ऋग्वेदः सूक्तं ७.३४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.३३ ऋग्वेदः - मण्डल ७
सूक्तं ७.३४
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.३५ →
दे. विश्वे देवाः, १६ अहिः, १७ अहिर्बुध्न्यः। द्विपदा विराट्, २२-२५ त्रिष्टुप्, ।


प्र शुक्रैतु देवी मनीषा अस्मत्सुतष्टो रथो न वाजी ॥१॥
विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्यापो अध क्षरन्तीः ॥२॥
आपश्चिदस्मै पिन्वन्त पृथ्वीर्वृत्रेषु शूरा मंसन्त उग्राः ॥३॥
आ धूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः ॥४॥
अभि प्र स्थाताहेव यज्ञं यातेव पत्मन्त्मना हिनोत ॥५॥
त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् ॥६॥
उदस्य शुष्माद्भानुर्नार्त बिभर्ति भारं पृथिवी न भूम ॥७॥
ह्वयामि देवाँ अयातुरग्ने साधन्नृतेन धियं दधामि ॥८॥
अभि वो देवीं धियं दधिध्वं प्र वो देवत्रा वाचं कृणुध्वम् ॥९॥
आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥१०॥
राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै क्षत्रं विश्वायु ॥११॥
अविष्टो अस्मान्विश्वासु विक्ष्वद्युं कृणोत शंसं निनित्सोः ॥१२॥
व्येतु दिद्युद्द्विषामशेवा युयोत विष्वग्रपस्तनूनाम् ॥१३॥
अवीन्नो अग्निर्हव्यान्नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ॥१४॥
सजूर्देवेभिरपां नपातं सखायं कृध्वं शिवो नो अस्तु ॥१५॥
अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन् ॥१६॥
मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः ॥१७॥
उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः ॥१८॥
तपन्ति शत्रुं स्वर्ण भूमा महासेनासो अमेभिरेषाम् ॥१९॥
आ यन्नः पत्नीर्गमन्त्यच्छा त्वष्टा सुपाणिर्दधातु वीरान् ॥२०॥
प्रति न स्तोमं त्वष्टा जुषेत स्यादस्मे अरमतिर्वसूयुः ॥२१॥
ता नो रासन्रातिषाचो वसून्या रोदसी वरुणानी शृणोतु ।
वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥२२॥
तन्नो रायः पर्वतास्तन्न आपस्तद्रातिषाच ओषधीरुत द्यौः ।
वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥२३॥
अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इन्द्रसखा ।
अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥२४॥
तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त ।
शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥२५॥


सायणभाष्यम्

तृतीयेऽनुवाके द्वाविंशतिसूक्तानि । तत्र ‘प्र शुक्रा' इति पञ्चविंशत्यृचं प्रथमं सूक्तम् । अत्रेयमनुक्रमणिका - प्र शुक्रा पञ्चाधिका वैश्वदेवं हाद्या एकविंशतिद्विपदा अब्जामहेरर्धर्च उत्तरोऽहिर्बुध्न्याय ' इति । वसिष्ठ ऋषिः । आद्या एकविंशतिर्द्विपदा विंशत्यक्षरा विराजो द्वाविंशायाश्चतस्रस्त्रिष्टुभः । विश्वे देवा देवता । व्यूळ्हे दशरात्रे चतुर्थेऽहनि वैश्वदेवशस्त्र इदं सूक्तं वैश्वदेवनिविद्धानम् । सूत्रितं च - प्र शुक्रैत्विति वैश्वदेवम् ' (आश्व. श्रौ. ८.८) इति । षोडशिनि ‘आ धूर्ष्वस्मा इति द्विपदा ' (आश्व. श्रौ. ६. २) इति । महाव्रतेऽप्येषा द्विपदा। तथैव पञ्चमारण्यके सूत्रितं - आ धूर्ष्वस्मा इत्येका सूददोहाः' (ऐ. आ. ५. २. २) इति ॥


प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा अ॒स्मत्सुत॑ष्टो॒ रथो॒ न वा॒जी ॥१

प्र । शु॒क्रा । ए॒तु॒ । दे॒वी । म॒नी॒षा । अ॒स्मत् । सुऽत॑ष्टः । रथः॑ । न । वा॒जी ॥१

प्र । शुक्रा । एतु । देवी । मनीषा । अस्मत् । सुऽतष्टः । रथः । न । वाजी ॥१

“शुक्रा दीप्ता “देवी सर्वेषां कामानां प्रदात्री “मनीषा स्तुतिः “अस्मत् अस्मत्तः अस्मिन् सूक्ते स्तोष्यमाणान् देवान् “वाजी वेगवान् “सुतष्टः सुसंस्कृतः “रथो “न रथ इव “प्र “एतु प्रगच्छतु ॥


वि॒दुः पृ॑थि॒व्या दि॒वो ज॒नित्रं॑ शृ॒ण्वंत्यापो॒ अध॒ क्षरं॑तीः ॥२

वि॒दुः । पृ॒थि॒व्याः । दि॒वः । ज॒नित्र॑म् । शृ॒ण्वन्ति॑ । आपः॑ । अध॑ । क्षर॑न्तीः ॥२

विदुः । पृथिव्याः । दिवः । जनित्रम् । शृण्वन्ति । आपः । अध । क्षरन्तीः ॥२

अस्यामृच्यापः स्तूयन्ते । “क्षरन्तीः क्षरन्त्यः "आपः “दिवः “पृथिव्याः च । उभयोरपि लोकयोरित्यर्थः । “जनित्रम् उत्पत्तिं “विदुः जानन्ति। “अध अपि च “शृण्वन्ति स्तोत्राणीति शेषः ॥


आप॑श्चिदस्मै॒ पिन्वं॑त पृ॒थ्वीर्वृ॒त्रेषु॒ शूरा॒ मंसं॑त उ॒ग्राः ॥३

आपः॑ । चि॒त् । अ॒स्मै॒ । पिन्व॑न्त । पृ॒थ्वीः । वृ॒त्रेषु॑ । शूराः॑ । मंस॑न्ते । उ॒ग्राः ॥३

आपः । चित् । अस्मै । पिन्वन्त । पृथ्वीः । वृत्रेषु । शूराः । मंसन्ते । उग्राः ॥३

इन्द्रोऽस्मिन् द्वृचे स्तूयते । “पृथ्वीः पृथ्व्यः प्रथमानाः "आपश्चित् आपोऽपि “अस्मै इन्द्राय “पिन्वन्त प्यायन्ते । “वृत्रेषु उपद्रवेषु सत्सु "उग्राः उद्गूर्णास्तेजस्विनो बा “शूराः योद्धारोऽपि “मंसन्ते इममेवेन्द्रं स्तुवन्ति ॥


आ धू॒र्ष्व॑स्मै॒ दधा॒ताश्वा॒निंद्रो॒ न व॒ज्री हिर॑ण्यबाहुः ॥४

आ । धूः॒ऽसु । अ॒स्मै॒ । दधा॑त । अश्वा॑न् । इन्द्रः॑ । न । व॒ज्री । हिर॑ण्यऽबाहुः ॥४

आ । धूःऽसु । अस्मै । दधात । अश्वान् । इन्द्रः । न । वज्री । हिरण्यऽबाहुः ॥४

“अस्मै । षष्ठ्यर्थे चतुर्थी । अस्येन्द्रस्यागमनाय “अश्वान् “धूर्षु रथस्य “आ “दधात। “इन्द्रो “न । नेति चार्थे। इन्द्रः “वज्री वज्रवान् “हिरण्यबाहुः हिरण्यहस्तश्च भवति ॥ षोडशिनि शस्यमानत्वादस्या ऐन्द्रत्वं गम्यते । ‘आ धूर्ष्वस्मै ' इत्यत्र ‘अस्मै ' इत्यस्य पदस्यानुदात्तत्वं पूर्वस्यामिन्द्रस्य प्रकृतत्वात् । अत एव पूर्वाप्यैन्द्रीति विज्ञायते । पूर्वस्यामप्यृचि ‘अस्मै ' इत्यत्रानुदात्तत्वमल्पीयोऽर्थतरमनुदात्तमिति । तथा च यास्कः - ‘ अस्येति चोदात्तं प्रथमादेशेऽनुदात्तमन्वादेशे तीव्रार्थतरमुदात्तमल्पीयोऽर्थतरमनुदात्तम् ' (निरु. ४. २५) इति । अल्पीयस्त्वं चेदंशब्दप्रवृत्तिनिमित्तस्य संनिधानस्य दूरस्थत्वेनेत्यवगन्तव्यम् ॥


अ॒भि प्र स्था॒ताहे॑व य॒ज्ञं याते॑व॒ पत्मं॒त्मना॑ हिनोत ॥५

अ॒भि । प्र । स्था॒त॒ । अह॑ऽइव । य॒ज्ञम् । याता॑ऽइव । पत्म॑न् । त्मना॑ । हि॒नो॒त॒ ॥५

अभि । प्र । स्थात । अहऽइव । यज्ञम् । याताऽइव । पत्मन् । त्मना । हिनोत ॥५

यज्ञस्तुतिरियम् । हे जनाः “यज्ञम् “अभि “प्र “स्थात अभिक्रमत । “अहेव इति पूरणौ । अपि च "पत्मन् पत्मनि यज्ञमार्गे “त्मना स्वयमेव “यातेव गन्तेव “हिनोत गच्छत । ' हि गतौ' इति धातुः ॥


त्मना॑ स॒मत्सु॑ हि॒नोत॑ य॒ज्ञं दधा॑त के॒तुं जना॑य वी॒रं ॥६

त्मना॑ । स॒मत्ऽसु॑ । हि॒नोत॑ । य॒ज्ञम् । दधा॑त । के॒तुम् । जना॑य । वी॒रम् ॥६

त्मना । समत्ऽसु । हिनोत । यज्ञम् । दधात । केतुम् । जनाय । वीरम् ॥६

उक्तस्यैव विवरणमत्र। हे मदीया जनाः “समस्सु संग्रामेषु “त्मना स्वयमेव “हिनोत गच्छत । अपि च “केतुं प्रज्ञापकं “वीरं पापानां वारयितारम् । नाशकमित्यर्थः । “यज्ञं “जनाय लोकाय । तद्रक्षार्थमित्यर्थः । “दधात विधत्त ॥


उद॑स्य॒ शुष्मा॑द्भा॒नुर्नार्त॒ बिभ॑र्ति भा॒रं पृ॑थि॒वी न भूम॑ ॥७

उत् । अ॒स्य॒ । शुष्मा॑त् । भा॒नुः । न । आ॒र्त॒ । बिभ॑र्ति । भा॒रम् । पृ॒थि॒वी । न । भूम॑ ॥७

उत् । अस्य । शुष्मात् । भानुः । न । आर्त । बिभर्ति । भारम् । पृथिवी । न । भूम ॥७

“अस्य यज्ञस्य “शुष्मात् बलात् "भानुः सूर्यः "उत् "आर्त उद्गच्छति । "भूम भूतानि पृथिवीव “भारं लोकस्यायं यज्ञो “बिभर्ति च ॥


ह्वया॑मि दे॒वाँ अया॑तुरग्ने॒ साध॑न्नृ॒तेन॒ धियं॑ दधामि ॥८

ह्वया॑मि । दे॒वान् । अया॑तुः । अ॒ग्ने॒ । साध॑न् । ऋ॒तेन॑ । धिय॑म् । द॒धा॒मि॒ ॥८

ह्वयामि । देवान् । अयातुः । अग्ने । साधन् । ऋतेन । धियम् । दधामि ॥८

अस्मिंस्तृचे देवाः स्तूयन्ते । हे “अग्ने “अयातुः अहिंसादिनियमयुक्तेन “ऋतेन यज्ञेन “साधन् कामान् साधयन् “देवान् ह्वयामि । अपि च “धियं देवानां परिचरणात्मकं कर्म “दधामि । करोमीत्यर्थः ॥


अ॒भि वो॑ दे॒वीं धियं॑ दधिध्वं॒ प्र वो॑ देव॒त्रा वाचं॑ कृणुध्वं ॥९

अ॒भि । वः॒ । दे॒वीम् । धिय॑म् । द॒धि॒ध्व॒म् । प्र । वः॒ । दे॒व॒ऽत्रा । वाच॑म् । कृ॒णु॒ध्व॒म् ॥९

अभि । वः । देवीम् । धियम् । दधिध्वम् । प्र । वः । देवऽत्रा । वाचम् । कृणुध्वम् ॥९

हे जनाः “वः यूयम् “अभि देवानुद्दिश्य “देवीं दीप्तां “धियं कर्म “दधिध्वं विधत्त । अपि च “वः यूयं “देवत्रा देवेषु “वाचं स्तुतिरूपां “प्र “कृणुध्वं प्रकर्षेण कुरुध्वम् ॥


आ च॑ष्ट आसां॒ पाथो॑ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ॥१०

आ । च॒ष्टे॒ । आ॒सा॒म् । पाथः॑ । न॒दीना॑म् । वरु॑णः । उ॒ग्रः । स॒हस्र॑ऽचक्षाः ॥१०

आ । चष्टे । आसाम् । पाथः । नदीनाम् । वरुणः । उग्रः । सहस्रऽचक्षाः ॥१०

"सहस्रचक्षाः बहुचक्षुः “वरुणः "आसां “नदीनां "पाथः जलम् “आ चष्टे अभिपश्यति । कीदृशो वरुणः । "उग्रः उद्गूर्ण ओजस्वी वा ॥ ॥ २५ ॥


राजा॑ रा॒ष्ट्रानां॒ पेशो॑ न॒दीना॒मनु॑त्तमस्मै क्ष॒त्रं वि॒श्वायु॑ ॥११

राजा॑ । रा॒ष्ट्राना॑म् । पेशः॑ । न॒दीना॑म् । अनु॑त्तम् । अ॒स्मै॒ । क्ष॒त्रम् । वि॒श्वऽआ॑यु ॥११

राजा । राष्ट्रानाम् । पेशः । नदीनाम् । अनुत्तम् । अस्मै । क्षत्रम् । विश्वऽआयु ॥११

"राष्ट्रानां राष्ट्राणाम् ॥ णत्वाभावश्छान्दसः ॥ ईश्वराणामपि वरुणः "राजा ईश्वरः भवति । “नदीनां “पेशः रूपं रूपकृदपि भवतीत्यर्थः। “अस्मै । षष्ठ्यर्थे चतुर्थी। अस्य वरुणस्य “क्षत्रं बलम् “अनुत्तम् अन्यैरबाधितं "विश्वायु सर्वतो गन्तृ भवतीति ॥


अवि॑ष्टो अ॒स्मान्विश्वा॑सु वि॒क्ष्वद्युं॑ कृणोत॒ शंसं॑ निनि॒त्सोः ॥१२

अवि॑ष्टो॒ इति॑ । अ॒स्मान् । विश्वा॑सु । वि॒क्षु । अद्यु॑म् । कृ॒णो॒त॒ । शंस॑म् । नि॒नि॒त्सोः ॥१२

अविष्टो इति । अस्मान् । विश्वासु । विक्षु । अद्युम् । कृणोत । शंसम् । निनित्सोः ॥१२

अयं द्वृचो दैवः । हे देवाः “अस्मान् “विश्वासु सर्वासु “विक्षु प्रजासु । अविष्ट उ इति समुदितम् “अविष्टो इति । अविष्ट रक्षत। “शंसं निनित्सोः निन्दितुमिच्छतः शत्रोः "अद्युम् अदीप्तिं “कृणोत कुरुत च ॥


व्ये॑तु दि॒द्युद्द्वि॒षामशे॑वा यु॒योत॒ विष्व॒ग्रप॑स्त॒नूनां॑ ॥१३

वि । ए॒तु॒ । दि॒द्युत् । द्वि॒षाम् । अशे॑वा । यु॒योत॑ । विष्व॑क् । रपः॑ । त॒नूना॑म् ॥१३

वि । एतु । दिद्युत् । द्विषाम् । अशेवा । युयोत । विष्वक् । रपः । तनूनाम् ॥१३

"द्विषां शत्रूणां "दिद्युत् आयुधम् “अशेवा असुखकरी “विष्वक् सर्वतः “व्येतु अपगच्छतु । “तनूनाम् अङ्गानां “रपः पापं देवाः "युयोत अस्मत्तः पृथक्कुरुत ॥


अवी॑न्नो अ॒ग्निर्ह॒व्यान्नमो॑भिः॒ प्रेष्ठो॑ अस्मा अधायि॒ स्तोमः॑ ॥१४

अवी॑त् । नः॒ । अ॒ग्निः । ह॒व्य॒ऽअत् । नमः॑ऽभिः । प्रेष्ठः॑ । अ॒स्मै॒ । अ॒धा॒यि॒ । स्तोमः॑ ॥१४

अवीत् । नः । अग्निः । हव्यऽअत् । नमःऽभिः । प्रेष्ठः । अस्मै । अधायि । स्तोमः ॥१४

“हव्यात् हव्यानामत्ता "अग्निः “नमोभिः अस्मदीयैर्नमस्कारैः "प्रेष्ठः प्रियतमः सन् “नः अस्मान् “अवीत् रक्षतु । “अस्मै अग्नये स्तोत्रम् “अधायि अस्माभिर्व्यधायि ॥


स॒जूर्दे॒वेभि॑र॒पां नपा॑तं॒ सखा॑यं कृध्वं शि॒वो नो॑ अस्तु ॥१५

स॒ऽजूः । दे॒वेभिः॑ । अ॒पाम् । नपा॑तम् । सखा॑यम् । कृ॒ध्व॒म् । शि॒वः । नः॒ । अ॒स्तु॒ ॥१५

सऽजूः । देवेभिः । अपाम् । नपातम् । सखायम् । कृध्वम् । शिवः । नः । अस्तु ॥१५

हे स्तोतारः “अपाम् उदकानां “नपातं पुत्रमग्निम्। ‘सूनुः नपात् ' इत्यपत्यनामसु पाठात् । “देवेभिः देवैः “सजूः सह "सखायं मित्रं स्तुतिभिः “कृध्वं कुरुध्वम् । स चापां नपात् “नः अस्मभ्यं “शिवः सुखकरः “अस्तु भवतु ।।


अ॒ब्जामु॒क्थैरहिं॑ गृणीषे बु॒ध्ने न॒दीनां॒ रज॑स्सु॒ षीद॑न् ॥१६

अ॒प्ऽजाम् । उ॒क्थैः । अहि॑म् । गृ॒णी॒षे॒ । बु॒ध्ने । न॒दीना॑म् । रजः॑ऽसु । सीद॑न् ॥१६

अप्ऽजाम् । उक्थैः । अहिम् । गृणीषे । बुध्ने । नदीनाम् । रजःऽसु । सीदन् ॥१६

“अहिं मेघानामाहन्तारं "नदीनाम् उदकानां "बुध्ने स्थाने। बुध्नमन्तरिक्षं बद्धा अस्मिन् धृता आप इति व्युत्पत्तेः । तस्मिन् “रजःसु उदकेषु “सीदन् सीदन्तम् “अब्जाम् अप्सु जातमिममग्निम् “उक्थैः स्तोत्रैः “गृणीषे। ‘बुध्ने नदीनां रजःसूदकेषु सीदन् बुध्नमन्तरिक्षं बद्धा अस्मिन् धृता आप इति ' (निरु. १०. ४४ ) इति ॥


मा नोऽहि॑र्बु॒ध्न्यो॑ रि॒षे धा॒न्मा य॒ज्ञो अ॑स्य स्रिधदृता॒योः ॥१७

मा । नः॒ । अहिः॑ । बु॒ध्न्यः॑ । रि॒षे । धा॒त् । मा । य॒ज्ञः । अ॒स्य॒ । स्रि॒ध॒त् । ऋ॒त॒ऽयोः ॥१७

मा । नः । अहिः । बुध्न्यः । रिषे । धात् । मा । यज्ञः । अस्य । स्रिधत् । ऋतऽयोः ॥१७

“अहिर्बुध्न्यः । बुध्नेऽन्तरिक्षे भवो बुध्न्यः। अहिश्चासौ बुध्न्यश्चेत्यहिर्बुध्न्योऽग्निः “नः अस्मान् “रिषे हिंसकाय “मा “धात् मा ददातु । “अस्य “ऋतायोः यज्ञकामस्य यजमानस्य “यज्ञः “मा च “स्रिधत् न क्षीयेत । यद्वा । अस्याहिर्बुध्न्यस्य इममहिर्बुध्न्यमुद्दिश्य ऋतायोः यज्ञकामस्य यो यज्ञः स न क्षीयेतेत्यर्थः ।।


उ॒त न॑ ए॒षु नृषु॒ श्रवो॑ धुः॒ प्र रा॒ये यं॑तु॒ शर्धं॑तो अ॒र्यः ॥१८

उ॒त । नः॒ । ए॒षु । नृषु॑ । श्रवः॑ । धुः॒ । प्र । रा॒ये । य॒न्तु॒ । शर्ध॑न्तः । अ॒र्यः ॥१८

उत । नः । एषु । नृषु । श्रवः । धुः । प्र । राये । यन्तु । शर्धन्तः । अर्यः ॥१८

अयं द्वृचो दैवो मारुतो वा । "उत अपि च “नः अस्मदीयेषु “एषु “नृषु पुरुषेषु “श्रवः अन्नं “धुः देवा मरुतो वा धारयन्तु । “राये धनार्थं "शर्धन्तः उत्सहमानाः प्रीयमाणा वा “अर्यः अरयः “प्र “यन्तु प्रगच्छन्तु । म्रियन्तामित्यर्थः ।।


तपं॑ति॒ शत्रुं॒ स्व१॒॑र्ण भूमा॑ म॒हासे॑नासो॒ अमे॑भिरेषां ॥१९

तप॑न्ति । शत्रु॑म् । स्वः॑ । न । भूम॑ । म॒हाऽसे॑नासः । अमे॑भिः । ए॒षा॒म् ॥१९

तपन्ति । शत्रुम् । स्वः । न । भूम । महाऽसेनासः । अमेभिः । एषाम् ॥१९

"महासेनासः महासेना राजानः “एषां मरुतां देवानां वा “अमेभिः बलैः “भूमा भुवनानि “स्वर्ण आदित्य इव "शत्रुं स्वकीयं “तपन्ति बाधन्ते । महान्तोऽपि राजानः अमैः बलैः शत्रून् बाधन्ते । तानि बलानि देवानामेवेत्यर्थः ॥


आ यन्नः॒ पत्नी॒र्गमं॒त्यच्छा॒ त्वष्टा॑ सुपा॒णिर्दधा॑तु वी॒रान् ॥२०

आ । यत् । नः॒ । पत्नीः॑ । गम॑न्ति । अच्छ॑ । त्वष्टा॑ । सु॒ऽपा॒णिः । दधा॑तु । वी॒रान् ॥२०

आ । यत् । नः । पत्नीः । गमन्ति । अच्छ । त्वष्टा । सुऽपाणिः । दधातु । वीरान् ॥२०

अस्यां देवपत्न्यस्त्वष्टा च देवता । “यत् यदा “पत्नीः देवानां पत्न्यः “नः अस्मान् “अच्छ अभि “आ “गमन्ति आगच्छन्ति तदा “सुपाणिः शोभनहस्तः “त्वष्टा देवः “वीरान पुत्रान् “दधातु अस्मभ्यं ददातु ॥ ॥ २६ ॥


प्रति॑ नः॒ स्तोमं॒ त्वष्टा॑ जुषेत॒ स्याद॒स्मे अ॒रम॑तिर्वसू॒युः ॥२१

प्रति॑ । नः॒ । स्तोम॑म् । त्वष्टा॑ । जु॒षे॒त॒ । स्यात् । अ॒स्मे इति॑ । अ॒रम॑तिः । व॒सु॒ऽयुः ॥२१

प्रति । नः । स्तोमम् । त्वष्टा । जुषेत । स्यात् । अस्मे इति । अरमतिः । वसुऽयुः ॥२१

“नः अस्माकं “स्तोमं स्तोत्रं “त्वष्टा "प्रति “जुषेत प्रतिसेवेत । अपि च “अरमतिः पर्याप्तबुद्धिः सर्वविषयव्यापिबुद्धिर्वा त्वष्टा “अस्मे अस्मदर्थं “वसूयुः धनकामः “स्यात् भूयात् ॥


ता नो॑ रासन्राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी शृ॑णोतु ।

वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु॒ त्वष्टा॑ सु॒दत्रो॒ वि द॑धातु॒ रायः॑ ॥२२

ता । नः॒ । रा॒स॒न् । रा॒ति॒ऽसाचः॑ । वसू॑नि । आ । रोद॑सी॒ इति॑ । व॒रु॒णा॒नी । शृ॒णो॒तु॒ ।

वरू॑त्रीभिः । सु॒ऽश॒र॒णः । नः॒ । अ॒स्तु॒ । त्वष्टा॑ । सु॒ऽदत्रः॑ । वि । द॒धा॒तु॒ । रायः॑ ॥२२

ता । नः । रासन् । रातिऽसाचः । वसूनि । आ । रोदसी इति । वरुणानी । शृणोतु ।

वरूत्रीभिः । सुऽशरणः । नः । अस्तु । त्वष्टा । सुऽदत्रः । वि । दधातु । रायः ॥२२

“ता यानि अस्माकमभीष्टानि तानि “वसूनि धनानि “रातिषाचः दानसमवेताः देवपत्न्यः “नः अस्मभ्यं “रासन् प्रयच्छन्तु। अपि च “वरुणानी वरुणस्य पत्नी “आ “शृणोतु अस्मदीयं स्तोत्रम् अभिशृणोतु। “रोदसी द्यावापृथिव्यौ चाभिशृणुताम्। “सुदत्रः कल्याणदानः “त्वष्टा च “वरूत्रीभिः उपद्रवाणां वारयित्रीभिर्देवपत्नीभिः सह “नः अस्मभ्यं “सुशरणः सुशरणप्रदः “अस्तु । "रायः धनानि च “वि “दधातु ॥


तन्नो॒ रायः॒ पर्व॑ता॒स्तन्न॒ आप॒स्तद्रा॑ति॒षाच॒ ओष॑धीरु॒त द्यौः ।

वन॒स्पति॑भिः पृथि॒वी स॒जोषा॑ उ॒भे रोद॑सी॒ परि॑ पासतो नः ॥२३

तत् । नः॒ । रायः॑ । पर्व॑ताः । तत् । नः॒ । आपः॑ । तत् । रा॒ति॒ऽसाचः॑ । ओष॑धीः । उ॒त । द्यौः ।

वन॒स्पति॑ऽभिः । पृ॒थि॒वी । स॒ऽजोषाः॑ । उ॒भे इति॑ । रोद॑सी॒ इति॑ । परि॑ । पा॒स॒तः॒ । नः॒ ॥२३

तत् । नः । रायः । पर्वताः । तत् । नः । आपः । तत् । रातिऽसाचः । ओषधीः । उत । द्यौः ।

वनस्पतिऽभिः । पृथिवी । सऽजोषाः । उभे इति । रोदसी इति । परि । पासतः । नः ॥२३

“नः अस्माकम् । “तत् इत्यव्ययम् । ताः “रायः धनानि “पर्वताः परिपान्तु। “नः अस्माकं “तत् ताः रायः “आपः च परिपान्तु। “तद्रातिषाचः दानसहिता देवपत्न्यश्च परिपान्तु। “ओषधीः ओषधयश्च तत् परिपान्तु । "उत अपि च “द्यौः तत् परिपातु । “वनस्पतिभिः “सजोषाः सहिता “पृथिवी अन्तरिक्षं च तत् परिपातु ।'आपः पृथिवी ' इत्यन्तरिक्षनामसु पाठात् । “नः अस्माकं तत् "उभे “रोदसी द्यावापृथिव्यावपि “परि “पासतः परिरक्षताम् ॥


अनु॒ तदु॒र्वी रोद॑सी जिहाता॒मनु॑ द्यु॒क्षो वरु॑ण॒ इंद्र॑सखा ।

अनु॒ विश्वे॑ म॒रुतो॒ ये स॒हासो॑ रा॒यः स्या॑म ध॒रुणं॑ धि॒यध्यै॑ ॥२४

अनु॑ । तत् । उ॒र्वी इति॑ । रोद॑सी॒ इति॑ । जि॒हा॒ता॒म् । अनु॑ । द्यु॒क्षः । वरु॑णः । इन्द्र॑ऽसखा ।

अनु॑ । विश्वे॑ । म॒रुतः॑ । ये । स॒हासः॑ । रा॒यः । स्या॒म॒ । ध॒रुण॑म् । धि॒यध्यै॑ ॥२४

अनु । तत् । उर्वी इति । रोदसी इति । जिहाताम् । अनु । द्युक्षः । वरुणः । इन्द्रऽसखा ।

अनु । विश्वे । मरुतः । ये । सहासः । रायः । स्याम । धरुणम् । धियध्यै ॥२४

“तत् वक्ष्यमाणम् "उर्वी विस्तीर्णे “रोदसी द्यावापृथिव्यौ “अनु "जिहाताम् अनुगच्छताम्। अनुमन्येतामित्यर्थः। “द्युक्षः दीप्तेर्निवासभूतः “इन्द्रसखा इन्द्रसखः । इन्द्रः सखा यस्येति बहुव्रीहिः। “वरुणः च तत् “अनु जिहीताम् । द्विवचनान्तस्यैकवचनान्ततया विपरिणामः । “ये “सहासः शत्रूणामभिभवितारः ते “मरुतः अपि तत् “अनु जिहताम् । अत्र बहुवचनान्ततया विपरिणामः । यदनुमन्तव्यं तदाह । “धियध्यै भरणीयं धारयितुं “रायः धनस्य “धरुणं धाम स्थानं वयं “स्याम भवेमेति ।।


तन्न॒ इंद्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो॑ जुषंत ।

शर्म॑न्त्स्याम म॒रुता॑मु॒पस्थे॑ यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥२५

तत् । नः॒ । इन्द्रः॑ । वरु॑णः । मि॒त्रः । अ॒ग्निः । आपः॑ । ओष॑धीः । व॒निनः॑ । जु॒ष॒न्त॒ ।

शर्म॑न् । स्या॒म॒ । म॒रुता॑म् । उ॒पऽस्थे॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥२५

तत् । नः । इन्द्रः । वरुणः । मित्रः । अग्निः । आपः । ओषधीः । वनिनः । जुषन्त ।

शर्मन् । स्याम । मरुताम् । उपऽस्थे । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥२५

“नः अस्मदीयं “तत् इदं स्तोत्रम् “इन्द्रः “वरुणः च “मित्रः च “अग्निः च "आपः च “ओषधीः ओषधयश्च “वनिनः वृक्षाश्च “जुषन्त जुषन्तां सेवन्ताम् । वयं च "मरुतामुपस्थे उपस्थाने वर्तमानाः “शर्मन् शर्मणि सुखे गृहे वा “स्याम भवेम । सिद्धमन्यत् ॥ ॥ २७ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.३४&oldid=200644" इत्यस्माद् पुनः प्राप्तिः