ऋग्वेदः सूक्तं ७.३२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.३१ ऋग्वेदः - मण्डल ७
सूक्तं ७.३२
[[लेखकः :|]]
सूक्तं ७.३३ →
ऋ. मैत्रावरुणिर्वसिष्ठः, २६ पूर्वार्धर्चस्य शक्तिर्वासिष्ठो वा (शाट्यायने ब्राह्मणे), २६-२७ शक्तिर्वासिष्ठो वा(ताण्डके ब्राह्मणे)।

दे. इन्द्रः। प्रगाथः - ( बृहती, सतोबृहती), ३ द्विपदा विराट् ।


मो षु त्वा वाघतश्चनारे अस्मन्नि रीरमन् ।
आरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप श्रुधि ॥१॥
इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।
इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥२॥
रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे ॥३॥
इम इन्द्राय सुन्विरे सोमासो दध्याशिरः ।
ताँ आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥४॥
श्रवच्छ्रुत्कर्ण ईयते वसूनां नू चिन्नो मर्धिषद्गिरः ।
सद्यश्चिद्यः सहस्राणि शता ददन्नकिर्दित्सन्तमा मिनत् ॥५॥
स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः ।
यस्ते गभीरा सवनानि वृत्रहन्सुनोत्या च धावति ॥६॥
भवा वरूथं मघवन्मघोनां यत्समजासि शर्धतः ।
वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम् ॥७॥
सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे ।
पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥८॥
मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे ।
तरणिरिज्जयति क्षेति पुष्यति न देवासः कवत्नवे ॥९॥
नकिः सुदासो रथं पर्यास न रीरमत् ।
इन्द्रो यस्याविता यस्य मरुतो गमत्स गोमति व्रजे ॥१०॥
गमद्वाजं वाजयन्निन्द्र मर्त्यो यस्य त्वमविता भुवः ।
अस्माकं बोध्यविता रथानामस्माकं शूर नृणाम् ॥११॥
उदिन्न्वस्य रिच्यतेऽंशो धनं न जिग्युषः ।
य इन्द्रो हरिवान्न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥१२॥
मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।
पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥१३॥
कस्तमिन्द्र त्वावसुमा मर्त्यो दधर्षति ।
श्रद्धा इत्ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ॥१४॥
मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।
तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥१५॥
तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् ।
सत्रा विश्वस्य परमस्य राजसि नकिष्ट्वा गोषु वृण्वते ॥१६॥
त्वं विश्वस्य धनदा असि श्रुतो य ईं भवन्त्याजयः ।
तवायं विश्वः पुरुहूत पार्थिवोऽवस्युर्नाम भिक्षते ॥१७॥
यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥१८॥
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।
नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥१९॥
तरणिरित्सिषासति वाजं पुरंध्या युजा ।
आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥२०॥
न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर्नशत् ।
सुशक्तिरिन्मघवन्तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥२१॥

रथन्तरम्

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥२२॥
न त्वावाँ अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२३॥
अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः ।
पुरूवसुर्हि मघवन्सनादसि भरेभरे च हव्यः ॥२४॥
परा णुदस्व मघवन्नमित्रान्सुवेदा नो वसू कृधि ।
अस्माकं बोध्यविता महाधने भवा वृधः सखीनाम् ॥२५॥
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥२६॥
मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।
त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥२७॥

सायणभाष्यम्

‘मो षु त्वा' इति सप्तविंशत्यृचं पञ्चदशं सूक्तम् । अत्रेयमनुक्रमणिका - मो षु सप्ताधिका प्रागाथं तृतीया द्विपदा सौदासैरग्नौ प्रक्षिप्यमाणः शक्तिरन्त्यं प्रगाथमालेभे सोऽर्धर्चं उक्तेऽदह्यत । तं पुत्रोक्तं वसिष्ठः समापयतेति शाट्यायनकं वसिष्ठस्यैव हतपुत्रस्यार्षमिति ताण्डकम्' इति । मण्डलद्रष्टा वसिष्ठ ऋषिः । इन्द्र क्रतुं नः' इति प्रगाथस्यार्धर्चस्य च वसिष्ठपुत्रः शक्तिर्वसिष्ठो वा । इन्द्रो देवता । अयुजो बृहत्यो युजः सतोबृहत्यः । तृतीया तु द्विपदा विराट्। महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । तत्र द्विपदाम् ' अभि त्वा शूर' इत्येतं रथन्तरं प्रगाथं ‘नकिः सुदासः' इति प्रगाथं च वर्जयेत् । तथैव पञ्चमारण्यके सूत्रितं- मो षु त्वा वाघतश्चनेत्येतस्य द्विपदां चोद्धरति राथन्तरं च प्रगाथमथ हास्य नकिः सुदासो रथमित्येतं प्रगाथमुद्धृत्य त्वामिदा ह्यो नर इत्येतं प्रगाथं प्रत्यवदधाति' (ऐ. आ. ५, २. ४ ) इति । चातुर्विशिकेऽहनि पञ्चमेऽहनि च निष्केवल्ये ‘मो षु त्वा वाघतः' इति प्रगाथः सद्विपदः । सूत्रितं च -- मो षु त्वा वाघतश्चनेति सद्विपद उपसमस्येद्द्विपदाम्' (आश्व. श्रौ. ७. ३) इति । चातुर्विंशिकेऽहनि मरुत्वतीये प्राकृतात् मरुत्वतीयात् प्रगाथादनन्तरं ‘ नकिः सुदासः' इति प्रगाथं शंसेत् । पृष्ठ्याभिप्लवषडहयोः तृतीये षष्ठेऽहनि चायं प्रगाथः । तथैव सूत्रितं -- नकिः सुदासो रथमिति मरुस्वतीया ऊर्ध्वं नित्यात्' इति । एवं स्थितान् प्रगाथान् पृष्ठ्याभिप्लवयोरन्वहं पुनःपुनरावर्तयेयुः' (आश्व. श्रौ. ७. ३) इति । अग्निष्टोमे माध्यंदिनसवनेऽच्छावाकशस्त्रे ‘उदिन्न्वस्य रिच्यते ' इति प्रगाथः। तथा च सूत्रितम्- उदिन्न्वस्य रिच्यते भूय इत्' (आश्व. श्रौ. ५. १६) इति । अग्निष्टोमे माध्यंदिनसवने मैत्रावरुणशस्त्रे ‘ कस्तमिन्द्र' इति प्रगाथः । सूत्रितं च--- कस्तमिन्द्र त्वावसुं सद्यो ह जातः' (आश्व. श्रौ. ५. १६ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने मैत्रावरुणशस्त्रस्यायं प्रगाथः । अहर्गणेष्वपि द्वितीयादिष्वहःसु । सूत्रितं च--- कस्तमिन्द्र त्वावसुं कन्नव्यो अतसीनाम् ( आश्व. श्रौ. ७. ४ ) इति । ‘ आरम्भणीयाः पर्यासान् कद्वतोऽहरहःशस्यानीति होत्रकाः' (आश्व. श्रौ. ७. १) इति । पृष्ठयषडहस्य तृतीयेऽहनि निष्केवल्ये वैरूपसामपक्षे ‘ यदिन्द्र यावतः' इत्यनुरूपस्तृचः । सूत्रितं च -’ यदिन्द्र यावतस्त्वमिति प्रगाथौ स्तोत्रियानुरूपौ' (आश्व. श्रौ. ७. १०) इति । अग्निष्टोमे चातुर्विंशिकेऽहनि माध्यंदिनसवनेऽच्छावाकशस्त्रे ‘तरणिरित्सिषासति' इति वैकल्पिकस्तृचः । सूत्रितं च तरोभिर्वो विदद्वसुं तरणिरित्सिषासति' (आश्व. श्रौ. ७. ४) इति । अग्निष्टोमे निष्केवल्यशस्त्रे रथन्तरसामपक्षे ' अभि त्वा शूर' इति प्रगाथः स्तोत्रियः । सूत्रितं च--- अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति प्रगाथौ स्तोत्रियानुरूपौ' (आश्व, श्रौ. ५. १५) इति । आश्विनशस्त्रेऽप्ययं प्रगाथः । तथैव सूत्रितं च -- अभि त्वा शूर नोनुमो बहवः सूरचक्षस इति प्रगाथाः (आश्व. श्रौ. ६.५) इति। महाव्रते निष्केवल्ये दक्षिणपक्षेऽयं प्रगाथः । तथैव पञ्चमारण्यके सूत्रितम्-' अभि त्वा शूर नोनुमोऽभि त्वा पूर्वपीतय इति रथन्तरस्य स्तोत्रियानुरूपौ प्रगाथौ' (ऐ. आ. ५. २. २) इति । आश्विनशस्त्रे ‘इन्द्र क्रतुं नः । इति प्रगाथः । सूत्रितं च--- इन्द्र क्रतुं न आ भराभि त्वा शूर नोनुमः' (आश्व. श्रौ. ६. ५) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रेऽयं वैकल्पिकः स्तोत्रियः प्रगाथः । सूत्रितं च - इन्द्र क्रतुं न आ भरेन्द्र ज्येष्ठं न आ भर' (आश्व. श्रौ. ७. ४) इति ॥


मो षु त्वा॑ वा॒घत॑श्च॒नारे अ॒स्मन्नि री॑रमन् ।

आ॒रात्ता॑च्चित्सध॒मादं॑ न॒ आ ग॑ही॒ह वा॒ सन्नुप॑ श्रुधि ॥१

मो इति॑ । सु । त्वा॒ । वा॒घतः॑ । च॒न । आ॒रे । अ॒स्मत् । नि । री॒र॒म॒न् ।

आ॒रात्ता॑त् । चि॒त् । स॒ध॒ऽमाद॑म् । नः॒ । आ । ग॒हि॒ । इ॒ह । वा॒ । सन् । उप॑ । श्रु॒धि॒ ॥१

मो इति । सु । त्वा । वाघतः । चन । आरे । अस्मत् । नि । रीरमन् ।

आरात्तात् । चित् । सधऽमादम् । नः । आ । गहि । इह । वा । सन् । उप । श्रुधि ॥१

हे इन्द्र “त्वा त्वां “वाघतश्चन यजमाना अपि “अस्मत् अस्मत्तः "आरे दूरे "म “नि “रीरमन् न नितरां रमयन्तु । अतस्त्वम् "आरात्ताच्चित् दूरेऽपि वर्तमानोऽस्मदीयं "सधमादं यज्ञम् "आ “गहि आगच्छ । "इह "वा अत्रापि वा "सन् विद्यमानः “उप "श्रुधि अस्मदीयं स्तोत्रमुपशृणु ॥


इ॒मे हि ते॑ ब्रह्म॒कृत॑ः सु॒ते सचा॒ मधौ॒ न मक्ष॒ आस॑ते ।

इन्द्रे॒ कामं॑ जरि॒तारो॑ वसू॒यवो॒ रथे॒ न पाद॒मा द॑धुः ॥२

इ॒मे । हि । ते॒ । ब्र॒ह्म॒ऽकृतः॑ । सु॒ते । सचा॑ । मधौ॑ । न । मक्षः॑ । आस॑ते ।

इन्द्रे॑ । काम॑म् । ज॒रि॒तारः॑ । व॒सु॒ऽयवः॑ । रथे॑ । न । पाद॑म् । आ । द॒धुः॒ ॥२

इमे । हि । ते । ब्रह्मऽकृतः । सुते । सचा । मधौ । न । मक्षः । आसते ।

इन्द्रे । कामम् । जरितारः । वसुऽयवः । रथे । न । पादम् । आ । दधुः ॥२

हे इन्द्र "ते त्वदर्थं "सुते अभिषुते सोमे “ब्रह्मकृतः स्तोत्रकृतः "मधौ "न मधुनीव "मक्षः मक्षिकाः "सचा सह "आसते उपविशन्ति । अथ परोक्षस्तुतिः। “वसूयवः धनकामाः "जरितारः स्तोतारः "कामम् इष्टम् "इन्द्रे "रथे "न "पादं रथे पादमिव “आ “दधुः समर्पयन्ति ॥


रा॒यस्का॑मो॒ वज्र॑हस्तं सु॒दक्षि॑णं पु॒त्रो न पि॒तरं॑ हुवे ॥३

रा॒यःऽका॑मः । वज्र॑ऽहस्तम् । सु॒ऽदक्षि॑णम् । पु॒त्रः । न । पि॒तर॑म् । हु॒वे॒ ॥३

रायःऽकामः । वज्रऽहस्तम् । सुऽदक्षिणम् । पुत्रः । न । पितरम् । हुवे ॥३

"रायस्कामः धनकामोऽहं "सुदक्षिणं शोभनदानं "वज्रहस्तम् इन्द्रं "पुत्रो "न पुत्र इव “पितरं "हुवे ह्वयामि ॥


इ॒म इन्द्रा॑य सुन्विरे॒ सोमा॑सो॒ दध्या॑शिरः ।

ताँ आ मदा॑य वज्रहस्त पी॒तये॒ हरि॑भ्यां या॒ह्योक॒ आ ॥४

इ॒मे । इन्द्रा॑य । सु॒न्वि॒रे॒ । सोमा॑सः । दधि॑ऽआशिरः ।

तान् । आ । मदा॑य । व॒ज्र॒ऽह॒स्त॒ । पी॒तये॑ । हरि॑ऽभ्याम् । या॒हि॒ । ओकः॑ । आ ॥४

इमे । इन्द्राय । सुन्विरे । सोमासः । दधिऽआशिरः ।

तान् । आ । मदाय । वज्रऽहस्त । पीतये । हरिऽभ्याम् । याहि । ओकः । आ ॥४

हे "वज्रहस्त “दध्याशिरः दधिमिश्रणाः “इमे सोमासः सोमाः "इन्द्राय तुभ्यं "सुन्विरे सुता बभूवुः । “तान् सोमान् "मदाय मदार्थं "पीतये पानाय “ओकः यज्ञसदनम् "आ अभि “हरिभ्याम् अश्वाभ्याम् “आ “याहि आगच्छ ।


श्रव॒च्छ्रुत्क॑र्ण ईयते॒ वसू॑नां॒ नू चि॑न्नो मर्धिष॒द्गिर॑ः ।

स॒द्यश्चि॒द्यः स॒हस्रा॑णि श॒ता दद॒न्नकि॒र्दित्स॑न्त॒मा मि॑नत् ॥५

श्रव॑त् । श्रुत्ऽक॑र्णः । ई॒य॒ते॒ । वसू॑नाम् । नु । चि॒त् । नः॒ । म॒र्धि॒ष॒त् । गिरः॑ ।

स॒द्यः । चि॒त् । यः । स॒हस्रा॑णि । स॒ता । दद॑त् । नकिः॑ । दित्स॑न्तम् । आ । मि॒न॒त् ॥५

श्रवत् । श्रुत्ऽकर्णः । ईयते । वसूनाम् । नु । चित् । नः । मर्धिषत् । गिरः ।

सद्यः । चित् । यः । सहस्राणि । सता । ददत् । नकिः । दित्सन्तम् । आ । मिनत् ॥५

“श्रुत्कर्णः याञ्चाश्रवणरूपकर्ण इन्द्रः “वसूनां वसूनि “ईयते याच्यते । "नः अस्मदीयाः “गिरः याञ्चावाक्यानि “श्रवत् शृणोतु । "नू “चित् नैव “मर्धिषत् हिनस्तु । अश्रवणेन याञ्चावाक्यानि निष्फलानि न करोत्वित्यर्थः । अपि चेन्द्रः "सद्यश्चित् सद्य एव याञ्चानन्तरमेव "सहस्राणि शतानि च "ददत् प्रयच्छेत् । "दित्सन्तं दातुमिच्छन्तं तमिन्द्रं "नकिः "आ “मिनत् न हिंस्यात् । कश्चिदपि न वारयेदित्यर्थः ॥ ॥ १७ ॥


स वी॒रो अप्र॑तिष्कुत॒ इन्द्रे॑ण शूशुवे॒ नृभि॑ः ।

यस्ते॑ गभी॒रा सव॑नानि वृत्रहन्सु॒नोत्या च॒ धाव॑ति ॥६

सः । वी॒रः । अप्र॑तिऽस्कुतः । इन्द्रे॑ण । शू॒शु॒वे॒ । नृऽभिः॑ ।

यः । ते॒ । ग॒भी॒रा । सव॑नानि । वृ॒त्र॒ऽह॒न् । सु॒नोति॑ । आ । च॒ । धाव॑ति ॥६

सः । वीरः । अप्रतिऽस्कुतः । इन्द्रेण । शूशुवे । नृऽभिः ।

यः । ते । गभीरा । सवनानि । वृत्रऽहन् । सुनोति । आ । च । धावति ॥६

हे "वृत्रहन् "ते त्वदर्थं "यः पुमान् "गभीरा गभीराणि "सवनानि सोमान् "सुनोति “आ “धावति "च त्वां स्तुतिभिरुपधावति च "स “वीरः "इन्द्रेण हेतुना "अप्रतिष्कुतः केनाप्यप्रतिगतोऽप्रतिशब्दितो वा भवेत् । "नृभिः परिचारकैः "शूशुवे उपगम्यते च । श्वयतिर्गतिकर्मा ।।।


भवा॒ वरू॑थं मघवन्म॒घोनां॒ यत्स॒मजा॑सि॒ शर्ध॑तः ।

वि त्वाह॑तस्य॒ वेद॑नं भजेम॒ह्या दू॒णाशो॑ भरा॒ गय॑म् ॥७

भव॑ । वरू॑थम् । म॒घ॒ऽव॒न् । म॒घोना॑म् । यत् । स॒म्ऽअजा॑सि । शर्ध॑तः ।

वि । त्वाऽह॑तस्य । वेद॑नम् । भ॒जे॒म॒हि॒ । आ । दुः॒ऽनशः॑ । भ॒र॒ । गय॑म् ॥७

भव । वरूथम् । मघऽवन् । मघोनाम् । यत् । सम्ऽअजासि । शर्धतः ।

वि । त्वाऽहतस्य । वेदनम् । भजेमहि । आ । दुःऽनशः । भर । गयम् ॥७

हे "मघवन् धनवन्निन्द्र "मघोनां हविष्मतां "वरूथम् उपद्रवाणां वारकं वर्म "भव। "यत् यस्त्वं "शर्धतः उत्सहमानान्छत्रून् "समजासि संप्रेरयेः। अपि च “त्वाहतस्य त्वया हतस्य शत्रोः “वेदनं धनं "वि “भजेमहि विशेषेण लभेमहि । किंच “दुर्नशः नाशयितुमशक्यस्त्वं "गयं गृहं धनं वा “आ "भर अस्मभ्यमाहर ॥


सु॒नोता॑ सोम॒पाव्ने॒ सोम॒मिन्द्रा॑य व॒ज्रिणे॑ ।

पच॑ता प॒क्तीरव॑से कृणु॒ध्वमित्पृ॒णन्नित्पृ॑ण॒ते मय॑ः ॥८

सु॒नोत॑ । सो॒म॒ऽपाव्ने॑ । सोम॑म् । इन्द्रा॑य । व॒ज्रिणे॑ ।

पच॑त । प॒क्तीः । अव॑से । कृ॒णु॒ध्वम् । इत् । पृ॒णन् । इत् । पृ॒ण॒ते । मयः॑ ॥८

सुनोत । सोमऽपाव्ने । सोमम् । इन्द्राय । वज्रिणे ।

पचत । पक्तीः । अवसे । कृणुध्वम् । इत् । पृणन् । इत् । पृणते । मयः ॥८

हे मदीयाः पुरुषाः "वज्रिणे “सोमपाव्ने सोमस्य पात्रे “इन्द्राय “सोमं "सुनोत अभिषुणुत। "अवसे इन्द्रं तर्पयितुं "पक्तीः पक्तव्यान् पुरोडाशादीन् "पचत च। "कृणुध्वमित् इन्द्रप्रियकराणि कर्माणि च कुरुतैव । इन्द्रो हि "मयः सुखं "पृणन्नित् यजमानाय प्रयच्छन्नेव "पृणते हवींषीति शेषः ॥


मा स्रे॑धत सोमिनो॒ दक्ष॑ता म॒हे कृ॑णु॒ध्वं रा॒य आ॒तुजे॑ ।

त॒रणि॒रिज्ज॑यति॒ क्षेति॒ पुष्य॑ति॒ न दे॒वास॑ः कव॒त्नवे॑ ॥९

मा । स्रे॒ध॒त॒ । सो॒मि॒नः॒ । दक्ष॑त । म॒हे । कृ॒णु॒ध्वम् । रा॒ये । आ॒ऽतुजे॑ ।

त॒रणिः॑ । इत् । ज॒य॒ति॒ । क्षेति॑ । पुष्य॑ति । न । दे॒वासः॑ । क॒व॒त्नवे॑ ॥९

मा । स्रेधत । सोमिनः । दक्षत । महे । कृणुध्वम् । राये । आऽतुजे ।

तरणिः । इत् । जयति । क्षेति । पुष्यति । न । देवासः । कवत्नवे ॥९

हे मदीया जनाः "सोमिनः सोमवतो यागान् मा “स्रेधत मा हिंसिष्ट। "दक्षत यागादिकं कर्तुमुत्सहध्वं च । "महे महते "आतुजे । तुजिार्हिंसाकर्मा दानकर्मा वा। शत्रूणामभिहिंसकाय धनानां प्रदात्रे वेन्द्राय "राये धनलाभार्थं "कृणुध्वं कर्माणि कुरुत च। "तरणिरित् कर्मसु त्वरित एव "जयति शत्रून् । "क्षेति गृहे निवसति च । "पुष्यति प्रजया पशुभिश्च पुष्टो भवति । “कवत्नवे कुत्सितक्रियायै । कवोपसृष्टस्यातेः सातत्यगमनकर्मणो रूपं कवत्नुरिति । "देवासः देवाः “न भवन्तीति शेषः । सुखप्राप्तये भवन्तीत्यर्थः ॥


नकि॑ः सु॒दासो॒ रथं॒ पर्या॑स॒ न री॑रमत् ।

इन्द्रो॒ यस्या॑वि॒ता यस्य॑ म॒रुतो॒ गम॒त्स गोम॑ति व्र॒जे ॥१०

नकिः॑ । सु॒ऽदासः॑ । रथ॑म् । परि॑ । आ॒स॒ । न । री॒र॒म॒त् ।

इन्द्रः॑ । यस्य॑ । अ॒वि॒ता । यस्य॑ । म॒रुतः॑ । गम॑त् । सः । गोऽम॑ति । व्र॒जे ॥१०

नकिः । सुऽदासः । रथम् । परि । आस । न । रीरमत् ।

इन्द्रः । यस्य । अविता । यस्य । मरुतः । गमत् । सः । गोऽमति । व्रजे ॥१०

"सुदासः शोभनदानस्य यजमानस्य "रथं “नकिः "पर्यास कश्चिन्न पर्यस्यति। "न “रीरमत् न रमयति च । आत्मार्थं न कश्चिदेनं गृह्णातीत्यर्थः। अपि च "यस्य "इन्द्रः "अविता रक्षिता “यस्य च "मरुतः अवितारः "सः "गोमति गोयुक्ते “व्रजे गोष्ठे "गमत् गच्छेत् ॥ ॥ १८ ॥


गम॒द्वाजं॑ वा॒जय॑न्निन्द्र॒ मर्त्यो॒ यस्य॒ त्वम॑वि॒ता भुव॑ः ।

अ॒स्माकं॑ बोध्यवि॒ता रथा॑नाम॒स्माकं॑ शूर नृ॒णाम् ॥११

गम॑त् । वाज॑म् । वा॒जय॑न् । इ॒न्द्र॒ । मर्त्यः॑ । यस्य॑ । त्वम् । अ॒वि॒ता । भुवः॑ ।

अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । रथा॑नाम् । अ॒स्माक॑म् । शू॒र॒ । नृ॒णाम् ॥११

गमत् । वाजम् । वाजयन् । इन्द्र । मर्त्यः । यस्य । त्वम् । अविता । भुवः ।

अस्माकम् । बोधि । अविता । रथानाम् । अस्माकम् । शूर । नृणाम् ॥११

हे “इन्द्र “त्वं "यस्य मर्त्यस्य "अविता रक्षिता “भुवः भवेः सः "मर्त्यः "वाजयन् स्तोत्रेण त्वां बलिनं कुर्वन् “वाजम् अन्नं “गमत् गच्छेत् । अपि च हे "शूर "अस्माकं वासिष्ठानां “रथानाम् । “अविता रक्षिता “बोधि भव ॥ भवतेर्लोटि रूपम् । भकारस्य बकारश्छान्दसः ॥ “अस्माकं "नृणां पुत्रादीनां चाविता भव ॥


उदिन्न्व॑स्य रिच्य॒तेंऽशो॒ धनं॒ न जि॒ग्युष॑ः ।

य इन्द्रो॒ हरि॑वा॒न्न द॑भन्ति॒ तं रिपो॒ दक्षं॑ दधाति सो॒मिनि॑ ॥१२

उत् । इत् । नु । अ॒स्य॒ । रि॒च्य॒ते॒ । अंशः॑ । धन॑म् । न । जि॒ग्युषः॑ ।

यः । इन्द्रः॑ । हरि॑ऽवान् । न । द॒भ॒न्ति॒ । तम् । रिपः॑ । दक्ष॑म् । द॒धा॒ति॒ । सो॒मिनि॑ ॥१२

उत् । इत् । नु । अस्य । रिच्यते । अंशः । धनम् । न । जिग्युषः ।

यः । इन्द्रः । हरिऽवान् । न । दभन्ति । तम् । रिपः । दक्षम् । दधाति । सोमिनि ॥१२

"अस्य इन्द्रस्य “अंशः यज्ञे सोमस्य भागः अतिरिच्यतेऽन्येभ्योऽपि देवेभ्यः । इन्द्रस्य त्रिष्वपि सवनेषु सोमपानमस्ति माध्यंदिनं हि सर्वमैन्द्रमिति । “जिग्युषः जितवतः “धनं "न धनमिव । “उदिन्नु इति त्रयः पूरणाः । अपि च "यः "हरिवान् "इन्द्रः सोमिनि यजमाने "दक्षं बलं "दधाति संदधाति "तं "रिपः रिपवः "न "दभन्ति न हिंसन्ति ।।


मन्त्र॒मख॑र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा॑त य॒ज्ञिये॒ष्वा ।

पू॒र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ॥१३

मन्त्र॑म् । अख॑र्वम् । सुऽधि॑तम् । सु॒ऽपेश॑सम् । दधा॑त । य॒ज्ञिये॑षु । आ ।

पू॒र्वीः । च॒न । प्रऽसि॑तयः । त॒र॒न्ति॒ । तम् । यः । इन्द्रे॑ । कर्म॑णा । भुव॑त् ॥१३

मन्त्रम् । अखर्वम् । सुऽधितम् । सुऽपेशसम् । दधात । यज्ञियेषु । आ ।

पूर्वीः । चन । प्रऽसितयः । तरन्ति । तम् । यः । इन्द्रे । कर्मणा । भुवत् ॥१३

हे जनाः "अखर्वम् अनल्पं "सुधितं सुविहितं "सुपेशसं शोभनरूपं "मन्त्रं स्तोत्रं “यज्ञियेषु यजनीयेषु देवेषु मध्य इन्द्राय "दधात विधत्त । "यः जनः "कर्मणा स्तुत्यादिरूपेण “इन्द्रे इन्द्रस्य चित्ते “भुवत् भवेत् “तं जनं “पूर्वीः बह्व्यः "प्रसितयः पाशादीनि बन्धनानि । “चन इति समुदायो नेत्यर्थे वर्तते । न "तरन्ति । न व्याप्नुवन्ति' इत्यर्थः ॥


कस्तमि॑न्द्र॒ त्वाव॑सु॒मा मर्त्यो॑ दधर्षति ।

श्र॒द्धा इत्ते॑ मघव॒न्पार्ये॑ दि॒वि वा॒जी वाजं॑ सिषासति ॥१४

कः । तम् । इ॒न्द्र॒ । त्वाऽव॑सुम् । आ । मर्त्यः॑ । द॒ध॒र्ष॒ति॒ ।

श्र॒द्धा । इत् । ते॒ । म॒घ॒ऽव॒न् । पार्ये॑ । दि॒वि । वा॒जी । वाज॑म् । सि॒सा॒स॒ति॒ ॥१४

कः । तम् । इन्द्र । त्वाऽवसुम् । आ । मर्त्यः । दधर्षति ।

श्रद्धा । इत् । ते । मघऽवन् । पार्ये । दिवि । वाजी । वाजम् । सिसासति ॥१४

हे “इन्द्र तव चित्ते यो भवेत् "त्वावसुम्। त्वं वसुव्यपको यस्येति बहुव्रीहिः। “तं जनं “कः “मर्त्यः “आ “दधर्षति आधर्षेत्। हे "मघवन् "ते त्वदर्थं यः "श्रद्धा श्रद्धया युक्तः सन् “वाजी हविष्मान् भवेत् "पार्ये "दिवि सौत्येऽहनि सः “वाजम् अन्नं बलं वा "सिषासति सेवते ॥


म॒घोन॑ः स्म वृत्र॒हत्ये॑षु चोदय॒ ये दद॑ति प्रि॒या वसु॑ ।

तव॒ प्रणी॑ती हर्यश्व सू॒रिभि॒र्विश्वा॑ तरेम दुरि॒ता ॥१५

म॒घोनः॑ । स्म॒ । वृ॒त्र॒ऽहत्ये॑षु । चो॒द॒य॒ । ये । दद॑ति । प्रि॒या । वसु॑ ।

तव॑ । प्रऽनी॑ती । ह॒रि॒ऽअ॒श्व॒ । सू॒रिऽभिः॑ । विश्वा॑ । त॒रे॒म॒ । दुः॒ऽइ॒ता ॥१५

मघोनः । स्म । वृत्रऽहत्येषु । चोदय । ये । ददति । प्रिया । वसु ।

तव । प्रऽनीती । हरिऽअश्व । सूरिऽभिः । विश्वा । तरेम । दुःऽइता ॥१५

हे इन्द्र "मघोनः धनवतस्ते । त्वदर्थमित्यर्थः। "प्रिया प्रियाणि "वसु "वसूनि धनानि "ये जनाः "ददति प्रयच्छन्ति तान् जनान् "वृत्रहत्येषु संग्रामेषु “चोदय प्रेरय । हे “हर्यश्व “तव “प्रणीती प्रणीत्या प्रणयनेन "सूरिभिः स्तोतृभिः पुत्रादिभिः सार्धं “विश्वा विश्वानि “दुरिता दुरितानि “तरेम ॥ ॥ १९ ॥


तवेदि॑न्द्राव॒मं वसु॒ त्वं पु॑ष्यसि मध्य॒मम् ।

स॒त्रा विश्व॑स्य पर॒मस्य॑ राजसि॒ नकि॑ष्ट्वा॒ गोषु॑ वृण्वते ॥१६

तव॑ । इत् । इ॒न्द्र॒ । अ॒व॒मम् । वसु॑ । त्वम् । पु॒ष्य॒सि॒ । म॒ध्य॒मम् ।

स॒त्रा । विश्व॑स्य । प॒र॒मस्य॑ । रा॒ज॒सि॒ । नकिः॑ । त्वा॒ । गोषु॑ । वृ॒ण्व॒ते॒ ॥१६

तव । इत् । इन्द्र । अवमम् । वसु । त्वम् । पुष्यसि । मध्यमम् ।

सत्रा । विश्वस्य । परमस्य । राजसि । नकिः । त्वा । गोषु । वृण्वते ॥१६

हे “इन्द्र "अवमम् अधमं त्रपुसीसादिकं "वसु धनम् । यद्वा भौमं वस्ववमम्। “तवेत् तवैव । "त्वं त्वमेव "मध्यमं वसु रजतहिरण्यादिकमान्तरिक्षं वा “पुष्यसि । "विश्वस्य सर्वस्य “परमस्य उत्तमस्यापि रत्नादेर्दिव्यस्य वा वसुनः "राजसि ईशिषे। “सत्रा सत्यमेव । अपि च “त्वा त्वां “गोषु निमित्तेषु "नकिः “वृण्वते केऽपि न वारयन्ति ।।


त्वं विश्व॑स्य धन॒दा अ॑सि श्रु॒तो य ईं॒ भव॑न्त्या॒जय॑ः ।

तवा॒यं विश्व॑ः पुरुहूत॒ पार्थि॑वोऽव॒स्युर्नाम॑ भिक्षते ॥१७

त्वम् । विश्व॑स्य । ध॒न॒ऽदाः । अ॒सि॒ । श्रु॒तः । ये । ई॒म् । भव॑न्ति । आ॒जयः॑ ।

तव॑ । अ॒यम् । विश्वः॑ । पु॒रु॒ऽहू॒त॒ । पार्थि॑वः । अ॒व॒स्युः । नाम॑ । भि॒क्ष॒ते॒ ॥१७

त्वम् । विश्वस्य । धनऽदाः । असि । श्रुतः । ये । ईम् । भवन्ति । आजयः ।

तव । अयम् । विश्वः । पुरुऽहूत । पार्थिवः । अवस्युः । नाम । भिक्षते ॥१७

हे इन्द्र “त्वं "विश्वस्य सर्वस्य स्तोतुर्यजमानस्य वा “धनदाः धनस्य दाता सन् “श्रुतः प्रसिद्धः "असि। “य “ईं य एते "आजयः युद्धानि "भवन्ति तेष्वपि धनदाः श्रुतोऽसि । हे “पुरुहूत “विश्वः सर्वोऽपि “अयं पार्थिवः जनः “तव । त्वत्त इत्यर्थः। “अवस्युः रक्षामिच्छन् “नाम अन्नमुदकं वा । ‘बर्हिः नाम' इत्युदकनामसु पाठात् । "भिक्षते याचते । त्वामेवेति शेषः ॥


यदि॑न्द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी॑य ।

स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा॑प॒त्वाय॑ रासीय ॥१८

यत् । इ॒न्द्र॒ । याव॑तः । त्वम् । ए॒ताव॑त् । अ॒हम् । ईशी॑य ।

स्तो॒तार॑म् । इत् । दि॒धि॒षे॒य॒ । र॒द॒व॒सो॒ इति॑ रदऽवसो । न । पा॒प॒ऽत्वाय॑ । रा॒सी॒य॒ ॥१८

यत् । इन्द्र । यावतः । त्वम् । एतावत् । अहम् । ईशीय ।

स्तोतारम् । इत् । दिधिषेय । रदवसो इति रदऽवसो । न । पापऽत्वाय । रासीय ॥१८

हे "इन्द्र "यत् यतः "यावतः धनस्य “त्वम् ईशिषे "एतावत् । षष्ठ्या लुक् । एतावतो धनस्य “अहमीशीय ईश्वरो भवेयं हे "रदवसो । रदति ददाति वसूनीति रदवसुः । ततोऽहमस्मदीयं "स्तोतारमित् "दिधिषेय धनप्रदानेन धारयेयमेव । "पापत्वाय "न "रासीय न दद्याम् ॥


शिक्षे॑य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे॑ ।

न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ॥१९

शिक्षे॑यम् । इत् । म॒ह॒ऽय॒ते । दि॒वेऽदि॑वे । रा॒यः । आ । कु॒ह॒चि॒त्ऽविदे॑ ।

नहि । त्वत् । अ॒न्यत् । म॒घ॒ऽव॒न् । नः॒ । आप्य॑म् । वस्यः॑ । अस्ति॑ । पि॒ता । च॒न ॥१९

शिक्षेयम् । इत् । महऽयते । दिवेऽदिवे । रायः । आ । कुहचित्ऽविदे ।

नहि । त्वत् । अन्यत् । मघऽवन् । नः । आप्यम् । वस्यः । अस्ति । पिता । चन ॥१९

“कुहचिद्विदे। कुत्रचिद्विद्यमानः कुहचिद्वित्। तस्मै। यत्र क्वापि विद्यमानायेत्यर्थः । “महयते पूजयते जनाय “दिवेदिवे प्रतिदिनं "रायः धनानि “शिक्षेयमित् दद्यामेव । आकारः पूरणः । एवमिन्द्रस्य वाक्यं श्रुत्वा संतुष्ट ऋषिर्वदति । हे मघवन् "त्वत् त्वत्तः "अन्यत् अस्माकम् “आप्यं ज्ञातेयं "नहि “अस्ति। “वस्यः प्रशस्यः "पिता “चन पालयिता च त्वदन्यो नास्तीत्यर्थः ।।


त॒रणि॒रित्सि॑षासति॒ वाजं॒ पुरं॑ध्या यु॒जा ।

आ व॒ इन्द्रं॑ पुरुहू॒तं न॑मे गि॒रा ने॒मिं तष्टे॑व सु॒द्र्व॑म् ॥२०

त॒रणिः॑ । इत् । सि॒सा॒स॒ति॒ । वाज॑म् । पुर॑म्ऽध्या । यु॒जा ।

आ । वः॒ । इन्द्र॑म् । पु॒रु॒ऽहू॒तम् । न॒मे॒ । गि॒रा । ने॒मिम् । तष्टा॑ऽइव । सु॒ऽद्र्व॑म् ॥२०

तरणिः । इत् । सिसासति । वाजम् । पुरम्ऽध्या । युजा ।

आ । वः । इन्द्रम् । पुरुऽहूतम् । नमे । गिरा । नेमिम् । तष्टाऽइव । सुऽद्र्वम् ॥२०

"तरणिरित् स्तुत्यादौ कर्मणि त्वरित एव पुमान् "पुरंध्या महत्या धिया "युजा सहायभूतया “वाजम् अन्नं "सिषासति संभजते । "पुरुहूतं बहुभिराहूतम् "इन्द्रं "वः त्वां "गिरा स्तुत्या अहम् “आ “नमे “नेमिं चक्रस्य वलयं "सुद्र्वं शोभनदारुं “तष्टेव। यथा वर्धकिर्दारुनेमिमानमयते तद्वदित्यर्थः ॥ ॥ २० ॥


न दु॑ष्टु॒ती मर्त्यो॑ विन्दते॒ वसु॒ न स्रेध॑न्तं र॒यिर्न॑शत् ।

सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये॑ दि॒वि ॥२१

न । दुः॒ऽस्तु॒ती । मर्त्यः॑ । वि॒न्द॒ते॒ । वसु॑ । न । स्रेध॑न्तम् । र॒यिः । न॒श॒त् ।

सु॒ऽशक्तिः॑ । इत् । म॒घ॒ऽव॒न् । तुभ्य॑म् । माऽव॑ते । दे॒ष्णम् । यत् । पार्ये॑ । दि॒वि ॥२१

न । दुःऽस्तुती । मर्त्यः । विन्दते । वसु । न । स्रेधन्तम् । रयिः । नशत् ।

सुऽशक्तिः । इत् । मघऽवन् । तुभ्यम् । माऽवते । देष्णम् । यत् । पार्ये । दिवि ॥२१

“मर्त्यः मनुष्यः "दुष्टुती दुष्टुत्या "वसु धनं "न विन्दते । इन्द्रं स्तुवन्नेव वसु लभत इत्यर्थः । “स्रेधन्तं हिंसन्तम् । इन्द्रविषयस्तुत्यादिकर्माण्यकुर्वन्तमित्यर्थः। "रयिः धनं "न "नशत् न व्याप्नोति । हे "मघवन् त्वया “पार्ये "दिवि सौत्ये दिवसे “मावते मत्सदृशाय “देष्णं दातव्यं “यत् धनमस्ति तत् "तुभ्यं त्वत्तः "सुशक्तिरित् सुकर्मैव । विन्दत इति व्यवहितमप्यनुषज्यते अध्याहारस्यान्तिकत्वात् ॥


अ॒भि त्वा॑ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नव॑ः ।

ईशा॑नम॒स्य जग॑तः स्व॒र्दृश॒मीशा॑नमिन्द्र त॒स्थुष॑ः ॥२२

अ॒भि । त्वा॒ । शू॒र॒ । नो॒नु॒मः॒ । अदु॑ग्धाःऽइव । धे॒नवः॑ ।

ईशा॑नम् । अ॒स्य । जग॑तः । स्वः॒ऽदृश॑म् । ईशा॑नम् । इ॒न्द्र॒ । त॒स्थुषः॑ ॥२२

अभि । त्वा । शूर । नोनुमः । अदुग्धाःऽइव । धेनवः ।

ईशानम् । अस्य । जगतः । स्वःऽदृशम् । ईशानम् । इन्द्र । तस्थुषः ॥२२

हे "शूर “इन्द्र "अस्य "जगतः जङ्गमस्य "ईशानम् ईश्वरं "तस्थुषः स्थावरस्य च "ईशानम् । ईशानमिति पदस्यावृत्तिरादरार्था । स्वर्दृशं सर्वदृशं "त्वा त्वाम् "अदुग्धाइव “धेनवः यथादुग्धा धेनवः क्षीरपूर्णोधस्त्वेन वर्तन्ते तद्वत्सोमपूर्णचमसत्वेन वर्तमाना वयम् “अभि “नोनुमः भृशमभिष्टुमः ॥


न त्वावाँ॑ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते ।

अ॒श्वा॒यन्तो॑ मघवन्निन्द्र वा॒जिनो॑ ग॒व्यन्त॑स्त्वा हवामहे ॥२३

न । त्वाऽवा॑न् । अ॒न्यः । दि॒व्यः । न । पार्थि॑वः । न । जा॒तः । न । ज॒नि॒ष्य॒ते॒ ।

अ॒श्व॒ऽयन्तः॑ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । वा॒जिनः॑ । ग॒व्यन्तः॑ । त्वा॒ । ह॒वा॒म॒हे॒ ॥२३

न । त्वाऽवान् । अन्यः । दिव्यः । न । पार्थिवः । न । जातः । न । जनिष्यते ।

अश्वऽयन्तः । मघऽवन् । इन्द्र । वाजिनः । गव्यन्तः । त्वा । हवामहे ॥२३

हे "मघवन् "इन्द्र "दिव्यः दिवि भवः “त्वावान् त्वत्सदृशः "अन्यः "न जायते । "पार्थिवः पृथिव्यां भवोऽपि त्वावानन्यो “न जायते । दिव्यः पार्थिवो वा त्वावानन्यो “न "जातः । “न च "जनिष्यते । पृथिव्यां दिवि च त्रिष्वपि लोकेषु त्वत्सदृशः कश्चिन्नास्तीत्यर्थः। "अश्वायन्तः अश्वानिच्छन्तः “वाजिनः वाजमिच्छन्तः । इच्छायामिनिप्रत्ययः ॥ हविष्मन्तो वा “गव्यन्तः गा इच्छन्तश्च वयं "त्वा त्वां "हवामहे ह्वयामः ।


अ॒भी ष॒तस्तदा भ॒रेन्द्र॒ ज्याय॒ः कनी॑यसः ।

पु॒रू॒वसु॒र्हि म॑घवन्स॒नादसि॒ भरे॑भरे च॒ हव्य॑ः ॥२४

अ॒भि । स॒तः । तत् । आ । भ॒र॒ । इन्द्र॑ । ज्यायः॑ । कनी॑यसः ।

पु॒रु॒ऽवसुः॑ । हि । म॒घ॒ऽव॒न् । स॒नात् । असि॑ । भरे॑ऽभरे । च॒ । हव्यः॑ ॥२४

अभि । सतः । तत् । आ । भर । इन्द्र । ज्यायः । कनीयसः ।

पुरुऽवसुः । हि । मघऽवन् । सनात् । असि । भरेऽभरे । च । हव्यः ॥२४

हे "ज्यायः ज्यायन् “इन्द्र ॥ ‘आमन्त्रितं पूर्वमविद्यमानवत्' इतीन्द्रपदस्याविद्यमानवद्भावात् ज्याय इत्यस्य सर्वानुदात्तत्वाभावः नकारस्य रुत्वं व्यत्ययान्नुमभावो वा ॥ "कनीयसः “सतः मम “तत् प्रसिद्धं धनम् "अभि “आ “भर । हे "मघवन् त्वं "सनात् चिरादेवारभ्य “पुरूवसुर्हि बहुधनो हि "असि । “भरेभरे संग्रामे यज्ञे वा "हव्यः हविष्यः "च असि ॥


परा॑ णुदस्व मघवन्न॒मित्रा॑न्सु॒वेदा॑ नो॒ वसू॑ कृधि ।

अ॒स्माकं॑ बोध्यवि॒ता म॑हाध॒ने भवा॑ वृ॒धः सखी॑नाम् ॥२५

परा॑ । नु॒द॒स्व॒ । म॒घ॒ऽव॒न् । अ॒मित्रा॑न् । सु॒ऽवेदा॑ । नः॒ । वसु॑ । कृ॒धि॒ ।

अ॒स्माक॑म् । बो॒धि॒ । अ॒वि॒ता । म॒हा॒ऽध॒ने । भव॑ । वृ॒धः । सखी॑नाम् ॥२५

परा । नुदस्व । मघऽवन् । अमित्रान् । सुऽवेदा । नः । वसु । कृधि ।

अस्माकम् । बोधि । अविता । महाऽधने । भव । वृधः । सखीनाम् ॥२५

हे "मघवन् "परा पराचीनान् "अमित्रान् शत्रून् "नुदस्व प्रेरय । "नः अस्मभ्यं "वसु वसूनि “सुवेदा सुलभानि "कृधि कुरु । "महाधने संग्रामे। ‘वाजसातौ महाधने' इति संग्रामनामसु पाठात् । "सखीनां स्तोतॄणाम् "अस्माकं वसिष्ठानाम् "अविता रक्षिता “बोधि भव । “वृधः वर्धयिता च भव ॥


इन्द्र॒ क्रतुं॑ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा॑ ।

शिक्षा॑ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ॥२६

इन्द्र॑ । क्रतु॑म् । नः॒ । आ । भ॒र॒ । पि॒ता । पु॒त्रेभ्यः॑ । यथा॑ ।

शिक्ष॑ । नः॒ । अ॒स्मिन् । पु॒रु॒ऽहू॒त॒ । याम॑नि । जी॒वाः । ज्योतिः॑ । अ॒शी॒म॒हि॒ ॥२६

इन्द्र । क्रतुम् । नः । आ । भर । पिता । पुत्रेभ्यः । यथा ।

शिक्ष । नः । अस्मिन् । पुरुऽहूत । यामनि । जीवाः । ज्योतिः । अशीमहि ॥२६

हे “इन्द्र "नः अस्मभ्यं "क्रतुं कर्म प्रज्ञानं वा “आ “भर आहर। अपि च "यथा "पिता “पुत्रेभ्यः धनं प्रयच्छति तथा “नः अस्मभ्यं "शिक्ष धनं देहि। हे "पुरुहूत बहुभिराहूत "यामनि यज्ञे "जीवाः वयं "ज्योतिः सूर्यम् "अशीमहि प्रतिदिनं प्राप्नुयाम ॥


मा नो॒ अज्ञा॑ता वृ॒जना॑ दुरा॒ध्यो॒३॒॑ माशि॑वासो॒ अव॑ क्रमुः ।

त्वया॑ व॒यं प्र॒वत॒ः शश्व॑तीर॒पोऽति॑ शूर तरामसि ॥२७

मा । नः॒ । अज्ञा॑ताः । वृ॒जनाः॑ । दुः॒ऽआ॒ध्यः॑ । मा । अशि॑वासः । अव॑ । क्र॒मुः॒ ।

त्वया॑ । व॒यम् । प्र॒ऽवतः॑ । शश्व॑तीः । अ॒पः । अति॑ । शू॒र॒ । त॒रा॒म॒सि॒ ॥२७

मा । नः । अज्ञाताः । वृजनाः । दुःऽआध्यः । मा । अशिवासः । अव । क्रमुः ।

त्वया । वयम् । प्रऽवतः । शश्वतीः । अपः । अति । शूर । तरामसि ॥२७

हे इन्द्र "अज्ञाताः अज्ञातगमनाः “वृजनाः हिंसकाः “दुराध्यः "नः अस्मान् "मा "अव “क्रमुः मावचक्रमुः। हे “शूर “त्वया “वयं वसिष्ठाः "प्रवतः प्रवणकाः सन्तः "शश्वतीः बह्वीः “अपः "अति "तरामसि अतितराम ॥ ॥ २१ ॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.३२&oldid=189166" इत्यस्माद् पुनः प्राप्तिः