ऋग्वेदः सूक्तं ७.२८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.२७ ऋग्वेदः - मण्डल ७
सूक्तं ७.२८
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.२९ →
दे. इन्द्रः । त्रिष्टुप्।


ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः ।
विश्वे चिद्धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व ॥१॥
हवं त इन्द्र महिमा व्यानड्ब्रह्म यत्पासि शवसिन्नृषीणाम् ।
आ यद्वज्रं दधिषे हस्त उग्र घोरः सन्क्रत्वा जनिष्ठा अषाळ्हः ॥२॥
तव प्रणीतीन्द्र जोहुवानान्सं यन्नॄन्न रोदसी निनेथ ।
महे क्षत्राय शवसे हि जज्ञेऽतूतुजिं चित्तूतुजिरशिश्नत् ॥३॥
एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते ।
प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायी नः सात् ॥४॥
वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।
यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥५॥

सायणभाष्यम्

‘ ब्रह्मा ण इन्द्र' इति पञ्चर्चमेकादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम्। ब्रह्मा णः' इत्यनुक्रान्तम् । महाव्रते निष्केवल्ये पञ्चमत्वेनास्य सूक्तस्य विनियोग उक्तः । अष्टमेऽहनि प्रउगशस्त्र आद्यस्तृच ऐन्द्रः ( आश्व. श्रौ. ८. १०)॥


ब्रह्मा॑ ण इ॒न्द्रोप॑ याहि वि॒द्वान॒र्वाञ्च॑स्ते॒ हर॑यः सन्तु यु॒क्ताः ।

विश्वे॑ चि॒द्धि त्वा॑ वि॒हव॑न्त॒ मर्ता॑ अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ॥१

ब्रह्मा॑ । नः॒ । इ॒न्द्र॒ । उप॑ । या॒हि॒ । वि॒द्वान् । अ॒र्वाञ्चः॑ । ते॒ । हर॑यः । स॒न्तु॒ । यु॒क्ताः ।

विश्वे॑ । चि॒त् । हि । त्वा॒ । वि॒ऽहव॑न्त । मर्ताः॑ । अ॒स्माक॑म् । इत् । शृ॒णु॒हि॒ । वि॒श्व॒म्ऽइ॒न्व॒ ॥१

ब्रह्मा । नः । इन्द्र । उप । याहि । विद्वान् । अर्वाञ्चः । ते । हरयः । सन्तु । युक्ताः ।

विश्वे । चित् । हि । त्वा । विऽहवन्त । मर्ताः । अस्माकम् । इत् । शृणुहि । विश्वम्ऽइन्व ॥१

हे "इन्द्र त्वं "विद्वान् जानन् "नः अस्माकं "ब्रह्म स्तोत्रं "उप “याहि । "ते तव "हरयः अश्वाश्च "अर्वाञ्चः अस्मदभिमुखाः "युक्ताः "सन्तु। हे “विश्वमिन्व विश्वप्रीणयितरिन्द्र “त्वा त्वां “विश्वे सर्वे "मर्ताः मनुष्याः "चित् "हि यद्यपि "विहवन्त पृथग्हवन्ते तथापि "अस्माकमित् अस्माकमेव हवं "शृणुहि शृणु ॥


हवं॑ त इन्द्र महि॒मा व्या॑न॒ड्ब्रह्म॒ यत्पासि॑ शवसि॒न्नृषी॑णाम् ।

आ यद्वज्रं॑ दधि॒षे हस्त॑ उग्र घो॒रः सन्क्रत्वा॑ जनिष्ठा॒ अषा॑ळ्हः ॥२

हव॑म् । ते॒ । इ॒न्द्र॒ । म॒हि॒मा । वि । आ॒न॒ट् । ब्रह्म॑ । यत् । पासि॑ । श॒व॒सि॒न् । ऋषी॑णाम् ।

आ । यत् । वज्र॑म् । द॒धि॒षे । हस्ते॑ । उ॒ग्र॒ । घो॒रः । सन् । क्रत्वा॑ । ज॒नि॒ष्ठाः॒ । अषा॑ळ्हः ॥२

हवम् । ते । इन्द्र । महिमा । वि । आनट् । ब्रह्म । यत् । पासि । शवसिन् । ऋषीणाम् ।

आ । यत् । वज्रम् । दधिषे । हस्ते । उग्र । घोरः । सन् । क्रत्वा । जनिष्ठाः । अषाळ्हः ॥२

हे "शवसिन् बलवन् "इन्द्र "यत् यदा “ऋषीणां "ब्रह्म स्तोत्रं "पासि रक्षसि । स्तोत्रस्य रक्षणं नाम फलप्रदानम् । तदा "ते तव “महिमा "हवं हवः स्तोता तं “व्यानट् व्याप्नोतु । हे "उग्र ओजस्विन्निन्द्र "यत् यदा "हस्ते पाणौ "वज्रम् "आ दधिषे धारयसि तदा “क्रत्वा शत्रुवधादिना कर्मणा “घोरः "सन् अषाळ्हः शत्रुभिरनभिभूतः "जनिष्ठाः अजनिष्ठाः अभवः ॥


तव॒ प्रणी॑तीन्द्र॒ जोहु॑वाना॒न्सं यन्नॄन्न रोद॑सी नि॒नेथ॑ ।

म॒हे क्ष॒त्राय॒ शव॑से॒ हि ज॒ज्ञेऽतू॑तुजिं चि॒त्तूतु॑जिरशिश्नत् ॥३

तव॑ । प्रऽनी॑ती । इ॒न्द्र॒ । जोहु॑वानान् । सम् । यत् । नॄन् । न । रोद॑सी॒ इति॑ । नि॒नेथ॑ ।

म॒हे । क्ष॒त्राय॑ । शव॑से । हि । ज॒ज्ञे । अतू॑तुजिम् । चि॒त् । तूतु॑जिः । अ॒शि॒श्न॒त् ॥३

तव । प्रऽनीती । इन्द्र । जोहुवानान् । सम् । यत् । नॄन् । न । रोदसी इति । निनेथ ।

महे । क्षत्राय । शवसे । हि । जज्ञे । अतूतुजिम् । चित् । तूतुजिः । अशिश्नत् ॥३

हे “इन्द्र यत् यस्त्वं "तव "प्रणीती प्रणीत्या प्रणयनेन "जोहुवानान् भृशं स्तुवतः "नॄन् “रोदसी द्यावापृथिव्यौ “सं “निनेथ संगमयसि । दिवि पृथिव्यां च स्तोतॄन् प्रतिष्ठापयसीत्यर्थः । स त्वं "महे महते "क्षत्राय धनाय । रयिः क्षत्रम्' इति धननामसु पाठात् । "शवसे बलाय च । यजमानेभ्यो महद्धनं बलं च दातुमित्यर्थः । "जज्ञे जज्ञिषे। “हि इति हेत्वर्थे । यत एवमतः कारणात् “अतूतुजिम् अदातारमयजमानं “तूतुजः दाता यजमानः "अशिश्नत् । श्नथतिर्हिंसाकर्मा । तस्माल्लडर्थे लुङ्। हिनस्ति । "चित् इत्येवकारार्थे ॥


ए॒भिर्न॑ इ॒न्द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तय॒ः पव॑न्ते ।

प्रति॒ यच्चष्टे॒ अनृ॑तमने॒ना अव॑ द्वि॒ता वरु॑णो मा॒यी न॑ः सात् ॥४

ए॒भिः । नः॒ । इ॒न्द्र॒ । अह॑ऽभिः । द॒श॒स्य॒ । दुः॒ऽमि॒त्रासः॑ । हि । क्षि॒तयः॑ । पव॑न्ते ।

प्रति॑ । यत् । चष्टे॑ । अनृ॑तम् । अ॒ने॒नाः । अव॑ । द्वि॒ता । वरु॑णः । मा॒यी । नः॒ । सा॒त् ॥४

एभिः । नः । इन्द्र । अहऽभिः । दशस्य । दुःऽमित्रासः । हि । क्षितयः । पवन्ते ।

प्रति । यत् । चष्टे । अनृतम् । अनेनाः । अव । द्विता । वरुणः । मायी । नः । सात् ॥४

हे “इन्द्र “दुर्मित्रासः दुष्टमित्रभूता बाधकाः "क्षितयः जनाः "पवन्ते अभिगच्छन्ति । पवतिर्गतिकर्मा । तेभ्यो धनमाच्छिद्य “नः अस्मभ्यम् “एभिः सात्त्विकैः "अहभिः अहोभिः "दशस्य देहि । किंच “अनेनाः एनसां निहन्ता "मायी प्रज्ञावान् "वरुणः "यत् "अनृतं "नः अस्मासु “प्रति “चष्टे अभिपश्यति तदनृतं हे इन्द्र त्वत्प्रसादात् "द्विता द्विधा “अव “सात् अवस्यतु विमोचयतु । तथा च यास्कः - स्यतिरुपसृष्टो विमोचने' (निरु. १. १७) इति ॥


वो॒चेमेदिन्द्रं॑ म॒घवा॑नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद॑न्नः ।

यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५

वो॒चेम॑ । इत् । इन्द्र॑म् । म॒घऽवा॑नम् । ए॒न॒म् । म॒हः । रा॒यः । राध॑सः । यत् । दद॑त् । नः॒ ।

यः । अर्च॑तः । ब्रह्म॑ऽकृतिम् । अवि॑ष्ठः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५

वोचेम । इत् । इन्द्रम् । मघऽवानम् । एनम् । महः । रायः । राधसः । यत् । ददत् । नः ।

यः । अर्चतः । ब्रह्मऽकृतिम् । अविष्ठः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५

"यत् य इन्द्रः “महः महतः "राधसः संराधकस्य "रायः धनस्य । द्वितीयार्थे षष्ठी । संराधकं महद्धनं "नः अस्मभ्यं "ददत् प्रायच्छत् "यः चेन्द्रः "अर्चतः स्तुवतः “ब्रह्मकृतिं क्रियमाणं ब्रह्म स्तोत्रम् "अविष्ठः अतिशयेन रक्षिता गन्ता भवति तम् “एनं "मघवानं धनवन्तम् “इन्द्रं "वोचेमेत् स्तुवेमैव । स्पष्टमन्यत् ॥ ॥ १२ ॥



मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.२८&oldid=189827" इत्यस्माद् पुनः प्राप्तिः