सामग्री पर जाएँ

ऋग्वेदः सूक्तं ७.३५

विकिस्रोतः तः
← सूक्तं ७.३४ ऋग्वेदः - मण्डल ७
सूक्तं ७.३५
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.३६ →
दे. विश्वे देवाः। त्रिष्टुप्।


शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।
शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥
शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः ।
शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥
शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥
शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् ।
शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥
शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।
शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥५॥
शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।
शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥
शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः ।
शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शम्वस्तु वेदिः ॥७॥
शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु ।
शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥
शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।
शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शम्वस्तु वायुः ॥९॥
शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।
शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः ॥१०॥
शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।
शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥११॥
शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।
शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥१२॥
शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः शं समुद्रः ।
शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा ॥१३॥
आदित्या रुद्रा वसवो जुषन्तेदं ब्रह्म क्रियमाणं नवीयः ।
शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥१४॥
ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृता ऋतज्ञाः ।
ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥१५॥


सायणभाष्यम्

‘शं न इन्द्राग्नी' इति पञ्चदशर्चं द्वितीयं सूक्तम् । अत्रेयमनुक्रमणिका- शं नः पञ्चोना शान्तिः ' इति । वसिष्ठ ऋषिः । त्रिष्टुप् छन्दः । वैश्वदेवं ह ' इत्युक्तत्वादिदमपि वैश्वदेवम् । महानाम्नीव्रत एतत् सूक्तं जप्यम् । तथा च सूत्रितं - भद्रं कर्णेभिः शृणुयाम देवाः शं न इन्द्राग्नी भवतामवोभिः' (आश्व. श्रौ. ८. १४) इति । एव....सु ॥


शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो॑भि॒ः शं न॒ इन्द्रा॒वरु॑णा रा॒तह॑व्या ।

शमिन्द्रा॒सोमा॑ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा॑पू॒षणा॒ वाज॑सातौ ॥१

शम् । नः॒ । इ॒न्द्रा॒ग्नी इति॑ । भ॒व॒ता॒म् । अवः॑ऽभिः । शम् । नः॒ । इन्द्रा॒वरु॑णा । रा॒तऽह॑व्या ।

शम् । इन्द्रा॒सोमा॑ । सु॒वि॒ताय॑ । शम् । योः । शम् । नः॒ । इन्द्रा॑पू॒षणा॑ । वाज॑ऽसातौ ॥१

शम् । नः । इन्द्राग्नी इति । भवताम् । अवःऽभिः । शम् । नः । इन्द्रावरुणा । रातऽहव्या ।

शम् । इन्द्रासोमा । सुविताय । शम् । योः । शम् । नः । इन्द्रापूषणा । वाजऽसातौ ॥१

"नः अस्माकमस्मभ्यं वा “इन्द्राग्नी "अवोभिः रक्षणैः “शं शान्त्यै “भवताम्। “रातहव्या रातहव्यौ यजमानैर्दत्तहविष्कौ “इन्द्रावरुणा इन्द्रावरुणावपि “नः अस्मभ्यं “शं शान्त्यै भवताम् । “इन्द्रासोमा इन्द्रासोमावपि नः “शं शान्त्यै “सुविताय कल्याणाय च भवताम् । “शं शान्त्यै सुखाय च। पुनरुक्तिरादरार्था। अथवा शं शमनहेतुकं सुखं “योः विषययोगनिमित्तं सुखमित्यपुनरुक्तिः । इन्द्रापूषणा इन्द्रापूषणावपि “वाजसातौ युद्धे अन्नलाभे निमित्ते वा "नः “शं शान्त्यै भवतामित्यर्थः ॥


शं नो॒ भग॒ः शमु॑ न॒ः शंसो॑ अस्तु॒ शं न॒ः पुरं॑धि॒ः शमु॑ सन्तु॒ राय॑ः ।

शं न॑ः स॒त्यस्य॑ सु॒यम॑स्य॒ शंस॒ः शं नो॑ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ॥२

शम् । नः॒ । भगः॑ । शम् । ऊं॒ इति॑ । नः॒ । शंसः॑ । अ॒स्तु॒ । शम् । नः॒ । पुर॑म्ऽधिः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । रायः॑ ।

शम् । नः॒ । स॒त्यस्य॑ । सु॒ऽयम॑स्य । शंसः॑ । शम् । नः॒ । अ॒र्य॒मा । पु॒रु॒ऽजा॒तः । अ॒स्तु॒ ॥२

शम् । नः । भगः । शम् । ऊं इति । नः । शंसः । अस्तु । शम् । नः । पुरम्ऽधिः । शम् । ऊं इति । सन्तु । रायः ।

शम् । नः । सत्यस्य । सुऽयमस्य । शंसः । शम् । नः । अर्यमा । पुरुऽजातः । अस्तु ॥२

“नः अस्माकं “शं शान्त्यै “भगः देवः “अस्तु भवतु । "नः अस्माकं “शमु शान्त्या एव "शंसः नराशंसोऽस्तु भवतु । “नः अस्माकं “शं शान्त्यै “पुरंधिः बहुधीरप्यस्तु । “रायः धनान्यपि “शमु शान्त्या एव “सन्तु। “नः अस्माकं “सुयमस्य शोभनयमयुक्तस्य “सत्यस्य “शंसः वचनमपि “शम् अस्तु । “नः अस्माकं “शं शान्त्यै “पुरुजातः बहुप्रादुर्भावः “अर्यमा देवोऽपि “अस्तु ॥


शं नो॑ धा॒ता शमु॑ ध॒र्ता नो॑ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभि॑ः ।

शं रोद॑सी बृह॒ती शं नो॒ अद्रि॒ः शं नो॑ दे॒वानां॑ सु॒हवा॑नि सन्तु ॥३

शम् । नः॒ । धा॒ता । शम् । ऊं॒ इति॑ । ध॒र्ता । नः॒ । अ॒स्तु॒ । शम् । नः॒ । उ॒रू॒ची । भ॒व॒तु॒ । स्व॒धाभिः॑ ।

शम् । रोद॑सी॒ इति॑ । बृ॒ह॒ती इति॑ । शम् । नः॒ । अद्रिः॑ । शम् । नः॒ । दे॒वाना॑म् । सु॒ऽहवा॑नि । स॒न्तु॒ ॥३

शम् । नः । धाता । शम् । ऊं इति । धर्ता । नः । अस्तु । शम् । नः । उरूची । भवतु । स्वधाभिः ।

शम् । रोदसी इति । बृहती इति । शम् । नः । अद्रिः । शम् । नः । देवानाम् । सुऽहवानि । सन्तु ॥३

“नः अस्माकं “शं शान्त्यै “धाता देवः “अस्तु । "नः अस्माकं “शमु शान्त्या एव “धर्ता पुण्यपापानां विधारयिता वरुणो देवोऽप्यस्तु । “नः अस्माकं “शं शान्त्यै “उरूची विवर्तगमना पृथिव्यपि “स्वधाभिः अन्नैः सहास्तु । “बृहती महत्यौ “रोदसी द्यावापृथिव्यावपि “शं भवताम् । “अद्रिः पर्वतोऽपि “नः अस्माकं “शं शान्त्यै भवतु । शं शान्त्यै “नः अस्माकं “देवानां "सुहवानि सुष्टुतयः “सन्तु भवन्तु ॥


शं नो॑ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो॑ मि॒त्रावरु॑णाव॒श्विना॒ शम् ।

शं न॑ः सु॒कृतां॑ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा॑तु॒ वात॑ः ॥४

शम् । नः॒ । अ॒ग्निः । ज्योतिः॑ऽअनीकः । अ॒स्तु॒ । शम् । नः॒ । मि॒त्रावरु॑णौ । अ॒श्विना॑ । शम् ।

शम् । नः॒ । सु॒ऽकृता॑म् । सु॒ऽकृ॒तानि॑ । स॒न्तु॒ । शम् । नः॒ । इ॒षि॒रः । अ॒भि । वा॒तु॒ । वातः॑ ॥४

शम् । नः । अग्निः । ज्योतिःऽअनीकः । अस्तु । शम् । नः । मित्रावरुणौ । अश्विना । शम् ।

शम् । नः । सुऽकृताम् । सुऽकृतानि । सन्तु । शम् । नः । इषिरः । अभि । वातु । वातः ॥४

"ज्योतिरनीकः ज्योतिर्मुखः “अग्निः “नः अस्माकं “शं शान्त्यै अस्तु भवतु । मित्रावरुणा मित्रावरुणावपि “नः अस्माकं “शं शान्त्यै भवताम् । “अश्विना अश्विनावपि “शं भवताम् । “सुकृतां पुण्यकर्मणां पुरुषाणां “सुकृतानि पुण्यकर्माण्यपि “नः अस्माकं “शं शान्त्यै “सन्तु भवन्तु । “इषिरः गमनशीलोऽपि “वातः वायुरपि “नः अस्माकं “शं शान्त्यै "अभि “वातु ॥


शं नो॒ द्यावा॑पृथि॒वी पू॒र्वहू॑तौ॒ शम॒न्तरि॑क्षं दृ॒शये॑ नो अस्तु ।

शं न॒ ओष॑धीर्व॒निनो॑ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ॥५

शम् । नः॒ । द्यावा॑पृथि॒वी इति॑ । पू॒र्वऽहू॑तौ । शम् । अ॒न्तरि॑क्षम् । दृ॒शये॑ । नः॒ । अ॒स्तु॒ ।

शम् । नः॒ । ओष॑धीः । व॒निनः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । रज॑सः । पतिः॑ । अ॒स्तु॒ । जि॒ष्णुः ॥५

शम् । नः । द्यावापृथिवी इति । पूर्वऽहूतौ । शम् । अन्तरिक्षम् । दृशये । नः । अस्तु ।

शम् । नः । ओषधीः । वनिनः । भवन्तु । शम् । नः । रजसः । पतिः । अस्तु । जिष्णुः ॥५

“नः अस्माकं “शं शान्त्यै “द्यावापृथिवी द्यावापृथिव्यौ “पूर्वहूतौ प्रथमाह्वाने भवताम् । “अन्तरिक्षम् अपि “नः अस्माकं “दृशये दर्शनाय “शम् “अस्तु । "नः अस्माकं “शं शान्त्यै “ओषधीः ओषधयोऽपि “भवन्तु। “वनिनः वृक्षाश्च शं भवन्तु । “जिष्णुः जयशीलः "रजसः लोकस्य "पतिः इन्द्रोऽपि “नः अस्माकं “शं शान्त्यै “अस्तु ॥ ॥ २८ ॥


शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा॑दि॒त्येभि॒र्वरु॑णः सु॒शंस॑ः ।

शं नो॑ रु॒द्रो रु॒द्रेभि॒र्जला॑ष॒ः शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ॥६

शम् । नः॒ । इन्द्रः॑ । वसु॑ऽभिः । दे॒वः । अ॒स्तु॒ । शम् । आ॒दि॒त्येभिः॑ । वरु॑णः । सु॒ऽशंसः॑ ।

शम् । नः॒ । रु॒द्रः । रु॒द्रेभिः॑ । जला॑षः । शम् । नः॒ । त्वष्टा॑ । ग्नाभिः॑ । इ॒ह । शृ॒णो॒तु॒ ॥६

शम् । नः । इन्द्रः । वसुऽभिः । देवः । अस्तु । शम् । आदित्येभिः । वरुणः । सुऽशंसः ।

शम् । नः । रुद्रः । रुद्रेभिः । जलाषः । शम् । नः । त्वष्टा । ग्नाभिः । इह । शृणोतु ॥६

“देवः द्योतनादिगुणयुक्तः “इन्द्रः "वसुभिः देवैः सार्धं “नः अस्माकं “शं शान्त्यै भवतु । "सुशंसः शोभनस्तुतिः “वरुणः देवः “आदित्येभिः आदित्यैर्देवैः सार्धं “शं शान्त्यै “अस्तु भवतु । “जलाषः “रुद्रः दुःखद्रावको देवः “रुद्रेभिः रुद्रैः सार्धं “शं शान्त्यै “नः अस्माकं भवतु । “इह यज्ञे “त्वष्टा देवः "ग्नाभिः देवपत्नीभिः सार्धं “नः “शं शान्त्यै भवतु । इह यज्ञे नः स्तोत्रं “शृणोतु च ॥


शं न॒ः सोमो॑ भवतु॒ ब्रह्म॒ शं न॒ः शं नो॒ ग्रावा॑ण॒ः शमु॑ सन्तु य॒ज्ञाः ।

शं न॒ः स्वरू॑णां मि॒तयो॑ भवन्तु॒ शं न॑ः प्र॒स्व१॒॑ः शम्व॑स्तु॒ वेदि॑ः ॥७

शम् । नः॒ । सोमः॑ । भ॒व॒तु॒ । ब्रह्म॑ । शम् । नः॒ । शम् । नः॒ । ग्रावा॑णः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । य॒ज्ञाः ।

शम् । नः॒ । स्वरू॑णाम् । मि॒तयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । प्र॒ऽस्वः॑ । शम् । ऊं॒ इति॑ । अ॒स्तु॒ । वेदिः॑ ॥७

शम् । नः । सोमः । भवतु । ब्रह्म । शम् । नः । शम् । नः । ग्रावाणः । शम् । ऊं इति । सन्तु । यज्ञाः ।

शम् । नः । स्वरूणाम् । मितयः । भवन्तु । शम् । नः । प्रऽस्वः । शम् । ऊं इति । अस्तु । वेदिः ॥७

“नः अस्माकं “शं शान्त्यै “सोमः “भवतु । “ब्रह्म स्तोत्रमपि “नः अस्माकं “शं शान्त्यै भवतु । “ग्रावाणः अभिषवसाधनभूताः पाषाणा अपि “नः अस्माकं “शं शान्त्यै भवन्तु । “यज्ञाः च नः “शमु शान्त्या एव “सन्तु। "स्वरूणां यूपानां “मितयः उन्मानान्यपि “नः अस्माकं “शं शान्त्यै “भवन्तु । "प्रस्वः ओषधयोऽपि “नः अस्माकं “शं शान्त्यै भवन्तु । "वेदिः अपि नः “शमु शान्त्या एव "अस्तु ।


शं न॒ः सूर्य॑ उरु॒चक्षा॒ उदे॑तु॒ शं न॒श्चत॑स्रः प्र॒दिशो॑ भवन्तु ।

शं न॒ः पर्व॑ता ध्रु॒वयो॑ भवन्तु॒ शं न॒ः सिन्ध॑व॒ः शमु॑ स॒न्त्वाप॑ः ॥८

शम् । नः॒ । सूर्यः॑ । उ॒रु॒ऽचक्षाः॑ । उत् । ए॒तु॒ । शम् । नः॒ । चत॑स्रः । प्र॒ऽदिशः॑ । भ॒व॒न्तु॒ ।

शम् । नः॒ । पर्व॑ताः । ध्रु॒वयः॑ । भ॒व॒न्तु॒ । शम् । नः॒ । सिन्ध॑वः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । आपः॑ ॥८

शम् । नः । सूर्यः । उरुऽचक्षाः । उत् । एतु । शम् । नः । चतस्रः । प्रऽदिशः । भवन्तु ।

शम् । नः । पर्वताः । ध्रुवयः । भवन्तु । शम् । नः । सिन्धवः । शम् । ऊं इति । सन्तु । आपः ॥८

“नः अस्माकं “शं शान्त्यै “सूर्यः “उरुचक्षाः विस्तीर्णतेजाः सन् “उदेतु उदयं प्राप्नोतु । “चतस्रः “प्रदिशः महादिशोऽपि “नः अस्माकं “शं शान्त्यै “भवन्तु । “नः अस्माकं “शं शान्त्यै “पर्वताः “ध्रुवयः ध्रुवाः “भवन्तु। “नः अस्माकं “शं शान्त्यै “सिन्धवः नद्योऽपि भवन्तु । “आपः च नः “शमु शान्त्या एव “सन्तु ॥


शं नो॒ अदि॑तिर्भवतु व्र॒तेभि॒ः शं नो॑ भवन्तु म॒रुत॑ः स्व॒र्काः ।

शं नो॒ विष्णु॒ः शमु॑ पू॒षा नो॑ अस्तु॒ शं नो॑ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ॥९

शम् । नः॒ । अदि॑तिः । भ॒व॒तु॒ । व्र॒तेभिः॑ । शम् । नः॒ । भ॒व॒न्तु॒ । म॒रुतः॑ । सु॒ऽअ॒र्काः ।

शम् । नः॒ । विष्णुः॑ । शम् । ऊं॒ इति॑ । पू॒षा । नः॒ । अ॒स्तु॒ । शम् । नः॒ । भ॒वित्र॑म् । शम् । ऊं॒ इति॑ । अ॒स्तु॒ । वा॒युः ॥९

शम् । नः । अदितिः । भवतु । व्रतेभिः । शम् । नः । भवन्तु । मरुतः । सुऽअर्काः ।

शम् । नः । विष्णुः । शम् । ऊं इति । पूषा । नः । अस्तु । शम् । नः । भवित्रम् । शम् । ऊं इति । अस्तु । वायुः ॥९

“अदितिः देवी “व्रतेभिः व्रतैः कर्मभिः सार्धं “नः अस्माकं “शं शान्त्यै “भवतु । “स्वर्काः शोभनस्तुतयः “मरुतः अपि “नः अस्माकं “शं शान्त्यै सन्तु। “विष्णुः व्यापकः “नः अस्माकं “शं शान्त्या अस्तु । “पूषा देवोऽपि “नः अस्माकं “शमु शान्त्या एव “अस्तु । “भवित्रं भुवनमन्तरिक्षमुदकं वा “नः अस्माकं “शं शान्त्या अस्तु । "वायुः अपि नः “शमु शान्त्या एव “अस्तु ।


शं नो॑ दे॒वः स॑वि॒ता त्राय॑माण॒ः शं नो॑ भवन्तू॒षसो॑ विभा॒तीः ।

शं न॑ः प॒र्जन्यो॑ भवतु प्र॒जाभ्य॒ः शं न॒ः क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः ॥१०

शम् । नः॒ । दे॒वः । स॒वि॒ता । त्राय॑माणः । शम् । नः॒ । भ॒व॒न्तु॒ । उ॒षसः॑ । वि॒ऽभा॒तीः ।

शम् । नः॒ । प॒र्जन्यः॑ । भ॒व॒तु॒ । प्र॒ऽजाभ्यः॑ । शम् । नः॒ । क्षेत्र॑स्य । पतिः॑ । अ॒स्तु॒ । श॒म्ऽभुः ॥१०

शम् । नः । देवः । सविता । त्रायमाणः । शम् । नः । भवन्तु । उषसः । विऽभातीः ।

शम् । नः । पर्जन्यः । भवतु । प्रऽजाभ्यः । शम् । नः । क्षेत्रस्य । पतिः । अस्तु । शम्ऽभुः ॥१०

“देवः क्रीडनादिगुणयुक्तः “सविता “त्रायमाणः रक्षन् “नः अस्माकं “शं शान्त्यै भवतु । “विभातीः व्युच्छन्त्यः “उषसः अपि “नः अस्माकं “शं शान्त्यै “भवन्तु। “नः अस्माकं “प्रजाभ्यः “पर्जन्यः अपि “शं “भवतु । “शंभुः सुखस्य भावयिता “क्षेत्रस्य “पतिः “नः अस्माकं “शं शान्त्यै “अस्तु ॥ ॥ २९ ॥


शं नो॑ दे॒वा वि॒श्वदे॑वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु ।

शम॑भि॒षाच॒ः शमु॑ राति॒षाच॒ः शं नो॑ दि॒व्याः पार्थि॑वा॒ः शं नो॒ अप्या॑ः ॥११

शम् । नः॒ । दे॒वाः । वि॒श्वऽदे॑वाः । भ॒व॒न्तु॒ । शम् । सर॑स्वती । स॒ह । धी॒भिः । अ॒स्तु॒ ।

शम् । अ॒भि॒ऽसाचः॑ । शम् । ऊं॒ इति॑ । रा॒ति॒ऽसाचः॑ । शम् । नः॒ । दि॒व्याः । पार्थि॑वाः । शम् । नः॒ । अप्याः॑ ॥११

शम् । नः । देवाः । विश्वऽदेवाः । भवन्तु । शम् । सरस्वती । सह । धीभिः । अस्तु ।

शम् । अभिऽसाचः । शम् । ऊं इति । रातिऽसाचः । शम् । नः । दिव्याः । पार्थिवाः । शम् । नः । अप्याः ॥११

“विश्वदेवाः बहुस्तोत्रकाः "देवाः “नः अस्माकं “शं शान्त्यै “भवन्तु । “सरस्वती च “धीभिः स्तुतिभिः कर्मभिर्वा “सह नोऽस्माकं “शं शान्त्यै “अस्तु । “अभिषाचः यज्ञमभितः सेवमानाश्च नः “शं शान्त्यै भवन्तु । “रातिषाचः दानं सेवमाना अपि “शमु शान्त्या एव भवन्तु । “दिव्याः दिवि भवाश्च “नः अस्माकं “शं शान्त्यै भवन्तु । “पार्थिवाः पृथिव्यां संभूताश्च नः शं भवन्तु । “अप्याः अप्स्वन्तरिक्षे भवाश्च । आकाशमापः' इत्यन्तरिक्षनामसु पाठात् । “नः अस्माकं “शं शान्त्यै भवन्तु ।।


शं न॑ः स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व॑न्त॒ः शमु॑ सन्तु॒ गाव॑ः ।

शं न॑ ऋ॒भव॑ः सु॒कृत॑ः सु॒हस्ता॒ः शं नो॑ भवन्तु पि॒तरो॒ हवे॑षु ॥१२

शम् । नः॒ । स॒त्यस्य॑ । पत॑यः । भ॒व॒न्तु॒ । शम् । नः॒ । अर्व॑न्तः । शम् । ऊं॒ इति॑ । स॒न्तु॒ । गावः॑ ।

शम् । नः॒ । ऋ॒भवः॑ । सु॒ऽकृतः॑ । सु॒ऽहस्ताः॑ । शम् । नः॒ । भ॒व॒न्तु॒ । पि॒तरः॑ । हवे॑षु ॥१२

शम् । नः । सत्यस्य । पतयः । भवन्तु । शम् । नः । अर्वन्तः । शम् । ऊं इति । सन्तु । गावः ।

शम् । नः । ऋभवः । सुऽकृतः । सुऽहस्ताः । शम् । नः । भवन्तु । पितरः । हवेषु ॥१२

“सत्यस्य “पतयः पालकाः सत्यशीला देवाः “नः अस्माकं “शं शान्त्यै “भवन्तु। “अर्वन्तः अश्वाश्च “नः अस्माकं “शं शान्त्यै भवन्तु । “गावः अपि नः “शं शान्त्यै भवन्तु । “सुकृतः सुकर्माणः "सुहस्ताः शोभनहस्ताः “ऋभवः अपि “नः अस्माकं “शं शान्त्यै सन्तु। "हवेषु स्तोत्रेषु सत्सु “पितरः अपि “नः अस्माकं “शं शान्त्यै “भवन्तु ॥


शं नो॑ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१॒॑ः शं स॑मु॒द्रः ।

शं नो॑ अ॒पां नपा॑त्पे॒रुर॑स्तु॒ शं न॒ः पृश्नि॑र्भवतु दे॒वगो॑पा ॥१३

शम् । नः॒ । अ॒जः । एक॑ऽपात् । दे॒वः । अ॒स्तु॒ । शम् । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । शम् । स॒मु॒द्रः ।

शम् । नः॒ । अ॒पाम् । नपा॑त् । पे॒रुः । अ॒स्तु॒ । शम् । नः॒ । पृश्निः॑ । भ॒व॒तु॒ । दे॒वऽगो॑पा ॥१३

शम् । नः । अजः । एकऽपात् । देवः । अस्तु । शम् । नः । अहिः । बुध्न्यः । शम् । समुद्रः ।

शम् । नः । अपाम् । नपात् । पेरुः । अस्तु । शम् । नः । पृश्निः । भवतु । देवऽगोपा ॥१३

“अज “एकपात् अज एकपान्नामधेयः "देवः “नः अस्माकं “शं शान्त्यै “अस्तु । “अहि र्बुध्न्यः च “नः अस्माकं “शं शान्त्या अस्तु । “समुद्रः अपि नः “शं शान्त्या अस्तु । “पेरुः उपद्रवेभ्यः पारथिता “अपां “नपात् अपांनपान्नामधेयोऽपि देवः “नः अस्माकं “शं शान्त्यै “अस्तु । "देवगोपा देवा गोपायितारो यस्यां सा “पृश्निः मरुतां माता “नः अस्माकं “शं शान्त्यै “भवतु ।।


आ॒दि॒त्या रु॒द्रा वस॑वो जुषन्ते॒दं ब्रह्म॑ क्रि॒यमा॑णं॒ नवी॑यः ।

शृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः ॥१४

आ॒दि॒त्याः । रु॒द्राः । वस॑वः । जु॒ष॒न्त॒ । इ॒दम् । ब्रह्म॑ । क्रि॒यमा॑णम् । नवी॑यः ।

शृ॒ण्वन्तु॑ । नः॒ । दि॒व्याः । पार्थि॑वासः । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः ॥१४

आदित्याः । रुद्राः । वसवः । जुषन्त । इदम् । ब्रह्म । क्रियमाणम् । नवीयः ।

शृण्वन्तु । नः । दिव्याः । पार्थिवासः । गोऽजाताः । उत । ये । यज्ञियासः ॥१४

“नवीयः नवतरमस्माभिः “क्रियमाणम् “इदं “ब्रह्म स्तोत्रम् “आदित्याः दिव्याः। ‘अदितिर्द्यौः ' (ऋ. सं. १. ८९. १०) इति श्रुतेः । रुद्राः आन्तरिक्षाः “वसवः पार्थिवाश्च “जुषन्त जुषन्तां सेवन्ताम् । अन्ये "दिव्याः दिवि भवाः “पार्थिवासः पार्थिवाः “गोजाताः गोः पृश्नेर्जाताः । ‘नाको गौः' इति साधारणनामसु पाठात् । "उत अपि च "ये “यज्ञियासः यज्ञार्हास्ते सर्वेऽपि “नः अस्माकं हवं “शृण्वन्तु ॥


ये दे॒वानां॑ य॒ज्ञिया॑ य॒ज्ञिया॑नां॒ मनो॒र्यज॑त्रा अ॒मृता॑ ऋत॒ज्ञाः ।

ते नो॑ रासन्तामुरुगा॒यम॒द्य यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥१५

ये । दे॒वाना॑म् । य॒ज्ञियाः॑ । य॒ज्ञिया॑नाम् । मनोः॑ । यज॑त्राः । अ॒मृताः॑ । ऋ॒त॒ऽज्ञाः ।

ते । नः॒ । रा॒स॒न्ता॒म् । उ॒रु॒ऽगा॒यम् । अ॒द्य । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥१५

ये । देवानाम् । यज्ञियाः । यज्ञियानाम् । मनोः । यजत्राः । अमृताः । ऋतऽज्ञाः ।

ते । नः । रासन्ताम् । उरुऽगायम् । अद्य । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१५

“यज्ञियानां यजनीयानां “देवानाम् अपि “यज्ञियाः यजनीयाः “मनोः प्रजापतेश्च “यजत्राः यजनीयाः "अमृताः मरणरहिताः “ऋतज्ञाः सत्यज्ञाः "ये देवाः सन्ति “ते सर्वे “उरुगायं बहुकीर्तिं पुत्रम् “अद्य “नः अस्मभ्यं “रासन्तां प्रयच्छन्तु । सिद्ध एवोत्तमः पादः ॥ ॥ ३० ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टके तृतीयोऽध्यायः समाप्तः ॥


टिप्पणी

अथर्व १९.१०.१, वा.सं. ३६.११, शांश्रौसू. १६.१३.६, ११.९.१२,

यदि गृहे मधूका मधु कुर्वन्त्युपोष्यौदुम्बरीः समिधोऽष्टशतं दधिमधुघृताक्ता मा नस्तोक इति द्वाभ्यां जुहुयाच्छं न इन्द्राग्नी इति च सूक्तं जपेत्सर्वेषु च कर्मसु प्रतिश्रुतादिषु ३ - शां.गृ.सू. ५.१०.३,

ऋग्विधान २.२५.१०, १.३.५, पार.ध. ११.३५,

अथैतैर्वास्तु परीक्षेत...तच्छमीशाखयोडुम्बरशाखया वा शन्तातीयेन त्रिः परिव्रजन्प्रोक्षति ११ - आश्व.गृ.सू. २.८.११,

व्रीहियवमतीभिरद्भिर्हिरण्यमवधाय शन्तातीयेन त्रिः प्रदक्षिणं परिव्रजन्प्रोक्षति ७ - आश्व.गृ. सू. २.९.७, ४.८.३९, ४३ शन्ताति सूक्तम्।


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.३५&oldid=369490" इत्यस्माद् प्रतिप्राप्तम्