ऋग्वेदः सूक्तं ७.५१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.५० ऋग्वेदः - मण्डल ७
सूक्तं ७.५१
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.५२ →
दे. आदित्याः। त्रिष्टुप्।


आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शंतमेन ।
अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥१॥
आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः ।
अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य ॥२॥
आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ऋभवश्च विश्वे ।
इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः सदा नः ॥३॥


सायणभाष्यम्

‘ आदित्यानाम्' इति तृचमष्टादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमादित्यदेवताकम् । अनुक्रम्यते च - आदित्यानां तृचमादित्यं तु ' इति । गतः सूक्तविनियोगः । आदित्यदेवताके पशौ आदित्यानामवसा ' इति वपाया अनुवाक्या। सूत्रितं च - आदित्यानामवसा नूतनेनेमा गिर आदित्येभ्यः' (आश्व. श्रौ. ३.८) इति ।


आदित्यग्रहस्यैषानुवाक्या। सूत्रितं च - आदित्यानामवसा नूतनेन होता यक्षदादित्यान् ' (आश्व. श्रौ. ५. १७) इति ॥

आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन ।

अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ॥१

आ॒दि॒त्याना॑म् । अव॑सा । नूत॑नेन । स॒क्षी॒महि॑ । शर्म॑णा । शम्ऽत॑मेन ।

अ॒ना॒गाःऽत्वे । अ॒दि॒ति॒ऽत्वे । तु॒रासः॑ । इ॒मम् । य॒ज्ञम् । द॒ध॒तु॒ । श्रोष॑माणाः ॥१

आदित्यानाम् । अवसा । नूतनेन । सक्षीमहि । शर्मणा । शम्ऽतमेन ।

अनागाःऽत्वे । अदितिऽत्वे । तुरासः । इमम् । यज्ञम् । दधतु । श्रोषमाणाः ॥१

“आदित्यानाम् अदितेः पुत्राणामेतत्संज्ञकानां देवानाम् "अवसा रक्षणेन । तद्धेतुभूतेनेत्यर्थः । "नूतनेन अद्यतनेन “शंतमेन । शं सुखम्। अतिशयेन तत्करणेन “शर्मणा । शर्मेति गृहनामैतत् । गृहेण "सक्षीमहि वयं संगच्छेमहि । “तुरासः तुरास्त्वरिता आदित्याः “श्रोषमाणाः अस्मदीयानि स्तोत्राणि शृण्वन्तः "यज्ञं यष्टारम् “इमं जनम् “अनागास्त्वे अनपराधत्वे च “अदितित्वे अदीनत्वे च "दधतु स्थापयन्तु ॥


आदित्यासो अदितिः' इत्यादित्यग्रहस्य याज्या । सूत्रितं च -- आदित्यासो अदितिर्मादयन्तामिति नैतं ग्रहमीक्षेत हूयमानम् ' ( आश्व. श्रौ. ५. १७) इति ॥

आ॒दि॒त्यासो॒ अदि॑तिर्मादयन्तां मि॒त्रो अ॑र्य॒मा वरु॑णो॒ रजि॑ष्ठाः ।

अ॒स्माकं॑ सन्तु॒ भुव॑नस्य गो॒पाः पिब॑न्तु॒ सोम॒मव॑से नो अ॒द्य ॥२

आ॒दि॒त्यासः॑ । अदि॑तिः । मा॒द॒य॒न्ता॒म् । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । रजि॑ष्ठाः ।

अ॒स्माक॑म् । स॒न्तु॒ । भुव॑नस्य । गो॒पाः । पिब॑न्तु । सोम॑म् । अव॑से । नः॒ । अ॒द्य ॥२

आदित्यासः । अदितिः । मादयन्ताम् । मित्रः । अर्यमा । वरुणः । रजिष्ठाः ।

अस्माकम् । सन्तु । भुवनस्य । गोपाः । पिबन्तु । सोमम् । अवसे । नः । अद्य ॥२

“आदित्यासः आदित्या देवाः "अदितिः तेषां माता च । यद्वा अदितिरिति देवविशेषणम् । अदितिरदितयोऽदीनाः । "रजिष्ठाः अतिशयेनर्जवः “मित्रो "अर्यमा “वरूणः चैतत्संज्ञकाः "मादयन्तां तृप्ताः सन्तु । “भुवनस्य सर्वस्य जगतः “गोपाः रक्षका एवंभूता देवाः "अस्माकं “सन्तु । अस्माकमेव रक्षका भवन्त्वित्यर्थः । "अद्य अस्मिन् दिने “नः अस्माकम् “अवसे रक्षणाय “सोमम् अस्माभिरभिषुतं "पिबन्तु ॥


आ॒दि॒त्या विश्वे॑ म॒रुत॑श्च॒ विश्वे॑ दे॒वाश्च॒ विश्व॑ ऋ॒भव॑श्च॒ विश्वे॑ ।

इन्द्रो॑ अ॒ग्निर॒श्विना॑ तुष्टुवा॒ना यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥३

आ॒दि॒त्याः । विश्वे॑ । म॒रुतः॑ । च॒ । विश्वे॑ । दे॒वाः । च॒ । विश्वे॑ । ऋ॒भवः॑ । च॒ । विश्वे॑ ।

इन्द्रः॑ । अ॒ग्निः । अ॒श्विना॑ । तु॒स्तु॒वा॒नाः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥३

आदित्याः । विश्वे । मरुतः । च । विश्वे । देवाः । च । विश्वे । ऋभवः । च । विश्वे ।

इन्द्रः । अग्निः । अश्विना । तुस्तुवानाः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥३

“आदित्याः अदितेः पुत्राः "विश्वे सर्वे द्वादशसंख्याका अर्काः "विश्वे "मरुतश्च सर्व एकोनपञ्चाशत्संख्योपेताश्च “विश्वे "देवाश्च “विश्वे “ऋभवश्च “इन्द्रः “अग्निः "अश्विना अश्विनावेतत्संज्ञका एवंभूता ये देवाः “तुष्टुवानाः अस्माभिः स्तुता बभूवुः सर्वे ते देवाः "यूयं "सदा सर्वदा "नः अस्मान् "स्वस्तिभिः कल्याणैः "पात रक्षत ॥ ॥ १८ ॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५१&oldid=200970" इत्यस्माद् प्रतिप्राप्तम्