ऋग्वेदः सूक्तं ७.८३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.८२ ऋग्वेदः - मण्डल ७
सूक्तं ७.८३
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.८४ →
दे. इन्द्रावरुणौ। जगती।


युवां नरा पश्यमानास आप्यं प्राचा गव्यन्तः पृथुपर्शवो ययुः ।
दासा च वृत्रा हतमार्याणि च सुदासमिन्द्रावरुणावसावतम् ॥१॥
यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किं चन प्रियम् ।
यत्रा भयन्ते भुवना स्वर्दृशस्तत्रा न इन्द्रावरुणाधि वोचतम् ॥२॥
सं भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् ।
अस्थुर्जनानामुप मामरातयोऽर्वागवसा हवनश्रुता गतम् ॥३॥
इन्द्रावरुणा वधनाभिरप्रति भेदं वन्वन्ता प्र सुदासमावतम् ।
ब्रह्माण्येषां शृणुतं हवीमनि सत्या तृत्सूनामभवत्पुरोहितिः ॥४॥
इन्द्रावरुणावभ्या तपन्ति माघान्यर्यो वनुषामरातयः ।
युवं हि वस्व उभयस्य राजथोऽध स्मा नोऽवतं पार्ये दिवि ॥५॥
युवां हवन्त उभयास आजिष्विन्द्रं च वस्वो वरुणं च सातये ।
यत्र राजभिर्दशभिर्निबाधितं प्र सुदासमावतं तृत्सुभिः सह ॥६॥
दश राजानः समिता अयज्यवः सुदासमिन्द्रावरुणा न युयुधुः ।
सत्या नृणामद्मसदामुपस्तुतिर्देवा एषामभवन्देवहूतिषु ॥७॥
दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणावशिक्षतम् ।
श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः ॥८॥
वृत्राण्यन्यः समिथेषु जिघ्नते व्रतान्यन्यो अभि रक्षते सदा ।
हवामहे वां वृषणा सुवृक्तिभिरस्मे इन्द्रावरुणा शर्म यच्छतम् ॥९॥
अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः ।
अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥१०॥


सायणभाष्यम्

‘युवा नरा' इति दशर्चं त्रयोदशं सूक्तं वसिष्ठस्यार्षं जागतमैन्द्रावरुणम् । ‘युवां नरा' इत्यनुक्रान्तम् । आभिप्लविकेषूक्थ्येषु स्तोमवृद्धौ प्रशास्तुरिदं सूक्तमावापार्थम् । सूत्रितं च --- युवां नरा पुनीषे वाम् ' ( आश्व. श्रौ. ७. ९) इति ।।


यु॒वां न॑रा॒ पश्य॑मानास॒ आप्यं॑ प्रा॒चा ग॒व्यन्त॑ः पृथु॒पर्श॑वो ययुः ।

दासा॑ च वृ॒त्रा ह॒तमार्या॑णि च सु॒दास॑मिन्द्रावरु॒णाव॑सावतम् ॥१

यु॒वम् । न॒रा॒ । पश्य॑मानासः । आप्य॑म् । प्रा॒चा । ग॒व्यन्तः॑ । पृ॒थु॒ऽपर्श॑वः । य॒युः॒ ।

दासा॑ । च॒ । वृ॒त्रा । ह॒तम् । आर्या॑णि । च॒ । सु॒ऽदास॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । अव॑सा । अ॒व॒त॒म् ॥१

युवम् । नरा । पश्यमानासः । आप्यम् । प्राचा । गव्यन्तः । पृथुऽपर्शवः । ययुः ।

दासा । च । वृत्रा । हतम् । आर्याणि । च । सुऽदासम् । इन्द्रावरुणा । अवसा । अवतम् ॥१

हे “नरा नेताराविन्द्रावरुणौ “युवाम् । षष्ठ्यर्थे द्वितीया । युवयोः “आप्यं बन्धुभावं “पश्यमानासः पश्यन्तो युष्मद्बान्धवलाभार्थिनः “गव्यन्तः गा आत्मन इच्छन्तो यजमानाः “पृथुपर्शवः । पृथुर्विस्तीर्णः पर्शुः पार्श्वास्थि येषां ते तथोक्ताः । विस्तीर्णाश्वपर्शुहस्ताः सन्तः “प्राचा प्राचीनं “ययुः बर्हिराहरणार्थं गच्छन्ति। पर्श्वा हि बर्हिराच्छिद्यते । तथा च तैत्तिरीयकम्- ‘ अश्वपर्श्वा बर्हिरच्छैति' (तै. ब्रा. ३. २. २. १ ) इति । हे इन्द्रावरुणौ युवां “दासा दासान्युपक्षपयितॄणि “च वृत्राणि आवरकाणि शत्रुजातानि “आर्याणि “च कर्मानुष्ठानपराणि च शत्रुजातानि “हतं हिंस्तम्। अपि च “सुदासम् अस्मद्याज्यमेतत्संज्ञं राजानम् “अवसा रक्षणेन सार्धम् “अवतम् आगच्छतम् ॥


यत्रा॒ नर॑ः स॒मय॑न्ते कृ॒तध्व॑जो॒ यस्मि॑न्ना॒जा भव॑ति॒ किं च॒न प्रि॒यम् ।

यत्रा॒ भय॑न्ते॒ भुव॑ना स्व॒र्दृश॒स्तत्रा॑ न इन्द्रावरु॒णाधि॑ वोचतम् ॥२

यत्र॑ । नरः॑ । स॒म्ऽअय॑न्ते । कृ॒तऽध्व॑जः । यस्मि॑न् । आ॒जा । भव॑ति । किम् । च॒न । प्रि॒यम् ।

यत्र॑ । भय॑न्ते । भुव॑ना । स्वः॒ऽदृशः॑ । तत्र॑ । नः॒ । इ॒न्द्रा॒व॒रु॒णा॒ । अधि॑ । वो॒च॒त॒म् ॥२

यत्र । नरः । सम्ऽअयन्ते । कृतऽध्वजः । यस्मिन् । आजा । भवति । किम् । चन । प्रियम् ।

यत्र । भयन्ते । भुवना । स्वःऽदृशः । तत्र । नः । इन्द्रावरुणा । अधि । वोचतम् ॥२

"यत्र यस्मिन् संग्रामे “नरः मनुष्याः “कृतध्वजः उच्रिमेतध्वजाः “समयन्ते युद्धार्थं संगच्छन्ते । “यस्मिन् च "आजा आजौ युद्धे । “चन इति निपातद्वयसमुदायो विभज्य योजनीयः । किंच किमपि “प्रियम् अनुकूलं न “भवति अपि तु सर्वं दुष्करं भवति । “यत्र च युद्धे “भुवना भुवनानि भूतजातानि “स्वर्दृशः शरीरपातादूर्ध्वं स्वर्गस्य द्रष्टारो वीराश्च “भयन्ते बिभ्यति “तत्र तादृशे संग्रामे हे इन्द्रावरुणौ "नः अस्मान् “अधि “वोचतम् । अस्मत्पक्षपातवचनौ भवतम् ॥


सं भूम्या॒ अन्ता॑ ध्वसि॒रा अ॑दृक्ष॒तेन्द्रा॑वरुणा दि॒वि घोष॒ आरु॑हत् ।

अस्थु॒र्जना॑ना॒मुप॒ मामरा॑तयो॒ऽर्वागव॑सा हवनश्रु॒ता ग॑तम् ॥३

सम् । भूम्याः॑ । अन्ताः॑ । ध्व॒सि॒राः । अ॒दृ॒क्ष॒त॒ । इन्द्रा॑वरुणा । दि॒वि । घोषः॑ । आ । अ॒रु॒ह॒त् ।

अस्थुः॑ । जना॑नाम् । उप॑ । माम् । अरा॑तयः । अ॒र्वाक् । अव॑सा । ह॒व॒न॒ऽश्रु॒ता॒ । आ । ग॒त॒म् ॥३

सम् । भूम्याः । अन्ताः । ध्वसिराः । अदृक्षत । इन्द्रावरुणा । दिवि । घोषः । आ । अरुहत् ।

अस्थुः । जनानाम् । उप । माम् । अरातयः । अर्वाक् । अवसा । हवनऽश्रुता । आ । गतम् ॥३

हे इन्द्रावरुणौ "भूम्याः “अन्ताः पर्यन्ताः “ध्वसिराः सैनिकैर्ध्वस्ताः “सम् “अदृक्षत संदृश्यन्ते । तथा “दिवि द्युलोके “घोषः सैनिकानां शब्दश्च “आरुहत् आरूढोऽभूत् । “जनानाम् अस्मदीयानां भटानाम् “अरातयः शत्रवः “माम् “उप “अस्थुः उपस्थिताः। एवं प्रवर्तमानेऽस्मिन् युद्धे हे “हवनश्रुता । आह्वानशीलाविन्द्रावरुणौ “अर्वाक् अस्मदभिमुखम् “अवसा रक्षणेन सह “आ “गतम् आगच्छतम् ॥


इन्द्रा॑वरुणा व॒धना॑भिरप्र॒ति भे॒दं व॒न्वन्ता॒ प्र सु॒दास॑मावतम् ।

ब्रह्मा॑ण्येषां शृणुतं॒ हवी॑मनि स॒त्या तृत्सू॑नामभवत्पु॒रोहि॑तिः ॥४

इन्द्रा॑वरुणा । व॒धना॑भिः । अ॒प्र॒ति । भे॒दम् । व॒न्वन्ता॑ । प्र । सु॒ऽदास॑म् । आ॒व॒त॒म् ।

ब्रह्मा॑णि । ए॒षा॒म् । शृ॒णु॒त॒म् । हवी॑मनि । स॒त्या । तृत्सू॑नाम् । अ॒भ॒व॒त् । पु॒रःऽहि॑तिः ॥४

इन्द्रावरुणा । वधनाभिः । अप्रति । भेदम् । वन्वन्ता । प्र । सुऽदासम् । आवतम् ।

ब्रह्माणि । एषाम् । शृणुतम् । हवीमनि । सत्या । तृत्सूनाम् । अभवत् । पुरःऽहितिः ॥४

हे “इन्द्रावरुणा इन्द्रावरुणौ “वधनाभिः वधकरैरायुधैरप्रतिगतमप्राप्तं “भेदम् एतत्संज्ञं सुदासः शत्रुं “वन्वन्ता हिंसन्तौ युवां “सुदासम् । शोभनं ददातीति सुदाः । एतत्संज्ञं मम याज्यं राजानं “प्र “आवतं प्रकर्षेणारक्षतम् । “एषां तृत्सूनां मम याज्यानां “ब्रह्माणि स्तोत्राणि शृणुतम् अशृणुतम् । कदा। “हवीमनि । आहूयन्तेऽस्मिन् युद्धार्थं परस्परमिति हवीमा संग्रामः। तस्मिन् । यस्मादेवं तस्मात् "तृत्सूनाम् एतत्संज्ञानां मम याज्यानां “पुरोहितिः मम पुरोधानं "सत्या सत्यफलम् “अभवत् । तेषु यन्मम पौरोहित्यं तत् सफलं जातमित्यर्थः ॥


इन्द्रा॑वरुणाव॒भ्या त॑पन्ति मा॒घान्य॒र्यो व॒नुषा॒मरा॑तयः ।

यु॒वं हि वस्व॑ उ॒भय॑स्य॒ राज॒थोऽध॑ स्मा नोऽवतं॒ पार्ये॑ दि॒वि ॥५

इन्द्रा॑वरुणौ । अ॒भि । आ । त॒प॒न्ति॒ । मा॒ । अ॒घानि॑ । अ॒र्यः । व॒नुषा॑म् । अरा॑तयः ।

यु॒वम् । हि । वस्वः॑ । उ॒भय॑स्य । राज॑थः । अध॑ । स्म॒ । नः॒ । अ॒व॒त॒म् । पार्ये॑ । दि॒वि ॥५

इन्द्रावरुणौ । अभि । आ । तपन्ति । मा । अघानि । अर्यः । वनुषाम् । अरातयः ।

युवम् । हि । वस्वः । उभयस्य । राजथः । अध । स्म । नः । अवतम् । पार्ये । दिवि ॥५

हे “इन्द्रावरुणौ “अर्यः अरेः शत्रोः संबन्धीनि “अघानि आहन्तॄण्यायुधानि “मा माम् “अभ्या “तपन्ति अभितो बाधन्ते । अपि च “वनुषां हिंसकानां मध्ये “अरातयः अभिगमनशीलाः शत्रवश्व मामभितपन्ति । “युवं “हि युवां खलु “उभयस्य पार्थिवस्य दिव्यस्य “वस्वः वसुनो धनस्य “राजथः ईशाथे। राजतिरैश्वर्यकर्मा । “अध "स्म अतः कारणात् "पार्ये तरणीये “दिवि दिवसे युद्धदिने "नः अस्मान् "अवतं रक्षतम् ॥ ॥ ४ ॥


यु॒वां ह॑वन्त उ॒भया॑स आ॒जिष्विन्द्रं॑ च॒ वस्वो॒ वरु॑णं च सा॒तये॑ ।

यत्र॒ राज॑भिर्द॒शभि॒र्निबा॑धितं॒ प्र सु॒दास॒माव॑तं॒ तृत्सु॑भिः स॒ह ॥६

यु॒वाम् । ह॒व॒न्ते॒ । उ॒भया॑सः । आ॒जिषु॑ । इन्द्र॑म् । च॒ । वस्वः॑ । वरु॑णम् । च॒ । सा॒तये॑ ।

यत्र॑ । राज॑ऽभिः । द॒शऽभिः॑ । निऽबा॑धितम् । प्र । सु॒ऽदास॑म् । आव॑तम् । तृत्सु॑ऽभिः । स॒ह ॥६

युवाम् । हवन्ते । उभयासः । आजिषु । इन्द्रम् । च । वस्वः । वरुणम् । च । सातये ।

यत्र । राजऽभिः । दशऽभिः । निऽबाधितम् । प्र । सुऽदासम् । आवतम् । तृत्सुऽभिः । सह ॥६

“उभयासः उभयविधाः सुदाःसंज्ञो राजा तत्सहायभूतास्तृत्सवश्चैवं द्विप्रकारा जनाः “आजिषु संग्रामेषु “इन्द्रं च “वरुणं “च “युवां “हवन्ते आह्वयन्ते । किमर्थम् । “वस्वः धनस्य "सातये संभजनार्थम् । “यत्र येष्वाजिषु "दशभिः दशसंख्याकैः "राजभिः शत्रुभूतैर्नृपैः “निबाधितं नितरां हिंसितं "सुदासं "तृत्सुभिः “सह वर्तमानं “प्र “आवतं युवां प्रकर्षेणारक्षतम् । तेष्वाजिष्वित्यन्वयः ॥


दश॒ राजा॑न॒ः समि॑ता॒ अय॑ज्यवः सु॒दास॑मिन्द्रावरुणा॒ न यु॑युधुः ।

स॒त्या नृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा ए॑षामभवन्दे॒वहू॑तिषु ॥७

दश॑ । राजा॑नः । सम्ऽइ॑ताः । अय॑ज्यवः । सु॒ऽदास॑म् । इ॒न्द्रा॒व॒रु॒णा॒ । न । यु॒यु॒धुः॒ ।

स॒त्या । नृ॒णाम् । अ॒द्म॒ऽसदा॑म् । उप॑ऽस्तुतिः । दे॒वाः । ए॒षा॒म् । अ॒भ॒व॒न् । दे॒वऽहू॑तिषु ॥७

दश । राजानः । सम्ऽइताः । अयज्यवः । सुऽदासम् । इन्द्रावरुणा । न । युयुधुः ।

सत्या । नृणाम् । अद्मऽसदाम् । उपऽस्तुतिः । देवाः । एषाम् । अभवन् । देवऽहूतिषु ॥७

हे इन्द्रावरुणौ दशसंख्याकाः “राजानः सुदासः शत्रवः “समिताः संगताः परस्परं समवेताः “अयज्यवः अयजमाना एवंभूतास्ते “सुदासम् एतत्संज्ञमेकमपि राजानं “न “युयुधुः न संप्रजह्रुः । युवाभ्यामनुगृहीतं तं प्रहर्तुं न शेकुः । तदानीम् “अद्मसदाम् । अद्मन्यन्ने हविषि सीदन्तीत्यद्मसद ऋत्विजः । हविर्भिर्युक्तानां “नृणां यज्ञस्य नेतॄणामृत्विजाम् “उपस्तुतिः स्तोत्रं “सत्या सफलाभूत् । अपि च “एषां “देवहूतिषु । देवा हूयन्त एष्विति देवहूतयो यज्ञाः । तेषु सर्वे च “देवाः “अभवन् युष्मदनुग्रहात् प्रादुर्भवन्ति ।


दा॒श॒रा॒ज्ञे परि॑यत्ताय वि॒श्वत॑ः सु॒दास॑ इन्द्रावरुणावशिक्षतम् ।

श्वि॒त्यञ्चो॒ यत्र॒ नम॑सा कप॒र्दिनो॑ धि॒या धीव॑न्तो॒ अस॑पन्त॒ तृत्स॑वः ॥८

दा॒श॒ऽरा॒ज्ञे । परि॑ऽयत्ताय । वि॒श्वतः॑ । सु॒ऽदासे॑ । इ॒न्द्रा॒व॒रु॒णौ॒ । अ॒शि॒क्ष॒त॒म् ।

श्वि॒त्यञ्चः॑ । यत्र॑ । नम॑सा । क॒प॒र्दिनः॑ । धि॒या । धीऽव॑न्तः । अस॑पन्त । तृत्स॑वः ॥८

दाशऽराज्ञे । परिऽयत्ताय । विश्वतः । सुऽदासे । इन्द्रावरुणौ । अशिक्षतम् ।

श्वित्यञ्चः । यत्र । नमसा । कपर्दिनः । धिया । धीऽवन्तः । असपन्त । तृत्सवः ॥८

हे "इन्द्रावरुणौ “दाशराज्ञे दशशब्दस्य छान्दसो दीर्घः। विभक्तिव्यत्ययः । दशभी राजभिः शत्रुभूतैः “विश्वतः सर्वतः “परियत्ताय परिवेष्टिताय “सुदासे राज्ञे “अशिक्षतं बलं प्रयच्छतम् । “यत्र यस्मिन् देशे “श्वित्यञ्चः श्वितिं श्वैत्यं नैर्मल्यमञ्चन्तो गच्छन्तः “कपर्दिनः जटिलाः “धीवन्तः कर्मभिर्युक्ताः “तृत्सवः वसिष्ठशिष्या एतत्संज्ञा ऋत्विजः “नमसा हविर्लक्षणेनान्नेन “धिया स्तुत्या च “असपन्त पर्यचरन् । तस्मिन् देशे युवां तस्मै राज्ञे बलं प्रायच्छतमित्यर्थः ॥


वृ॒त्राण्य॒न्यः स॑मि॒थेषु॒ जिघ्न॑ते व्र॒तान्य॒न्यो अ॒भि र॑क्षते॒ सदा॑ ।

हवा॑महे वां वृषणा सुवृ॒क्तिभि॑र॒स्मे इ॑न्द्रावरुणा॒ शर्म॑ यच्छतम् ॥९

वृ॒त्राणि॑ । अ॒न्यः । स॒म्ऽइ॒थेषु॑ । जिघ्न॑ते । व्र॒तानि॑ । अ॒न्यः । अ॒भि । र॒क्ष॒ते॒ । सदा॑ ।

हवा॑महे । वा॒म् । वृ॒ष॒णा॒ । सु॒वृ॒क्तिऽभिः॑ । अ॒स्मे इति॑ । इ॒न्द्रा॒व॒रु॒णा॒ । शर्म॑ । य॒च्छ॒त॒म् ॥९

वृत्राणि । अन्यः । सम्ऽइथेषु । जिघ्नते । व्रतानि । अन्यः । अभि । रक्षते । सदा ।

हवामहे । वाम् । वृषणा । सुवृक्तिऽभिः । अस्मे इति । इन्द्रावरुणा । शर्म । यच्छतम् ॥९

हे इन्द्रावरुणौ युवयोः “अन्यः एक इन्द्रः “वृत्राणि शत्रून् “समिथेषु संग्रामेषु "जिघ्नते हन्ति । “अन्यः एको वरुणः “सदा सर्वदा “व्रतानि कर्माणि “अभि "रक्षते अभितः सर्वतो रक्षति । हे “वृषणा कामानां वर्षिताराविन्द्रावरुणौ तथाविधौ “वां युवां "सुवृक्तिभिः सुप्रवृत्ताभिः स्तुतिभिः “हवामहे आह्वयामहे । आहूतौ च युवाम् “अस्मे अस्मभ्यं “शर्म सुखं “यच्छतं दत्तम् ।।


अ॒स्मे इन्द्रो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथ॑ः ।

अ॒व॒ध्रं ज्योति॒रदि॑तेरृता॒वृधो॑ दे॒वस्य॒ श्लोकं॑ सवि॒तुर्म॑नामहे ॥१०

अ॒स्मे इति॑ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । द्यु॒म्नम् । य॒च्छ॒न्तु॒ । महि॑ । शर्म॑ । स॒ऽप्रथः॑ ।

अ॒व॒ध्रम् । ज्योतिः॑ । अदि॑तेः । ऋ॒त॒ऽवृधः॑ । दे॒वस्य॑ । श्लोक॑म् । स॒वि॒तुः । म॒ना॒म॒हे॒ ॥१०

अस्मे इति । इन्द्रः । वरुणः । मित्रः । अर्यमा । द्युम्नम् । यच्छन्तु । महि । शर्म । सऽप्रथः ।

अवध्रम् । ज्योतिः । अदितेः । ऋतऽवृधः । देवस्य । श्लोकम् । सवितुः । मनामहे ॥१०

व्याख्यातेयम् । अक्षरार्थस्तु । इन्द्रादयोऽस्मभ्यं द्योतमानं धनं प्रयच्छन्तु सर्वतो विस्तीर्णं महद्गृहं च । यज्ञस्य वर्धयित्र्या अदीनाया देवमातुस्तेजश्चास्माकमबाधकं भवतु । वयं च प्रेरकस्य देवस्य स्तोत्रं मनामहे कुर्महे ॥ ॥ ५ ॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८३&oldid=201265" इत्यस्माद् पुनः प्राप्तिः