ऋग्वेदः सूक्तं ७.४३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.४२ ऋग्वेदः - मण्डल ७
सूक्तं ७.४३
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.४४ →
दे. विश्वे देवाः। त्रिष्टुप्।


प्र वो यज्ञेषु देवयन्तो अर्चन्द्यावा नमोभिः पृथिवी इषध्यै ।
येषां ब्रह्माण्यसमानि विप्रा विष्वग्वियन्ति वनिनो न शाखाः ॥१॥
प्र यज्ञ एतु हेत्वो न सप्तिरुद्यच्छध्वं समनसो घृताचीः ।
स्तृणीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः ॥२॥
आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु ।
आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मृधस्कः ॥३॥
ते सीषपन्त जोषमा यजत्रा ऋतस्य धाराः सुदुघा दुहानाः ।
ज्येष्ठं वो अद्य मह आ वसूनामा गन्तन समनसो यति ष्ठ ॥४॥
एवा नो अग्ने विक्ष्वा दशस्य त्वया वयं सहसावन्नास्क्राः ।
राया युजा सधमादो अरिष्टा यूयं पात स्वस्तिभिः सदा नः ॥५॥


सायणभाष्यम्

‘ प्र वो यज्ञेषु ' इति पञ्चर्चं दशमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवम्। ‘प्र वः पञ्च ' इत्यनुक्रान्तम् । सूक्तविनियोगो लैङ्गिकः । प्रथमे छन्दोमे प्रउगशस्त्रे ‘प्र वो यज्ञेषु ' इति वैश्वदेवस्तृचः । सूत्रितं च -- ‘ प्र वो यज्ञेषु देवयन्तो अर्चन् प्र क्षोदसा धायसा सस्र एषेति प्रउगम् ' (आश्व. श्रौ. ८. ९) इति ॥


प्र वो॑ य॒ज्ञेषु॑ देव॒यन्तो॑ अर्च॒न्द्यावा॒ नमो॑भिः पृथि॒वी इ॒षध्यै॑ ।

येषां॒ ब्रह्मा॒ण्यस॑मानि॒ विप्रा॒ विष्व॑ग्वि॒यन्ति॑ व॒निनो॒ न शाखा॑ः ॥१

प्र । वः॒ । य॒ज्ञेषु॑ । दे॒व॒ऽयन्तः॑ । अ॒र्च॒न् । द्यावा॑ । नमः॑ऽभिः । पृ॒थि॒वी इति॑ । इ॒षध्यै॑ ।

येषा॑म् । ब्रह्मा॑णि । अस॑मानि । विप्रा॑ । विष्व॑क् । वि॒ऽयन्ति॑ । व॒निनः॑ । न । शाखाः॑ ॥१

प्र । वः । यज्ञेषु । देवऽयन्तः । अर्चन् । द्यावा । नमःऽभिः । पृथिवी इति । इषध्यै ।

येषाम् । ब्रह्माणि । असमानि । विप्रा । विष्वक् । विऽयन्ति । वनिनः । न । शाखाः ॥१

“देवयन्तः देवान् कामयमानाः विप्राः “यज्ञेषु “नमोभिः स्तुतिभिर्हविर्भिर्वा “वः युष्मान् “इषध्यै अभिप्राप्तुं “प्र “अर्चन् प्रार्चयन्ति प्रकर्षेण स्तुवन्ति । “द्यावा दिवं च “पृथिवी भूमिं च प्रस्तुवन्ति । “येषां विप्राणां मेधाविनां “ब्रह्माणि स्तोत्राणि “वनिनो “न “शाखाः वृक्षस्य शाखा इव “विष्वक् विश्वतः “वियन्ति विशेषेण गच्छन्ति । ते "विप्राः प्रार्चन्निति पूर्वेण संबन्धः ।।


प्र य॒ज्ञ ए॑तु॒ हेत्वो॒ न सप्ति॒रुद्य॑च्छध्वं॒ सम॑नसो घृ॒ताची॑ः ।

स्तृ॒णी॒त ब॒र्हिर॑ध्व॒राय॑ सा॒धूर्ध्वा शो॒चींषि॑ देव॒यून्य॑स्थुः ॥२

प्र । य॒ज्ञः । ए॒तु॒ । हेत्वः॑ । न । सप्तिः॑ । उत् । य॒च्छ॒ध्व॒म् । सऽम॑नसः । घृ॒ताचीः॑ ।

स्तृ॒णी॒त । ब॒र्हिः । अ॒ध्व॒राय॑ । सा॒धु । ऊ॒र्ध्वा । शो॒चींषि॑ । दे॒व॒ऽयूनि॑ । अ॒स्थुः॒ ॥२

प्र । यज्ञः । एतु । हेत्वः । न । सप्तिः । उत् । यच्छध्वम् । सऽमनसः । घृताचीः ।

स्तृणीत । बर्हिः । अध्वराय । साधु । ऊर्ध्वा । शोचींषि । देवऽयूनि । अस्थुः ॥२

अयमस्मदीयः "यज्ञः “प्र “एतु देवान् प्रति गच्छतु । तत्र दृष्टान्तः । “हेत्वो “न “सप्तिः शीघ्रगाम्यश्वो यथा तद्वत् । हे ऋत्विजः सर्वे यूयं “समनसः सदृशमनस्काः सन्तः “घृताचीः स्रुचः “उद्यच्छध्वं हस्त उद्यम्य धारयत । तथा “अध्वराय यागं कर्तुं “साधु साधकं “बर्हिः कुशमयं “स्तृणीत वेद्यां छादयत । हे अग्ने “देवयूनि देवान् कामयमानानि त्वदीयानि “शोचींषि अर्चींषि “ऊर्ध्वा ऊर्ध्वमुखानि “अस्थुः तिष्ठन्तु ॥


आ पु॒त्रासो॒ न मा॒तरं॒ विभृ॑त्रा॒ः सानौ॑ दे॒वासो॑ ब॒र्हिष॑ः सदन्तु ।

आ वि॒श्वाची॑ विद॒थ्या॑मन॒क्त्वग्ने॒ मा नो॑ दे॒वता॑ता॒ मृध॑स्कः ॥३

आ । पु॒त्रासः॑ । न । मा॒तर॑म् । विऽभृ॑त्राः । सानौ॑ । दे॒वासः॑ । ब॒र्हिषः॑ । स॒द॒न्तु॒ ।

आ । वि॒श्वाची॑ । वि॒द॒थ्या॑म् । अ॒न॒क्तु॒ । अग्ने॑ । मा । नः॒ । दे॒वऽता॑ता । मृधः॑ । क॒रिति॑ कः ॥३

आ । पुत्रासः । न । मातरम् । विऽभृत्राः । सानौ । देवासः । बर्हिषः । सदन्तु ।

आ । विश्वाची । विदथ्याम् । अनक्तु । अग्ने । मा । नः । देवऽताता । मृधः । करिति कः ॥३

“मातरं जननीं “विभृत्राः विशेषेण भर्तव्याः “पुत्रासो “न पुत्रा इव तद्वदस्माकं भरणीयाः “देवासः देवाः “बर्हिषः कुशमयस्य वेद्यामास्तीर्णस्य “सानौ उन्नते देशे “आ “सदन्तु उपविशन्तु । हे “अग्ने “विदथ्यां यज्ञयोग्यां त्वदीयां ज्वालां “विश्वाची । विश्वं सर्वं हविरञ्चति गच्छतीति विश्वाची जुहूः। “आ “अनक्तु आ समन्तात् सिञ्चतु । "देवताता देवतातौ युद्धे “नः अस्माकं “मृधः हिंसकान् हे अग्ने त्वं “मा “कः मा कार्षीः । यज्ञवाचको देवतातिशब्दोऽत्र संग्रामे वर्तते ॥


ते सी॑षपन्त॒ जोष॒मा यज॑त्रा ऋ॒तस्य॒ धारा॑ः सु॒दुघा॒ दुहा॑नाः ।

ज्येष्ठं॑ वो अ॒द्य मह॒ आ वसू॑ना॒मा ग॑न्तन॒ सम॑नसो॒ यति॒ ष्ठ ॥४

ते । सी॒ष॒प॒न्त॒ । जोष॑म् । आ । यज॑त्राः । ऋ॒तस्य॑ । धाराः॑ । सु॒ऽदुघाः॑ । दुहा॑नाः ।

ज्येष्ठ॑म् । वः॒ । अ॒द्य । महः॑ । आ । वसू॑नाम् । आ । ग॒न्त॒न॒ । सऽम॑नसः । यति॑ । स्थ ॥४

ते । सीषपन्त । जोषम् । आ । यजत्राः । ऋतस्य । धाराः । सुऽदुघाः । दुहानाः ।

ज्येष्ठम् । वः । अद्य । महः । आ । वसूनाम् । आ । गन्तन । सऽमनसः । यति । स्थ ॥४

"यजत्राः यजनीयाः “ते इन्द्रादयो देवाः “ऋतस्य उदकस्य “सुदुघाः सुखेन दोग्धुं शक्याः “धाराः “दुहानाः वर्षन्तः "जोषं पर्याप्तं यथा भवति तथा “आ “सीषपन्त । सपतिः परिचरणार्थः । स्तुतिभिः आ समन्तात् पर्यचीचरन् । अस्मान् परिचरणं कुर्वन्तु । स्वीकुर्वन्त्विति यावत् । “अद्य अस्मिन् दिने हे देवाः “वसूनां धनानां मध्ये “ज्येष्ठं श्रेष्ठं “वः युष्मदीयं “महः मंहनीयं धनम् “आ गच्छतु। यूयमपि “समनसः तुल्यमतयः सन्तः “आ “गन्तन आगच्छत। हे देवाः यूयं --- आगन्तनेति संबन्धः ॥


ए॒वा नो॑ अग्ने वि॒क्ष्वा द॑शस्य॒ त्वया॑ व॒यं स॑हसाव॒न्नास्क्रा॑ः ।

रा॒या यु॒जा स॑ध॒मादो॒ अरि॑ष्टा यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५

ए॒व । नः॒ । अ॒ग्ने॒ । वि॒क्षु । आ । द॒श॒स्य॒ । त्वया॑ । व॒यम् । स॒ह॒सा॒ऽव॒न् । आस्क्राः॑ ।

रा॒या । यु॒जा । स॒ध॒ऽमादः॑ । अरि॑ष्टाः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५

एव । नः । अग्ने । विक्षु । आ । दशस्य । त्वया । वयम् । सहसाऽवन् । आस्क्राः ।

राया । युजा । सधऽमादः । अरिष्टाः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५

हे “अग्ने “एव एवं स्तुतस्त्वं “विक्षु प्रजासु मध्ये "नः अस्मभ्यम् “आ "दशस्य धनमभिप्रयच्छ। हे "सहसावन् बलवन्नग्ने “त्वया “आस्क्राः अस्कन्नाः “वयं “युजा नित्ययुक्तेन “राया धनेन “सधमादः सह माद्यन्तः “अरिष्टाः अहिंसिता भवेम । अस्मिन् सूक्ते प्रतिपादिताः सर्वे देवाः "यूयं “नः अस्मान् कल्याणैः सर्वदा पालयत ॥ ॥ १० ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४३&oldid=200868" इत्यस्माद् पुनः प्राप्तिः