्रायश्चित्यै वै ग्रहो गृह्यते प्रायश्चित्येवास्मै प्रायश्चित्तिं करोति

९.९.८ भक्षिताभक्षितयोः संसर्गे प्रायश्चित्तं

यदि पीतापीतौ सोमौ संगच्छेयातां अन्तः परिध्यङ्गारान्निर्वर्त्य जुहुयात्हुतस्य चाहुतस्य चाहुतस्य हुतस्य च । पीतापीतस्य सोमस्येन्द्राग्नी पिबतं सुतं स्वाहेति सैव तस्य प्रायश्चित्तिः

९.९.९ सोमे केशकीटादिजुष्टे कर्त्तव्यमाह

प्रजापतये स्वाहेत्यभक्षणीयस्य जुहुयादुत्तरार्ध्यपूर्वार्ध्य उपरवः

९.९.१० सोमभक्षणमन्त्रः

इन्दुरिन्दुं अवागादित्यववृष्टस्य भक्षयेत्

९.९.११ मन्त्रशेषप्रदर्शनं

तस्य त इन्द्रविन्द्रपीतस्येन्द्रियावतस्सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि

९.९.१२ चमसभक्षणात् पूर्व्वं स्तोत्रोपाकरणप्रायश्चित्तं

हिरण्यगर्भः समवर्तताग्र इत्याज्येनाभ्युपाकृतस्य जुहुयादग्नीध्रं परेत्य भूतानां जातः पतिरेक आसीत्स दाधार पृथिवीं द्यां उतेमां तस्मै त इन्दो हविषा विधेम स्वाहेति सैव तस्य प्रायश्चित्तिः

९.९.१३ ग्राव्णां भेदे कर्त्तव्यताकथनं

यदि ग्रावापि शीर्यते पशुभिर्यजमानो व्यृध्यते पशवो वै ग्रावाणो द्युतानस्य मारुतस्य साम्ना स्तुयुः

९.९.१४ ग्राव्णां भेदे सामसम्बन्धः

मारुता वै ग्रावाणः स्वेनैवैनांस्तद्रूपेण समर्धयति

९.९.१५ सोमाभिदाहे प्रायश्चित्तं

यदि सोमं अभिदहेद्ग्रहानध्वर्युः स्पाशयेत स्तोत्राण्युद्गाता शस्त्राणि होताथ यथापूर्वं यज्ञेन चरेयुः पञ्च दक्षिणा देयाः पाङ्क्तो यज्ञो यावान्यज्ञस्तं आरभतेऽवभृथादुदेत्य पुनर्दीक्षते तत्र तद्दद्याद्यद्दास्यं स्यात्पुरा द्वादश्या दीक्षेत यद्द्वादशीं अतिनयेदन्तर्धीयेत

९.१०.१ प्रवर्ग्याचरणे महावीरभेदने प्रायश्चित्तं

यदि महावीरो भिद्येत तं भिन्नं अभिमृशेद्य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः मा भेम निष्ट्या इवेन्द्र त्वदरणा इव । वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि । अमन्महीदनाशवोऽनुग्राभश्च वृत्रहन् । सकृत्सुते महता शूर राधसानु स्तोमं मदेमहीति महावीरं भिन्नं अभिमृशेत्सैव तस्य प्रायश्चित्तिः

९.१०.२ निखातयूपस्य विरोहने हानिप्रदर्शनं

असुर्यं वा एतस्माद्वर्णं कृत्वा तेज इन्द्रियं वीर्यं अन्नाद्यं प्रजाः पशवोऽपक्रामन्ति यस्य यूपो विरोहति स ईश्वरः पापीयान्भवितोः

९.१०.३ प्रायश्चित्तत्वेन पशुयागस्य कर्त्तव्यता

त्वाष्ट्रं पशुं बहुरूपं आलभेत त्वष्टा वै पशूनां रूपाणां विकर्ता तं एव तदुपधावति स एनं तेजसेइन्द्रियेण वीर्येणान्नाद्येन प्रजया पशुभिः पुनस्समर्धयति सैव तस्य प्रायश्चित्तिः