ऋग्वेदः सूक्तं ७.१४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.१३ ऋग्वेदः - मण्डल ७
सूक्तं ७.१४
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.१५ →
दे. अग्निः। त्रिष्टुप्,१ बृहती।


समिधा जातवेदसे देवाय देवहूतिभिः ।
हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥१॥
वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र ।
वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे ॥२॥
आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्कृतिं जुषाणः ।
तुभ्यं देवाय दाशतः स्याम यूयं पात स्वस्तिभिः सदा नः ॥३॥


सायणभाष्यम्

‘समिधा जातवेदसे' इति तृचं चतुर्दशं सूक्तं वसिष्ठस्यार्षमाग्नेयम् । आद्या बृहती द्वितीयातृतीये त्रिष्टुभौ । तथा चानुक्रम्यते - ‘समिधा बृहत्यादि' इति । विनियोगो लैङ्गिकः ॥


स॒मिधा॑ जा॒तवे॑दसे दे॒वाय॑ दे॒वहू॑तिभिः ।

ह॒विर्भिः॑ शु॒क्रशो॑चिषे नम॒स्विनो॑ व॒यं दा॑शेमा॒ग्नये॑ ॥१

स॒म्ऽइधा॑ । जा॒तऽवे॑दसे । दे॒वाय॑ । दे॒वहू॑तिऽभिः ।

ह॒विःऽभिः॑ । शु॒क्रऽशो॑चिषे । न॒म॒स्विनः॑ । व॒यम् । दा॒शे॒म॒ । अ॒ग्नये॑ ॥१

सम्ऽइधा । जातऽवेदसे । देवाय । देवहूतिऽभिः ।

हविःऽभिः । शुक्रऽशोचिषे । नमस्विनः । वयम् । दाशेम । अग्नये ॥१

“जातवेदसे जातवेदसं जातप्रज्ञम् "अग्नये अग्निं "समिधा “वयं वसिष्ठाः "दाशेम परिचरेम । “देवाय देवं स्तुत्यमग्निं “देवहूतिभिः देवस्तुतिभिः दाशेम । "शुक्रशोचिषे शुक्रशोचिषं शुभ्रदीप्तिं “नमस्विनः हविष्मन्तो वयं "हविर्भिः दाशेम । अत्र दाशतियोगात् कर्मणि चतुर्थी । प्रायेण सर्वत्र दाशतियोगे कर्मणि चतुर्थी दृश्यते ॥


व॒यं ते॑ अग्ने स॒मिधा॑ विधेम व॒यं दा॑शेम सुष्टु॒ती य॑जत्र ।

व॒यं घृ॒तेना॑ध्वरस्य होतर्व॒यं दे॑व ह॒विषा॑ भद्रशोचे ॥२

व॒यम् । ते॒ । अ॒ग्ने॒ । स॒म्ऽइधा॑ । वि॒धे॒म॒ । व॒यम् । दा॒शे॒म॒ । सु॒ऽस्तु॒ती । य॒ज॒त्र॒ ।

व॒यम् । घृ॒तेन॑ । अ॒ध्व॒र॒स्य॒ । हो॒तः॒ । व॒यम् । दे॒व॒ । ह॒विषा॑ । भ॒द्र॒ऽशो॒चे॒ ॥२

वयम् । ते । अग्ने । सम्ऽइधा । विधेम । वयम् । दाशेम । सुऽस्तुती । यजत्र ।

वयम् । घृतेन । अध्वरस्य । होतः । वयम् । देव । हविषा । भद्रऽशोचे ॥२

हे "अग्ने "ते त्वां “वयं वसिष्ठाः "समिधा “विधेम परिचरेम । हे "यजत्र यष्टव्याग्ने “वयं “सुष्टुती शोभनया स्तुत्या "दाशेम त्वां परिचरेम । "अध्वरस्य यज्ञस्य “होतः अग्ने "वयं “घृतेन आज्येन त्वां दाशेम । हे “भद्रशोचे कल्याणज्वाल “देव द्योतमानाग्ने त्वां "वयं "हविषा दाशेम ॥


आ नो॑ दे॒वेभि॒रुप॑ दे॒वहू॑ति॒मग्ने॑ या॒हि वष॑ट्कृतिं जुषा॒णः ।

तुभ्यं॑ दे॒वाय॒ दाश॑तः स्याम यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥३

आ । नः॒ । दे॒वेभिः॑ । उप॑ । दे॒वऽहू॑तिम् । अग्ने॑ । या॒हि । वष॑ट्ऽकृतिम् । जु॒षा॒णः ।

तुभ्य॑म् । दे॒वाय॑ । दाश॑तः । स्या॒म॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥३

आ । नः । देवेभिः । उप । देवऽहूतिम् । अग्ने । याहि । वषट्ऽकृतिम् । जुषाणः ।

तुभ्यम् । देवाय । दाशतः । स्याम । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥३

हे "अग्ने "नः अस्माकं "देवहूतिं स्तोत्रं यज्ञं वा “देवेभिः देवैः सार्धं "वषट्कृतिं हविः “जुषाणः सेवमानस्त्वम् "उप “आ “याहि । "देवाय द्योतमानाय “तुभ्यं वयं “दाशतः परिचरन्तः “स्याम भवेम । सिद्धमन्यत् ॥ ॥ १७ ॥

[सम्पाद्यताम्]

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१४&oldid=328209" इत्यस्माद् प्रतिप्राप्तम्