ऋग्वेदः सूक्तं ७.१००

विकिस्रोतः तः
← सूक्तं ७.९९ ऋग्वेदः - मण्डल ७
सूक्तं ७.१००
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.१०१ →
दे. विष्णुः। त्रिष्टुप्।


नू मर्तो दयते सनिष्यन्यो विष्णव उरुगायाय दाशत् ।
प्र यः सत्राचा मनसा यजात एतावन्तं नर्यमाविवासात् ॥१॥
त्वं विष्णो सुमतिं विश्वजन्यामप्रयुतामेवयावो मतिं दाः ।
पर्चो यथा नः सुवितस्य भूरेरश्वावतः पुरुश्चन्द्रस्य रायः ॥२॥
त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा ।
प्र विष्णुरस्तु तवसस्तवीयान्त्वेषं ह्यस्य स्थविरस्य नाम ॥३॥
वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् ।
ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥४॥
प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ।
तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥५॥
किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि ।
मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥६॥
वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥७॥


सायणभाष्यम्

‘नू मर्तः' इति सप्तर्चमेकादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैष्णवम् । 'नू मर्तः' इत्यनुक्रान्तम् । उक्थ्ये अच्छावाकशस्त्र इदं शंसनीयम् । सूत्रितं च - ‘ ऋतुर्जनित्री नू मर्तो भवा मित्रः ' ( आश्व. श्रौ. ६. १) इति ।।


नू मर्तो॑ दयते सनि॒ष्यन्यो विष्ण॑व उरुगा॒याय॒ दाश॑त् ।

प्र यः स॒त्राचा॒ मन॑सा॒ यजा॑त ए॒ताव॑न्तं॒ नर्य॑मा॒विवा॑सात् ॥१

नु । मर्तः॑ । द॒य॒ते॒ । स॒नि॒ष्यन् । यः । विष्ण॑वे । उ॒रु॒ऽगा॒याय॑ । दाश॑त् ।

प्र । यः । स॒त्राचा॑ । मन॑सा । यजा॑ते । ए॒ताव॑न्तम् । नर्य॑म् । आ॒ऽविवा॑सात् ॥१

नु । मर्तः । दयते । सनिष्यन् । यः । विष्णवे । उरुऽगायाय । दाशत् ।

प्र । यः । सत्राचा । मनसा । यजाते । एतावन्तम् । नर्यम् । आऽविवासात् ॥१

सः “मर्तः मनुष्यः “सनिष्यन् धनमिच्छन् “नु क्षिप्रं “दयते धनमादत्ते । दयतिराङ्पूर्वार्थे द्रष्टव्यः । “यः मनुष्यः "उरुगायाय बहुभिः कीर्तनीयाय “विष्णवे "दाशत् हवींषि दद्यात् । “यः च “सत्राचा सहाञ्चता “मनसा मननेन स्तोत्रेण “प्र “यजाते प्रकर्षेण पूजयेत् “एतावन्तम् एतावत्परिमाणं महान्तं "नर्यं नरेभ्यो हितं विष्णुम् “आविवासात् नमस्कारादिभिः परिचरेत् । स मर्तो दयत इत्यन्वयः । यद्वा । सनिष्यन्निति सनतेर्लाभार्थस्य लृटि रूपम् । स मर्तः सनिष्यन् धनादीनि लप्स्यमानो भवन्नेव हविरादिकं नु क्षिप्रं दयते विष्णवे ददातीति योज्यम् ॥


विष्णुदेवत्ये पशौ पुरोडाशस्य त्वं विष्णो ' इत्यनुवाक्या। सूत्रितं च -- त्वं विष्णो सुमतिं विश्वजन्यां वि चक्रमे पृथिवीमेष एताम्' (अश्व. श्रौ. ३. ८) इति ॥

त्वं वि॑ष्णो सुम॒तिं वि॒श्वज॑न्या॒मप्र॑युतामेवयावो म॒तिं दा॑ः ।

पर्चो॒ यथा॑ नः सुवि॒तस्य॒ भूरे॒रश्वा॑वतः पुरुश्च॒न्द्रस्य॑ रा॒यः ॥२

त्वम् । वि॒ष्णो॒ इति॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् । अप्र॑ऽयुताम् । ए॒व॒ऽया॒वः॒ । म॒तिम् । दाः॒ ।

पर्चः॑ । यथा॑ । नः॒ । सु॒वि॒तस्य॑ । भूरेः॑ । अश्व॑ऽवतः । पु॒रु॒ऽच॒न्द्रस्य॑ । रा॒यः ॥२

त्वम् । विष्णो इति । सुऽमतिम् । विश्वऽजन्याम् । अप्रऽयुताम् । एवऽयावः । मतिम् । दाः ।

पर्चः । यथा । नः । सुवितस्य । भूरेः । अश्वऽवतः । पुरुऽचन्द्रस्य । रायः ॥२

हे “एवयावः । एवाः प्राप्तव्याः कामाः । तान् यापयति प्रापयति स्तोतॄनित्येवयावा । हे एवयावन् “विष्णो “त्वं “विश्वजन्यां सर्वजनहिताम् "अप्रयुतां दोषैर्वियुक्तां “सुमतिम् अनुग्रहबुद्धिं “दाः अस्मभ्यं देहि । "सुवितस्य सुष्ठु प्राप्तव्यस्य “भूरेः बहुलस्य “अश्वावतः अश्वयुक्तस्य “पुरुश्चन्द्रस्य पुरूणां बहूनामाह्लादकस्य “रायः धनस्य "पर्चः संपर्कः “नः अस्माकं “यथा भवति तथा देहीत्यन्वयः॥


वैष्णवस्योपांशुयाजस्य ' त्रिर्देवः ' इति याज्या। सूत्रितं च - इदं विष्णुर्वि चक्रमे त्रिर्देवः पृथिवीमेष एताम् ' (आश्व. श्रौ. १. ६) इति । वैष्णवे पशावप्येषैव वपाया याज्या । सूत्रितं च -- त्रिर्देवः पृथिवीमेष एतां परो मात्रया तन्वा वृधान ' (आश्व. श्रौ. ३. ८) इति ॥

त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा ।

प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान्त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥३

त्रिः । दे॒वः । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । वि । च॒क्र॒मे॒ । श॒तऽअ॑र्चसम् । म॒हि॒ऽत्वा ।

प्र । विष्णुः॑ । अ॒स्तु॒ । त॒वसः॑ । तवी॑यान् । त्वे॒षम् । हि । अ॒स्य॒ । स्थवि॑रस्य । नाम॑ ॥३

त्रिः । देवः । पृथिवीम् । एषः । एताम् । वि । चक्रमे । शतऽअर्चसम् । महिऽत्वा ।

प्र । विष्णुः । अस्तु । तवसः । तवीयान् । त्वेषम् । हि । अस्य । स्थविरस्य । नाम ॥३

“एषः “देवः दानादिगुणयुक्तो विष्णुः “शतर्चसं शतसंख्यान्यर्चींषि यस्यास्तादृशम् “एतां “पृथिवीम् । उपलक्षणमेतत् । पृथिव्यादींस्त्रीँल्लोकान् महित्वा महत्त्वेन “त्रिः “वि “चक्रमे त्रिभिः पदैर्विक्रान्तवान् । “तवसः तवस्विनो वृद्धादपि “तवीयान् तवस्वितरः “विष्णुः “प्र “अस्तु अस्माकं प्रभवतु स्वामी भवतु। “अस्य “स्थविरस्य वृद्धस्य विष्णोः “नाम नामकं रूपं विष्णुरित्येतन्नामैव वा “त्वेषं “हि यस्माद्दीप्तं तस्मात्कारणात् स विष्णुः प्रभवत्वित्यर्थः ॥


पूर्वोक्त एव पशौ ‘वि चक्रमे ' इति वपाया अनुवाक्या। सूत्रितं च - वि चक्रमे पृथिवीमेष एतां त्रिर्देवः पृथिवीमेष एताम् ' (आश्व. श्रौ. ३. ८) इति ।।

वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन् ।

ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑स उरुक्षि॒तिं सु॒जनि॑मा चकार ॥४

वि । च॒क्र॒मे॒ । पृ॒थि॒वीम् । ए॒षः । ए॒ताम् । क्षेत्रा॑य । विष्णुः॑ । मनु॑षे । द॒श॒स्यन् ।

ध्रु॒वासः॑ । अ॒स्य॒ । की॒रयः॑ । जना॑सः । उ॒रु॒ऽक्षि॒तिम् । सु॒ऽजनि॑मा । च॒का॒र॒ ॥४

वि । चक्रमे । पृथिवीम् । एषः । एताम् । क्षेत्राय । विष्णुः । मनुषे । दशस्यन् ।

ध्रुवासः । अस्य । कीरयः । जनासः । उरुऽक्षितिम् । सुऽजनिमा । चकार ॥४

“एषः देवः “विष्णुः “एतां “पृथिवीं पृथिव्यादीनिमांस्त्रीँल्लोकान् “क्षेत्राय निवासार्थं “मनुषे स्तुवते देवगणाय “दशस्यन् असुरेभ्योऽपहृत्य प्रदास्यन् “वि “चक्रमे विक्रान्तवान् । “अस्य च विष्णोः “कीरयः स्तोतारः “जनासः जनाः “ध्रुवासः निश्चला भवन्ति । ऐहिकामुष्मिकयोर्लाभेन स्थिरा भवन्तीत्यर्थः । “सुजनिमा शोभनानि जनिमानि कीर्तनस्मरणादिना सुखहेतुभूतानि यस्य तादृशो विष्णुः "उरुक्षितिं विस्तीर्णनिवासं “चकार स्तोतृभ्यः करोति ॥


तृतीयसवनेऽतिरात्रादूर्ध्वं सोमातिरेके सति नैमित्तिके होतुः शस्त्रे ‘प्र तत्ते अद्य' इति स्तोत्रियस्तृचः (आश्व. श्रौ. ६. ७)। अभ्युदयेष्टौ विष्णोः शिपिविष्टस्य ‘प्र तत्ते अद्य' इति याज्या । सूत्रितं च --- वषट् ते विष्णवास आ कृणोमि प्र तत्ते अद्य शिपिविष्ट नाम ' (आश्व. श्रौ. ३. १३) इति ॥

प्र तत्ते॑ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं॑सामि व॒युना॑नि वि॒द्वान् ।

तं त्वा॑ गृणामि त॒वस॒मत॑व्या॒न्क्षय॑न्तम॒स्य रज॑सः परा॒के ॥५

प्र । तत् । ते॒ । अ॒द्य । शि॒पि॒ऽवि॒ष्ट॒ । नाम॑ । अ॒र्यः । शं॒सा॒मि॒ । व॒युना॑नि । वि॒द्वान् ।

तम् । त्वा॒ । गृ॒णा॒मि॒ । त॒वस॑म् । अत॑व्यान् । क्षय॑न्तम् । अ॒स्य । रज॑सः । प॒रा॒के ॥५

प्र । तत् । ते । अद्य । शिपिऽविष्ट । नाम । अर्यः । शंसामि । वयुनानि । विद्वान् ।

तम् । त्वा । गृणामि । तवसम् । अतव्यान् । क्षयन्तम् । अस्य । रजसः । पराके ॥५

हे “शिपिविष्ट रश्मिभिराविष्ट विष्णो “ते तव “तत् प्रसिद्धं विष्णुरिति प्रख्यातं “नाम “अर्यः स्वामी स्तुतीनां हविषां वा तथा “वयुनानि ज्ञातव्यान्यर्थजातानि “विद्वान् जानन्नहम् “अद्य इदानीं “प्र “शंसामि प्रकर्षेण स्तौमि । “तवसं प्रवृद्धं “तं “त्वा त्वां विष्णुम् “अतव्यान् अतवीयानवृद्धतरोऽहं “गृणामि स्तौमि । कीदृशम् । “अस्य “रजसः लोकस्य “पराके दूरदेशे “क्षयन्तं निवसन्तम् ॥


किमित्ते॑ विष्णो परि॒चक्ष्यं॑ भू॒त्प्र यद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि ।

मा वर्पो॑ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू॑पः समि॒थे ब॒भूथ॑ ॥६

किम् । इत् । ते॒ । वि॒ष्णो॒ इति॑ । प॒रि॒ऽचक्ष्य॑म् । भू॒त् । प्र । यत् । व॒व॒क्षे । शि॒पि॒ऽवि॒ष्टः । अ॒स्मि॒ ।

मा । वर्पः॑ । अ॒स्मत् । अप॑ । गू॒हः॒ । ए॒तत् । यत् । अ॒न्यऽरू॑पः । स॒म्ऽइ॒थे । ब॒भूथ॑ ॥६

किम् । इत् । ते । विष्णो इति । परिऽचक्ष्यम् । भूत् । प्र । यत् । ववक्षे । शिपिऽविष्टः । अस्मि ।

मा । वर्पः । अस्मत् । अप । गूहः । एतत् । यत् । अन्यऽरूपः । सम्ऽइथे । बभूथ ॥६

पुरा खलु विष्णुः स्वं रूपं परित्यज्य कृत्रिमं रूपान्तरं धारयन् संग्रामे वसिष्ठस्य साहाय्यं चकार । तं जाननृषिरनया प्रत्याचष्टे। अत्र निरुक्तं - ‘ शिपिविष्टो विष्णुरिति विष्णोर्द्वे नामनी भवतः । कुत्सितार्थीयं पूर्वं भवतीत्यौपमन्यवः । किं ते विष्णो प्रख्यातमेतद्भवत्यप्रख्यापनीयं यन्नः प्रब्रूषे शेप इव निर्वेष्टितोऽस्मीत्यप्रतिपन्नरश्मिः । अपि वा प्रशंसानामैवाभिप्रेतं स्यात् । किं ते विष्णो प्रख्यातमेतद्भवति प्रख्यापनीयं यदुत प्रब्रूषे शिपिविष्टोऽस्मीति प्रतिपन्नरश्मिः । शिपयोऽत्र रश्मय उच्यन्ते तैराविष्टो भवति । मा वर्पो अस्मदप गूह एतत् । वर्प इति रूपनाम वृणोतीति सतः । यदन्यरूपः समिथे संग्रामे भवसि संयतरश्मिः ' (निरु. ५, ७-८) इति । तत्र । कुत्सितार्थपक्षे योजना । हे “विष्णो “ते तव तन्नाम “किं "परिचक्ष्यं प्रख्यापनीयं “भूत् भवति । किंशब्दः क्षेपे । अप्रख्यापनीयमेव तद्भवति । “यत् नामास्मभ्यं “प्र “ववक्षे प्रब्रूषे “शिपिविष्टोऽस्मि इति। अन्तर्णीतोपमानमेतत् । शेप इव निर्वेष्टितस्तेजसानाच्छादितो भवामीति। तदश्लीलार्थत्वादिदं नाम न प्रशस्तमित्यर्थः । तन्नाम किं परिचक्ष्यं वर्जनीयं परित्याज्यम् । विरुद्धार्थप्रतिपादकत्वात् स्वत एव परित्यक्तं हि तत् । शिष्टं समानं पूर्वेण । अत उक्तरूपविलक्षणं यद्वैष्णवरूपमस्ति “एतत् 'वर्पः रूपम् “अस्मत् अस्माकं “मा “अप “गूहः अपगूढं संवृतं मा कुरु। ‘गुहू संवरणे' । अपि तु तदेव रूपं प्रकटय । वैष्णवस्य रूपस्य गूहने का प्रसक्तिरिति चेत् । “यत् यस्मात् “अन्यरूपः रूपान्तरमेव धारयन् "समिथे संग्रामे “बभूथ अस्माकं सहायो भवसि तस्मादिदं गूहनं न कार्यमिति । प्रशंसापक्षे तु । हे विष्णो ते तव तन्नाम किं परिचक्ष्यं भूत् किं प्रख्यापनीयं भवति । न प्रख्यापनीयम्। किं तन्नाम । शिपिविष्टो रश्मिभिराविष्टोऽस्मीति यन्नाम प्रब्रूषे । यत एवं प्रख्यातरूपस्त्वमतोऽस्माकमेतद्वैष्णवं रूपं संवृतं मा कार्षीः । इदानीं गूढरूपोऽपि यद्यस्मात्त्वं समिथे संग्रामेऽन्यरूपः कृत्रिमरूपं यदन्यद्वैष्णवं रूपं शौयादिलक्षणं तादृग्रूप एव बभूथ भवसि तस्मात्त्वं गूढोऽपि ज्ञायस एवेति व्यर्थमेव तस्य रूपस्य गूहनम् । अतो बहुतेजस्कं यद्वैष्णवं रूपं तदस्माकं प्रदर्शयेति तात्पर्यार्थः ॥


वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् ।

वर्ध॑न्तु त्वा सुष्टु॒तयो॒ गिरो॑ मे यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७

वष॑ट् । ते॒ । वि॒ष्णो॒ इति॑ । आ॒सः । आ । कृ॒णो॒मि॒ । तत् । मे॒ । जु॒ष॒स्व॒ । शि॒पि॒ऽवि॒ष्ट॒ । ह॒व्यम् ।

वर्ध॑न्तु । त्वा॒ । सु॒ऽस्तु॒तयः॑ । गिरः॑ । मे॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥७

वषट् । ते । विष्णो इति । आसः । आ । कृणोमि । तत् । मे । जुषस्व । शिपिऽविष्ट । हव्यम् ।

वर्धन्तु । त्वा । सुऽस्तुतयः । गिरः । मे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥७

व्याख्यातेयम् । अक्षरार्थस्तु । हे विष्णो तुभ्यमास्यादास्येन वषट्करोमि । वषट्कृतं तन्मदीयं हविर्हे शिपिविष्ट सेवस्व । शोभनस्तुतिरूपा मदीया वाचश्च त्वां वर्धयन्त्विति । शिष्टः पादः सिद्धः ॥ ॥ २५ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टके षष्ठोऽध्यायः समाप्तः ॥

[सम्पाद्यताम्]


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१००&oldid=214349" इत्यस्माद् प्रतिप्राप्तम्