ऋग्वेदः सूक्तं ७.५०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.५० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.४९ ऋग्वेदः - मण्डल ७
सूक्तं ७.५०
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.५१ →
दे. १ मित्रावरुणौ, २ अग्निः, ३ विश्वे देवाः, ४ नद्यः। जगती, ४ अतिजगती शक्वरी वा ।


आ मां मित्रावरुणेह रक्षतं कुलाययद्विश्वयन्मा न आ गन् ।
अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत्त्सरुः ॥१॥
यद्विजामन्परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत् ।
अग्निष्टच्छोचन्नप बाधतामितो मा मां पद्येन रपसा विदत्त्सरुः ॥२॥
यच्छल्मलौ भवति यन्नदीषु यदोषधीभ्यः परि जायते विषम् ।
विश्वे देवा निरितस्तत्सुवन्तु मा मां पद्येन रपसा विदत्त्सरुः ॥३॥
याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः ।
ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥४॥


सायणभाष्यम्

‘आ मां मित्रावरुणा ' इति चतुर्ऋचं सप्तदशं सूक्तं वसिष्ठस्यार्षम् । चतुर्थ्यतिजगती व्यूहेन शक्वरी वादितस्तिस्रो जगत्यः । प्रथमा मैत्रावरुणी द्वितीयाग्नेयी तृतीया वैश्वदेवी चतुर्थी गङ्गादिनदीदेवताका । तथा चानुक्रमणिका – ' आ मां मैत्रावरुण्याग्नेयी वैश्वदेवी नदीस्तुतिर्जागतमन्त्यातिजगती शक्वरी वा ' इति । अस्य सूक्तस्य प्रत्यृचं विषादिहरणे विनियोगो लिङ्गादवगन्तव्यः ॥


आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द्वि॒श्वय॒न्मा न॒ आ ग॑न् ।

अ॒ज॒का॒वं दु॒र्दृशी॑कं ति॒रो द॑धे॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरु॑ः ॥१

आ । माम् । मि॒त्रा॒व॒रु॒णा॒ । इ॒ह । र॒क्ष॒त॒म् । कु॒ला॒यय॑त् । वि॒ऽश्वय॑त् । मा । नः॒ । आ । ग॒न् ।

अ॒ज॒का॒ऽवम् । दुः॒ऽदृशी॑कम् । ति॒रः । द॒धे॒ । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥१

आ । माम् । मित्रावरुणा । इह । रक्षतम् । कुलाययत् । विऽश्वयत् । मा । नः । आ । गन् ।

अजकाऽवम् । दुःऽदृशीकम् । तिरः । दधे । मा । माम् । पद्येन । रपसा । विदत् । त्सरुः ॥१

हे "मित्रावरुणा हे मित्रावरुणौ युवाम् "इह अस्मिँल्लोके "माम् "आ "रक्षतम् आभिमुख्येन पालयतम्। “कुलाययत् । कुलायं स्थानम्। तत्कुर्वत् "विश्वयत् विशेषेन वर्धमानं विषं “नः अस्मान् “आ आभिमुख्येन “मा "गन् मा गमत् मा गच्छतु । तथा “अजकावम् । अजका नाम रोगविशेषः । तद्वत् "दुर्दृशीकं दुर्दर्शनं विषं "तिरो “दधे तिरो धत्ताम् । नश्यत्वित्यर्थः । तथा “त्सरुः छद्मगामी । जिह्मगः सर्प इत्यर्थः । "मां "पद्येन पादभवेन "रपसा। रपिः शब्दकर्मा । शब्देन 'मा “विदत् न जानातु ।।


यद्वि॒जाम॒न्परु॑षि॒ वन्द॑नं॒ भुव॑दष्ठी॒वन्तौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् ।

अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरु॑ः ॥२

यत् । वि॒ऽजाम॑न् । परु॑षि । वन्द॑नम् । भुव॑त् । अ॒ष्ठी॒वन्तौ॑ । परि॑ । कु॒ल्फौ । च॒ । देह॑त् ।

अ॒ग्निः । तत् । शोच॑न् । अप॑ । बा॒ध॒ता॒म् । इ॒तः । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥२

यत् । विऽजामन् । परुषि । वन्दनम् । भुवत् । अष्ठीवन्तौ । परि । कुल्फौ । च । देहत् ।

अग्निः । तत् । शोचन् । अप । बाधताम् । इतः । मा । माम् । पद्येन । रपसा । विदत् । त्सरुः ॥२

“वन्दनम् एतत्संज्ञकं “यत् विषं "विजामन् विविधजन्मनि “परुषि वृक्षादीनां पर्वणि “भुवत् उद्भवेत् । यच्च विषम् "अष्ठीवन्तौ जानुनी "कुल्फौ गुल्फौ “च “परि "देहत् । ‘दिह उपचये। उपचितं कुर्यात् । “अग्निः देवः “शोचन् दीप्यमानः सन् “इतः अस्माज्जनात् "तत् विषम् "अप “बाधताम् अपहन्तु । शिष्टं व्याख्यातम् ॥


यच्छ॑ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्य॒ः परि॒ जाय॑ते वि॒षम् ।

विश्वे॑ दे॒वा निरि॒तस्तत्सु॑वन्तु॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरु॑ः ॥३

यत् । श॒ल्म॒लौ । भव॑ति । यत् । न॒दीषु॑ । यत् । ओष॑धीभ्यः । परि॑ । जाय॑ते । वि॒षम् ।

विश्वे॑ । दे॒वाः । निः । इ॒तः । तत् । सु॒व॒न्तु॒ । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥३

यत् । शल्मलौ । भवति । यत् । नदीषु । यत् । ओषधीभ्यः । परि । जायते । विषम् ।

विश्वे । देवाः । निः । इतः । तत् । सुवन्तु । मा । माम् । पद्येन । रपसा । विदत् । त्सरुः ॥३

“यत् विषं "शल्मलौ एतत्संज्ञके वृक्षे "भवति । “यत् विषं "नदीषु तत्रस्थास्वप्सु प्रादुर्भवति। "परि इति पञ्चम्यर्थानुवादी। “औषधीभ्यः सकाशात् "यत् विषं “जायते उत्पद्यते । “विश्वे सर्वे देवाः “तत् विषम् "इतः अस्माज्जनाद्देशाद्वा "निः "सुवन्तु निःशेषेण प्रेरयन्तु । मा मामिति शिष्टं व्याख्यातम् ॥


याः प्र॒वतो॑ नि॒वत॑ उ॒द्वत॑ उद॒न्वती॑रनुद॒काश्च॒ याः ।

ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वन्तु॒ सर्वा॑ न॒द्यो॑ अशिमि॒दा भ॑वन्तु ॥४

याः । प्र॒ऽवतः॑ । नि॒ऽवतः॑ । उ॒त्ऽवतः॑ । उ॒द॒न्ऽवतीः॑ । अ॒नु॒द॒काः । च॒ । याः ।

ताः । अ॒स्मभ्य॑म् । पय॑सा । पिन्व॑मानाः । शि॒वाः । दे॒वीः । अ॒शि॒प॒दाः । भ॒व॒न्तु॒ । सर्वाः॑ । न॒द्यः॑ । अ॒शि॒मि॒दाः । भ॒व॒न्तु॒ ॥४

याः । प्रऽवतः । निऽवतः । उत्ऽवतः । उदन्ऽवतीः । अनुदकाः । च । याः ।

ताः । अस्मभ्यम् । पयसा । पिन्वमानाः । शिवाः । देवीः । अशिपदाः । भवन्तु । सर्वाः । नद्यः । अशिमिदाः । भवन्तु ॥४

“याः नद्यः "प्रवतः प्रवणदेशे गच्छन्त्यः । याः “निवतः निम्नदेशे गच्छन्त्यः । याः “उद्वतः उन्नतदेशे गच्छन्त्यः । याः "उदन्वतीः उदन्वत्य उदकयुक्ताः । "अनुदकाश्च उदकरहिताश्च "याः नद्यो यान्ति । "पयसा उदकेन "पिन्वमानाः विश्वमाप्याययन्त्यः "देवीः देव्यो द्योतमानाः “ताः तादृश्यो नद्यः "अस्मभ्यम् "अशिपदाः । शिपदं नाम रोगविशेषः । तदकुर्वत्यः सत्यः "शिवाः कल्याण्यः "भवन्तु । अपि च "सर्वाः ताः "नद्यः "अशिमिदाः । शिमिर्वधकर्मा। अहिंसाप्रदाः “भवन्तु ॥ ॥ १७ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५०&oldid=200969" इत्यस्माद् प्रतिप्राप्तम्