ऋग्वेदः सूक्तं ७.१२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.११ ऋग्वेदः - मण्डल ७
सूक्तं ७.१२
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.१३ →
दे. अग्निः। त्रिष्टुप्।



अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥१॥
स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः ।
स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥२॥
त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥३॥


सायणभाष्यम्

‘अगन्म महा' इति तृचात्मकं द्वादशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयम् । तथा चानुक्रान्तम् -- ’ अगन्म तृचम्' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः । व्यूळ्हे दशरात्रे नवमेऽहनीदं सूक्तमाज्यशस्त्रम् । सूत्रितं च - तृतीयस्यागन्म महेत्याज्यम्' (आश्व. श्रौ. ८. ११) इति ॥


अग॑न्म म॒हा नम॑सा॒ यवि॑ष्ठं॒ यो दी॒दाय॒ समि॑द्धः॒ स्वे दु॑रो॒णे ।

चि॒त्रभा॑नुं॒ रोद॑सी अं॒तरु॒र्वी स्वा॑हुतं वि॒श्वतः॑ प्र॒त्यंचं॑ ॥१

अग॑न्म । म॒हा । नम॑सा । यवि॑ष्ठम् । यः । दी॒दाय॑ । सम्ऽइ॑द्धः । स्वे । दु॒रो॒णे ।

चि॒त्रऽभा॑नुम् । रोद॑सी॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । सुऽआ॑हुतम् । वि॒श्वतः॑ । प्र॒त्यञ्च॑म् ॥१

अगन्म । महा । नमसा । यविष्ठम् । यः । दीदाय । सम्ऽइद्धः । स्वे । दुरोणे ।

चित्रऽभानुम् । रोदसी इति । अन्तः । उर्वी इति । सुऽआहुतम् । विश्वतः । प्रत्यञ्चम् ॥१

"यः अग्निः "स्वे "दुरोणे स्वे स्थान आहवनीये “समिद्धः काष्ठैः समिद्धः सन् "दीदाय दीप्यते तमिमं "यविष्ठं युवतमम् "उर्वी विस्तीर्णयोः "रोदसी रोदस्योः द्यावापृथिव्योः "अन्तः मध्ये अन्तरिक्षे “चित्रभानुं चित्रज्वालं "स्वाहुतं सुष्ठु आहुतिभिर्हुतं सन्तं "विश्वतः सर्वतः "प्रत्यञ्च प्रतिगच्छन्तमग्निं “महा महता "नमसा नमस्कारेण "अगन्म वयमुपगच्छाम ।।


स म॒ह्ना विश्वा॑ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे॑दाः ।

स नो॑ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒त उ॒त नो॑ म॒घोनः॑ ॥२

सः । म॒ह्ना । विश्वा॑ । दुः॒ऽइ॒तानि॑ । स॒ह्वान् । अ॒ग्निः । स्त॒वे॒ । दमे॑ । आ । जा॒तऽवे॑दाः ।

सः । नः॒ । र॒क्षि॒ष॒त् । दुः॒ऽइ॒तात् । अ॒व॒द्यात् । अ॒स्मान् । गृ॒ण॒तः । उ॒त । नः॒ । म॒घोनः॑ ॥२

सः । मह्ना । विश्वा । दुःऽइतानि । सह्वान् । अग्निः । स्तवे । दमे । आ । जातऽवेदाः ।

सः । नः । रक्षिषत् । दुःऽइतात् । अवद्यात् । अस्मान् । गृणतः । उत । नः । मघोनः ॥२

योऽग्निः "मह्ना महत्त्वेन “विश्वा विश्वानि “दुरितानि "साह्वान् अभिभवन् "जातवेदाः जातधनो जातप्रज्ञो वा “दमे यज्ञगृहे "स्तवे अस्माभिः स्तूयते “सः "अग्निः अस्मान् "दुरितात् पापात् "अवद्यात् निन्दिताच्च कर्मणः “रक्षिषत् रक्षतु । "अस्मान् "गृणतः स्तुवतोऽपि रक्षिषत् । “उत अपि च सोऽग्निः "नः "मघोनः हविष्मतः रक्षिषत् ॥


त्वं वरु॑ण उ॒त मि॒त्रो अ॑ग्ने॒ त्वां व॑र्धंति म॒तिभि॒र्वसि॑ष्ठाः ।

त्वे वसु॑ सुषण॒नानि॑ संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥३

त्वम् । वरु॑णः । उ॒त । मि॒त्रः । अ॒ग्ने॒ । त्वाम् । व॒र्ध॒न्ति॒ । म॒तिऽभिः॑ । वसि॑ष्ठाः ।

त्वे इति॑ । वसु॑ । सु॒ऽस॒न॒नानि॑ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥३

त्वम् । वरुणः । उत । मित्रः । अग्ने । त्वाम् । वर्धन्ति । मतिऽभिः । वसिष्ठाः ।

त्वे इति । वसु । सुऽसननानि । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥३

हे अग्ने “त्वं "वरुणः असि । “उत अपि च त्वं “मित्रः असि जगतः प्रमीतेस्त्रातासि । “त्वां "वसिष्ठाः “मतिभिः स्तुतिभिः “वर्धन्ति वर्धयन्ति । “त्वे त्वयि विद्यमानानि "वसु वसूनि “सुसननानि सुसंभजनानि "सन्तु इति । स्पष्टमन्यत् ॥ ॥ १५ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१२&oldid=209136" इत्यस्माद् पुनः प्राप्तिः