ऋग्वेदः सूक्तं ७.४८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.४७ ऋग्वेदः - मण्डल ७
सूक्तं ७.४८
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.४९ →
दे. ऋभवः, ४ विश्वे देवा वा। त्रिष्टुप्।


ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य ।
आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥१॥
ऋभुरृभुभिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि ।
वाजो अस्माँ अवतु वाजसाताविन्द्रेण युजा तरुषेम वृत्रम् ॥२॥
ते चिद्धि पूर्वीरभि सन्ति शासा विश्वाँ अर्य उपरताति वन्वन् ।
इन्द्रो विभ्वाँ ऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कृणवन्वि नृम्णम् ॥३॥
नू देवासो वरिवः कर्तना नो भूत नो विश्वेऽवसे सजोषाः ।
समस्मे इषं वसवो ददीरन्यूयं पात स्वस्तिभिः सदा नः ॥४॥


सायणभाष्यम्

‘ ऋभुक्षणः' इति चतुर्ऋचं पञ्चदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमृभुदेवताकम् । अन्त्याया विकल्पेन विश्वे देवा देवता । तथा चानुक्रान्तम् - ऋभुक्षण आर्भवमन्त्या वैश्वदेवी वा ' इति । दशमेऽहनि वैश्वदेवशस्त्र आर्भवनिविद्धानम् । सूत्र्यते हि - ‘ ऋभुक्षण इत्यार्भवम् ' (आश्व. श्रौ. ८. १२) इति ॥


ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ ।

आ वो॒ऽर्वाच॒ः क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं॑ वर्तयन्तु ॥१

ऋभु॑क्षणः । वा॒जाः॒ । मा॒दय॑ध्वम् । अ॒स्मे इति॑ । न॒रः॒ । म॒घ॒ऽवा॒नः॒ । सु॒तस्य॑ ।

आ । वः॒ । अ॒र्वाचः॑ । क्रत॑वः । न । या॒ताम् । विऽभ्वः॑ । रथ॑म् । नर्य॑म् । व॒र्त॒य॒न्तु॒ ॥१

ऋभुक्षणः । वाजाः । मादयध्वम् । अस्मे इति । नरः । मघऽवानः । सुतस्य ।

आ । वः । अर्वाचः । क्रतवः । न । याताम् । विऽभ्वः । रथम् । नर्यम् । वर्तयन्तु ॥१

ऋभुक्षेत्यृभूणां ज्येष्ठस्याख्या वाज इति तु कनिष्ठस्य । अत्र ‘ऋभुक्षणो वाजाः' इति बहुवचनेन ऋभवस्त्रयो गृह्यन्ते । हे “ऋभुक्षणो “वाजाः "नरः नेतारः “मघवानः धनवन्तः एवंभूता हे ऋभवः यूयम् "अस्मे अस्मासु स्थितेन "सुतस्य अभिषुतेन सोमेन "मादयध्वं तृप्ता भवत । "न इति संप्रत्यर्थे । इदानीं "यातां गच्छतां "वः युष्मदीयाः "क्रतवः कर्मणां कर्तारः "विभ्वः विभवः समर्था अश्वाः "अर्वाचः अर्वाञ्चोऽस्मदभिमुखाः सन्तः "नर्यं मनुष्यहितं "रथं युष्मदीयम् “आ “वर्तयन्तु आगमयन्तु ॥


ऋ॒भुरृ॒भुभि॑र॒भि व॑ः स्याम॒ विभ्वो॑ वि॒भुभि॒ः शव॑सा॒ शवां॑सि ।

वाजो॑ अ॒स्माँ अ॑वतु॒ वाज॑साता॒विन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम् ॥२

ऋ॒भुः । ऋ॒भुऽभिः॑ । अ॒भि । वः॒ । स्या॒म॒ । विऽभ्वः॑ । वि॒भुऽभिः॑ । शव॑सा । शवां॑सि ।

वाजः॑ । अ॒स्मान् । अ॒व॒तु॒ । वाज॑ऽसातौ । इन्द्रे॑ण । यु॒जा । त॒रु॒षे॒म॒ । वृ॒त्रम् ॥२

ऋभुः । ऋभुऽभिः । अभि । वः । स्याम । विऽभ्वः । विभुऽभिः । शवसा । शवांसि ।

वाजः । अस्मान् । अवतु । वाजऽसातौ । इन्द्रेण । युजा । तरुषेम । वृत्रम् ॥२

हे ऋभवः “ऋभुभिः युष्माभिर्वयम् “ऋभुः । उरु भवन्तीत्यृभवः । सन्तः "विभुभिः युष्माभिः "विभ्वः विभवश्च सन्तः “शवांसि शत्रूणां बलानि “शवसा युष्मदीयेन बलेन “अभि "स्याम अभिभवेम । तथा “वाजसातौ संग्रामे “वाजः एतत्संज्ञक ऋभुः "अस्मानवतु पालयतु । अपि च "युजा सहायभूतेन “इन्द्रेण "वृत्रं शत्रुं वयं “तरुषेम हनाम । प्रायेणर्भवोऽपीन्द्रेण सह स्तूयन्त इति ॥


ते चि॒द्धि पू॒र्वीर॒भि सन्ति॑ शा॒सा विश्वाँ॑ अ॒र्य उ॑प॒रता॑ति वन्वन् ।

इन्द्रो॒ विभ्वाँ॑ ऋभु॒क्षा वाजो॑ अ॒र्यः शत्रो॑र्मिथ॒त्या कृ॑णव॒न्वि नृ॒म्णम् ॥३

ते । चि॒त् । हि । पू॒र्वीः । अ॒भि । सन्ति॑ । शा॒सा । विश्वा॑न् । अ॒र्यः । उ॒प॒रऽता॑ति । व॒न्व॒न् ।

इन्द्रः॑ । विऽभ्वा॑ । ऋ॒भु॒क्षाः । वाजः॑ । अ॒र्यः । शत्रोः॑ । मि॒थ॒त्या । कृ॒ण॒व॒न् । वि । नृ॒म्णम् ॥३

ते । चित् । हि । पूर्वीः । अभि । सन्ति । शासा । विश्वान् । अर्यः । उपरऽताति । वन्वन् ।

इन्द्रः । विऽभ्वा । ऋभुक्षाः । वाजः । अर्यः । शत्रोः । मिथत्या । कृणवन् । वि । नृम्णम् ॥३

“ते तादृशाः इन्द्रः ऋभवश्व "पूर्वीः बह्वीरस्मच्छत्रुसेनाः “शासा शासनेन स्वकीययाज्ञया । यद्वा । विशस्यते हिंस्यतेऽनेनेति शासशब्द आयुधवाची । तेन "अभि "सन्ति अभिभवन्ति । “चिद्धि इतीमौ पूरणौ । किंच "उपरताति ॥ सप्तम्या लुक् ॥ उपरैः उपलैः पाषाणसदृशैरायुधैस्तायते विस्तार्यत इत्युपरताति युद्धम् । तस्मिन् "विश्वान् समस्तान् "अर्यः अरीञ्छत्रून् "वन्वन् हिंसन्ति । "विभ्वा “ऋभुक्षाः "वाजः एतत्संज्ञका ऋभवश्च “इन्द्रः च "अर्यः शत्रूणामभिगन्तारः सन्तः "शत्रोः संबन्धि "नृम्णं बलं "मिथत्या । मेथतेरिदं रूपम् । मिथतिर्हिंसा । तया "वि कृणवन् विकुर्वन्तु । विनाशयन्वित्यर्थः ॥


नू दे॑वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषा॑ः ।

सम॒स्मे इषं॒ वस॑वो ददीरन्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥४

नु । दे॒वा॒सः॒ । वरि॑वः । क॒र्त॒न॒ । नः॒ । भू॒त । नः॒ । विश्वे॑ । अव॑से । स॒ऽजोषाः॑ ।

सम् । अ॒स्मे इति॑ । इष॑म् । वस॑वः । द॒दी॒र॒न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥ ४

नु । देवासः । वरिवः । कर्तन । नः । भूत । नः । विश्वे । अवसे । सऽजोषाः ।

सम् । अस्मे इति । इषम् । वसवः । ददीरन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥४

हे "देवासः देवाः द्योतमाना ऋभवः यूयं "नु अद्य "नः अस्मभ्यं "वरिवः धनं "कर्तन कुरुत प्रयच्छत । तथा "विश्वे सर्वे ऋभवो यूयं "सजोषाः सह प्रीयमाणाः सन्तः “नः अस्माकम् "अवसे रक्षणाय "भूत भवत । अपि च "वसवः प्रशस्या ऋभवः “इषम् अन्नम् "अस्मे अस्मभ्यं "सं "ददीरन् संप्रयच्छेयुः । हे ऋभवः यूयम् अस्मान् सर्वदा कल्याणैः रक्षत ॥ ॥ १५ ॥

[सम्पाद्यताम्]


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४८&oldid=215046" इत्यस्माद् प्रतिप्राप्तम्