सामवेदः/कौथुमीया/संहिता/ऊहगानम्/क्षुद्रपर्व/विंशः १/महावैष्टम्भे(यदिन्द्रया)

विकिस्रोतः तः
महावैष्टम्भे.
महावैष्टम्भे

यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषं ॥ १७९६ ॥ ऋ. ७.३२.१८
शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।
न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥ १७९७ ॥

[सम्पाद्यताम्]

टिप्पणी

वैरूपे द्वे (ग्रामगेयः)

यद्द्याव इन्द्र ते शतं यदिन्द्र यावतस्त्वमिति वैरूपम्पृष्ठम्भवति राथंतरेऽहनि तॄतीयेऽहनि तृतीयस्याह्नो रूपं - ऐब्रा ५.१

इन्द्र यावतस्त्वमित्यनुरूपः शिक्षेयमिन्महयते दिवे दिव इति निनृत्तिरन्तस्तृतीयमहर्नीव वा अन्तं गत्वा नृत्यति - कौशीतकिब्रा. २२.४