ऋग्वेदः सूक्तं ७.६५
← सूक्तं ७.६४ | ऋग्वेदः - मण्डल ७ सूक्तं ७.६५ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.६६ → |
दे. मित्रावरुणौ, ४-१३ आदित्याः, १४-१६ सूर्यः। गायत्री, १०-१५ प्रगाथः ( ), १६ पुर उष्णिक् । |
प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम् ।
ययोरसुर्यमक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नु ॥१॥
ता हि देवानामसुरा तावर्या ता नः क्षितीः करतमूर्जयन्तीः ।
अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च ॥२॥
ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय ।
ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम ॥३॥
आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः ।
प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः ॥४॥
एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि ।
अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभिः सदा नः ॥५॥
सायणभाष्यम्
‘ प्रति वां सूरे' इति पञ्चर्चं दशमं सूक्तं वसिष्ठस्यार्षं मैत्रावरुणम् । ‘ प्रति वाम् इत्यनुक्रान्तम् । द्वितीये छन्दोमे प्रउगशस्त्रेऽप्येष तृचः । सूत्रितं च- ‘ प्रति वां सूर उदिते सूक्तैर्धेनुः प्रत्नस्य' (आश्व. श्रौ. ८. १०) इति ।।
प्रति॑ वां॒ सूर॒ उदि॑ते सू॒क्तैर्मि॒त्रं हु॑वे॒ वरु॑णं पू॒तद॑क्षम् ।
ययो॑रसु॒र्य१॒॑मक्षि॑तं॒ ज्येष्ठं॒ विश्व॑स्य॒ याम॑न्ना॒चिता॑ जिग॒त्नु ॥१
प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । सु॒ऽउ॒क्तैः । मि॒त्रम् । हु॒वे॒ । वरु॑णम् । पू॒तऽद॑क्षम् ।
ययोः॑ । अ॒सु॒र्य॑म् । अक्षि॑तम् । ज्येष्ठ॑म् । विश्व॑स्य । याम॑न् । आ॒ऽचिता॑ । जि॒ग॒त्नु ॥१
प्रति । वाम् । सूरे । उत्ऽइते । सुऽउक्तैः । मित्रम् । हुवे । वरुणम् । पूतऽदक्षम् ।
ययोः । असुर्यम् । अक्षितम् । ज्येष्ठम् । विश्वस्य । यामन् । आऽचिता । जिगत्नु ॥१
"सूरे सूर्ये “उदिते प्रातःसवने “मित्रं “पूतदक्षं शुद्धबलं “वरुणं “वां सूक्तैः “हुवे आह्वये । “ययोः मित्रावरुणयोः “अक्षितम् अक्षीणमत एव “ज्येष्ठम् "असुर्यं बलम् “आचिता आचित उपचिते शूरसंघैरुपेते "यामन् यामनि संग्रामे “विश्वस्य शत्रुसंघस्य “जिगत्नु जेतृ भवति ।।
ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता न॑ः क्षि॒तीः क॑रतमू॒र्जय॑न्तीः ।
अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा॑ च॒ यत्र॑ पी॒पय॒न्नहा॑ च ॥२
ता । हि । दे॒वाना॑म् । असु॑रा । तौ । अ॒र्या । ता । नः॒ । क्षि॒तीः । क॒र॒त॒म् । ऊ॒र्जय॑न्तीः ।
अ॒श्याम॑ । मि॒त्रा॒व॒रु॒णा॒ । व॒यम् । वा॒म् । द्यावा॑ । च॒ । यत्र॑ । पी॒पय॑न् । अहा॑ । च॒ ॥२
ता । हि । देवानाम् । असुरा । तौ । अर्या । ता । नः । क्षितीः । करतम् । ऊर्जयन्तीः ।
अश्याम । मित्रावरुणा । वयम् । वाम् । द्यावा । च । यत्र । पीपयन् । अहा । च ॥२
“ता “हि तौ खलु देवौ “देवानां मध्ये “असुरा बलवन्तौ । “अर्या “अर्यौ “तौ सर्वस्येश्वरौ “ता तौ "नः अस्माकं क्षितीः पुत्रादिरूपाः प्रजाः “ऊर्जयन्तीः प्रवृद्धाः “करतं कुरुतम्। हे “मित्रावरुणा मित्रावरुणौ “वयं "वां युवाम् “अश्याम व्याप्नुयाम । “यत्र यस्यां युवयोर्व्याप्तौ “द्यावा द्यावापृथिव्यौ । सर्वदा तयोः सहभावादयमर्थो लभ्यते । “अहा “च । एतद्रात्रेरुपलक्षणम् । अहोरात्राणि च "पीपयन् अस्मान् प्याययेयुः ॥
ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू॑ दुर॒त्येतू॑ रि॒पवे॒ मर्त्या॑य ।
ऋ॒तस्य॑ मित्रावरुणा प॒था वा॑म॒पो न ना॒वा दु॑रि॒ता त॑रेम ॥३
ता । भूरि॑ऽपाशौ । अनृ॑तस्य । सेतू॒ इति॑ । दु॒र॒त्येतू॒ इति॑ दुः॒ऽअ॒त्येतू॑ । रि॒पवे॑ । मर्त्या॑य ।
ऋ॒तस्य॑ । मि॒त्रा॒व॒रु॒णा॒ । प॒था । वा॒म् । अ॒पः । न । ना॒वा । दुः॒ऽइ॒ता । त॒रे॒म॒ ॥३
ता । भूरिऽपाशौ । अनृतस्य । सेतू इति । दुरत्येतू इति दुःऽअत्येतू । रिपवे । मर्त्याय ।
ऋतस्य । मित्रावरुणा । पथा । वाम् । अपः । न । नावा । दुःऽइता । तरेम ॥३
“ता तौ मित्रावरुणौ “भूरिपाशौ प्रभूतबन्धनसाधनपाशोपेतौ “अनृतस्य यागरहितस्य “सेतू सेतुवद्बन्धकौ “रिपवे “मर्त्याय वैरिजनाय "दुरत्येतू दुरतिक्रमौ भवतः । हे “मित्रावरुणा तादृशौ मित्रावरुणौ “वां युवयोः “ऋतस्य यज्ञस्य युवयोरर्थायानुष्ठीयमानस्य यागस्य “पथा मार्गेण “दुरिता दुःखानि “तरेम “नावा “अपो “न प्रभूतान्युदकानीव ॥
मैत्रावरुणे पशौ ‘आ नो मित्रावरूणा ' इत्येषा चतुर्थ्यनुवाक्या। सूत्रितं च -- ‘ आ नो मित्रावरुणा हव्यजुष्टिं युवं वस्त्राणि पीवसा वसाथे ' (आश्व. श्रौ. ३. ८) इति ॥
आ नो॑ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू॑तिमुक्षत॒मिळा॑भिः ।
प्रति॑ वा॒मत्र॒ वर॒मा जना॑य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारो॑ः ॥४
आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । ह॒व्यऽजु॑ष्टिम् । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् । इळा॑भिः ।
प्रति॑ । वा॒म् । अत्र॑ । वर॑म् । आ । जना॑य । पृ॒णी॒तम् । उ॒द्नः । दि॒व्यस्य॑ । चारोः॑ ॥४
आ । नः । मित्रावरुणा । हव्यऽजुष्टिम् । घृतैः । गव्यूतिम् । उक्षतम् । इळाभिः ।
प्रति । वाम् । अत्र । वरम् । आ । जनाय । पृणीतम् । उद्नः । दिव्यस्य । चारोः ॥४
हे “मित्रावरुणा मित्रावरुणौ “नः अस्माकं “हव्यजुष्टिं हविःसेवनवन्तं यज्ञम् “आ गच्छतमिति शेषः । आगत्य च “इळाभिः अन्नैः सह “घृतैः उदकैः “गव्यूतिम् अस्मदीयां भूमिम् “उक्षतं सिञ्चतम्। “वां युवां “प्रति “अत्र अस्मिँल्लोके “वरम् उत्कृष्टं हविः स्तोत्रं वा क “आ यच्छेदिति शेषः । अतः केवलं कृपयैव “दिव्यस्य दिवि भवस्य “चारोः चरणीयस्थ उद्नः उदकस्य । कर्मणि षष्ठी । उक्तलक्षणमुदकं “पृणीतं प्रयच्छतम् ॥
ए॒ष स्तोमो॑ वरुण मित्र॒ तुभ्यं॒ सोम॑ः शु॒क्रो न वा॒यवे॑ऽयामि ।
अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५
ए॒षः । स्तोमः॑ । व॒रु॒ण॒ । मि॒त्र॒ । तुभ्य॑म् । सोमः॑ । शु॒क्रः । न । वा॒यवे॑ । अ॒या॒मि॒ ।
अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५
एषः । स्तोमः । वरुण । मित्र । तुभ्यम् । सोमः । शुक्रः । न । वायवे । अयामि ।
अविष्टम् । धियः । जिगृतम् । पुरम्ऽधीः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५
‘एष स्तोमः' इति पञ्चमी गता ॥ ॥ ७ ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|