ऋग्वेदः सूक्तं ७.८९

विकिस्रोतः तः
← सूक्तं ७.८८ ऋग्वेदः - मण्डल ७
सूक्तं ७.८९
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.९० →
दे. वरुणः। गायत्री, ५ जगती ।


मो षु वरुण मृन्मयं गृहं राजन्नहं गमम् ।
मृळा सुक्षत्र मृळय ॥१॥
यदेमि प्रस्फुरन्निव दृतिर्न ध्मातो अद्रिवः ।
मृळा सुक्षत्र मृळय ॥२॥
क्रत्वः समह दीनता प्रतीपं जगमा शुचे ।
मृळा सुक्षत्र मृळय ॥३॥
अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम् ।
मृळा सुक्षत्र मृळय ॥४॥
यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि ।
अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥५॥


सायणभाष्यम्

मो षु वरुण' इति पञ्चर्चमेकोनविंशं सूक्तं वारुणम् । अन्त्या जगती शिष्टाश्चतस्रो गायत्र्यः । तथा चानुक्रान्तं -- मो षु पञ्च गायत्रं जगत्यन्तम् ' इति । गतो विनियोगः ॥


मो षु व॑रुण मृ॒न्मयं॑ गृ॒हं रा॑जन्न॒हं ग॑मम् ।

मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥१

मो इति॑ । सु । व॒रु॒ण॒ । मृ॒त्ऽमय॑म् । गृ॒हम् । रा॒ज॒न् । अ॒हम् । ग॒म॒म् ।

मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥१

मो इति । सु । वरुण । मृत्ऽमयम् । गृहम् । राजन् । अहम् । गमम् ।

मृळ । सुऽक्षत्र । मृळय ॥१

हे "राजन् ईश्वर "वरुण त्वदीयं "मृन्मयं मृदादिभिर्निर्मितं "गृहं “मो मा उ मैव “अहं “गमं गतोऽस्मि । अपि तु "सु शोभनं सुवर्णमयमेव त्वदीयं गृहं प्राप्नवानि । स त्वं मां "मृळ सुखय । हे "सुक्षत्र शोभनधन वरुण “मृळय उपदयां च कुरु॥


यदेमि॑ प्रस्फु॒रन्नि॑व॒ दृति॒र्न ध्मा॒तो अ॑द्रिवः ।

मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥२

यत् । एमि॑ । प्र॒स्फु॒रन्ऽइ॑व । दृतिः॑ । न । ध्मा॒तः । अ॒द्रि॒ऽवः॒ ।

मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥२

यत् । एमि । प्रस्फुरन्ऽइव । दृतिः । न । ध्मातः । अद्रिऽवः ।

मृळ । सुऽक्षत्र । मृळय ॥२

हे “अद्रिवः आयुधवन् वरुण "यत् यदा “प्रस्फुरन्निव शैत्येन प्रविचलन्निव त्वद्भयाद्वेपमानः “दृतिर्न दृतिरिव “ध्मातः वायुना पूर्णः संस्त्वया बद्धोऽहम् “एमि गच्छामि तदानीं "मृळ सुखय । हे "सुक्षत्र सुधन "मृळय उपदयां कुरु ॥


क्रत्व॑ः समह दी॒नता॑ प्रती॒पं ज॑गमा शुचे ।

मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥३

क्रत्वः॑ । स॒म॒ह॒ । दी॒नता॑ । प्र॒ति॒ऽई॒पम् । ज॒ग॒म॒ । शु॒चे॒ ।

मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥३

क्रत्वः । समह । दीनता । प्रतिऽईपम् । जगम । शुचे ।

मृळ । सुऽक्षत्र । मृळय ॥३

हे "समह सधन "शुचे स्वभावतो निर्मल वरुण “दीनता दीनतयाशक्ततया "क्रत्वः कर्मणः कर्तव्यत्वेन विहितस्य श्रौतस्मार्तादिलक्षणस्य "प्रतीपं प्रतिकूलमननुष्ठानं "जगम प्राप्तवानस्मि । अत एव त्वया बद्धः । तादृशं मां "मृळ सुखय । अन्यद्गतम् ॥


अ॒पां मध्ये॑ तस्थि॒वांसं॒ तृष्णा॑विदज्जरि॒तार॑म् ।

मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ॥४

अ॒पाम् । मध्ये॑ । त॒स्थि॒ऽवांस॑म् । तृष्णा॑ । अ॒वि॒द॒त् । ज॒रि॒तार॑म् ।

मृ॒ळ । सु॒ऽक्ष॒त्र॒ । मृ॒ळय॑ ॥४

अपाम् । मध्ये । तस्थिऽवांसम् । तृष्णा । अविदत् । जरितारम् ।

मृळ । सुऽक्षत्र । मृळय ॥४

“अपां समुद्राणामुदकानां "मध्ये "तस्थिवांसं स्थितवन्तमपि "जरितारं तव स्तोतारं मां “तृष्णा पिपासा “अविदत् आप्तवती । लवणोत्कटस्य सामुद्रजलस्य पानानर्हत्वात्। अतस्तादृशं मां "मृळ सुखय । अन्यद्गतम् ॥


देवसुवां हविःषु वारुणस्य हविषः ‘यत्किं चेदम्' इति याज्या। सूत्रितं च --- ‘ यत्किं चेदं वरुण दैव्ये जन उप ते स्तोमान्पशुपा इवाकरमिति द्वे ' (आश्व. श्रौ. ४. ११) इति ॥

यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॒३॒॑श्चरा॑मसि ।

अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ॥५

यत् । किम् । च॒ । इ॒दम् । व॒रु॒ण॒ । दैव्ये॑ । जने॑ । अ॒भि॒ऽद्रो॒हम् । म॒नु॒ष्याः॑ । चरा॑मसि ।

अचि॑त्ती । यत् । तव॑ । धर्म॑ । यु॒यो॒पि॒म । मा । नः॒ । तस्मा॑त् । एन॑सः । दे॒व॒ । रि॒रि॒षः॒ ॥५

यत् । किम् । च । इदम् । वरुण । दैव्ये । जने । अभिऽद्रोहम् । मनुष्याः । चरामसि ।

अचित्ती । यत् । तव । धर्म । युयोपिम । मा । नः । तस्मात् । एनसः । देव । रिरिषः ॥५

हे "वरुण "दैव्ये देवसमूहरूपे “जने "यत् "इदं किंचन “अभिद्रोहम अपकारजातं "मनुष्याः वयं “चरामसि चरामः निर्वर्तयामः । तथा "अचित्ती अचित्त्याज्ञानेन "तव त्वदीयं “यत् “धर्म धारकं कर्म “युयोपिम वयं विमोहितवन्तः । हे "देव “तस्मादेनसः पापात् "नः अस्मान "मा “रीरिषः मा हिंसीः ॥ ॥ ११ ॥ ॥५॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८९&oldid=201385" इत्यस्माद् प्रतिप्राप्तम्