ऋग्वेदः सूक्तं ७.५२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.५१ ऋग्वेदः - मण्डल ७
सूक्तं ७.५२
मैत्रावरुणिर्वसिष्ठः
सूक्तं ७.५३ →
दे. आदित्याः। त्रिष्टुप्।


आदित्यासो अदितयः स्याम पूर्देवत्रा वसवो मर्त्यत्रा ।
सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ॥१॥
मित्रस्तन्नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः ।
मा वो भुजेमान्यजातमेनो मा तत्कर्म वसवो यच्चयध्वे ॥२॥
तुरण्यवोऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः ।
पिता च तन्नो महान्यजत्रो विश्वे देवाः समनसो जुषन्त ॥३॥


सायणभाष्यम्

‘आदित्यासो अदितयः' इति तृचात्मकमेकोनविंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमादित्यदेवताकम् । ‘ आदित्यासः' इत्यनुक्रमणिका । गतो विनियोगः ॥


आ॒दि॒त्यासो॒ अदि॑तयः स्याम॒ पूर्दे॑व॒त्रा व॑सवो मर्त्य॒त्रा ।

सने॑म मित्रावरुणा॒ सन॑न्तो॒ भवे॑म द्यावापृथिवी॒ भव॑न्तः ॥१

आ॒दि॒त्यासः॑ । अदि॑तयः । स्या॒म॒ । पूः । दे॒व॒ऽत्रा । व॒स॒वः॒ । म॒र्त्य॒ऽत्रा ।

सने॑म । मि॒त्रा॒व॒रु॒णा॒ । सन॑न्तः । भवे॑म । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । भव॑न्तः ॥१

आदित्यासः । अदितयः । स्याम । पूः । देवऽत्रा । वसवः । मर्त्यऽत्रा ।

सनेम । मित्रावरुणा । सनन्तः । भवेम । द्यावापृथिवी इति । भवन्तः ॥१

हे "आदित्यासः आदित्या देवाः ॥ व्यत्ययेनाद्युदात्तत्वाभावः ॥ यद्वा । आदित्यानामिमा आदित्याः ॥ तस्येदम् ' इत्यर्थे प्राग्दीव्यतीयो ण्यप्रत्ययः ॥ आदित्यानां शेषभूता वयम् "अदितय अखण्डनीयाः "स्याम भवेम । “देवत्रा देवेषु “वसवः वासका देवा युष्मदीयं “पूः पालनं “मर्त्यत्र मनुष्येष्वस्मासु भवतु । हे “मित्रावरुणा मित्रावरुणौ “सनन्तः युवां संभजन्तो वयं “सनेम युवाभ्य दत्तं धनं संभजेमहि । हे "द्यावापृथिवी द्यावापृथिव्यौ युवयोः प्रसादात् वयं "भवन्तः भवेम भूतिमन्तः स्याम ॥


मि॒त्रस्तन्नो॒ वरु॑णो मामहन्त॒ शर्म॑ तो॒काय॒ तन॑याय गो॒पाः ।

मा वो॑ भुजेमा॒न्यजा॑त॒मेनो॒ मा तत्क॑र्म वसवो॒ यच्चय॑ध्वे ॥२

मि॒त्रः । तत् । नः॒ । वरु॑णः । म॒म॒ह॒न्त॒ । शर्म॑ । तो॒काय॑ । तन॑याय । गो॒पाः ।

मा । वः॒ । भु॒जे॒म॒ । अ॒न्यऽजा॑तम् । एनः॑ । मा । तत् । क॒र्म॒ । व॒स॒वः॒ । यत् । चय॑ध्वे ॥२

मित्रः । तत् । नः । वरुणः । ममहन्त । शर्म । तोकाय । तनयाय । गोपाः ।

मा । वः । भुजेम । अन्यऽजातम् । एनः । मा । तत् । कर्म । वसवः । यत् । चयध्वे ॥२

"मित्रः “वरुणः अहर्निशाभिमानिनौ देवावेतदाद्याः सर्व आदित्याः "नः अस्मभ्यं "तत् प्रसिद्धं "शर्म सुखं "ममहन्त । मंहतिर्दानकर्मा । ददतु । "गोपाः विश्वस्य रक्षकास्ते देवाः “तोकाय अस्मदीयाय पुत्राय “तनयाय तत्पुत्राय च शर्म प्रयच्छन्तु । अथ प्रत्यक्षस्तुतिः । हे देवाः "वः युष्मदीया वयम् "अन्यजातम् अन्येनोत्पादितम् “एनः पापं “मा "भुजेम मा भुक्तवन्तः स्याम । हे “वसवः वासका देवाः "यत् येन युष्मदप्रियेण कर्मणा “चयध्वे यूयमस्मान्नाशयत "तत् तादृशं कर्म वयं "मा "कर्म मा कार्ष्म ॥ लुङि करोतेरुत्तमस्य बहुवचनम् । मन्त्रे घसह्वर ' इत्यादिना च्लेर्लोपः ॥


तु॒र॒ण्यवोऽङ्गि॑रसो नक्षन्त॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नाः ।

पि॒ता च॒ तन्नो॑ म॒हान्यज॑त्रो॒ विश्वे॑ दे॒वाः सम॑नसो जुषन्त ॥३

तु॒र॒ण्यवः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नाः ।

पि॒ता । च॒ । तत् । नः॒ । म॒हान् । यज॑त्रः । विश्वे॑ । दे॒वाः । सऽम॑नसः । जु॒ष॒न्त॒ ॥३

तुरण्यवः । अङ्गिरसः । नक्षन्त । रत्नम् । देवस्य । सवितुः । इयानाः ।

पिता । च । तत् । नः । महान् । यजत्रः । विश्वे । देवाः । सऽमनसः । जुषन्त ॥३

“तुरण्यवः यज्ञादिकर्मसु त्वरिताः "अङ्गिरसः एतन्नामका ऋषयः “इयानाः सवितारं याचमानाः सन्तः "सवितुः प्रेरकस्य "देवस्य संबन्धि "रत्नं रमणीयं यद्धनं "नक्षन्त आश्नुवन्त। उत्तरार्धगततच्छब्दापेक्षया यच्छब्दोऽत्राध्याह्रियते। "यजत्रः यजनशीलः "महान् प्रभूतः “पिता “च वसिष्ठस्य पितृभूतो वरुणश्च । यद्वा । सर्वेषां पिता प्रजापतिः । “विश्वे सर्वे "देवाः "समनसः समानमनस्काः "तत् तादृशं रत्नं "नः अस्मान् "जुषन्त सेवयन्तु । यद्वा नोऽस्मभ्यं ददतु ॥ ॥१९॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५२&oldid=200971" इत्यस्माद् पुनः प्राप्तिः