आश्वलायन श्रौतसूत्रम्/अध्यायः ७

विकिस्रोतः तः
Jump to navigation Jump to search


सत्राणां १ उक्ता दीक्षोपसदः २ एतेनाह्ना सुत्यानि ३ प्रातरनुवाका-द्युदवसानीयान्तान्यन्त्यानि ४ पत्नीसंयाजान्तानीतराणि ५ द्र प्सप्राशन-ख्यविसर्जने त्वन्त्य एव ६ ध्रुवाः शस्त्राणामातानाः ७ सूक्तान्येव सूक्त-स्थानेष्वहीनेषु ८ दैवतेन व्यवस्थाः ९ तृचाः प्रउगे १० सर्वाहर्गणेषु तायमानरूपाणां प्रथमादह्नः प्रवर्त्तेते अभ्यासातिप्रैषौ ११ अह्न उत्तमे शस्त्रे परिधानीयाया उत्तमे वचन उत्तमं चतुरक्षरं द्विरुक्त्वा प्रणुयात् १२ द्वितीयादिषु त्यमूषु वाजिनन्देवजूतमिति तार्क्ष्यमग्ने निष्केवल्यसूक्तानां १३ जातवेदसे सुनवाम सोममित्याग्निमारुते जातवेदस्यानां १४ आरम्भणीयाः पर्यासान् कद्वतोऽहरहःशस्यानीति होत्रका द्वितीयादिष्वेव १५ तानि सर्वाणि सर्वा-त्रान्यत्राह्न उत्तमात् १६ वैकल्पिकान्यग्निष्टोमेऽहर्गणमध्यगते १७ अग्नि-ष्टोमायनेषु वा १८ अन्यान्यभ्यासातिप्रैषाभ्यामिति कौत्सो विकृतौ तद्गुण-भावात् १९ नित्यानि होतुरिति गौतमः सङ्घातादावनुप्रवृत्तत्वादच्युत-शब्दत्वाच्च २० होत्रकाणामपि गाणगारिर्नित्यत्वात्सत्रधर्मान्वयस्य २१ प्रगाथतृचसूक्तागमेष्वैकाहिकं तावदुद्धरेत् २२ १ 7.1

चतुर्विंशे होताऽजनिष्टेत्याज्यं १ आ नो मित्रावरुणा मित्रं वयं हवामहे मित्रं हुवे पूतदक्षमयं वां मित्रावरुणा पुरूरुणा चिद्ध्यस्ति प्रति वां सूर उदित इति षडहस्तोत्रिया मैत्रावरुणस्य २ आयाहि सुषुमाहित इन्द्र मिद्गाथिनो बृहदिन्द्रे ण सं हि दृक्षस आदह स्वधामन्वित्येका द्वे चेन्द्रो दधीचो अस्तुभिरुत्तिष्ठन्नोजसा सह भिंधि विश्वा अपद्विष इति ब्राह्मणाच्छंसिनः ३ इन्द्रा ग्नी आगतं सुतमिन्द्रे अग्ना नमो बृहत्ता हुवे ययोरिदमियं वामस्य मन्मन इन्द्रा ग्नी युवामिमे यज्ञस्य हि स्थ ऋत्विजेत्यच्छावाकस्य ४ तेषां यस्मिंत्स्तुवीरन्त्स स्तोत्रियः ५ यस्मिंच्छ्वः सोऽनुरूपः ६ एकस्तोत्रियेष्वहःसु योऽन्योऽनन्तरः सोऽनुरूपो न चेत् सर्वोऽहर्गणः षडहो वा ७ ऐकाहिकस्तथा सति ८ अन्त्ये च ९ ऊर्ध्वमनुरूपेभ्य ऋजुनीनिनो वरुण इन्द्रं वो विश्वतस्परि यत् सोम आसुते नर इत्यारम्भणीयाः शस्त्वा स्वान्त्स्वान् परिशिष्टानावपेरंश्चतुर्विंशमहाव्रताभि-जिद्विश्वजिद्विषुवत्सु १० सर्वस्तोमसर्वपृष्ठेषु च ११ ऊर्ध्वमावापात् प्रति वां सूर उदिते व्यन्तरिक्षमतिरत्थ्या वाश्वस्य सुन्वत इति तृचाः पर्यासाः १२ स त्वेव मैत्रावरुणस्य षडहस्तोत्रिय उत्तमः सपर्यासः १३ तद्दैवतमन्यं पूर्वस्य स्थाने कुर्वीत १४ अन्यत्रापि सन्निपातेन तृचं सूक्तं वाऽनन्तर्हितमेकासने द्विः-शंसेत् १५ महावालभिदं चेच्छंसेदूर्ध्वमनुरूपेभ्य आरम्भणीयाभ्यो वा नाभाकांस्तृचानावपेरन् गायत्रीकारं १६ सक्षपः परिषस्वज इति मैत्रावरुणो यः ककुभो निधारय इति वा पूर्वीष्ट इन्द्रो पमातय इति ब्राह्मणाच्छंसी ता हि मध्यंभराणामित्यच्छावाकः १७ २ 7.2

मरुत्वतीये प्रैतु ब्रह्मणस्पतिरुत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्या वाऽऽवपते पूर्वौ नित्यात् १ बृहदिन्द्रा य गायत नकिः सुदासो रथमिति मरुत्वतीया ऊर्ध्वं नित्यात् २ कया शुभेति च मरुत्वतीये पुरस्तात् सूक्तस्य शंसेत् ३ एवं स्थितान् प्रगाथान् पृष्ठ्याभिप्लवयोरन्वहं पुनः पुनरावर्त्तयेयुः ४ एकैकं ब्राह्मणस्पत्यानां ५ एवं मरुत्वतीयानां ६ ध्रुव इन्द्र निहवः ७ धाय्याश्च ८ बृहत् पृष्ठं ९ रथन्तरं वा १० तयोरक्रियमाणस्य योनिं शंसेत् ११ वैरूप-वैराजशाक्वररैवतानाञ्च १२ पृष्ठ्यस्तोत्रिया योन्यः १३ अर्धर्चाः १४ तासां विधानमन्वहं १५ ताभ्य ऊर्ध्वं सामगाथान् १६ उक्तो रथन्तरस्य १७ उभयं शृणवच्च न इति बृहतः १८ इन्द्र त्रिधातु शरणं त्वमिन्द्रं प्रतूर्त्तिषु मोषु त्वा वाघतश्च नेति सद्विपद उपसमस्येद् द्विपदामिन्द्र मिद्देवतातय इतीतरेषां १९ पृष्ठ्य एवैकैकमन्वहं २० तदिदासेति च पुरस्तात् सूक्तस्य शंसेत् २१ उक्थपात्रं चमसांश्चान्तरातिग्राह्यान् भक्षयन्ति निष्केवल्ये २२ नित्यो भक्षजपः २३ षोडशिपात्रेण भक्षिणः २४ ३ 7.3

होत्रकाणां १ कया नश्चित्र आभुवत् कया त्वं न ऊत्या माचिदन्यद्विशंसत यच्चिद्धि त्वा जना इम इति स्तोत्रियानुरूपा मैत्रावरुणस्य २ तं वोदस्ममृती-षहन्तत्वायामि सुवीर्यमभिप्रवः सुराधसं प्रसुश्रुतं सुराधसं वयं घत्वा सुता-वन्तः कईं वेद सुते सचा विश्वाः पृतना अभिभूतरं नरं तमिन्द्रं जोहवीमि या इन्द्र भुज आभर इत्येका द्वे चेन्द्रो मदाय वावृधे मदे मदे हि नो ददिः सुरूपकृत्नुमूतये शुष्मिन्तमन्न ऊतये श्रायन्त इव सूर्यं बण्महाँ असि सूर्योदु त्यद्दर्शतं वपुरुदुत्ये मधुमत्तमास्त्वमिन्द्र प्रतूर्त्तिषु त्वमिन्द्र यशा असीन्द्र क्रतुं न आभरेन्द्र ज्येष्ठं न आभरा त्वा सहस्रमा शतं मम त्वा सूर उदित इति ब्राह्मणाच्छंसिनः ३तरोभिर्वो विदद्वसुं तरणिरिंत्सिषासति त्वामिदाह्यो नरो वयमेनमिदाह्यो यो राजा चर्षणीनां यः सत्राहा विचर्षणिः स्वादोरित्था विषूवत इत्था हि सोम इन्मद उभे यदिन्द्र रोदसी अव यत्त्वं शतक्रतो नकिष्टं कर्मणा न शन्न त्वा बृहन्तो अद्र य उभयं शृणवच्च न आवृषस्व पुरूवसो कदाचन स्तरीरसि कदाचन प्रयुच्छसि यत इन्द्र भयामहे यथा गौरो अपाकृतं यदिन्द्र प्रागपागुदग् यथा गौरो अपाकृतमित्यच्छावाकस्य ४ स्तोत्रियानुरूपाणां यद्यनुरूपे स्तुवीरन्त्स्तोत्रियोऽनुरूपः ५ ऊर्द्ध्वं स्तोत्रियानुरूपेभ्यः कस्तमिन्द्र त्वा वसुं कन्नव्यो अतसीनां कदून्वस्याकृतमिति कद्वन्तः प्रगाथाः ६ अपप्राच इन्द्र विश्वाँ अमित्रान् ब्रह्मणा ते ब्रह्मयुजा युनज्म्युरुन्नो लोकमनुनेषि विद्वानिति कद्वद्भ्य आरम्भणीयाः ७ ऊर्ध्वमारम्भणीयाभ्यः सद्योहजात इत्यहरहः शस्यं मैत्रावरुणोऽस्मा इदु प्रतवसे शासद्वह्निरितीतरावहीनसूक्ते ८ आसत्यो यात्वित्यहीनसूक्तं द्वितीयं मैत्रावरुण उदु ब्रह्माण्यभितष्टे वेतीतरावहरहःशस्ये ९ नूनं सात इत्यन्तमुत्तमं १० अहीनसूक्तानि षडहस्तोत्रियानावपत्सु ११ उदुष्य देवः सविता हिरण्ययेति तिस्रस्ते हि द्यावापृथिवी यज्ञस्य वो रथ्यमिति वैश्वदेवं १२ पृक्षस्य वृष्णो वृष्णे शर्द्धाय यज्ञेन वर्द्धतेत्याग्निमारुतं १३ अग्निष्टोम इदमहः १४ उक्थ्यो वा १५ ४ 7.4

अभिप्लवपृष्ठ्याहानि १ रथन्तरपृष्ठान्ययुजानि २ बृहत्पृष्ठानीतराणि ३ तृतीयादिषु पृष्ठ्यस्यान्वहं द्वितीयानि वैरूपवैराजशाक्वररैवतानि ४ तेषां यथास्थाने क्रियायां योनीः शंसेत् ५ सर्वत्र चास्वयोनिभावेऽन्यत्राश्विनात् ६ यज्ञायज्ञीयस्य त्वक्रियमाणस्यापि सानुरूपां योनिं व्याहावं शंसेदूर्ध्वमि-तरस्यानुरूपात् ७ होत्रकाः परिशिष्टानावापानुद्धृत्य ८ मित्रं वयं हवामहे मित्रं हुवे पूतदक्षमयं वां मित्रावरुणानो मित्रावरुणेति तृचाः प्र वो मित्रायेति चतुर्णां द्वितीयमुद्धरेत् प्र मित्रयोर्वरुणयोरिति षट् काव्येभिरदाभ्येति तिस्रो मित्रस्य चर्षणीधृत इति चतस्रो मैत्र्! यो यच्चिद्धि ते विश इति वारुणं ९ एतस्य तृचमावपेत मैत्रावरुणो नित्यादधिकं स्तोमकारणात् १० पञ्च सप्तदशे । नवैकविंशे ऽ द्वादश चतुर्विंशे । पञ्चदश त्रिणवे । एकविंशतिं त्रयस्त्रिंशे । द्वात्रिंशतं चतुश्चत्वारिंशे । षट्त्रिंशतमष्टाचत्वारिंशे ११ एकाल्पीयसीर्वा १२ एकाहेष्वेकभूयसीर्वा १३ नारम्भणीया न पर्यासा अन्त्या ऐकाहिकास्तृचाः पर्यासस्थानेषु १४ ब्राह्मणाच्छंसिनः सुरूपकृत्नुमूतय इति षट् सूक्तानि १५ आवाप उक्तो मैत्रावरुणेन १६ इहेन्द्रा ग्नी इन्द्रा ग्नी आगतं ता हुवे ययोरिदमिति नवेयं वामस्य मन्मन इत्येकादश यज्ञस्य हि स्थ इत्यच्छावाकस्य १७ आयात्विन्द्रो ऽवस इति मरुत्वतीयमान इन्द्र इति निष्केवल्यं प्रथमस्याभि-प्लविकस्य १८ मध्यन्दिन इत्युक्त एते शस्त्रे प्रतीयात् १९ अहीनसूक्तस्थान एवा त्वामिन्द्र यन्न इन्द्र कथामहामिन्द्र ः! पूर्भिद्य एक इद्यस्तिग्मशृङ्ग इमा-मूष्विच्छन्ति त्वा शासद्वह्निरिति संपाताः २० एकैकस्य त्रयस्त्रयः २१ उक्ता मरुत्वतीयैः २२ युञ्जते मन इहेहव इति चतस्रो देवान् हुव इति वैश्वदेवं २३ ५ 7.5

द्वितीयस्य चतुर्विंशेनाज्यं १ वायो ये ते सहस्रिण इति द्वे तीव्राः सोमास आगहीत्येको भा देवादि विस्पृशेति द्वे शुक्रस्याद्यगवाशिर इत्येकाऽयं वां मित्रावरुणेति पञ्च तृचाः २ गार्त्समदं प्रउगमित्येतदाचक्षते ३ विश्वानरस्य वस्पतिमिन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ इन्द्र सोमं यात ऊतिरवमेति मध्यन्दिनः ४ भारद्वाजो होता चेत् प्रकृत्या ५ चातुर्विंशिकं तृतीयसवनं विश्वो देवस्य नेतुरित्येका तत् सवितुर्वरेण्यमिति द्वे आविश्वदेवं सप्ततिमिति तु वैश्वदेवस्य प्रतिपदनुचरौ ६ आज्यप्रउगे प्रतिदनचराश्चोभ-योर्युग्मेष्वेवमभिप्लवे ७ ६ 7.6

तृतीयस्य त्र्! यर्यमा यो जात एवेति मध्यन्दिनः १ तद्देवस्य घृतेन द्यावापृथिवी इति तिस्रोऽनश्वो जातः परावतो य इति वैश्वदेवं वैश्वानराय धिषणां धारावरा मरुतस्त्वमग्ने प्रथमो अङ्गिरा इत्याग्निमारुतं चतुर्थस्योग्रो जज्ञ इति निष्केवल्यं २ ह्वयाम्यग्निमस्य मे द्यावापृथिवी इति तिस्रस्ततं मे अप इति वैश्वदेवं ३ वैश्वानरं मनसेति तिस्रः प्र ये शुम्भन्ते जनस्य गोपा इत्याग्निमारुतं ४ पञ्चमस्य कया शुभा यस्तिग्मशृङ्ग इति मध्यन्दिनः ५ कयाशुभीयस्य तु नवम्युत्तमा-ऽन्यत्रापि यत्र निविद्धानं स्यात् ६ घृतवती भुवनानामभिश्रियेन्द्र ऋभुभि-र्वाजवद्भिरिति तृचौ कदु प्रियायेति वैश्वदेवं ७ पृक्षस्य वृष्णो वृष्णे शर्द्धाय नूचित् सहोजा इत्याग्निमारुतं षष्ठस्य सावित्रार्भवे तृतीयेन वैश्वानरीयञ्च कतरा पूर्वोषासानन्तेति वैश्वदेवं प्रयज्यव इमं स्तोममित्याग्निमारुतं ८ इत्यभिप्लवः षडहः ९ तस्याग्निष्टोमावभितः । उक्थ्या मध्ये १० उक्थ्येषु स्तोत्रियानुरूपाः ११ मैत्रावरुणस्य १२ ७ 7.7

एह्यूषु ब्रवाणि त आग्निरगामि भारतः प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा प्र मंहिष्ठाय गायत प्र सो अग्ने तवोतिभिरग्निं वो वृधन्तमग्ने यं यज्ञमध्वरं यजिष्ठं त्वाऽववृमहे यः समिधाय आहुत्याऽऽते अग्न इधीमह्युभेसुश्चन्द्र सर्पिष इति द्वे एका चाग्निं तं मन्ये यो वसुरा ते वत्सो मनो यमदाऽऽग्ने स्थूरं रयिं भर प्रेष्ठं वो अतिथिं श्रेष्ठं यविष्ठ भारत भद्रो नो अग्निराहुतो यदी घृतेभिराहुत आ घाये अग्निमिन्धत इमा अभिप्रणोनुम इति १ अथ ब्राह्मणाच्छंसिनोऽभ्रातृव्यो अनात्वं मा ते अमाजुरो यथैवाह्यसि वीरयुरेवाह्यस्य सूनृता तन्ते मदं गृणीमसि तम्वभि प्रगायत वयमु त्वामपूर्व्य यो न इदमिदं पुरेन्द्रा य साम गायत सखाय आशिषामहि य एक इद्विदयते य इन्द्र सोमपातम एन्द्र नो गध्येदु मध्वो मदि-न्तरमेतो न्विन्द्र स्तवाम सखायः स्तुहीन्द्रं व्यश्वव त्वन्न इन्द्रा भर वयमुत्वामपूर्व्य यो न इदमिदं पुराऽऽयाहीम इन्दव इति समाहार्योऽनुरूपोऽभ्रातृव्यो अनात्वं मा ते अमाजुरो यथेति २ अथाछावाकस्येन्द्रं विश्वा अवीवृधन्नुक्थ्यमिन्द्रा य शंस्यं श्रुधीहवन्तिरश्च्या आश्रुत्कर्ण श्रुधीहवमसावि सोम इन्द्र त इममिन्द्र सुतं पिब यदिन्द्र चित्रमेहना यस्ते साधिष्ठोऽवसे पुरां भिन्दुर्युवा कविर्वृषा ह्यसि राधसे गायन्ति त्वा गायत्रिण आ त्वा गिरो रथीरिवेति ३ सूक्तानामेकैकं शिष्ट्वाऽऽवपेरन् ४ ८ 7.8

स्तोमे वर्धमाने १ इमा उ वां भृमयो मन्यमाना इति तिस्र इन्द्रा को वामिति सूक्ते श्रुष्टी वां यज्ञो युवां नरा पुनीषे वामिमानि वां भागधेयानीत्येतस्य यथार्थं मैत्रावरुणः २ यस्तस्तम्भयो अद्रि भिद्यज्ञे दिव इति सूक्ते अस्तेवसुप्रतरमाया-त्विन्द्र ः! स्वपतिरिमान्धियमिति ब्राह्मणाच्छंसी ३ विष्णोर्नुकमिति सूक्ते परो मात्रयेत्यच्छावाकः ४ ९ 7.9

पृष्ठ्यस्याभिप्लवेनोक्ते अहनी आद्ये आद्याभ्यां १ तृतीयसवनानि चान्वहं २ उपप्रयन्त इति तु प्रथमेऽहन्याज्यं । अग्निं दूतमिति द्वितीये ३ तृतीये युक्ष्वाहीत्याज्यं ४ वायवायाहि वीतय इत्येका वायो याहि शिवादिव इति द्वे इन्द्र श्च वायवेषां सुतानामिति द्वयोरन्यतरां द्विरामित्रे वरुणे वयमश्विनावेह गच्छतमायाह्यद्रि भिः सुतं सजूर्विश्वेभिर्देवेभिरुत नः प्रियाप्रियास्वित्यौष्णिहं प्रउगं ५ उत्तमेऽन्वृचमभ्यासाश्चतुरक्षराः ६ न वा ७ तृतीयेनाभिप्ल-विकेनोक्तो मध्यन्दिनः । तं तमिद्रा धसे महे त्रय इन्द्र स्य सोमा इति मरुत्वतीयस्य प्रतिपदनुचरौ । वैरूपं चेत् पृष्ठं यद्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति प्रगाथौ स्तोत्रियानुरूपौ ८ १० 7.10

चतुर्थेऽहनि यत् प्रातरनुवाकप्रतिपद्यर्धर्चाद्यो न्यूङ्खः १ द्वितीयं स्वरमोकारं त्रिमात्रमुदात्तन्त्रिः २ तस्य तस्य चोपरिष्टादपरिमितान् पञ्च वार्धौ-काराननुदात्तान् ३ उत्तमस्य तु त्रीन् ४ पूर्वमक्षरं निहन्यते न्यूङ्खमाने ५ तदपि निदर्शनायोदाहरिष्यामः ६ आपो३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरु रेवतीः क्षयथा हि वस्वः क्रतुञ्च भद्रं विभृथामृतञ्च । रायो३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरुश्च स्थः स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयोधो३मापो३ ७ आग्निं न स्ववृक्तिभिरित्याज्यं ८ तस्योत्तमावर्जं तृतीयेषु पादेषु न्यूङ्खो निनर्दश्च ९ उक्तो न्यूङ्खः १० स्वरादिरन्त ओकारश्चतुर्निनर्दः ११ उदात्तौ प्रथमोत्तमौ । अनुदात्तावितरौ । उत्तरोऽनुदात्ततरः १२ प्लुतः प्रथमः । मकारान्त उत्तमः । तदपि निदर्शनायोदाहरिष्यामः १३ आग्निं न स्ववृक्तिभिः । होतारन्त्वा वृणीमहे । यज्ञो३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरु यस्तीर्णबर्हिषे विवोमदो३ ओओओ३म् शीरं पावकशोचिषं विवक्षसो३माग्निं न स्ववृक्तिभिः होतारं त्वा वृणीमहे १४ ओ३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरु मदेथ मदैवो३ ओओओ३ मोथामो दैवो३मित्यस्य प्रतिगरः १५ अपि वोदात्तादनुदात्तं स्वरितमुदात्तमिति चतुर्निनर्दः १६ तदपि निदर्शनायोदा-हरिष्यामः । आग्निं न स्ववृक्तिभिः । होतारं त्वा वृणीमहे । यज्ञो३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरु यस्तीर्णबर्हिषे विवोमदो३ ओ३ ओ३ ओ३म् शीरं पावकशोचिषं विवक्षसो३माग्निं न स्ववृक्तिभिः । होतारं त्वा वृणीमहे । ओ३ रुरुरुरुरु ओ३ रुरुरुरुरु ओ३ रुरुरु मदेथमदैवो३ ओ३ ओ३ ओ३मोथामो दैवो३मित्यस्य प्रतिगरः १७ प्रथमादर्धौकारादध्वर्युर्न्यूङ्खयेत् १८ प्रथमात् द्वितीयाद्वा १९ व्युपरमं हैके २० यथा वा सम्पादयिष्यन्तो मन्येरन् २१ वायो शुक्रो अयामि ते विहि होत्रा अवीता वायो शतं हरीणामिन्द्र श्च वायवेषां सोमानामाचिकिता न सुक्रतू आ नो विश्वाभिरूतिभिस्त्यमु वो अप्रहणमपत्यं वृजिनं रिपुमम्बितमेनदीतम इत्यानुष्टुभं प्रउगं २२ एकपातिन्यः प्रथमः २३ तं त्वा यज्ञेभिरीमह इदं वसो सुतमन्ध इति मरुत्वतीयस्य प्रति-पदनुचरौ २४ श्रुधीहवनिन्द्र मरुत्वाँ इन्द्रे ति मरुत्वतीयं २५ अन्त्ये निविदं दध्यादनेकभावे सूक्तानां २६ वराजं चेत् पृष्ठं पिबा सोममिन्द्र मन्दतु त्वेति स्तोत्रियानुरूपौ २७ कुहश्रुत इद्रो युध्यस्य त इति निष्केवल्यं । श्रुधीहवीयस्य तु तृच आद्येऽर्धर्चादिषु न्यूङ्खः २८ एवं कुहश्रुतीयस्य २९ विराजां मध्यमेषु पादेषु ३० नित्य इह प्रतिगरो न्यूङ्खादिः ३१ प्रणवान्तः प्रणवे कुहश्रुतीयानां ३२ अर्धर्चशश्चैनदुत्तमावर्जं ३३ न ते गिरो अपि मृष्ये तुरस्य प्रवोमहे महिवृधे भरध्वमिति चतस्रस्तिस्रश्च विराजः ३४ तासामूर्ध्वमारम्भणीयाभ्य स्तृचाना-वपेरन् ३५ आद्यं मैत्रावरुणस्तस्योत्तमादिशस्तानां तृचं ब्राह्मणाच्छंसी ३६ तस्य चाच्छावाकः ३७ यजामह इन्द्र वज्रदक्षिणमिति द्वितीयानेवमेव ३८ पञ्चमेऽहनि यच्चिद्धि सत्यसोमपा इत्येकैकमेवमेव ३९ षष्ठेऽहनीन्द्रा य हि द्यौरसुरो अनम्नतेत्येवमेव ४० ११ 7.11

स्तोमे वर्धमाने को अघनर्यो वनेन वाय आयाह्यर्वाङित्यष्टर्चान्यावपेरन्नुपरिष्टात् पारुच्छेपीनां १ तैरप्यनतिशस्त ऐन्द्रा णि त्रैष्टुभान्यमरुच्छब्दान्यावपेरन् २ न त्वेतान्यनोप्यातिशंसनं ३ एकया द्वाभ्यां वा प्रातःसवने ४ अपरिमि-ताभिरुत्तरयोः सवनयोः ५ पञ्चमस्येममूषुवो अतिथिमुषर्बुधमिति नवाज्य ६ आ नो यज्ञं दिविस्पृशमिति द्वे आ नो वायो महेतन इत्येका रथेन पृथुपाजसा बहवः सूरचक्षस इमा उ वां दिविष्टयः पिबा सुतस्य रसिनो देवं देवं वो वसे देवं देवं बृहदुगायिषेव च इति बार्हतं प्रउगं ७ प्रगाथानेके द्वितीयोत्तमवर्जं ८ यत् पाञ्चजन्यया विशेन्द्र इत्सोमपा एक इति मरुत्वतीयस्य प्रतिपदनुचरौ । अवितासीत्थाहीन्द्र पिब तुभ्यमिति मरुत्वतीयं ९ शाक्वरं चेत् पृष्ठं महानाम्न्यस्तोत्रियः । ता अध्यर्धकारं नव प्रकृत्या तिस्रो भवन्ति १० ताभिः पुरीषपदान्युपसन्तनुयात् ११ पञ्चाक्षरशः पूर्वाणि पञ्च १२ सर्वाणि वा यथानिशान्तं १३ योनिस्थाने तु यथानिशान्तं सपुरीषपदा उत्तमेन सन्तानः १४ स्वादोरित्था विषूवत उप नो हरिभिः सुतमिन्द्रं विश्वा अवीवृधन्निति त्रयस्तृचा अनुरूपः १५ प्रेदं ब्रह्मेन्द्रो मदाय सत्रा मदास इति निष्केवल्यं १६ पाङ्क्ते पूवा सूक्ते मरुत्वतीये पाङ्के निष्केवल्ये १७ आद्ये तु त्रिष्टुबुत्तमे १८ तयोरवसाने शतक्रतो समप्सुजिदिति मरुत्वतीये १९ शचीपतेऽनेद्येति निष्केवल्ये निष्केवल्ये २० १२ 7.12

सत्राणामधिकारप्रवर्तनम्
७.१।१ सत्राणाम् । (सोम अहीन सत्र)
७.१।२ उक्ता दीक्षित उपसदः । (सोम अहीन सत्र)
७.१।३ एतेन अह्ना सुत्यानि । (सोम अहीन सत्र)
७.१।४ प्रातर् अनुवाक आद्य् दवसानीय अन्तान्य् अन्त्यानि । (सोम अहीन सत्र)
७.१।५ पत्नी सम्याज अन्तानि इतराणि । (सोम अहीन सत्र)
७.१।६ द्रप्स प्राशन सख्य विसर्जने त्व् अन्त्य एव । (सोम अहीन सत्र)
७.१।७ ध्रुवाः शस्त्राणाम् आतानाः । (सोम अहीन सत्र)
७.१।८ सूक्तान्य् एव सूक्त स्थानेष्व् अहीनेषु । (सोम अहीन सत्र)
७.१।९ दैवतेन व्यवस्थाः । (सोम अहीन सत्र)
७.१।१० तृचाः प्रउगे । (सोम अहीन सत्र)
७.१।११ सर्व अहर् गणेषु तायमान रूपाणाम् प्रथमाद् अह्नः प्रवर्तेते अभ्यास अतिप्रैषौ । (सोम अहीन सत्र)
७.१।१२ अह्न उत्तमे शस्त्रे परिधानीयाया उत्तमे वचन उत्तमम् चतुर् अक्षरम् द्विर् उक्त्वा प्रणुयात् । (सोम अहीन सत्र)
७.१।१३ द्वितीय आदिषु त्यम् ऊ षु वाजिनम् देव जूतम् इति तार्क्ष्यम् अग्रे निष्केवल्य सूक्तानाम् । (सोम अहीन सत्र)
७.१।१४ जात वेदसे सुनवाम सोमम् इत्य् आग्नि मारुते जात वेदस्यानाम् । (सोम अहीन सत्र)
७.१।१५ आरम्भणीयाः पर्यासान् कद्वतो अहर् अहः शस्यानि इति होत्रका द्वितीय आदिष्व् एव । (सोम अहीन सत्र)
७.१।१६ तानि सर्वाणि सर्वत्र अन्यत्र अह्न उत्तमात् । (सोम अहीन सत्र)
७.१।१७ वैकल्पिकान्य् अग्निष्टोमे अहर् गण मध्य गते । (सोम अहीन सत्र)
७.१।१८ अग्निष्टोम अयनेषु वा । (सोम अहीन सत्र)
७.१।१९ अन्यान्य् अभ्यास अतिप्रैषाभ्याम् इति कौत्सो विकृतौ तद् गुण भावात् । (सोम अहीन सत्र)
७.१।२० नित्यानि होतुर् इति गौतमः संघात आदाव् अनुप्रवृत्तत्वाद् अच्युत शब्दत्वाच् च । (सोम अहीन सत्र)
७.१।२१ होत्रकाणाम् अपि गाणगारिर् नित्यत्वात् सत्र धर्म अन्वयस्य । (सोम अहीन सत्र)
७.१।२२ प्रगाथ तृच सूक्त आगमेष्व् ऐकाहिकम् तावद् उद्धरेत् । (सोम अहीन सत्र)

चतुर्विंशसंज्ञकेऽहनि स्तोत्रियानुरूपाणां कथनम्
७.२।१ चतुर्विंशे होता अजनिष्ट इत्य् आज्यम् । (सोम षडह हौत्रक शस्त्रस्)
७.२।२ आ नो मित्रा वरुणा मित्रम् वयम् हवामहे मित्रम् हुवे पूत दक्षम् अयम् वाम् मित्रा वरुणा पुरूरुणा चिद् ध्य् अस्ति प्रति वाम् सूर उदित इति षळह स्तोत्रिया मैत्रावरुणस्य । (सोम षडह हौत्रक शस्त्रस्) (सेचोन्दाज्य शस्त्र)
७.२।३ (आ याहि सुषुमा हि त इन्द्रम् इद् गाथिनो बृहद् इन्द्रेण सम् हि दृक्षस आद् अह स्वधाम् अन्व् इत्य् एका द्वे च इन्द्रो दधीचो अस्थभिर् उत् तिष्ठन्न् ओजसा सह भिन्धि विश्वा अपद्विष इति ब्राह्मणाच्छंसिनः । सोम षडह हौत्रक शस्त्रस्)
७.२।४ इन्द्र अग्नी आ गतम् सुतम् इन्द्रे अग्ना नमो बृहत् ता हुवे ययोर् इदम् इयम् वाम् अस्य मन्मन इन्द्र अग्नी युवाम् इमे यज्ञस्य हि स्थ ऋत्विजा इत्य् अच्छावाकस्य । (सोम षडह हौत्रक शस्त्रस्)
७.२।५ तेषाम् यस्मिन् स्तुवीरन् स स्तोत्रियः । (सोम षडह हौत्रक शस्त्रस्)
७.२।६ यस्मिंत् श्वः सो अनुरूपः । (सोम षडह हौत्रक शस्त्रस्)
७.२।७ एक स्तोत्रियेष्व् अहह्सु यो अन्यो अनन्तरः सो अनुरूपो न चेत् सर्वो अहर् गणः षळहो वा । (सोम षडह हौत्रक शस्त्रस्)
७.२।८ ऐकाहिकस् तथा सति । (सोम षडह हौत्रक शस्त्रस्)
७.२।९ अन्त्ये च । (सोम षडह हौत्रक शस्त्रस्)
७.२।१० ऊर्ध्वम् अनुरूपेभ्य ऋजु नीती नो वरुण इन्द्रम् वो विश्वतस् परि यत् सोम आसुते नर इत्य् आरम्भणीयाः शस्त्वा खान् खान् परिशिष्टान् आवपेरंश् चतुर्विंश महा व्रत अभिजिद् विश्वजिद् विषुवत्सु । (सोम षडह हौत्रक शस्त्रस्)
७.२।११ सर्व स्तोमेषु सर्व पृष्ठेषु च । (सोम षडह हौत्रक शस्त्रस्)
७.२।१२ ऊर्ध्वम् आवापात् प्रति वाम् सूर उदिते व्यन्तरिक्षम् अतिरत् श्वाव अश्वस्य सुन्वत इति तृचाः पर्यासाः । (सोम षडह हौत्रक शस्त्रस्)
७.२।१३ स त्व् एव मैत्रावरुणस्य षळह स्तोत्रिय उत्तमः सपर्यासः । (सोम षडह हौत्रक शस्त्रस्)
७.२।१४ तद् दैवतम् अन्यम् पूर्वस्य स्थाने कुर्वीत । (सोम षडह हौत्रक शस्त्रस्)
७.२।१५ अन्यत्र अपि सन्निपातेन तृचम् सूक्तम् वा अनन्तर्हितम् एक आसने द्विः शंसेत् । (सोम षडह हौत्रक शस्त्रस्)
७.२।१६ महा बालभिदम् चेत् शंसेद् ऊर्ध्वम् अनुरूपेभ्य आरम्भणीयाभ्यो वा नाभाकांस् तृचान् आवपेरन् गायत्री कारम् । (सोम षडह हौत्रक शस्त्रस्)
७.२।१७ सक्षपः परिष्वज इति मैत्रावरुणो यः ककुभो निधारय इति वा पूर्वीष्ट इन्द्र उपमातय इति ब्राह्मणाच्छंसी ता हि मध्यम् भराणाम् इत्य् अच्छावाकः । (सोम षडह हौत्रक शस्त्रस्)

७.३।१ मरुत्वतीये प्रैतु ब्रह्मण्स्पतिर् उत्तिष्ठ ब्रह्मणस्पत इति ब्राह्मणस्पत्याव् आवपते पूर्वौ नित्यात् । (सोम चतुर्विंश अह)
७.३।२ बृहद् इन्द्राय गायत नकिः सुदासो रथम् इति मरुत्वतीया ऊर्ध्वम् नित्यात् । (सोम चतुर्विंश अह)
७.३।३ कया शुभा इति च मरुत्वतीये पुरस्तात् सूक्तस्य शंसेत् । (सोम चतुर्विंश अह)
७.३।५ एक एकम् ब्राह्मणस्पत्यानाम् । (सोम चतुर्विंश अह)
७.३।६ एवम् मरुत्वतीयानाम् । (सोम चतुर्विंश अह)
७.३।७ ध्रुव इन्द्र निहवः । (सोम चतुर्विंश अह)
७.३।८ धाय्याश् च । (सोम चतुर्विंश अह)
७.३।९ बृहत् पृष्ठम् । (सोम चतुर्विंश अह)
७.३।१० रथन्तरम् वा । (सोम चतुर्विंश अह)
७.३।११ तयोर् अक्रियमाणस्य योनिम् शंसेत् । (सोम चतुर्विंश अह)
७.३।१२ वैरूप वैराज शाक्वर रैवतानाम् । (सोम चतुर्विंश अह)
७.३।१३ पृष्ठ्य स्तोत्रिया योन्यः । (सोम चतुर्विंश अह)
७.३।१४ अर्धर्चाः । (सोम चतुर्विंश अह)
७.३।१५ तासाम् विधानम् अन्वहम् । (सोम चतुर्विंश अह)
७.३।१६ ताभ्य ऊर्ध्वम् साम गाथान् । (सोम चतुर्विंश अह)
७.३।१७ उक्तो रथन्तरस्य । (सोम चतुर्विंश अह)
७.३।१८ उभयम् शृणवच् च न इति बृहतः । (सोम चतुर्विंश अह)
७.३।१९ इन्द्र त्रिधातु शरणम् त्वम् इन्द्र प्रतूर्तिषु मो षु त्वा वाघतश् च न इति सद् विपद उपसमस्येद् द्विपदाम् इन्द्रम् इद् देवतातय इति इतरेषाम् । (सोम चतुर्विंश अह)
७.३।२० पृष्ठ्य एव एक एकम् अन्वहम् । (सोम चतुर्विंश अह)
७.३।२१ तद् इद् आस इति च पुरस्तात् सूक्तस्य शंसेत् । (सोम चतुर्विंश अह)
७.३।२२ उक्थ पात्रम् चमसांश् च अन्तरा अतिग्राह्यान् भक्षयन्ति निष्केवल्ये । (सोम चतुर्विंश अह)
७.३।२३ नित्यो भक्ष जपः । (सोम चतुर्विंश अह)
७.३।२४ षोळश् पात्रेण भक्षिणः । (सोम चतुर्विंश अह)

होत्रकाणां शस्त्रकथनोपक्रमः
७.४।१ होत्रकाणाम् । ।(सोम चतुर्विंश अहः - होत्रकाः)
७.४।२ कया नश् चित्र आभुवत् कया त्वम् न ऊत्या मा चिद् अन्यद् विशंसत यच् चिद् धि त्वा जना इम इति स्तोत्रिय अनुरूपा मैत्रावरुणस्य । (सोम चतुर्विंश अहः - होत्रकाः)
७.४।२ तम् वो दस्म मृतीषहम् तत् त्वा यामि सुवीर्यम् अभिप्रवः सुराधसम् प्रसुश्रुतम् सुराधसम् वयम् घ त्वा सुतावन्तः का ईम् वेद सुते सचा विश्वाः पृतना अभिभूतरम् नरम् तम् इन्द्रम् जोहवीमि या इन्द्र भुव आ भर इत्य् एका द्वे च । (सोम चतुर्विंश दयfतेर्नोओन् होत्रकस्)
७.४।३ इन्द्रो मदाय वावृधे मदे मदे हि नो ददिः सुरूप कृत्नुम् ऊतये शुष्मिन्तमम् न ऊतये श्रायन्त इव सूर्यम् बण् महान् असि सूर्य उद् उ त्यद् दर्शतम् वपुर् उद् उ त्ये मधुमत्तमास् त्वम् इन्द्र प्रतूर्तिषु त्वम् इन्द्र यशा असि इन्द्र क्रतुम् न आ भर इन्द्र ज्येष्ठम् न आ भर आ त्वा सहस्रमा शतम् मम त्वा सूर उदित इति ब्राह्मणाच्छंसिनः । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
७.४।४ तरोभिर् वो विदद् वसुम् तरणिर् इत् सिषासति त्वाम् इदाह्नो नरो वयम् एनम् इदाह्यो यो राजा चर्षणीनाम् यः सत्रहा विचर्षणिः स्वादोर् इत्था विषूवत इत्था हि सोम इन् मद उभे यद् इन्द्र रोदसी अव यत् त्वम् शत क्रतो नकिष् टम् कर्मणा नशन् न त्वा बृहन्तो अद्रय उभयम् शृणवच् च न आवृषस्व पुरूवसो कदाचन स्तरीर् असि कदाचन प्रयुच्छसि यत इन्द्र भयामहे यथा गौरो अपाकृतम् यद् इन्द्र प्राग् उदग् यथा गौरो अपाकृतम् इत्य् अच्छावाकस्य । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
७.४।५ स्तोत्रिय अनुरूपाणाम् यद्य् अनुरूपे स्तुवीरन् स्तोत्रियो अनुरूपः । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
७.४।६ ऊर्ध्वम् स्तोत्रिय अनुरूपेभ्यः कस् तम् इन्द्र त्वम् वसुम् कन् नव्यो अतसीनाम् कद् ऊ न्व् अस्य अकृतम् इति कद्वन्तः प्रगाथाः । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
७.४।७ अप प्राच इन्द्र विश्वान् अमित्रान् ब्रह्मणा ते ब्रह्म युजा युनज्म्य् उरुम् नो लोकम् अनुनेषि विद्वान् इति कद्वद्भ्य आरम्भणीयाः । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
७.४।८ ऊर्ध्वम् आरम्भणीयाभ्यः सद्यो ह जात इत्य् अहर् अहः शस्यम् मैत्रावरुणो अस्मा इद् उ प्रतवसे शासद् वह्निर् इति इत्राव् अहीन सूक्ते । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
७.४।९ आ सत्यो यात्व् इत्य् अहीन सूक्तम् द्वितीयम् मैत्रावरुण उद् उ ब्रह्माण्य् अभितष् टे वा इति इतराव् अहर् अहः शस्ये । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
७.४।१० नूनम् सात इत्य् अन्तमुत्तमम् । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
७.४।११ अहीन सूक्तानि षळह स्तोत्रियान् आवपत्सु । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
७.४।१२ उद् उ ष्य देवः सविता हिरण्यया इति तिस्रस् ते हि द्यावा पृथिवी यज्ञस्य वो रथ्यम् इति वैश्वदेवम् । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
७.४।१३ पृक्षस्य वृष्णो वृष्णे शर्धाय यज्ञेन वर्धत इत्य् आग्निमारुतम् । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
७.४।१४ अग्निष्टोम इदम् अहः । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)
७.४।१५ उक्थ्यो वा । (सोम चतुर्विंश अहःfतेर्नोओन् होत्रकाः)

षण्णामभिप्लवपृष्ठ्याहानामुपक्रमः
७.५।१ अभिप्लव पृष्ठ्यानि । (सोम आभिप्लव षडह)
७.५।२ रथन्तर पृष्ठान्य् अयुजानि । (सोम आभिप्लव षडह)
७.५।३ बृहत् पृष्ठानि इतराणि । (सोम आभिप्लव षडह)
७.५।४ तृतीय आदिषु पृष्ठ्यस्य अन्वहम् द्वितीयनि वैरूप वैराज शाक्वर रैवतानि । (सोम आभिप्लव षडह)
७.५।५ तेषाम् यथा स्थाने क्रियायाम् योनीः शंसेत् । (सोम आभिप्लव षडह)
७.५।६ सर्वत्र च अस्व योनि भावे अन्यत्र आश्विनात् । (सोम आभिप्लव षडह)
७.५।७ यज्ञायज्ञीयस्य त्व् अक्रियमाणस्य अपि सानुरूआम् योनिम् व्याहावम् शंसेद् ऊर्ध्वम् इतरस्य अनुरूपात् । (सोम आभिप्लव षडह)
७.५।८ होत्रकाः परिशिष्टान् आवापान् उद्धृत्य । (सोम आभिप्लव षडह)
७.५।९ मित्रम् वयम् हवामहे मित्रम् हुवे पूत दक्षम् अयम् वाम् मित्रा वरुण नो मित्रा वरुणा इति तृचाः । (सोम आभिप्लव षडह)
७.५।९ प्र वो मित्राय इति चतुर्णाम् द्वितीयम् उद्धरेत् प्र मित्रयोर् वरुणयोर् इति षट् काव्येभिर् अदाभ्य इति तिस्रो मित्रस्य चर्षणीधृत इति चतस्रो मैत्र्यो यच् चिद् धि ते विश इति वारुणम् । (सोम आभिप्लव षडह)
७.५।१० एतस्य तृचम् आवपेत मैत्रावरुणो नित्याद् अधिकम् स्तोम कारणात् । (सोम आभिप्लव षडह)
७.५।११ पञ्च सप्तदशे । नव एकविंशे । द्वादश चतुर्विंशे । पञ्चदश त्रिणवे । एकविंशतिम् त्रयस् त्रिंशे । द्वात्रिंशतम् चतुश् चत्वारिंशो । षट् त्रिंशतम् अष्टा चत्वारिंशे । (सोम आभिप्लव षडह)
७.५।१२ एक अल्पीयसीर् वा । (सोम आभिप्लव षडह)
७.५।१३ एक अहेष्व् एक भूयसीर् वा । (सोम आभिप्लव षडह)
७.५।१४ न आरम्भणीया न पर्यासा अन्त्या ऐकाहिकास् तृचाः पर्यास स्थानेषु । (सोम आभिप्लव षडह)
७.५।१५ ब्राह्मणाच्छंसिनः सुरूप कृत्नुम् ऊतय इति षट् सूक्तानि । (सोम आभिप्लव षडह)
७.५।१६ आवाप उक्तो मैत्रावरुणेन । (सोम आभिप्लव षडह)
७.५।१७ इह इन्द्र अग्नी इन्द्र अग्नी आ गतम् ता हुवे ययोर् इदम् इति नव इयम् वामस्य मन्मन इत्य् एकादश यज्ञस्य हि स्थ इत्य् अच्छावाकस्य । (सोम आभिप्लव षडह)
७.५।१८ आ यात्व् इन्द्रो अवस इति मरुत्वतीयम् आ न इन्द्र इति निष्केवल्यम् प्रथमस्य आभिप्लविकस्य । (सोम आभिप्लव षडह)
७.५।१९ मध्यंदिन इत्य् उक्त एते शस्त्रे प्रतीयात् । (सोम आभिप्लव षडह)
७.५।२० अहीन सूक्त स्थान एवा त्वाम् इन्द्र यन् न इन्द्र कथा महाम् इन्द्र्ह पूर्भिद् य एक इद्द् यस् तिग्म शृङ्ग इमाम् ऊ ष्व् इच्छन्ति त्वा शासद् वह्निर् इति सम्पाताः । (सोम आभिप्लव षडह)
७.५।२१ एक एकस्य त्रयस् त्रयस् । (सोम आभिप्लव षडह)
७.५।२२ उक्ता मरुत्वतीयैः । (सोम आभिप्लव षडह)
७.५।२३ युञ्जते मन इहेह व इति चतस्रो देवान् हुव इति वैश्वदेवम् । (सोम आभिप्लव षडह)

७.६।१ द्वितीयस्य चतुर्विंशेन आज्यम् । (सोम आभिप्लव षडह द्वितीयमहः)
७.६।२ वायो ये ते सहस्रिण इति द्वे तीव्राः सोमास आ गहि इत्य् एका उभा देवा दिविस्पृशा इति द्वे, शुक्रस्याद्य गवाशिर इत्य् एका, अयम् वां मित्रावरुणा इति पञ्च तृचाः । (सोम आभिप्लव षडह द्वितीयमहः)
७.६।३ गार्त्समदम् प्रउगम् इत्य् एतद् आचक्षते । (सोम आभिप्लव षडह द्वितीयमहः)
७.६।४ विश्वानरस्य वस्पतिम् इन्द्र इत् सोमपा एक इति मरुत्वतीयस्य प्रतिपद् अनुचरौ इन्द्र सोमम् यात ऊतिर् अवमा इति मध्यंदिनः । (सोम आभिप्लव षडह द्वितीयमहः)
७.६।५ भारद्वाजो होता चेत् प्रकृत्या । (सोम आभिप्लव षडह द्वितीयमहः)
७.६।६ चातुर्विंशिकम् तृतीय सवनम् विश्वो देवस्य नेतुर् इत्य् एका तत् सवितुर् वरेण्यम् इति द्वे आ विश्व देवम् सप्ततिम् इति तु वैश्वदेवस्य प्रतिपद् अनुचरौ । (सोम आभिप्लव षडह द्वितीयमहः)
७.६।७ आज्य प्रउगे प्रतिपद् अनुचराश् च उभयोर् युग्मेष्व् एवम् अभिप्लवे । (सोम आभिप्लव षडह द्वितीयमहः)

७.७।१ तृतीयस्य त्र्यर्यमा(५.२९.१) यो जात एव(२.१२) इति मध्यंदिनः । (सोम आभिप्लव षडह तृतीयमहः)
७.७।२ तद् देवस्य घृतेन द्यावा पृथिवी इति तिस्रो अनश्वो जातः परावतो य इति वैश्वदेवम् वैश्वानराय धिषणाम् धारावरा मरुतस् त्वम् अग्ने प्रथमो अङ्गिरा इत्य् आग्निमारुतम् चतुर्थस्य उग्रो जज्ञ इति निष्केवल्यम् । (सोम आभिप्लव षडह तृतीयमहः)
७.७।३ ह्वयाम्य् अग्निम् अस्य मे द्यावा पृथिवी इति तिस्रस् ततम् मे अप इति वैश्वदेवम् । (सोम आभिप्लव षडह चतुर्थमहः)
७.७।४ वैश्वानरम् मनसा इति तिस्रः प्र ये शुम्भन्ते जनस्य गोपा इत्य् आग्निमारुतम् । (सोम आभिप्लव षडह चतुर्थमहः)
७.७।५ पञ्चमस्य कया शुभा यस् तिग्म शृङ्ग इति मध्यंदिनः । (सोम आभिप्लव षडह पञ्चममहः)
७.७।६ कया शुभीयस्य तु नवम्य् उत्तमा अन्यत्र अपि यत्र निविद्धानम् स्यात् । (सोम आभिप्लव षडह पञ्चममहः)
७.७।७ घृतवती भुवनानाम् अभिश्रिया इन्द्र ऋभुभिर् वाजवद्भिर् इति तृचौ कद् उ प्रियाय इति वैश्वदेवम् । (सोम आभिप्लव षडह पञ्चममहः)
७.७।८ पृक्षस्य वृष्णो वृष्णे शर्धाय नू चित् सहोजा इत्य् आग्निमारुतम् षष्ठस्य सावित्र् आर्भवे तृतीयेन वैश्वानरीयम् च कतरा पूर्वा उषासा नक्ता इति वैश्वदेवम् प्रयज्यव इमम् स्तोमम् इत्य् आग्निमारुतम् । (सोम आभिप्लव षडह सिष्द्दय्)
७.७।९ इत्य् अभिप्लवः षळहः । (सोम आभिप्लव षडह)
७.७।१० तस्य अग्निष्टोमाव् अभितः । उक्थ्या मध्ये । (सोम आभिप्लव षडह)
७.७।११ उक्थ्येषु स्तोत्रिय अनुरूपाः । (सोम आभिप्लव षडह)
७.७।१२ मैत्रावरुणस्य । (सोम आभिप्लव षडह)

७.८।१ एह्य् ऊ षु ब्रवाणि त आग्निर् अगामि भारतः प्र वो वाजा अभिद्यवो अभि प्रयांसि वाहसा, प्र मंहिष्ठाय गायत, प्र सो अग्ने तव ऊतिभिर्, अग्निम् वो वृधन्तम् अग्ने यम् यज्ञम् अध्वरम् यजिष्ठम् त्वा वा ववृमहे यः समिधाय आहुत्या आ ते अग्न इधीमह्य् उभे सुश्चन्द्र सर्पिष इति द्वे एका च अग्निम् तम् मन्ये यो वसुर् आ ते वत्सो मनो यद् अदा अग्ने स्थूरम् रयिम् भर प्रेष्ठम् वो अतिथिम् श्रेष्ठम् यविष्ठ भारत भद्रो नो अग्निर् आहुतो यदी घृतेभिर् आहुत आ घा ये अग्निम् इन्धत इमा अभिप्रणोनुम् । (सोम आभिप्लव षडह उक्थ्य अहः)
७.८।२ अथ ब्राह्मणाच्छंसिनो अभ्रातृव्यो अना त्वम् माम् ते अमाजुरो यथा एवा ह्य् असि वीरयुर् एवा ह्य् अस्य सूनृता तम् ते मदम् गृणीमसि ताम् व् अभि प्र गायत वयम् उ त्वाम् अपूर्व्य । (सोम आभिप्लव षडह उक्थ्य अहः)
७.८।२ यो न इदम् इदम् पुरा इन्द्राय साम गायत सखाय आशिषामहि य एक इद् विदयते य इन्द्र सोम पातम् एन्द्र नो गध्य् एद् उ मध्वो मदिन्तरम् एतो न्व् इन्द्रम् स्तवाम सखाय । (सोम आभिप्लव षडह उक्थ्य अहः)
७.८।२ स्तुहि इन्द्रम् व्यश्ववद् ( विश्ववत्) त्वम् न इन्द्र आ भर वयम् उ त्वाम् अपूर्व्य यो न इदम् इदम् पुरा आ याहीम इन्दव इति समाहार्यो अनुरूपो अभ्रातृव्यो अना त्वम् मा ते अमाजुरो यथा इति । समा(सोम आभिप्लव षडह उक्थ्य अहः)
७.८।३ अथ अच्छावाकस्य इन्द्र्म विश्वा अवीवृधन्न् उक्थम् इन्द्राय शंस्यम् श्रुधी हवम् तिरश्च्या आश्रुत् कर्ण श्रुधी हवम् असावि सोम इन्द्र त इमम् इन्द्र सुतम् पिब यद् इन्द्र चित्र मेहना वस् ते साधिष्ठो अवसे पुराम् भिन्दुर् युवा कविर् वृषा ह्य् असि राधसे गायन्ति त्वा गायत्रिण आत्मा गिरो रथीर् इव इति । (सोम आभिप्लव षडह उक्थ्य अहः)
७.८।४ सूक्तानाम् एक एकम् शिष्ट्वा आवपेरन् । (सोम आभिप्लव षडह उक्थ्य अहः)

७.९।१ स्तोमे वर्धमाने । (सोम आभिप्लव षडह उक्थ्य अहः)
७.९।२ इमा उ वाम् भृमयो मन्यमाना इति तिस्र इन्द्रा को वाम् इति सूक्ते श्रुष्टी वाम् यज्ञो युवाम् नरा पुनीषे वाम् इमानि वाम् भागधेयानि इत्य् एतस्य यथा अर्थम् मैत्रावरुणः । (सोम आभिप्लव षडह उक्थ्य अहः)
७.९।३ यस् तस्तम्भयो अद्रिभिद् यज्ञे दिव इति सूक्ते अस्तेव सु प्रतरम् आ यात्व् इन्द्रः स्वपतिर् इमाम् धियम् इति ब्राह्मणाच्छंसी । (सोम आभिप्लव षडह उक्थ्य अहः)
७.९।४ विष्णोर् नु कम् इति सूक्ते परो मात्रया इत्य् अच्छावाकः । (सोम आभिप्लव षडह उक्थ्य अहः)

७.१०।१ पृष्ठ्यस्य अभिप्लवेन उक्ते अहनी आद्ये आद्याभ्याम् । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।२ तृतीय सवनानि च अन्वहम् । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।३ उप प्रयन्त इति तु प्रथमो अहन्य् आज्यम् । अग्निम् दूतम् इति द्वितीये । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।४ तृतीये युक्ष्व हि इत्य् आज्यम् । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।५ वायव् आ याहि वीतय इत्य् एका वायो याहि शिवा दिव इति द्वे इन्द्रश् च वायव् एषाम् सुतानाम् इति द्वयोर् अन्यतराम् द्विर् आ मित्रे वरुणे वयम् अश्विनाव् एह गच्छतम् आ याह्य् अद्रिभिः सुतम् सजूर् विश्वेभिर् देवेभिर् उत नः प्रिय अप्रियास्व् इत्य् औष्णिहम् प्रउगम् । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।६ उत्तमे अन्वृचम् अभ्यासाश् चतुर् अक्षराः । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।७ न वा । (सोम पृष्ठ्य षडह १३ अहः)
७.१०।८ तृतीयेन आभिप्लविकेन उक्तो मध्यंदिनः । तम् तम् इद् राधसे महे त्रय इन्द्रस्य सोमा इति मरुत्वतीयस्य प्रतिपद् अनुचरौ । वैरूपम् चेत् पृष्ठम् यद् द्याव इन्द्र तृ शतम् यद् इन्द्र यावतस् त्वम् इत् प्रगाथौ स्तोत्रिय अनुरूपौ । (सोम पृष्ठ्य षडह १३ अहः)

७.११।१ चतुर्थे अहन्य् यत् प्रातर् अनुवाक प्रतिपद्य् अर्धर्च आद्यो न्यूङ्खः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।२ द्वितीयम् स्वरम् ओकारम् त्रिमात्रम् उदात्तम् त्रिः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।३ तस्य तस्य च उपरिष्टाद् अपरिमितान् पञ्च वा अर्ध ओकारान् अनुदात्तान् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।४ उत्तमस्य तु त्रीन् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।५ पूर्वम् अक्षरम् निहन्यते न्यूङ्खमाने । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।६ तद् अपि निदर्शनाय उदाहरिष्यामः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।७ ॐॐॐॐॐमीट्ट्Eड् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।८ अग्निम् न स्ववृक्तिभिर् इत्य् आज्यम् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।९ तस्य उत्तमा वर्जम् तृतीयेषु पादेषु न्यूङ्खो निनर्दश् च । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।१० उक्तो न्यूङ्खः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।११ स्वर आदिर् अन्त ओकारश् चतुर् निनर्दः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।१२ उदात्तौ प्रथम उत्तमौ । अनुदात्ताव् इतरौ । उत्तरो अनुदात्ततरः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।१३ प्लुतः प्रथमः । मकार अन्त उत्तमः । तद् अपि निदर्शनाय उदाहरिष्यामः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।१४ आग्निम् न स्ववृक्तिभिः । होतारम् त्वा वृणीमहे । ॐॐॐॐॐमीट्ट्Eड् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।१५ ॐॐॐॐमीट्ट्Eड् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।१६ अपि वा उदाताद् अनुदात्तम् स्वरितम् उदात्तम् इति चतुर् निनर्दः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।१७ ॐॐॐॐॐमीट्ट्Eड् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।८ प्रथमाद् अर्ध ओकाराद् अध्वर्युर् न्यूङ्खयेत् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।१९ प्रथमाद् द्वितीयाद् वा । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।२० व्युपरमम् ह एके । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।२१ यथा वा सम्पादयिष्यन्तो मन्येरन् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।२२ वायो शुक्रो अयामि ते विहि होत्रा अवीता वायो शतम् हरीणाम् इन्द्रश् च वायव् एषाम् सोमानाम् आचिकिता न सुक्रतू आ नो विश्वाभिर् ऊतिभिस् त्यम् उ वो अप्रहणम् अपत्यम् वृजिनम् रिपुम् अम्बितमे नदीतम इत्य् आनुष्टुभम् प्रउगम् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।२३ एकपातिन्यः प्रथमः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।२४ तम् त्वा यज्ञेभिर् ईमह इदम् वसो सुतम् अन्ध इति मरुत्वतीयस्य प्रतिपद् अनुचरौ । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।२५ श्रुधी हवम् इन्द्र मरुत्वान् इन्द्र इति मरुत्वतीयम् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।२६ अन्त्ये निविदम् दध्याद् अनेक भावे सूक्तानाम् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।२७ वैराजम् चेत् पृष्ठम् पिबा सोमम् इन्द्र मन्दतु त्वा इति स्तोत्रिय अनुरूपौ । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।२८ कुह श्रुत इन्द्रो युध्यस्व त इति निष्केवल्यम् । श्रुधी हवीयस्य तु तृच आद्ये अर्धर्च आदिषु न्यूङ्खः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।२९ एव्म कुह श्रुतीयस्य । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।३० विराजाम् मध्यमेषु पादेषु । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।३१ नित्य इह प्रतिगरो न्यूङ्ख आदिः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।३२ प्रणव अन्तः प्रणवो कुह श्रुतीयानाम् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।३३ अर्धर्चशश् च एनद् उत्तमा वर्जम् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।३४ न ते गिरो अपि मृष्ये तुरस्य प्र वो महे महिवृधे भरध्वम् इति चतस्रस् तिस्रश् च विराजः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।३५ तासाम् ऊर्ध्वम् आरम्भणीयाभ्यस् त्चान् आवपेरन् । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।३६ आद्यम् मैत्रावरुनस् तस्य उत्तम आदि शस्तानाम् तृचम् ब्राह्मणाच्छंसी । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।३७ तस्य च अच्छावाकः । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।३८ यजामह इन्द्र वज्र दक्षिणम् इति द्वितीयान् एवम् एव । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।३९ पञ्चमे अहनि यच् चिद् धि सत्य सोमपा इत्य् एक एकम् एवम् एव । (सोम पृष्ठ्य षडह चतुर्थमहः)
७.११।४० षष्ठे अहनि इन्द्राय ह द्यौर् असुरो अनम्नत इत्य् एवम् एव । (सोम पृष्ठ्य षडह चतुर्थमहः)

७.१२।१ स्तोमे वर्धमाने को अद्य नर्यो वनेन वाय आ याह्य् अर्वान् इत्य् अष्टर्चान्य् आवपेरन्न् अरिष्टात् पारुच्छेपीनाम् । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।२ तैर् अप्य् अनतिशस्त ऐन्द्राणि त्रैष्टुभान्य् अमरुत् शब्दान्य् आवपेरन् । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।३ न त्व् एतान्य् आनोप्य अतिशंसनम् । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।४ एकया द्वाभ्याम् वा प्रातः सवने । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।५ अपरिमिताभिर् उत्तरयोः सवनयोः । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।६ पञ्चमस्यम् इमम् ऊ षु वो अतिथिम् उषर्बुधम् इति नव आज्यम् । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।७ आ नो यज्ञम् दिविस्पृशम् इति द्वे आ नो वयो महेतन इत्य् एका रथेन पृथु पाजसा बहवः सूर चक्षस इमा उ वाम् दिविष्टयः पिबा सुतस्य रसिनो देवम् देवम् वो अवसे देवम् देवम् बृहद् उ गायिषे वाच इति बार्हतम् प्रौगम् । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।८ प्रगाथान् एके द्वितीय उत्तम वर्जम् । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।१० यत् पाञ्चजन्यया विश इन्द्र इत् सोमपा एक इति मरुत्वतीयस्य प्रतिपद् अनुचरौ । अवितासि इत्था हि इन्द्र पिब तुभ्यम् इति मरुत्वतीयम् । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।१० शाक्वरम् चेत् पृष्ठम् महानाम्न्य स्तोत्रियः । आ अध्यर्धकारम् नव प्रकृत्या तिस्रो भवन्ति । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।११ ताभिः पुरीष पदान्य् उपसंतनुयात् । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।१२ पञ्च अक्षरशः पूर्वाणि पञ्च । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।१३ सर्वाणि वा यथा निशान्तम् । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।१४ योनि स्थाने तु यथा निशान्तम् सपुरीष पदा उत्तमेन संतानः । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।१५ स्वादोर् इत्था विषूवत उप नो हरिभिः सुतम् इन्द्रम् विश्वा अवीवृधन्न् इति त्रयस् तृचा अनुरूपः । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।१६ प्रेदम् ब्रह्म इन्द्रो मदाय सत्रा मदास इति निष्केवल्यम् । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।१७ पाङ्क्ते पूवे सूक्ते मर्त्वतीये पाङ्क्ते निष्केवल्ये । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।१८ आद्ये तु त्रिष्टुब्ः उत्तमे । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।१९ तयोर् अवसाने शत क्रतो समपुसुजिद् इति मरुत्वतीये । (सोम पृष्ठ्य षडह पञ्चममहः)
७.१२।२० शची पते अनेद्या इति निष्केवल्ये निष्केवल्ये । (सोम पृष्ठ्य षडह पञ्चममहः)