ऋग्वेदः सूक्तं ७.५५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.५४ ऋग्वेदः - मण्डल ७
सूक्तं ७.५५
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.५६ →
दे. वास्तोष्पतिः, २-८ इन्द्रः ( २-८ प्रस्वापिनी उपनिषद्)। गायत्री, २-४ उपरिष्टाद्बृहती, ५-८ अनुष्टुप्।


अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् ।
सखा सुशेव एधि नः ॥१॥
यदर्जुन सारमेय दतः पिशङ्ग यच्छसे ।
वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप ॥२॥
स्तेनं राय सारमेय तस्करं वा पुनःसर ।
स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप ॥३॥
त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः ।
स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप ॥४॥
सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः ।
ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः ॥५॥
य आस्ते यश्च चरति यश्च पश्यति नो जनः ।
तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥६॥
सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत् ।
तेना सहस्येना वयं नि जनान्स्वापयामसि ॥७॥
प्रोष्ठेशया वह्येशया नारीर्यास्तल्पशीवरीः ।
स्त्रियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि ॥८॥


सायणभाष्यम्

‘अमीवहा' इत्यष्टर्चं द्वाविंशं सूक्तम् । आद्या गायत्री पञ्चम्याद्याश्चतस्रोऽनुष्टुभो द्वितीयाद्यास्तिस्र उपरिष्टाद्बृहत्यः । ‘त्र्यष्टका चतुर्थद्वादशी बृहती' इति तल्लक्षणयोगात् । आद्या वास्तोष्पतिदेवताका शिष्टा ऐन्यःर् । तथा चानुक्रान्तम्-'अमीवहाष्टौ वास्तोष्पत्याद्या गायत्री शेषास्त्र्युपरिष्टाद्बृहत्यादयोऽनुष्टुभः प्रस्वापिन्य उपनिषत् ' इति । गतो विनियोगः । बृहद्देवतायां यदुक्तं तदिह लिख्यते- वरुणस्य गृहान् रात्रौ वसिष्ठः स्वप्नमाचरन् । प्रविवेशाथ तं तत्र श्वा नदन्नभ्यवर्तत । क्रन्दन्तं सारमेयं स धावन्तं दष्टुमुद्यतम् ॥ यदर्जुनेति च द्वाभ्यां सान्त्वयित्वा ह्यसूषुपत् । एवं प्रस्वापयामास जनमन्यं च वारुणम्' (बृहद्दे. ६. ११-१३) इति । अत्र केचित् पुनरेवमाहुः-’ आसां प्रस्वापिनित्वं तु कथासु परिकल्प्यते । वसिष्ठस्तृषितोऽन्नार्थी त्रिरात्रालब्धभोजनः । चतुर्थरात्रौ चौर्यार्थं वारुणं गृहमेत्य तु । कोष्ठागारे प्रवेशाय पालकश्वादिसुप्तये । यदर्जुनेति सप्तर्चं ददर्श च जजाप च' (अनु. भा. ७. ५५) इति ।।


अ॒मी॒व॒हा वा॑स्तोष्पते॒ विश्वा॑ रू॒पाण्या॑वि॒शन् ।

सखा॑ सु॒शेव॑ एधि नः ॥१

अ॒मी॒व॒ऽहा । वा॒स्तोः॒ । प॒ते॒ । विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् ।

सखा॑ । सु॒ऽशेवः॑ । ए॒धि॒ । नः॒ ॥१

अमीवऽहा । वास्तोः । पते । विश्वा । रूपाणि । आऽविशन् ।

सखा । सुऽशेवः । एधि । नः ॥१

हे वास्तोष्पते गृहस्य पालकैतत्संज्ञक देव "अमीवहा अमीवानां रोगाणां नाशकस्त्वं "विश्वा विश्वानि बहूनि "रूपाण्याविशन् प्रविशन् ।' यद्यद्रूपं कामयते तत्तद्देवता विशति' (निरु. १०.१७) इति यास्कः । "नः अस्माकं "सखा मित्रभूतः "सुशेवः सुष्ठु सुखकरः “एधि भव ।।


यद॑र्जुन सारमेय द॒तः पि॑शङ्ग॒ यच्छ॑से ।

वी॑व भ्राजन्त ऋ॒ष्टय॒ उप॒ स्रक्वे॑षु॒ बप्स॑तो॒ नि षु स्व॑प ॥२

यत् । अ॒र्जु॒न॒ । सा॒र॒मे॒य॒ । द॒तः । पि॒श॒ङ्ग॒ । यच्छ॑से ।

विऽइ॑व । भ्रा॒ज॒न्ते॒ । ऋ॒ष्टयः॑ । उप॑ । स्रक्वे॑षु । बप्स॑तः । नि । सु । स्व॒प॒ ॥२

यत् । अर्जुन । सारमेय । दतः । पिशङ्ग । यच्छसे ।

विऽइव । भ्राजन्ते । ऋष्टयः । उप । स्रक्वेषु । बप्सतः । नि । सु । स्वप ॥२

हे "अर्जुन श्वेत हे "सारमेय । सरमा नाम देवशुनी । तस्याः कुलोद्भव हे "पिशङ्ग केषुचिदङ्गेषु पिङ्गलवर्णैवंभूत हे शुनक त्वं "दतः दन्तान् "यत् यदा “यच्छसे विवृणोषि । अस्मान् दुष्टुमित्यर्थः । तदानीं "वीव “भ्राजन्त “ऋष्टयः यथायुधानि विशेषेण भासन्ते तथा “उप अस्मत्समीपे “बप्सतः भक्षयतस्तव दन्ताः "स्रक्वेषु स्रक्वासु भासन्ते । स्रक्वाशब्द ओष्ठप्रदेशविशेषवाचीत्यर्थः । तथाभूतस्त्वमिदानीं "सु सुष्ठु "नि "स्वप नितरां निद्रां कुरु ॥


स्ते॒नं रा॑य सारमेय॒ तस्क॑रं वा पुनःसर ।

स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ॥३

स्ते॒नम् । रा॒य॒ । सा॒र॒मे॒य॒ । तस्क॑रम् । वा॒ । पु॒नः॒ऽस॒र॒ ।

स्तो॒तॄन् । इन्द्र॑स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒ऽय॒से॒ । नि । सु । स्व॒प॒ ॥३

स्तेनम् । राय । सारमेय । तस्करम् । वा । पुनःऽसर ।

स्तोतॄन् । इन्द्रस्य । रायसि । किम् । अस्मान् । दुच्छुनऽयसे । नि । सु । स्वप ॥३

हे “पुनःसर । गतमेव देशं पुनः सरंतीति पुनःसरः । तादृग्भूत हे "सारमेय त्वं "स्तेनम् । प्रच्छन्नधनापहारी स्तेनः । तं “तस्करम् । प्रत्यक्षधनापहारी तस्करः । तं "वा "राय गच्छ । "इन्द्रस्य “स्तोतॄन् अस्मान् "किं "रायसि गच्छसि । "अस्मान् "दुच्छुनायसे किं बाधसे । “नि “षु “स्वप अत्यन्तं निद्रां कुरु ॥


त्वं सू॑क॒रस्य॑ दर्दृहि॒ तव॑ दर्दर्तु सूक॒रः ।

स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ॥४

त्वम् । सू॒क॒रस्य॑ । द॒र्दृ॒हि॒ । तव॑ । द॒र्द॒र्तु॒ । सू॒क॒रः ।

स्तो॒तॄन् । इन्द्र॑स्य । रा॒य॒सि॒ । किम् । अ॒स्मान् । दु॒च्छु॒न॒ऽय॒से॒ । नि । सु । स्व॒प॒ ॥४

त्वम् । सूकरस्य । दर्दृहि । तव । दर्दर्तु । सूकरः ।

स्तोतॄन् । इन्द्रस्य । रायसि । किम् । अस्मान् । दुच्छुनऽयसे । नि । सु । स्वप ॥४

हे सारमेय “त्वं सूकरस्य वराहस्य । द्वितीयार्थे षष्ठी । दर्दृहि विदारय । "सूकरः अपि “तव दर्दर्तु विदारयतु । युवयोर्नित्यवैरित्वात् । अस्मान् मा दशेत्यर्थः । स्तोतॄन इत्यर्धर्चः पूर्वस्यामृचि व्याख्यातः ॥


सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु॒ श्वा सस्तु॑ वि॒श्पति॑ः ।

स॒सन्तु॒ सर्वे॑ ज्ञा॒तय॒ः सस्त्व॒यम॒भितो॒ जन॑ः ॥५

सस्तु॑ । मा॒ता । सस्तु॑ । पि॒ता । सस्तु॑ । श्वा । सस्तु॑ । वि॒श्पतिः॑ ।

स॒सन्तु॑ । सर्वे॑ । ज्ञा॒तयः॑ । सस्तु॑ । अ॒यम् । अ॒भितः॑ । जनः॑ ॥५

सस्तु । माता । सस्तु । पिता । सस्तु । श्वा । सस्तु । विश्पतिः ।

ससन्तु । सर्वे । ज्ञातयः । सस्तु । अयम् । अभितः । जनः ॥५

हे सारमेय माता त्वदीया जननी "सस्तु स्वपतु । "पिता च "सस्तु। "श्वा सारमेयो भवान् “सस्तु । “विश्पतिः जामाता यद्वा विशां जनानां पालको गृही "सस्तु । "सर्वे "ज्ञातयः बन्धवोऽपि “ससन्तु स्वपन्तु । "अभितः परितः स्थितः "अयम् अपि सर्वः "जनः "सस्तु स्वपतु ॥


य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जन॑ः ।

तेषां॒ सं ह॑न्मो अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा॑ ॥६

यः । आस्ते॑ । यः । च॒ । चर॑ति । यः । च॒ । पश्य॑ति । नः॒ । जनः॑ ।

तेषा॑म् । सम् । ह॒न्मः॒ । अ॒क्षाणि॑ । यथा॑ । इ॒दम् । ह॒र्म्यम् । तथा॑ ॥६

यः । आस्ते । यः । च । चरति । यः । च । पश्यति । नः । जनः ।

तेषाम् । सम् । हन्मः । अक्षाणि । यथा । इदम् । हर्म्यम् । तथा ॥६

“यः जनः "आस्ते अस्मिन् प्रदेशे तिष्ठति "यश्च "चरति गच्छति "यश्च "जनः "नः अस्मान् “पश्यति एवंभूतानां "तेषां जनानाम् "अक्षाणि इन्द्रियाणि “सं “हन्मः संहनाम । संहतिर्निमीलनम् । निमीलयामेत्यर्थः । "इदं प्रत्यक्षेणोपलभ्यमानं “हर्म्यं प्रासादादिस्थावरात्मकं वस्तुजातं "यथा निश्चलं भवति "तथा इमे सर्वे जना निश्चला भवन्त्वित्यर्थः ॥


स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् ।

तेना॑ सह॒स्ये॑ना व॒यं नि जना॑न्स्वापयामसि ॥७

स॒हस्र॑ऽशृङ्गः । वृ॒ष॒भः । यः । स॒मु॒द्रात् । उ॒त्ऽआच॑रत् ।

तेन॑ । स॒ह॒स्ये॑न । व॒यम् । नि । जना॑न् । स्वा॒प॒या॒म॒सि॒ ॥७

सहस्रऽशृङ्गः । वृषभः । यः । समुद्रात् । उत्ऽआचरत् ।

तेन । सहस्येन । वयम् । नि । जनान् । स्वापयामसि ॥७

“सहस्रशृङ्गः सहस्रकिरणः "वृषभः कामानां वर्षिता "यः सूर्यः "समुद्रात् अम्बुधेः सकाशात् “उदाचरत् उदागच्छति सहस्येन अभिभवित्रा “तेन सूर्येण “वयं स्तोतारः “जनान् सर्वान् “नि “ष्वापयामसि नितरां स्वापयामः ॥


प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः ।

स्त्रियो॒ याः पुण्य॑गन्धा॒स्ताः सर्वा॑ः स्वापयामसि ॥८

प्रो॒ष्ठे॒ऽश॒याः । व॒ह्ये॒ऽश॒याः । नारीः॑ । याः । त॒ल्प॒ऽशीव॑रीः ।

स्त्रियः॑ । याः । पुण्य॑ऽगन्धाः । ताः । सर्वाः॑ । स्वा॒प॒या॒म॒सि॒ ॥८

प्रोष्ठेऽशयाः । वह्येऽशयाः । नारीः । याः । तल्पऽशीवरीः ।

स्त्रियः । याः । पुण्यऽगन्धाः । ताः । सर्वाः । स्वापयामसि ॥८

"याः यादृश्यः "नारीः नार्यः स्त्रियः “प्रोष्ठेशयाः प्राङ्कणे' शयानाः । याः “वह्येशयाः । वह्यं वाहनम् । तस्मिन् शयानाः । याः "तल्पशीवरी: तल्पशयाः। “याः "स्त्रियः पुण्यगन्धाः मङ्गल्यगन्धाः। “ताः तादृशीः "सर्वाः स्त्रीः "स्वापयामसि वयं निद्रां कारयामः ॥ ॥ २२ ॥ ॥ ३ ॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५५&oldid=189875" इत्यस्माद् पुनः प्राप्तिः