ऋग्वेदः सूक्तं ७.६२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.६१ ऋग्वेदः - मण्डल ७
सूक्तं ७.६२
मैत्रावरुणिर्वसिष्ठः
सूक्तं ७.६३ →
दे. १-३ सूर्यः, ४-६ मित्रावरुणौ। त्रिष्टुप्।


उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाम् ।
समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत् ॥१॥
स सूर्य प्रति पुरो न उद्गा एभि स्तोमेभिरेतशेभिरेवैः ।
प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च ॥२॥
वि नः सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः ।
यच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तु स्तवानाः ॥३॥
द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे ।
मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणाम् ॥४॥
प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन ।
आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥५॥
नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु ।
सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥६॥


सायणभाष्यम्

‘ उत्सूर्यः' इति षडृचं सप्तमं सूक्तम् । अत्रानुक्रमणिका -- उत्सूर्यः षळाद्यास्तिस्रः सौर्यः । इति । वसिष्ठ ऋषिः । त्रिष्टुप् छन्दः। आद्यास्तिस्रः सूर्यदेवत्याः शिष्टा मित्रावरुणदेवत्याः । सूक्तविनियोगो लैङ्गिकः ॥


उत्सूर्यो॑ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् ।

स॒मो दि॒वा द॑दृशे॒ रोच॑मान॒ः क्रत्वा॑ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ॥१

उत् । सूर्यः॑ । बृ॒हत् । अ॒र्चींषि॑ । अ॒श्रे॒त् । पु॒रु । विश्वा॑ । जनि॑म । मानु॑षाणाम् ।

स॒मः । दि॒वा । द॒दृ॒शे॒ । रोच॑मानः । क्रत्वा॑ । कृ॒तः । सुऽकृ॑तः । क॒र्तृऽभिः॑ । भू॒त् ॥१

उत् । सूर्यः । बृहत् । अर्चींषि । अश्रेत् । पुरु । विश्वा । जनिम । मानुषाणाम् ।

समः । दिवा । ददृशे । रोचमानः । क्रत्वा । कृतः । सुऽकृतः । कर्तृऽभिः । भूत् ॥१

"सूर्यः सर्वस्य प्रेरको देवः “बृहत् अत्यधिकं “पुरु पुरूणि बहूनि "अर्चींषि तेजांसि “उत् “अश्रेत् ऊर्ध्वं श्रयति । किं प्रति । “मानुषाणां मनुष्याणां “विश्वा सर्वाणि “जनिम जनिमानि जनान् । जनशब्दः संघवचनः । तान् प्रत्युदश्रेत् । स देवः दिवा अहनि “रोचमानः सन् "समः “ददृशे । एकरूपः प्रतिनियतः सन् दृश्यते । तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति (ऐ. आ. ३.२.३) इति हि श्रुतिः । स देवः “क्रत्वा सर्वस्य कर्ता “कृतः संपादितः प्रजापतिना “कर्तृभिः स्तुतिकर्तृभिः “सुकृतः स्तुत्या तीक्ष्णीकृतः “भूत् भवति ॥


स सू॑र्य॒ प्रति॑ पु॒रो न॒ उद्गा॑ ए॒भिः स्तोमे॑भिरेत॒शेभि॒रेवै॑ः ।

प्र नो॑ मि॒त्राय॒ वरु॑णाय वो॒चोऽना॑गसो अर्य॒म्णे अ॒ग्नये॑ च ॥२

सः । सू॒र्य॒ । प्रति॑ । पु॒रः । नः॒ । उत् । गाः॒ । ए॒भिः । स्तोमे॑भिः । ए॒त॒शेभिः॑ । एवैः॑ ।

प्र । नः॒ । मि॒त्राय॑ । वरु॑णाय । वो॒चः॒ । अना॑गसः । अ॒र्य॒म्णे । अ॒ग्नये॑ । च॒ ॥२

सः । सूर्य । प्रति । पुरः । नः । उत् । गाः । एभिः । स्तोमेभिः । एतशेभिः । एवैः ।

प्र । नः । मित्राय । वरुणाय । वोचः । अनागसः । अर्यम्णे । अग्नये । च ॥२

हे “सूर्य “सः प्रसिद्धस्त्वं “नः अस्मान् “प्रति “पुरः पुरस्तात् "उद्गाः उद्गच्छ। कैः साधनैः । “एभिः “स्तोमेभिः स्तोमैः स्तुत्यैः “एतशेभिः एतवर्णैः । स्वार्थिकः शकारः ‘ या जरन्ता युक्शा ता ' (ऋ. सं. १. १६१. ७) पुरुषः कृष्णशवास्युत्तरतः' (ऐ. ब्रा. ५, १४) इत्यादिवत् । तादृशैः “एवैः गमनशीलैरश्वैः उद्गाः । अथ तथा कृत्वास्माभिः स्तुतः सन् “नः अस्मान् “अनागसः अपापान् “प्र “वोचः । केभ्यः । "मित्राय “वरुणाय “अर्यम्णे “अग्नये “च । अत्र सौर्ये इतरेषां मित्रादीनां संकीर्तनं तेषामपि निपातभाक्त्वाविरुद्धम् । एवं पूर्वत्रोत्तरत्र च मैत्रावरुणेऽर्यमादीनां संकीर्तनमपि न विरुध्यते ॥


वि न॑ः स॒हस्रं॑ शु॒रुधो॑ रदन्त्वृ॒तावा॑नो॒ वरु॑णो मि॒त्रो अ॒ग्निः ।

यच्छ॑न्तु च॒न्द्रा उ॑प॒मं नो॑ अ॒र्कमा न॒ः कामं॑ पूपुरन्तु॒ स्तवा॑नाः ॥३

वि । नः॒ । स॒हस्र॑म् । शु॒रुधः॑ । र॒द॒न्तु॒ । ऋ॒तऽवा॑नः । वरु॑णः । मि॒त्रः । अ॒ग्निः ।

यच्छ॑न्तु । च॒न्द्राः । उ॒प॒ऽमम् । नः॒ । अ॒र्कम् । आ । नः॒ । काम॑म् । पू॒पु॒र॒न्तु॒ । स्तवा॑नाः ॥३

वि । नः । सहस्रम् । शुरुधः । रदन्तु । ऋतऽवानः । वरुणः । मित्रः । अग्निः ।

यच्छन्तु । चन्द्राः । उपऽमम् । नः । अर्कम् । आ । नः । कामम् । पूपुरन्तु । स्तवानाः ॥३

“नः अस्मभ्यं “शुरुधः शुचेर्दुःखस्य प्रतिरोद्धारः “ऋतावानः सत्यवन्तो वरुणादयः "सहस्रं सहस्रसंख्याकं धनं "वि “रदन्तु वितरन्तु । अथवा शुरुध उक्तलक्षणाः सहस्रसंख्याका ओषधीः रदन्तु । किंच ते “चन्द्राः आह्लादकारिणोऽस्मभ्यम् "उपमं स्तुत्यम् “अर्कम् अर्चनीयं “यच्छन्तु । किंच "स्तवानाः अस्माभिः स्तूयमानाः “नः अस्माकं “कामम् अपेक्षितं "पूपुरन्तु पूरयन्तु । हे सूर्य त्वयानुज्ञाता इति सूर्यस्य स्तुतिः ॥


द्यावा॑भूमी अदिते॒ त्रासी॑थां नो॒ ये वां॑ ज॒ज्ञुः सु॒जनि॑मान ऋष्वे ।

मा हेळे॑ भूम॒ वरु॑णस्य वा॒योर्मा मि॒त्रस्य॑ प्रि॒यत॑मस्य नृ॒णाम् ॥४

द्यावा॑भूमी॒ इति॑ । अ॒दि॒ते॒ । त्रासी॑थाम् । नः॒ । ये । वा॒म् । ज॒ज्ञुः । सु॒ऽजनि॑मानः । ऋ॒ष्वे॒ इति॑ ।

मा । हेळे॑ । भू॒म॒ । वरु॑णस्य । वा॒योः । मा । मि॒त्रस्य॑ । प्रि॒यऽत॑मस्य । नृ॒णाम् ॥४

द्यावाभूमी इति । अदिते । त्रासीथाम् । नः । ये । वाम् । जज्ञुः । सुऽजनिमानः । ऋष्वे इति ।

मा । हेळे । भूम । वरुणस्य । वायोः । मा । मित्रस्य । प्रियऽतमस्य । नृणाम् ॥४

हे “द्यावाभूमी द्यावापृथिव्यौ हे "अदिते अखण्डनीये । एतत् द्यावाभूम्योरेवैकवचनेन संबोधनम्। हे “ऋष्वे। महन्नामैतत् । हे महत्यौ “नः अस्मान् “ञासीथां रक्षतम् । “ये वयं “सुजनिमानः शोभनजन्मानः “वां युवां “जज्ञुः ज्ञातवन्तः स्म । किंच वयं “वरुणस्य "हेळे क्रोधे "मा “भूम। तथा “वायोः मा भूम। तथा “नृणां स्तुतिनेतॄणां मनुष्याणां “प्रियतमस्य “मित्रस्य हेळे “मा भूम ॥


‘प्र बाहवा' इति पञ्चमी मैत्रावरुणे पशौ पशुपुरोडाशस्य याज्या । सूत्रितं च - ‘ प्र बाहवा सिसृतं जीवसे नो यद्वंहिष्ठं नातिविधे सुदानू' (आश्व. श्रौ. ३. ८) इति ॥

प्र बा॒हवा॑ सिसृतं जी॒वसे॑ न॒ आ नो॒ गव्यू॑तिमुक्षतं घृ॒तेन॑ ।

आ नो॒ जने॑ श्रवयतं युवाना श्रु॒तं मे॑ मित्रावरुणा॒ हवे॒मा ॥५

प्र । बा॒हवा॑ । सि॒सृ॒त॒म् । जी॒वसे॑ । नः॒ । आ । नः॒ । गव्यू॑तिम् । उ॒क्ष॒त॒म् । घृ॒तेन॑ ।

आ । नः॒ । जने॑ । श्र॒व॒य॒त॒म् । यु॒वा॒ना॒ । श्रु॒तम् । मे॒ । मि॒त्रा॒व॒रु॒णा॒ । हवा॑ । इ॒मा ॥५

प्र । बाहवा । सिसृतम् । जीवसे । नः । आ । नः । गव्यूतिम् । उक्षतम् । घृतेन ।

आ । नः । जने । श्रवयतम् । युवाना । श्रुतम् । मे । मित्रावरुणा । हवा । इमा ॥५

हे “मित्रावरुणा मित्रावरुणौ देवौ “बाहवा युवाभ्यां बाहू “प्र “सिसृतं प्रसारयतं हविःस्वीकाराय धनप्रदानाय वा । किमर्थमिति । “नः “जीवसे अस्माकं जीवनाय । किंच “नः अस्माकं “गव्यूतिम् । गावो यन्ति गच्छन्त्यत्रेति गव्यूतिर्गोमार्गभूमिः । तां तृणादिप्ररोहाय “घृतेन उदकेन “आ समन्तात् “उक्षतं सिञ्चतम् । किंच “नः अस्मान् “जने अस्मत्समाने मनुष्यसमूहे वा नोऽस्मान् “श्रवयतं विश्रुतं कुरुतम् । हे “युवाना नित्ययौवनौ सर्वत्र व्याप्तौ वा युवां “मे मम "इमा इमानि “हवा आह्वानानि “श्रुतं शृणुतम् ।।


नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधन्तु ।

सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि सन्तु यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६

नु । मि॒त्रः । वरु॑णः । अ॒र्य॒मा । नः॒ । त्मने॑ । तो॒काय॑ । वरि॑वः । द॒ध॒न्तु॒ ।

सु॒ऽगा । नः॒ । विश्वा॑ । सु॒ऽपथा॑नि । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६

नु । मित्रः । वरुणः । अर्यमा । नः । त्मने । तोकाय । वरिवः । दधन्तु ।

सुऽगा । नः । विश्वा । सुऽपथानि । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६

“मित्रः “वरुणः “अर्यमा चैते त्रयो देवाः "नु अद्य “नः अस्माकं “त्मने आत्मने आत्महिताय “तोकाय पुत्राय च “वरिवः धनं “दधन्तु प्रयच्छन्तु । “नः अस्माकं “विश्वा सर्वाणि गन्तव्यानि “सुगा सुगमनानि “सुपथानि च "सन्तु भवन्तु । शिष्टं गतम् ॥ ॥ ४ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.६२&oldid=201042" इत्यस्माद् पुनः प्राप्तिः