ऋग्वेदः सूक्तं ७.३३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.३२ ऋग्वेदः - मण्डल ७
सूक्तं ७.३३
१-९ मैत्रावरुणिर्वसिष्ठः, १०-१४ वसिष्ठपुत्राः।
सूक्तं ७.३४ →
दे. १-९ वसिष्ठपुत्राः इन्द्रो वा, १०-१४ वसिष्ठः। त्रिष्टुप्।


श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि प्रमन्दुः ।
उत्तिष्ठन्वोचे परि बर्हिषो नॄन्न मे दूरादवितवे वसिष्ठाः ॥१॥
दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम् ।
पाशद्युम्नस्य वायतस्य सोमात्सुतादिन्द्रोऽवृणीता वसिष्ठान् ॥२॥
एवेन्नु कं सिन्धुमेभिस्ततारेवेन्नु कं भेदमेभिर्जघान ।
एवेन्नु कं दाशराज्ञे सुदासं प्रावदिन्द्रो ब्रह्मणा वो वसिष्ठाः ॥३॥
जुष्टी नरो ब्रह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ ।
यच्छक्वरीषु बृहता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः ॥४॥
उद्द्यामिवेत्तृष्णजो नाथितासोऽदीधयुर्दाशराज्ञे वृतासः ।
वसिष्ठस्य स्तुवत इन्द्रो अश्रोदुरुं तृत्सुभ्यो अकृणोदु लोकम् ॥५॥
दण्डा इवेद्गोअजनास आसन्परिच्छिन्ना भरता अर्भकासः ।
अभवच्च पुरएता वसिष्ठ आदित्तृत्सूनां विशो अप्रथन्त ॥६॥
त्रयः कृण्वन्ति भुवनेषु रेतस्तिस्रः प्रजा आर्या ज्योतिरग्राः ।
त्रयो घर्मास उषसं सचन्ते सर्वाँ इत्ताँ अनु विदुर्वसिष्ठाः ॥७॥
सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः ।
वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥८॥
त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि सं चरन्ति ।
यमेन ततं परिधिं वयन्तोऽप्सरस उप सेदुर्वसिष्ठाः ॥९॥
विद्युतो ज्योतिः परि संजिहानं मित्रावरुणा यदपश्यतां त्वा ।
तत्ते जन्मोतैकं वसिष्ठागस्त्यो यत्त्वा विश आजभार ॥१०॥
उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधि जातः ।
द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥११॥
स प्रकेत उभयस्य प्रविद्वान्सहस्रदान उत वा सदानः ।
यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः ॥१२॥
सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् ।
ततो ह मान उदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम् ॥१३॥
उक्थभृतं सामभृतं बिभर्ति ग्रावाणं बिभ्रत्प्र वदात्यग्रे ।
उपैनमाध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥१४॥

सायणभाष्यम्

‘श्वित्यञ्चः ' इति चतुर्दशर्चं षोडशं सूक्तम् । अत्रेयमनुक्रमणिका--- श्वित्यञ्चः षळूना संस्तवो वसिष्ठस्य सपुत्रस्येन्द्रेण वा संवादः' इति । आदितो नवानां वसिष्ठ ऋषिः । वसिष्ठपुत्राणां स्तूयमानत्वात्त एव देवता । “विद्युतो ज्योतिः' इत्यादिभिर्दशम्यादिभिः स्वपुत्रैर्वसिष्ठः स्तूयते । अतो वसिष्ठो देवता । त एव ऋषयः । ‘ या तेनोच्यते' इति न्यायात् । अनुक्तत्वात् त्रिष्टुप् ॥


श्वि॒त्यञ्चो॑ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो॑ अ॒भि हि प्र॑म॒न्दुः ।

उ॒त्तिष्ठ॑न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे॑ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ॥१

श्वि॒त्यञ्चः॑ । मा॒ । द॒क्षि॒ण॒तःऽक॑पर्दाः । धि॒य॒म्ऽजि॒न्वासः॑ । अ॒भि । हि । प्र॒ऽम॒न्दुः ।

उ॒त्ऽतिष्ठ॑न् । वो॒चे॒ । परि॑ । ब॒र्हिषः॑ । नॄन् । न । मे॒ । दू॒रात् । अवि॑तवे । वसि॑ष्ठाः ॥१

श्वित्यञ्चः । मा । दक्षिणतःऽकपर्दाः । धियम्ऽजिन्वासः । अभि । हि । प्रऽमन्दुः ।

उत्ऽतिष्ठन् । वोचे । परि । बर्हिषः । नॄन् । न । मे । दूरात् । अवितवे । वसिष्ठाः ॥१

“श्वित्यञ्चः । श्वित्यं श्वेतवर्णमञ्चन्तीति श्वित्यञ्चः । श्वेतवर्णा इत्यर्थः । “धियंजिन्वासः कर्मणां पूरयितारः “दक्षिणतस्कपर्दाः । दक्षिणे शिरसो भागे कपर्दाश्चूडा येषां ते दक्षिणतस्कपर्दाः । चूडाकर्मणि दक्षिणतो वसिष्ठानामिति स्मर्यते । “मा माम् “अभि “प्रमन्दुः विद्याबलेनाभिप्रहर्षयन् । यतो मामभि प्रमन्दुरतः “बर्हिषः यज्ञात् । “परि इति पञ्चम्यनुवादः। “उत्तिष्ठन् अहं “नॄन् यज्ञस्य नेतॄन् “वोचे ब्रवीमि। “मे मत्तः “दूरात “वसिष्ठाः वसिष्ठस्य मम पुत्राः। “अवितवे गन्तुं “न अर्हन्तीति शेषः ॥


दू॒रादिन्द्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै॑श॒न्तमति॒ पान्त॑मु॒ग्रम् ।

पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा॑त्सु॒तादिन्द्रो॑ऽवृणीता॒ वसि॑ष्ठान् ॥२

दू॒रात् । इन्द्र॑म् । अ॒न॒य॒न् । आ । सु॒तेन॑ । ति॒रः । वै॒श॒न्तम् । अति॑ । पान्त॑म् । उ॒ग्रम् ।

पाश॑ऽद्युम्नस्य । वा॒य॒तस्य॑ । सोमा॑त् । सु॒तात् । इन्द्रः॑ । अ॒वृ॒णी॒त॒ । वसि॑ष्ठान् ॥२

दूरात् । इन्द्रम् । अनयन् । आ । सुतेन । तिरः । वैशन्तम् । अति । पान्तम् । उग्रम् ।

पाशऽद्युम्नस्य । वायतस्य । सोमात् । सुतात् । इन्द्रः । अवृणीत । वसिष्ठान् ॥२

यदा वसिष्ठस्य पुत्राः सुदासं राजानमयाजयन् तदैव पाशद्युम्नाख्योऽपि राजा सोमान् यष्टुमुद्यमं चकार । तदा ते वसिष्ठपुत्राः पाशद्युम्नं तिरस्कृत्य तदीये यागे सोमं पिबन्तमिन्द्रं मन्त्रबलेन तस्मादाच्छिद्य सुदासो यज्ञे स्थापयामासुः । तदेतद्वृत्तान्तं कीर्तयन् वसिष्ठः स्वसुताननेन मन्त्रेण स्तौति । “वैशन्तम् । वेशन्तः पल्वलम् । अत्र वेशन्तशब्देन सोमाधारश्चमसो लक्ष्यते । तत्स्थं सोमं "पान्तं पिबन्तम् “उग्रम् उद्गूर्णम् “इन्द्रं “सुतेन सुदासो यज्ञेऽभिषुतेन सोमेन हेतुना “तिरः पाशद्युम्नं तिरस्कृत्य "दूरात् “आ “अनयन् वसिष्ठा मन्त्रबलेनानीतवन्तः । “इन्द्रः अपि "वायतस्य वयतः पुत्रस्य “पाशद्युम्नस्य । द्वितीयार्थे षष्ठी । वायतं पाशद्युम्नम् “अति अतिहाय सुदासो यज्ञेऽभिषुतात् “सोमात् हेतोः “वसिष्ठान् वसिष्ठस्य पुत्रान् “अवृणीत । पाशद्युम्नस्य सोमयागे चमसस्थं सोमं पिबन्नपीन्द्रस्तं पाशद्युम्नं तिरस्कृत्य मन्त्रसामर्थ्यबलेन सुदासो यज्ञ आहवनकाले वसिष्ठानाजगामेत्यर्थः ॥


ए॒वेन्नु कं॒ सिन्धु॑मेभिस्ततारे॒वेन्नु कं॑ भे॒दमे॑भिर्जघान ।

ए॒वेन्नु कं॑ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिन्द्रो॒ ब्रह्म॑णा वो वसिष्ठाः ॥३

ए॒व । इत् । नु । क॒म् । सिन्धु॑म् । ए॒भिः॒ । त॒ता॒र॒ । ए॒व । इत् । नु । क॒म् । भे॒दम् । ए॒भिः॒ । ज॒घा॒न॒ ।

ए॒व । इत् । नु । क॒म् । दा॒श॒ऽरा॒ज्ञे । सु॒ऽदास॑म् । प्र । आ॒व॒त् । इन्द्रः॑ । ब्रह्म॑णा । वः॒ । व॒सि॒ष्ठाः॒ ॥३

एव । इत् । नु । कम् । सिन्धुम् । एभिः । ततार । एव । इत् । नु । कम् । भेदम् । एभिः । जघान ।

एव । इत् । नु । कम् । दाशऽराज्ञे । सुऽदासम् । प्र । आवत् । इन्द्रः । ब्रह्मणा । वः । वसिष्ठाः ॥३

“एवेत् यथा पाशद्युम्नस्य सवाख्ये' सोमयागे चमसस्थं सोमं पिबन्तमपीन्द्रं वसिष्ठैः सुदाः प्राप्तवान् एवमेव “सिन्धुं नदीम् “एभिः वसिष्ठैः “कं सुखेन “ततार तीर्णं आसीत् । “नु इति पूरणः । तथा च निगमान्तरम्-’ अर्णांसि चित्पप्रथाना सुदासे' (ऋ. सं. ७. १८, ५) इति । “एवेत् एवमेव “भेदं भेदनामकं शत्रुमपि “एभिः वसिष्ठैरेव “जघान । अथ प्रत्यक्षस्तुतिः । “एवेत् एवमेव हे “वसिष्ठाः “वः युष्मदीयेन “ब्रह्मणा स्तोत्रेण “दाशराज्ञे दशभी राजभिः सह युद्धे प्रवृत्ते सति “सुदासं राजानम् “इन्द्रः “प्रावत् प्रारक्षत् । तथा च निगमान्तरं - दश राजानः समिता अयज्यवः सुदासमिन्द्रावरुणा न युयुधुः' (ऋ. सं. ७, ८३. ७) इति ‘दाशराज्ञे परियत्ताय विश्वतः' (ऋ. सं. ७, ८३.८) इति च ॥


जुष्टी॑ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला॑ रिषाथ ।

यच्छक्व॑रीषु बृह॒ता रवे॒णेन्द्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ॥४

जुष्टी॑ । न॒रः॒ । ब्रह्म॑णा । वः॒ । पि॒तॄ॒णाम् । अक्ष॑म् । अ॒व्य॒य॒म् । न । किल॑ । रि॒षा॒थ॒ ।

यत् । शक्व॑रीषु । बृ॒ह॒ता । रवे॑ण । इन्द्रे॑ । शुष्म॑म् । अद॑धात । व॒सि॒ष्ठाः॒ ॥४

जुष्टी । नरः । ब्रह्मणा । वः । पितॄणाम् । अक्षम् । अव्ययम् । न । किल । रिषाथ ।

यत् । शक्वरीषु । बृहता । रवेण । इन्द्रे । शुष्मम् । अदधात । वसिष्ठाः ॥४

हे “नरः “वः युष्मदीयेन “ब्रह्मणा स्तोत्रेण “पितॄणां "जुष्टी प्रीतिर्भवति । पितॄणामित्यनेन पारोक्ष्येण वसिष्ठस्यैव कीर्तनम् । अहं प्रीतो भवामीत्यर्थः । अथेदानीं स्वमाश्रमं गन्तुमुद्यतोऽहम् “अक्षं रथस्याक्षम् “अव्ययं व्ययामि । लडर्थे लङ् । चालयामीत्यर्थः । यूयं “न “किल “रिषाथ न च क्षीणा भवथ हे “वसिष्ठाः “यत् यस्मात् “शक्वरीषु ऋक्षु “बृहता श्रेष्ठेन “रवेण साम्ना “इन्द्रे “शुष्मं बलम् “अदधात अधारयत ।।


उद्द्यामि॒वेत्तृ॒ष्णजो॑ नाथि॒तासोऽदी॑धयुर्दाशरा॒ज्ञे वृ॒तास॑ः ।

वसि॑ष्ठस्य स्तुव॒त इन्द्रो॑ अश्रोदु॒रुं तृत्सु॑भ्यो अकृणोदु लो॒कम् ॥५

उत् । द्याम्ऽइ॑व । इत् । तृ॒ष्णऽजः॑ । ना॒थि॒तासः॑ । अदी॑धयुः । दा॒श॒ऽरा॒ज्ञे । वृ॒तासः॑ ।

वसि॑ष्ठस्य । स्तु॒व॒तः । इन्द्रः॑ । अ॒श्रो॒त् । उ॒रुम् । तृत्सु॑ऽभ्यः । अ॒कृ॒णो॒त् । ऊं॒ इति॑ । लो॒कम् ॥५

उत् । द्याम्ऽइव । इत् । तृष्णऽजः । नाथितासः । अदीधयुः । दाशऽराज्ञे । वृतासः ।

वसिष्ठस्य । स्तुवतः । इन्द्रः । अश्रोत् । उरुम् । तृत्सुऽभ्यः । अकृणोत् । ऊं इति । लोकम् ॥५

“तृष्णजः जाततृष्णाः “वृतासः तृत्सुभी राजभिवृताः "नाथितासः वृष्टिं याचमानाः वसिष्ठाः “द्यामिव आदित्यमिव इन्द्रं “दाशराज्ञे दशानां राज्ञां संग्रामे “उत् “अदीधयुः उददीधयन् । “स्तुवतः “वसिष्ठस्य स्तोत्रम् “इन्द्रः “अश्रोत् अशृणोच्च । “उरुं विस्तीर्णं “लोकं “तृत्सुभ्यः राजभ्यः “अकृणोत् अकरोच्च अददाच्चेत्यर्थः ॥ ॥ २२ ॥


द॒ण्डा इ॒वेद्गो॒अज॑नास आस॒न्परि॑च्छिन्ना भर॒ता अ॑र्भ॒कास॑ः ।

अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू॑नां॒ विशो॑ अप्रथन्त ॥६

द॒ण्डाःऽइ॑व । इत् । गो॒ऽअज॑नासः । आ॒स॒न् । परि॑ऽछिन्नाः । भ॒र॒ताः । अ॒र्भ॒कासः॑ ।

अभ॑वत् । च॒ । पु॒रः॒ऽए॒ता । वसि॑ष्ठः । आत् । इत् । तृत्सू॑नाम् । विशः॑ । अ॒प्र॒थ॒न्त॒ ॥६

दण्डाःऽइव । इत् । गोऽअजनासः । आसन् । परिऽछिन्नाः । भरताः । अर्भकासः ।

अभवत् । च । पुरःऽएता । वसिष्ठः । आत् । इत् । तृत्सूनाम् । विशः । अप्रथन्त ॥६

“गोअजनासः गवां प्रेरकाः “दण्डाइव यथा दण्डाः परिच्छिन्नपत्रोपशाखा भवन्ति तद्वत् “भरताः । तृत्सूनामेव राज्ञां भरता इति नामान्तरेणोपादानम् । शत्रुभिः “परिच्छिन्नाः एव “आसन् । “अर्भकासः अर्भकाः अल्पाश्चासन् । “आदित् परिच्छिन्नत्वादनन्तरमेव तेषां “तृत्सूनां “वसिष्ठः “पुरएता पुरोहितः “अभवच्च । तत्पौरोहित्यसामर्थ्यात् तृत्सूनां “विशः प्रजाः “अप्रथन्त अवर्धन्त ॥


त्रय॑ः कृण्वन्ति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा आर्या॒ ज्योति॑रग्राः ।

त्रयो॑ घ॒र्मास॑ उ॒षसं॑ सचन्ते॒ सर्वाँ॒ इत्ताँ अनु॑ विदु॒र्वसि॑ष्ठाः ॥७

त्रयः॑ । कृ॒ण्व॒न्ति॒ । भुव॑नेषु । रेतः॑ । ति॒स्रः । प्र॒ऽजाः । आर्याः॑ । ज्योतिः॑ऽअग्राः ।

त्रयः॑ । घ॒र्मासः॑ । उ॒षस॑म् । स॒च॒न्ते॒ । सर्वा॑न् । इत् । तान् । अनु॑ । वि॒दुः॒ । वसि॑ष्ठाः ॥७

त्रयः । कृण्वन्ति । भुवनेषु । रेतः । तिस्रः । प्रऽजाः । आर्याः । ज्योतिःऽअग्राः ।

त्रयः । घर्मासः । उषसम् । सचन्ते । सर्वान् । इत् । तान् । अनु । विदुः । वसिष्ठाः ॥७

"भुवनेषु पृथिव्यन्तरिक्षद्युषु “त्रयः अग्निवायुसूर्याः यथाक्रमेण “रेतः विश्वस्य धारकमुदकं “कृण्वन्ति कुर्वन्ति । तेषां त्रयाणां “ज्योतिरग्राः आदित्यप्रमुखाः “आर्याः श्रेष्ठाः “तिस्रः प्रजाः भवन्ति । ते च “त्रयः अग्निवायुसूर्याः “घर्मासः दीप्यमानाः “उषसं “सचन्ते समवयन्ति । दुर्ज्ञानान् “सर्वानित् सर्वानेव “तान् “वसिष्ठाः “अनु “विदुः अभिजानन्ति । तेषां रहस्यविज्ञानादियमपि वसिष्ठानामेव स्तुतिः। तथा च शाट्यायनकं-- त्रयः कृण्वन्ति भुवनेषु रेत इत्यग्निः पृथिव्यां रेतः कृणोति वायुरन्तरिक्ष आदित्यो दिवि तिस्रः प्रजा आर्या ज्योतिरग्रा इति वसवो रुद्रा आदित्यास्तासां ज्योतिर्यदसावादित्यस्त्रयो घर्मास उषसं सचन्त इत्यग्निरुषसं सचते वायुरुषसं सचत आदित्य उषसं सचते ' इति ॥


सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये॑व महि॒मा ग॑भी॒रः ।

वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो॑ वसिष्ठा॒ अन्वे॑तवे वः ॥८

सूर्य॑स्यऽइव । व॒क्षथः॑ । ज्योतिः॑ । ए॒षा॒म् । स॒मु॒द्रस्य॑ऽइव । म॒हि॒मा । ग॒भी॒रः ।

वात॑स्यऽइव । प्र॒ऽज॒वः । न । अ॒न्येन॑ । स्तोमः॑ । व॒सि॒ष्ठाः॒ । अनु॑ऽएतवे । वः॒ ॥८

सूर्यस्यऽइव । वक्षथः । ज्योतिः । एषाम् । समुद्रस्यऽइव । महिमा । गभीरः ।

वातस्यऽइव । प्रऽजवः । न । अन्येन । स्तोमः । वसिष्ठाः । अनुऽएतवे । वः ॥८

हे “वसिष्ठाः “एषां “वः युष्माकं “स्तोमः महिमापि वा “सूर्यस्य “ज्योतिः “इव “वक्षथः प्रकाशोऽस्ति । हे वसिष्ठाः वो युष्माकं “महिमा स्तोमोऽपि वा “समुद्रस्येव “गभीरः गम्भीरोऽस्ति । तथा हे वसिष्ठाः एषां वो युष्माकं स्तोम ऋक्समूहो महिमापि वा “वातस्येव “प्रजवः यथा वातस्य प्रवेगोऽन्येनान्वेतुं न शक्यस्तद्वत् “अन्येन “अन्वेतवे अन्वेतुं “न शक्यः ॥


त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रन्ति ।

य॒मेन॑ त॒तं प॑रि॒धिं वय॑न्तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ॥९

ते । इत् । नि॒ण्यम् । हृद॑यस्य । प्र॒ऽके॒तैः । स॒हस्र॑ऽवल्शम् । अ॒भि । सम् । च॒र॒न्ति॒ ।

य॒मेन॑ । त॒तम् । प॒रि॒ऽधिम् । वय॑न्तः । अ॒प्स॒रसः॑ । उप॑ । से॒दुः॒ । वसि॑ष्ठाः ॥९

ते । इत् । निण्यम् । हृदयस्य । प्रऽकेतैः । सहस्रऽवल्शम् । अभि । सम् । चरन्ति ।

यमेन । ततम् । परिऽधिम् । वयन्तः । अप्सरसः । उप । सेदुः । वसिष्ठाः ॥९

“त “इत् त एव वसिष्ठाः “निण्यं तिरोहितं दुर्ज्ञानम् । ‘निण्यं सस्वः' इत्यन्तर्हितनामसु पाठात् । “सहस्रवल्शं सहस्रशाखं संसारं “हृदयस्य “प्रकेतैः प्रज्ञानैः “अभि “सं “चरन्ति । एवं स्वाच्छन्द्येन' अभिसंचरन्तस्ते “वसिष्ठाः “यमेन कारणात्मना सर्वनियन्त्रा “ततं विस्तृतं “परिधिं वस्त्रम्। परिधिरित्यनेन जन्मादिप्रवाहो विवक्षितः । तं "वयन्तोऽप्सरसः जननीत्वेन “उप “सेदुः । अत्र वसिष्ठा इति बहुवचनं पूजायाम् । वसिष्ठः पूर्वं प्रजापतेरुत्पन्नं देहमुत्सृज्याप्सरःसु जायेयेति बुद्धिमकरोदिति भावः ॥


वि॒द्युतो॒ ज्योति॒ः परि॑ सं॒जिहा॑नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा ।

तत्ते॒ जन्मो॒तैकं॑ वसिष्ठा॒गस्त्यो॒ यत्त्वा॑ वि॒श आ॑ज॒भार॑ ॥१०

वि॒ऽद्युतः॑ । ज्योतिः॑ । परि॑ । स॒म्ऽजिहा॑नम् । मि॒त्रावरु॑णा । यत् । अप॑श्यताम् । त्वा॒ ।

तत् । ते॒ । जन्म॑ । उ॒त । एक॑म् । व॒सि॒ष्ठ॒ । अ॒गस्त्यः॑ । यत् । त्वा॒ । वि॒शः । आ॒ऽज॒भार॑ ॥१०

विऽद्युतः । ज्योतिः । परि । सम्ऽजिहानम् । मित्रावरुणा । यत् । अपश्यताम् । त्वा ।

तत् । ते । जन्म । उत । एकम् । वसिष्ठ । अगस्त्यः । यत् । त्वा । विशः । आऽजभार ॥१०

एतास्वृक्षु वसिष्ठस्यैव देहपरिग्रहः प्रतिपाद्यते । एताश्चेन्द्रस्य वाक्यमित्येके वर्णयन्त्यपरे वसिष्ठपुत्राणामिति । हे “वसिष्ठ “यत् यदा “विद्युतः विद्युत इव स्वीयं “ज्योतिः देहान्तरपरिग्रहार्थं “परि “संजिहानं परित्यजन्तं “त्वा त्वाम् । छान्दसमात्मनेपदम् । यद्वा । जिघृक्षितदेहार्थं स्वीयं ज्योतिः परि संजिहानम्। परिजिघृक्षन्तमित्यर्थः । अस्मिन् पक्षे जहातेर्गत्यर्थत्वादात्मनेपदं छान्दसं न भवति । "मित्रावरुणा मित्रावरुणौ “अपश्यताम् । आवाभ्यामयं जायेतेति समकल्पतामित्यर्थः । “तत् तदा “ते तव “एकं जन्म। “उत अपि च “यत् यदा “अगस्त्यः “विशः निवेशनान्मित्रावरुणौ आवां जनयिष्याव इत्येतस्मात् पूर्वावस्थानात् त्वाम् “आजभार आजहार ॥ ॥ २३ ॥


उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या॑ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः ।

द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये॑न॒ विश्वे॑ दे॒वाः पुष्क॑रे त्वाददन्त ॥११

उ॒त । अ॒सि॒ । मै॒त्रा॒व॒रु॒णः । व॒सि॒ष्ठ॒ । उ॒र्वश्याः॑ । ब्र॒ह्म॒न् । मन॑सः । अधि॑ । जा॒तः ।

द्र॒प्सम् । स्क॒न्नम् । ब्रह्म॑णा । दैव्ये॑न । विश्वे॑ । दे॒वाः । पुष्क॑रे । त्वा॒ । अ॒द॒द॒न्त॒ ॥११

उत । असि । मैत्रावरुणः । वसिष्ठ । उर्वश्याः । ब्रह्मन् । मनसः । अधि । जातः ।

द्रप्सम् । स्कन्नम् । ब्रह्मणा । दैव्येन । विश्वे । देवाः । पुष्करे । त्वा । अददन्त ॥११

“उत अपि च हे “वसिष्ठ “मैत्रावरुणः मित्रावरुणयोः पुत्रः “असि । हे “ब्रह्मन् वसिष्ठ “उर्वश्याः अप्सरसः “मनसः ममायं पुत्रः स्यादितीदृशात् संकल्पात् “द्संप्ते रेतः मित्रावरुणयोरुर्वशीदर्शनात् “स्कन्नम् आसीत् । तस्मात् “अधि “जातः असि । तथा च वक्ष्यते ‘सत्रे ह जातौ' इत्यृचि । एवं जातं “त्वा त्वां “दैव्येन देवसंबन्धिना “ब्रह्मणा वेदराशिना अहं भुवा युक्तं पुष्करे “विश्वे “देवाः “अददन्त अधारयन्त। तथा च अदितेर्मित्रावरुणौ जज्ञाते इति प्रकृत्य पठ्यते-’ तयोरादित्ययोः सत्रे दृष्ट्वाप्सरसमुर्वशीम् । रेतश्चस्कन्द तत्कुम्भे न्यपतद्वासतीवरे ।। तेनैव तु मुहूर्तेन वीर्यवन्तौ तपस्विनौ । अगस्त्यश्च वसिष्ठश्च तत्र संबभूवतुः ॥ बहुधा पतितं रेतः कलशे च जले स्थले । स्थले वसिष्ठस्तु मुनिः संभूत ऋषिसत्तमः ॥ कुम्भे त्वगस्त्यः संभूतो जले मत्स्यो महाद्युतिः । उदियाय ततोऽगस्त्यः शम्यामात्रो महातपाः ॥ मानेन संमितो यस्मात्तस्मान्मान्य इहोच्यते । यद्वा कुम्भादृषिजातः कुम्भेनापि हि मीयते ॥ कुम्भ इत्यभिधानं च परिमाणस्य लक्ष्यते। ततोऽप्सु गृह्यमाणासु वसिष्ठः पुष्करे स्थितः ॥ सर्वतः पुष्करे तं हि विश्वे देवा अधारयन् ।' ( बृहद्दे. ५. १४९-१५५) इति ।।


स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान्स॒हस्र॑दान उ॒त वा॒ सदा॑नः ।

य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रस॒ः परि॑ जज्ञे॒ वसि॑ष्ठः ॥१२

सः । प्र॒ऽके॒तः । उ॒भय॑स्य । प्र॒ऽवि॒द्वान् । स॒हस्र॑ऽदानः । उ॒त । वा॒ । सऽदा॑नः ।

य॒मेन॑ । त॒तम् । प॒रि॒ऽधिम् । व॒यि॒ष्यन् । अ॒प्स॒रसः॑ । परि॑ । ज॒ज्ञे॒ । वसि॑ष्ठः ॥१२

सः । प्रऽकेतः । उभयस्य । प्रऽविद्वान् । सहस्रऽदानः । उत । वा । सऽदानः ।

यमेन । ततम् । परिऽधिम् । वयिष्यन् । अप्सरसः । परि । जज्ञे । वसिष्ठः ॥१२

“सः वसिष्ठः “प्रकेतः प्रकृष्टज्ञानः “उभयस्य उभयं दिवं च पृथिवीं च “प्रविद्वान् प्रकर्षेण जानन् “सहस्रदानः अभवत् । किमनेन सहस्रदान इति विशेषणेन “उत “वा अपि वा “सदानः सर्वदानसहित एवाभवत् किंच “वसिष्ठः "यमेन कारणात्मना सर्वनियन्त्रा “ततं विस्तृतं परिधिं वस्त्रम् । परिधिरित्यनेन संसारप्रवाहो विवक्षितः । तं “वयिष्यन् “अप्सरसः उर्वश्याः । “परि इति पञ्चम्यर्थानुवादः । "जज्ञे जातः ।।


स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो॑भिः कु॒म्भे रेत॑ः सिषिचतुः समा॒नम् ।

ततो॑ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो॑ जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् ॥१३

स॒त्रे । ह॒ । जा॒तौ । इ॒षि॒ता । नमः॑ऽभिः । कु॒म्भे । रेतः॑ । सि॒सि॒च॒तुः॒ । स॒मा॒नम् ।

ततः॑ । ह॒ । मानः॑ । उत् । इ॒या॒य॒ । मध्या॑त् । ततः॑ । जा॒तम् । ऋषि॑म् । आ॒हुः॒ । वसि॑ष्ठम् ॥१३

सत्रे । ह । जातौ । इषिता । नमःऽभिः । कुम्भे । रेतः । सिसिचतुः । समानम् ।

ततः । ह । मानः । उत् । इयाय । मध्यात् । ततः । जातम् । ऋषिम् । आहुः । वसिष्ठम् ॥१३

"सत्रे बहुकर्तृके यागे । “ह इति पूरणः । “जातौ दीक्षितौ मित्रावरुणौ “इषिता अध्येषितौ स्वयमन्यैर्जनैः “नमोभिः स्तुतिभिः “कुम्भे वासतीवरे कलशे “समानम् एकदैव "रेतः “सिसिचतुः असिञ्चताम्। “ततः वासतीवरात्कुम्भात् “मध्यात् अगस्त्यः “मानः शमीप्रमाणः “उदियाय प्रादुर्बभूव । “ततः एव कुम्भात् “वसिष्ठम् अपि “ऋषिं “जातमाहुः ॥


उ॒क्थ॒भृतं॑ साम॒भृतं॑ बिभर्ति॒ ग्रावा॑णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे॑ ।

उपै॑नमाध्वं सुमन॒स्यमा॑ना॒ आ वो॑ गच्छाति प्रतृदो॒ वसि॑ष्ठः ॥१४

उ॒क्थ॒ऽभृत॑म् । सा॒म॒ऽभृत॑म् । बि॒भ॒र्ति॒ । ग्रावा॑णम् । बिभ्र॑त् । प्र । व॒दा॒ति॒ । अग्रे॑ ।

उप॑ । ए॒न॒म् । आ॒ध्व॒म् । सु॒ऽम॒न॒स्यमा॑नाः । आ । वः॒ । ग॒च्छा॒ति॒ । प्र॒ऽतृ॒दः॒ । वसि॑ष्ठः ॥१४

उक्थऽभृतम् । सामऽभृतम् । बिभर्ति । ग्रावाणम् । बिभ्रत् । प्र । वदाति । अग्रे ।

उप । एनम् । आध्वम् । सुऽमनस्यमानाः । आ । वः । गच्छाति । प्रऽतृदः । वसिष्ठः ॥१४

हे “प्रतृदः । प्रतृद इति तृत्सव एवाभिधीयन्ते नामान्तरेण । “वः युष्मान् “वसिष्ठः “आ “गच्छाति आगच्छति । “एनं वसिष्ठं “सुमनस्यमानाः सुमनसः सन्तः “उप “आध्वं उपतिष्ठत । आगतश्चासौ वसिष्ठः यज्ञे “अग्रे पुरोहितो ब्रह्मा सन् “उक्थभृतं शस्त्राणां संभक्तारं “बिभर्ति ।। “सामभृतम् उद्गातारं बिभर्ति । “ग्रावाणम् अभिषवणं “बिभ्रत् बिभ्रतम् अध्वर्युं च बिभर्ति । “प्र “वदाति यज्ञे यत्प्रवदितव्यं भ्रेषादिनिमित्ते कर्तव्यमस्ति तदपि वदतीति तृत्सून् प्रतीन्द्रो ब्रवीति ॥ ॥ २४ ॥ ॥ २ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

[सम्पाद्यताम्]

७.३३.६

आशीस्तु वात आ वातु दण्डेति परिदेवना । प्रश्नश्च प्रतिवाक्यं च पृच्छामि त्वेत्यृचौ पृथक् ।।बृहद्देवता १.५० ।।

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.३३&oldid=188762" इत्यस्माद् पुनः प्राप्तिः