ऋग्वेदः सूक्तं ७.१८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.१७ ऋग्वेदः - मण्डल ७
सूक्तं ७.१८
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.१९ →
दे. इन्द्रः, २२-२५ सुदाः पैजवनः। त्रिष्टुप्।


त्वे ह यत्पितरश्चिन्न इन्द्र विश्वा वामा जरितारो असन्वन् ।
त्वे गावः सुदुघास्त्वे ह्यश्वास्त्वं वसु देवयते वनिष्ठः ॥१॥
राजेव हि जनिभिः क्षेष्येवाव द्युभिरभि विदुष्कविः सन् ।
पिशा गिरो मघवन्गोभिरश्वैस्त्वायतः शिशीहि राये अस्मान् ॥२॥
इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीरुप स्थुः ।
अर्वाची ते पथ्या राय एतु स्याम ते सुमताविन्द्र शर्मन् ॥३॥
धेनुं न त्वा सूयवसे दुदुक्षन्नुप ब्रह्माणि ससृजे वसिष्ठः ।
त्वामिन्मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्वच्छ ॥४॥
अर्णांसि चित्पप्रथाना सुदास इन्द्रो गाधान्यकृणोत्सुपारा ।
शर्धन्तं शिम्युमुचथस्य नव्यः शापं सिन्धूनामकृणोदशस्तीः ॥५॥
पुरोळा इत्तुर्वशो यक्षुरासीद्राये मत्स्यासो निशिता अपीव ।
श्रुष्टिं चक्रुर्भृगवो द्रुह्यवश्च सखा सखायमतरद्विषूचोः ॥६॥
आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः ।
आ योऽनयत्सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन्युधा नॄन् ॥७॥
दुराध्यो अदितिं स्रेवयन्तोऽचेतसो वि जगृभ्रे परुष्णीम् ।
मह्नाविव्यक्पृथिवीं पत्यमानः पशुष्कविरशयच्चायमानः ॥८॥
ईयुरर्थं न न्यर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम ।
सुदास इन्द्रः सुतुकाँ अमित्रानरन्धयन्मानुषे वध्रिवाचः ॥९॥
ईयुर्गावो न यवसादगोपा यथाकृतमभि मित्रं चितासः ।
पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर्नियुतो रन्तयश्च ॥१०॥
एकं च यो विंशतिं च श्रवस्या वैकर्णयोर्जनान्राजा न्यस्तः ।
दस्मो न सद्मन्नि शिशाति बर्हिः शूरः सर्गमकृणोदिन्द्र एषाम् ॥११॥
अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः ।
वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा ॥१२॥
वि सद्यो विश्वा दृंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः ।
व्यानवस्य तृत्सवे गयं भाग्जेष्म पूरुं विदथे मृध्रवाचम् ॥१३॥
नि गव्यवोऽनवो द्रुह्यवश्च षष्टिः शता सुषुपुः षट् सहस्रा ।
षष्टिर्वीरासो अधि षड्दुवोयु विश्वेदिन्द्रस्य वीर्या कृतानि ॥१४॥
इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः ।
दुर्मित्रासः प्रकलविन्मिमाना जहुर्विश्वानि भोजना सुदासे ॥१५॥
अर्धं वीरस्य शृतपामनिन्द्रं परा शर्धन्तं नुनुदे अभि क्षाम् ।
इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिं पत्यमानः ॥१६॥
आध्रेण चित्तद्वेकं चकार सिंह्यं चित्पेत्वेना जघान ।
अव स्रक्तीर्वेश्यावृश्चदिन्द्रः प्रायच्छद्विश्वा भोजना सुदासे ॥१७॥
शश्वन्तो हि शत्रवो रारधुष्टे भेदस्य चिच्छर्धतो विन्द रन्धिम् ।
मर्ताँ एन स्तुवतो यः कृणोति तिग्मं तस्मिन्नि जहि वज्रमिन्द्र ॥१८॥
आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वताता मुषायत् ।
अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि ॥१९॥
न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः ।
देवकं चिन्मान्यमानं जघन्थाव त्मना बृहतः शम्बरं भेत् ॥२०॥
प्र ये गृहादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः ।
न ते भोजस्य सख्यं मृषन्ताधा सूरिभ्यः सुदिना व्युच्छान् ॥२१॥
द्वे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः ।
अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन् ॥२२॥
चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके ।
ऋज्रासो मा पृथिविष्ठाः सुदासस्तोकं तोकाय श्रवसे वहन्ति ॥२३॥
यस्य श्रवो रोदसी अन्तरुर्वी शीर्ष्णेशीर्ष्णे विबभाजा विभक्ता ।
सप्तेदिन्द्रं न स्रवतो गृणन्ति नि युध्यामधिमशिशादभीके ॥२४॥
इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः ।
अविष्टना पैजवनस्य केतं दूणाशं क्षत्रमजरं दुवोयु ॥२५॥


सायणभाष्यम्

द्वितीयेऽनुवाके षोडश सूक्तानि । तत्र ‘त्वे ह यत्पितरः' इति पञ्चविंशत्यृचं प्रथमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमिन्द्रदेवताकम् । द्वाविंशादिभिश्चतसृभिः सुदासनाम्नो राज्ञो दानं स्तूयते । अतस्तास्तदेवताकाः । अनुक्रम्यते हि - त्वे ह यत्पञ्चाधिकैन्द्रं सुदासः पैजवनस्य चतस्रोऽन्त्या दानस्तुतिः इति । महाव्रत आदितः पञ्चदशर्चः शंसनीयाः। तथैव पञ्चमारण्यके सूत्रितं - ’ त्वे ह यात्पितरश्चिन्न इन्द्रेति पञ्चदश' (ऐ. आ. ५. २. २) इति ॥ ।


त्वे ह॒ यत्पि॒तर॑श्चिन्न इन्द्र॒ विश्वा॑ वा॒मा ज॑रि॒तारो॒ अस॑न्वन् ।

त्वे गाव॑ः सु॒दुघा॒स्त्वे ह्यश्वा॒स्त्वं वसु॑ देवय॒ते वनि॑ष्ठः ॥१

त्वे इति॑ । ह॒ । यत् । पि॒तरः॑ । चि॒त् । नः॒ । इ॒न्द्र॒ । विश्वा॑ । वा॒मा । ज॒रि॒तारः॑ । अस॑न्वन् ।

त्वे इति॑ । गावः॑ । सु॒ऽदुघाः॑ । त्वे इति॑ । हि । अश्वाः॑ । त्वम् । वसु॑ । दे॒व॒ऽय॒ते । वनि॑ष्ठः ॥१

त्वे इति । ह । यत् । पितरः । चित् । नः । इन्द्र । विश्वा । वामा । जरितारः । असन्वन् ।

त्वे इति । गावः । सुऽदुघाः । त्वे इति । हि । अश्वाः । त्वम् । वसु । देवऽयते । वनिष्ठः ॥१

हे “इन्द्र “त्वे “ह त्वय्येव “नः अस्माकं “पितरश्चित् पितरोऽपि “जरितारः स्तोतारः सन्तः “यत् यस्मात्कारणात् “विश्वा विश्वानि “वामा वामानि वननीयानि धनानि । तथा च यास्कः-- ‘वामं वननीयं भवति' (निरु. ६. ३१ ) इति । “असन्वन् अलभन्त तस्माद्वयमपि धनकामास्त्वां स्तुमः । तद्युक्तम् । “हि यस्मात् कारणात् “त्वे त्वयि “गावः “सुदुघाः दोग्धुं सुशकाः सन्ति “त्वे त्वयि “अश्वाः सन्ति “त्वं “वसु धनं “देवयते देवं त्वामिच्छते यजमानाय “वनिष्ठः दातृतमो भवसि ॥


राजे॑व॒ हि जनि॑भि॒ः क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन् ।

पि॒शा गिरो॑ मघव॒न्गोभि॒रश्वै॑स्त्वाय॒तः शि॑शीहि रा॒ये अ॒स्मान् ॥२

राजा॑ऽइव । हि । जनि॑ऽभिः । क्षेषि॑ । ए॒व । अव॑ । द्युऽभिः॑ । अ॒भि । वि॒दुः । क॒विः । सन् ।

पि॒शा । गिरः॑ । म॒घ॒ऽव॒न् । गोभिः॑ । अश्वैः॑ । त्वा॒ऽय॒तः । शि॒शी॒हि॒ । रा॒ये । अ॒स्मान् ॥२

राजाऽइव । हि । जनिऽभिः । क्षेषि । एव । अव । द्युऽभिः । अभि । विदुः । कविः । सन् ।

पिशा । गिरः । मघऽवन् । गोभिः । अश्वैः । त्वाऽयतः । शिशीहि । राये । अस्मान् ॥२

हे इन्द्र त्वं “जनिभिः जायाभिः “राजेव “द्युभिः दीप्तिभिः सह “क्षेष्येव निवसस्येव। “हि इति पूरणः । किंच हे मघवन् धनवन्निन्द्र “विदुः विद्वान् “कविः क्रान्तकर्मा क्रान्तप्रज्ञो वा “सन् “गिरः स्तोतॄनस्मान् “पिशा रूपेण हिरण्यादिना वा “गोभिः च “अश्वैः च “अभि अभितः रक्ष । “त्वायतः त्वत्कामान् “अस्मान् “राये “शिशीहि धनार्थं च संस्कुरु॥


इ॒मा उ॑ त्वा पस्पृधा॒नासो॒ अत्र॑ म॒न्द्रा गिरो॑ देव॒यन्ती॒रुप॑ स्थुः ।

अ॒र्वाची॑ ते प॒थ्या॑ रा॒य ए॑तु॒ स्याम॑ ते सुम॒तावि॑न्द्र॒ शर्म॑न् ॥३

इ॒माः । ऊं॒ इति॑ । त्वा॒ । प॒स्पृ॒धा॒नासः॑ । अत्र॑ । म॒न्द्राः । गिरः॑ । दे॒व॒ऽयन्तीः॑ । उप॑ । स्थुः॒ ।

अ॒र्वाची॑ । ते॒ । प॒थ्या॑ । रा॒यः । ए॒तु॒ । स्याम॑ । ते॒ । सु॒ऽम॒तौ । इ॒न्द्र॒ । शर्म॑न् ॥३

इमाः । ऊं इति । त्वा । पस्पृधानासः । अत्र । मन्द्राः । गिरः । देवऽयन्तीः । उप । स्थुः ।

अर्वाची । ते । पथ्या । रायः । एतु । स्याम । ते । सुऽमतौ । इन्द्र । शर्मन् ॥३

हे "इन्द्र “त्वा त्वाम् “अत्र यज्ञे स्तोतरि वा प्रवर्तमानाः “पस्पृधानासः स्पर्धमानाः "मन्द्राः मोदमानाः “इमाः “गिरः स्तुतयः “उप “स्थुः उपतिष्ठन्ति । अतः “ते तव “रायः धनस्य “पथ्या सृतिः “अर्वाची अस्मदभिमुखी “एतु गच्छतु । हे इन्द्र वयं च “ते "सुमतौ सुष्टुतौ वर्तमानाः “शर्मन् शर्मणि सुखे “स्याम भूयास्म ॥


धे॒नुं न त्वा॑ सू॒यव॑से॒ दुदु॑क्ष॒न्नुप॒ ब्रह्मा॑णि ससृजे॒ वसि॑ष्ठः ।

त्वामिन्मे॒ गोप॑तिं॒ विश्व॑ आ॒हा न॒ इन्द्र॑ः सुम॒तिं ग॒न्त्वच्छ॑ ॥४

धे॒नुम् । न । त्वा॒ । सु॒ऽयव॑से । दुधु॑क्षन् । उप॑ । ब्रह्मा॑णि । स॒सृ॒जे॒ । वसि॑ष्ठः ।

त्वाम् । इत् । मे॒ । गोऽप॑तिम् । विश्वः॑ । आ॒ह॒ । आ । नः॒ । इन्द्रः॑ । सु॒ऽम॒तिम् । ग॒न्तु॒ । अच्छ॑ ॥४

धेनुम् । न । त्वा । सुऽयवसे । दुधुक्षन् । उप । ब्रह्माणि । ससृजे । वसिष्ठः ।

त्वाम् । इत् । मे । गोऽपतिम् । विश्वः । आह । आ । नः । इन्द्रः । सुऽमतिम् । गन्तु । अच्छ ॥४

हे इन्द्र “सुयवसे सुतृणे गोष्ठे वर्तमानां “धेनुं “न धेनुमिव सुहविष्के यज्ञगृहे। दृष्टान्तसामर्थ्यात् दार्ष्टान्तिकलाभः । वर्तमानं त्वां “दुधुक्षन् । संहितायां व्यत्ययेन दकारः । कामान् दोग्धुमिच्छन् “वसिष्ठः “ब्रह्माणि वत्सस्थानीयानि स्तोत्राणि “उप ससृजे उपसृजते । “मे मम “विश्वः सर्वः जनः “त्वामित् त्वामेव “गोपतिं गवां स्वामिनम् “आह ब्रवीति । अथ परोक्षस्तुतिः । “नः अस्माकं “सुमतिं सुष्टुतिम् “अच्छ अभि “इन्द्रः “आ “गन्तु आगच्छतु ॥


अर्णां॑सि चित्पप्रथा॒ना सु॒दास॒ इन्द्रो॑ गा॒धान्य॑कृणोत्सुपा॒रा ।

शर्ध॑न्तं शि॒म्युमु॒चथ॑स्य॒ नव्य॒ः शापं॒ सिन्धू॑नामकृणो॒दश॑स्तीः ॥५

अर्णां॑सि । चि॒त् । प॒प्र॒था॒ना । सु॒ऽदासे॑ । इन्द्रः॑ । गा॒धानि॑ । अ॒कृ॒णो॒त् । सु॒ऽपा॒रा ।

शर्ध॑न्तम् । शि॒म्युम् । उ॒चथ॑स्य । नव्यः॑ । शाप॑म् । सिन्धू॑नाम् । अ॒कृ॒णो॒त् । अश॑स्तीः ॥५

अर्णांसि । चित् । पप्रथाना । सुऽदासे । इन्द्रः । गाधानि । अकृणोत् । सुऽपारा ।

शर्धन्तम् । शिम्युम् । उचथस्य । नव्यः । शापम् । सिन्धूनाम् । अकृणोत् । अशस्तीः ॥५

"नव्यः स्तुत्यः “इन्द्रः “अर्णांसि शत्रुभिर्विदारितायाः परुष्ण्याः उदकानि “पप्रथाना “चित् प्रथमानान्यपि "सुदासे राज्ञे “गाधानि “सुपारा सुपाराणि पारयितुं तर्तुं योग्यानि च “अकृणोत् अकरोत् । अपि च “शर्धन्तम् उत्सहमानं “शिम्युं बाधमानं “शापं विश्वरूपोद्भवमात्मनोऽभिशापम् “अशस्तीः अभिशस्तीश्च “उचथस्य स्तोतुः “सिन्धूनां नदीनाम् "अकृणोत् अकरोत् ॥ ॥ २४ ॥


पु॒रो॒ळा इत्तु॒र्वशो॒ यक्षु॑रासीद्रा॒ये मत्स्या॑सो॒ निशि॑ता॒ अपी॑व ।

श्रु॒ष्टिं च॑क्रु॒र्भृग॑वो द्रु॒ह्यव॑श्च॒ सखा॒ सखा॑यमतर॒द्विषू॑चोः ॥६

पु॒रो॒ळाः । इत् । तु॒र्वशः॑ । यक्षुः॑ । आ॒सी॒त् । रा॒ये । मत्स्या॑सः । निऽशि॑ताः । अपि॑ऽइव ।

श्रु॒ष्टिम् । च॒क्रुः॒ । भृग॑वः । द्रु॒ह्यवः॑ । च॒ । सखा॑ । सखा॑यम् । अ॒त॒र॒त् । विषू॑चोः ॥६

पुरोळाः । इत् । तुर्वशः । यक्षुः । आसीत् । राये । मत्स्यासः । निऽशिताः । अपिऽइव ।

श्रुष्टिम् । चक्रुः । भृगवः । द्रुह्यवः । च । सखा । सखायम् । अतरत् । विषूचोः ॥६

"यक्षुः यज्ञकुशलः ॥ यजेः सन्प्रत्ययो न तु सनन्तः । अतो न द्विर्भावः ॥ “पुरोळाः पुरोगामी पुरोदाता वा । “इत् इति पूरणः । “तुर्वशः नाम राजासीत्। सः तुर्वशः “राये धनप्राप्तये इन्द्रस्य सखायं सुदासं जगाम । “मत्स्यासः “इव जालनिहिता मत्स्या इव “निशिताः नियन्त्रिताः “अपि “भृगवः “द्रुह्यवश्च योधाश्च सुदासः तुर्वशस्य च “श्रुष्टिम् आशुप्राप्तिं “चक्रुः । “विषूचोः विष्वगञ्चतोरुभयोर्मध्ये “सखा सुदासश्चेन्द्रः “सखायं सुदासम् “अतरत् अतारयत् । तुर्वशं चावधीदित्यर्थः । यद्वा । यक्षुर्यज्ञशीलः पुरोळाः पुरोदाता तुर्वशो नाम राजासीत् । तेन मत्स्यासो मत्स्यजनपदा निशिता बाधिता आसन् । अपि च भृगवो द्रुह्यवश्च श्रुष्टिं सुखं तुर्वशस्य चक्रुः । विषूचोर्विष्वगञ्चतोरुभयोर्मध्ये सखा तुर्वशस्य सखेन्द्रः सखायं राजानमतरत् अतारयत् ॥


आ प॒क्थासो॑ भला॒नसो॑ भन॒न्तालि॑नासो विषा॒णिन॑ः शि॒वास॑ः ।

आ योऽन॑यत्सध॒मा आर्य॑स्य ग॒व्या तृत्सु॑भ्यो अजगन्यु॒धा नॄन् ॥७

आ । प॒क्थासः॑ । भ॒ला॒नसः॑ । भ॒न॒न्त॒ । आ । अलि॑नासः । वि॒षा॒णिनः॑ । शि॒वासः॑ ।

आ । यः । अन॑यत् । स॒ध॒ऽमाः । आर्य॑स्य । ग॒व्या । तृत्सु॑ऽभ्यः । अ॒ज॒ग॒न् । यु॒धा । नॄन् ॥७

आ । पक्थासः । भलानसः । भनन्त । आ । अलिनासः । विषाणिनः । शिवासः ।

आ । यः । अनयत् । सधऽमाः । आर्यस्य । गव्या । तृत्सुऽभ्यः । अजगन् । युधा । नॄन् ॥७

“पक्थासः पक्था हविषां पाचकाः “भलानसः भद्रमुखाः । भलेति भद्रवाची । “अलिनासः अलिनाः । तपोभिरप्रवृद्धा इत्यर्थः । “विषाणिनः कण्डूयनार्थं कृष्णविषाणहस्ताः । दीक्षिता इत्यर्थः । “शिवासः शिवाः यागादिना सर्वस्य लोकस्य शिवकराः । यागेन हि शिवं भवति लोकस्य । “आ “भनन्त अभिष्टुवन्ति तमिन्द्रम् । भनतिः शब्दकर्मा ‘नौति भनति' इति शब्दकर्मसु पाठात् । "यः इन्द्रः “सधमाः । सोमपानेन सह माद्यतीति सधमादः । सधमाद एव सधमाः । “आर्यस्य कर्मशीलस्य “गव्या गोसंघान् “तृत्सुभ्यः हिंसकेभ्यः “आ “अनयत् । “अजगन् अजगत् स्वयं च गोसंघान् लेभे । "युधा युद्धेन तान् नॄन्’ शत्रून् जघान चेति शेषः ॥


दु॒रा॒ध्यो॒३॒॑ अदि॑तिं स्रे॒वय॑न्तोऽचे॒तसो॒ वि ज॑गृभ्रे॒ परु॑ष्णीम् ।

म॒ह्नावि॑व्यक्पृथि॒वीं पत्य॑मानः प॒शुष्क॒विर॑शय॒च्चाय॑मानः ॥८

दुः॒ऽआ॒ध्यः॑ । अदि॑तिम् । स्रे॒वय॑न्तः । अ॒चे॒तसः॑ । वि । ज॒गृ॒भ्रे॒ । परु॑ष्णीम् ।

म॒ह्ना । अ॒वि॒व्य॒क् । पृ॒थि॒वीम् । पत्य॑मानः । प॒शुः । क॒विः । अ॒श॒य॒त् । चाय॑मानः ॥८

दुःऽआध्यः । अदितिम् । स्रेवयन्तः । अचेतसः । वि । जगृभ्रे । परुष्णीम् ।

मह्ना । अविव्यक् । पृथिवीम् । पत्यमानः । पशुः । कविः । अशयत् । चायमानः ॥८

"दुराध्यः दुष्टाभिसंधयः "अचेतसः मन्दमतयः सुदासः शत्रवः "अदितिम् अदीनां “परुष्णीं नदीं “स्रेवयन्तः “वि “जगृभ्रे । विग्रहः कूलभेदः । तमकुर्वन् । परुष्ण्याः कूलं बिभिदुरित्यर्थः। सः सुदासः “मह्ना इन्द्रप्रसादलब्धेन महिम्ना “पृथिवीम् अविव्यक् तदैव व्याप्नोत् । न पुनरुदकेनाबाध्यत । ततः सुदासः शत्रुः “चायमानः चयमानस्य पुत्रः “कविः कविनामा “पत्यमानः पलायमानः “पशुः यागे संज्ञप्तः पशुरिव "अशयत् अशेत । सुदासा निहत इत्यर्थः ॥


ई॒युरर्थं॒ न न्य॒र्थं परु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वं ज॑गाम ।

सु॒दास॒ इन्द्र॑ः सु॒तुकाँ॑ अ॒मित्रा॒नर॑न्धय॒न्मानु॑षे॒ वध्रि॑वाचः ॥९

ई॒युः । अर्थ॑म् । न । नि॒ऽअ॒र्थम् । परु॑ष्णीम् । आ॒शुः । च॒न । इत् । अ॒भि॒ऽपि॒त्वम् । ज॒गा॒म॒ ।

सु॒ऽदासे॑ । इन्द्रः॑ । सु॒ऽतुका॑न् । अ॒मित्रा॑न् । अर॑न्धयत् । मानु॑षे । वध्रि॑ऽवाचः ॥९

ईयुः । अर्थम् । न । निऽअर्थम् । परुष्णीम् । आशुः । चन । इत् । अभिऽपित्वम् । जगाम ।

सुऽदासे । इन्द्रः । सुऽतुकान् । अमित्रान् । अरन्धयत् । मानुषे । वध्रिऽवाचः ॥९

अथेन्द्रः परुष्ण्या विच्छिन्नानि पर्वाणि संदधे । ततः परुष्ण्या आपः यथापूर्वम् “अर्थं गन्तव्यमेव प्रवणदेशं प्रति “परुष्णीम् “ईयुः आययां चक्रुः ॥ ‘इण् गतौ ' इति धातोरन्तर्भावितण्यर्थात् लिटि ईयुः इति । अतो द्विकर्मकमाख्यातम् ॥ “न्यर्थम् अगन्तव्यं परुष्ण्याः पार्श्वयोः स्थितं निम्नं देशं प्रति परुष्णीं “न ईयुः । “आशुश्चन राज्ञः सुदासोऽश्वोऽपि “अभिपित्वम् अभिप्राप्तव्यमेव “जगाम । “इन्द्रः च “सुदासे राज्ञे “मानुषे लोके “वध्रिवाचः जल्पकान् “अमित्रान् शत्रून् “सुतुकान् सुतोकान् । ‘तुक् तोकम्' इत्यपत्यनामसु पाठात् । “अरन्धयत् वशमानयत् ॥


ई॒युर्गावो॒ न यव॑सा॒दगो॑पा यथाकृ॒तम॒भि मि॒त्रं चि॒तास॑ः ।

पृश्नि॑गाव॒ः पृश्नि॑निप्रेषितासः श्रु॒ष्टिं च॑क्रुर्नि॒युतो॒ रन्त॑यश्च ॥१०

ई॒युः । गावः॑ । न । यव॑सात् । अगो॑पाः । य॒था॒ऽकृ॒तम् । अ॒भि । मि॒त्रम् । चि॒तासः॑ ।

पृश्नि॑ऽगावः । पृश्नि॑ऽनिप्रेषितासः । श्रु॒ष्टिम् । च॒क्रुः॒ । नि॒ऽयुतः॑ । रन्त॑यः । च॒ ॥१०

ईयुः । गावः । न । यवसात् । अगोपाः । यथाऽकृतम् । अभि । मित्रम् । चितासः ।

पृश्निऽगावः । पृश्निऽनिप्रेषितासः । श्रुष्टिम् । चक्रुः । निऽयुतः । रन्तयः । च ॥१०

यदेन्द्रः सुदासो रक्षणार्थमागच्छति तदा “पृश्निनिप्रेषितासः पृश्निनिप्रेषिताः पृश्न्या मात्रा नितरां प्रहिताः “चितासः संहता जानन्तो वा “पृश्निगावः । पृश्निवर्णा गावोऽश्वा येषां ते पृश्निगावः मरुतः “यथाकृतम् इन्द्रस्य साहाय्यं करवामेति यथा पूर्वं समयः कृतस्तं समयमनतिक्रम्य “मित्रम् इन्द्रं "यवसात् । निमित्तार्थे पञ्चमी । यवसं निमित्तीकृत्य “अगोपाः गोपालेनारक्षिताः “गावो “न गाव इव अभि “ईयुः अभिजग्मुः । “रन्तयः रममाणाः “नियुतः मरुतामश्वाः “च । “श्रुष्टिं शीघ्रप्राप्तिं “चक्रुः । तस्मिन् युद्धे मरुत इन्द्रं साहाय्यार्थमभ्यगच्छन्नित्यर्थः ॥


एकं॑ च॒ यो विं॑श॒तिं च॑ श्रव॒स्या वै॑क॒र्णयो॒र्जना॒न्राजा॒ न्यस्त॑ः ।

द॒स्मो न सद्म॒न्नि शि॑शाति ब॒र्हिः शूर॒ः सर्ग॑मकृणो॒दिन्द्र॑ एषाम् ॥११

एक॑म् । च॒ । यः । विं॒श॒तिम् । च॒ । श्र॒व॒स्या । वै॒क॒र्णयोः॑ । जना॑न् । राजा॑ । नि । अस्त॒रित्यस्तः॑ ।

द॒स्मः । न । सद्म॑न् । नि । शि॒शा॒ति॒ । ब॒र्हिः । शूरः॑ । सर्ग॑म् । अ॒कृ॒णो॒त् । इन्द्रः॑ । ए॒षा॒म् ॥११

एकम् । च । यः । विंशतिम् । च । श्रवस्या । वैकर्णयोः । जनान् । राजा । नि । अस्तरित्यस्तः ।

दस्मः । न । सद्मन् । नि । शिशाति । बर्हिः । शूरः । सर्गम् । अकृणोत् । इन्द्रः । एषाम् ॥११

“यः सुदासो राजा “श्रवस्या यशस इच्छया अन्नेच्छया वा परुष्ण्याः पार्श्वस्थयोः "वैकर्णयोः जनपदयोर्विद्यमानान् “एकं “च “विंशतिं “च “जनान् “न्यस्तः आत्मना अहन् सः “राजा “दस्मो “न दर्शनीयो युवाध्वर्युरिव “सद्मन् यज्ञगृहे “बर्हि: यस्मिन् युद्धे सपत्नान “नि “शिशाति नितरां लुनाति तस्मिन् युद्धे “शूरः “इन्द्रः “एषां मरुतां “सर्गं प्रसवम् “अकृणोत् सुदासः साहाय्यार्थमकरोत् ॥


अध॑ श्रु॒तं क॒वषं॑ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः ।

वृ॒णा॒ना अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यन्तो॒ ये अम॑द॒न्ननु॑ त्वा ॥१२

अध॑ । श्रु॒तम् । क॒वष॑म् । वृ॒द्धम् । अ॒प्ऽसु । अनु॑ । द्रु॒ह्युम् । नि । वृ॒ण॒क् । वज्र॑ऽबाहुः ।

वृ॒णा॒नाः । अत्र॑ । स॒ख्याय॑ । स॒ख्यम् । त्वा॒ऽयन्तः॑ । ये । अम॑दन् । अनु॑ । त्वा॒ ॥१२

अध । श्रुतम् । कवषम् । वृद्धम् । अप्ऽसु । अनु । द्रुह्युम् । नि । वृणक् । वज्रऽबाहुः ।

वृणानाः । अत्र । सख्याय । सख्यम् । त्वाऽयन्तः । ये । अमदन् । अनु । त्वा ॥१२

“अध अपि च “वज्रबाहुः इन्द्रः “श्रुतं “कवषं च “वृद्धं च त्रीन् तथा “द्रुह्युम् “अनु आनुपूर्व्येण “अप्सु उदकेषु “नि “वृणक् न्यमज्जयदित्यर्थः । अत्र अस्मिन्नवसरे “ये “त्वायन्तः त्वत्कामाः “त्वा त्वाम् “अनु “अमदन् अस्तुवन् ते सखायः “सख्याय सख्यार्थं त्वां “वृणानाः “सख्यं लेभिरे इति शेषः ॥


वि स॒द्यो विश्वा॑ दृंहि॒तान्ये॑षा॒मिन्द्र॒ः पुर॒ः सह॑सा स॒प्त द॑र्दः ।

व्यान॑वस्य॒ तृत्स॑वे॒ गयं॑ भा॒ग्जेष्म॑ पू॒रुं वि॒दथे॑ मृ॒ध्रवा॑चम् ॥१३

वि । स॒द्यः । विश्वा॑ । दृं॒हि॒तानि॑ । ए॒षा॒म् । इन्द्रः॑ । पुरः॑ । सह॑सा । स॒प्त । द॒र्द॒रिति॑ दर्दः ।

वि । आन॑वस्य । तृत्स॑वे । गय॑म् । भा॒क् । जेष्म॑ । पू॒रुम् । वि॒दथे॑ । मृ॒ध्रऽवा॑चम् ॥१३

वि । सद्यः । विश्वा । दृंहितानि । एषाम् । इन्द्रः । पुरः । सहसा । सप्त । दर्दरिति दर्दः ।

वि । आनवस्य । तृत्सवे । गयम् । भाक् । जेष्म । पूरुम् । विदथे । मृध्रऽवाचम् ॥१३

“एषां कवषादीनां “विश्वा विश्वानि “दृंहितानि दृढानि दुर्गाणि “पुरः नगरीश्च तद्रक्षासाधनभूतान् “सप्त प्राकारांश्च “इन्द्रः “सहसा बलेन “सद्यः एव “वि “दर्दः विदारयामास । अपि च “आनवस्य अनोः संबन्धिनो बलस्य अनोः पुत्रस्य वा “गयं गृहं धनं वा “तृत्सवे तृत्सुनामकाय राज्ञे तृत्सूनां गणाय वा “वि “भाक् व्यभजत् । अदादित्यर्थः । इत्थमिन्द्रं स्तुवन्तो वयं “विदथे युद्धे “मृधवाचं बाधवाचं “पूरुं मनुष्यं “जेष्म जयेम ॥


नि ग॒व्यवोऽन॑वो द्रु॒ह्यव॑श्च ष॒ष्टिः श॒ता सु॑षुपु॒ः षट् स॒हस्रा॑ ।

ष॒ष्टिर्वी॒रासो॒ अधि॒ षड्दु॑वो॒यु विश्वेदिन्द्र॑स्य वी॒र्या॑ कृ॒तानि॑ ॥१४

नि । ग॒व्यवः॑ । अन॑वः । द्रु॒ह्यवः॑ । च॒ । ष॒ष्टिः । श॒ता । सु॒सु॒पुः॒ । षट् । स॒हस्रा॑ ।

ष॒ष्टिः । वी॒रासः॑ । अधि॑ । षट् । दु॒वः॒ऽयु । विश्वा॑ । इत् । इन्द्र॑स्य । वी॒र्या॑ । कृ॒तानि॑ ॥१४

नि । गव्यवः । अनवः । द्रुह्यवः । च । षष्टिः । शता । सुसुपुः । षट् । सहस्रा ।

षष्टिः । वीरासः । अधि । षट् । दुवःऽयु । विश्वा । इत् । इन्द्रस्य । वीर्या । कृतानि ॥१४

“गव्यवः गोकामाः "अनवः अनोः संबन्धिनः “द्रुह्यवः द्रुह्योः संबन्धिनः “च “वीरासः वीराः “षष्टिः “शता शतानि । सहस्राणीत्यर्थः। “षट् “सहस्रा सहस्राणि च “षष्टिः च अधि “षट् अधिकाः षट् च “दुवोयु दुवोयुवे । चतुर्थीलुक् । परिचरणकामाय सुदासे। ‘नमस्यति दुवस्यति' इति परिचरणकर्मसु पाठात् । “नि सुषुपुः नितरां शेरते । निहता इत्यर्थः । तान्येतानि “विश्वा विश्वानि “कृतानि कार्याणि 'इन्द्रस्य “इत् इन्द्रस्यैव “वीर्या वीर्याणीति ॥


इन्द्रे॑णै॒ते तृत्स॑वो॒ वेवि॑षाणा॒ आपो॒ न सृ॒ष्टा अ॑धवन्त॒ नीची॑ः ।

दु॒र्मि॒त्रास॑ः प्रकल॒विन्मिमा॑ना ज॒हुर्विश्वा॑नि॒ भोज॑ना सु॒दासे॑ ॥१५

इन्द्रे॑ण । ए॒ते । तृत्स॑वः । वेवि॑षाणाः । आपः॑ । न । सृ॒ष्टाः । अ॒ध॒व॒न्त॒ । नीचीः॑ ।

दुः॒ऽमि॒त्रासः॑ । प्र॒क॒ल॒ऽवित् । मिमा॑नाः । ज॒हुः । विश्वा॑नि । भोज॑ना । सु॒ऽदासे॑ ॥१५

इन्द्रेण । एते । तृत्सवः । वेविषाणाः । आपः । न । सृष्टाः । अधवन्त । नीचीः ।

दुःऽमित्रासः । प्रकलऽवित् । मिमानाः । जहुः । विश्वानि । भोजना । सुऽदासे ॥१५

कदाचिदिन्द्रेण रक्षिता अप्यन्यदा तेनैव बाध्यन्ते । “एते "तृत्सवः "दुर्मित्रासः दुष्टमित्राः “प्रकलवित् अजानन्तः “इन्द्रेण “वेविषाणाः युद्धार्थं संगताः “सृष्टाः पलायनार्थमुद्युक्ताः “नीचीः नीचीनाः "आपो “न आप इव “अधवन्त अधावन्त । ततः “मिमानाः सुदासा बाध्यमानाः “विश्वानि “भोजना भोग्यानि धनानि "सुदासे राज्ञे "जहुः ॥ ॥ २६ ॥


अ॒र्धं वी॒रस्य॑ शृत॒पाम॑नि॒न्द्रं परा॒ शर्ध॑न्तं नुनुदे अ॒भि क्षाम् ।

इन्द्रो॑ म॒न्युं म॑न्यु॒म्यो॑ मिमाय भे॒जे प॒थो व॑र्त॒निं पत्य॑मानः ॥१६

अ॒र्धम् । वी॒रस्य॑ । शृ॒त॒ऽपाम् । अ॒नि॒न्द्रम् । परा॑ । शर्ध॑न्तम् । नु॒नु॒दे॒ । अ॒भि । क्षाम् ।

इन्द्रः॑ । म॒न्युम् । म॒न्यु॒ऽभ्यः॑ । मि॒मा॒य॒ । भे॒जे । प॒थः । व॒र्त॒निम् । पत्य॑मानः ॥१६

अर्धम् । वीरस्य । शृतऽपाम् । अनिन्द्रम् । परा । शर्धन्तम् । नुनुदे । अभि । क्षाम् ।

इन्द्रः । मन्युम् । मन्युऽभ्यः । मिमाय । भेजे । पथः । वर्तनिम् । पत्यमानः ॥१६

“इन्द्रः “अभि “क्षां भूमिमभि । भूम्यामित्यर्थः। “वीरस्य वीर्ययुक्तस्य सुदासः “अर्धं हिंसकम् ॥ अर्धेर्हिंसाकर्मणोऽर्धशब्दस्य निष्पत्तिः ॥ "अनिन्द्रम् । यस्य बुद्धाविन्द्रो नास्त्यसावनिन्द्रः । तम् । इन्द्रमगणयन्तमित्यर्थः। “शृतपां शृतस्य क्षीरादेर्हविषः पातारं “शर्धन्तम् उत्सहमानं “परा “नुनुदे । किंच “मन्युभ्यः मन्युकर्तुर्मन्युना मिनतो हिंसतो वा शत्रोः “मन्युं क्रोधं “मिमाय बबाधे। अथ सुदासः शत्रुः "पथः मार्गान् “पत्यमानः गच्छन् 'वर्तनिं पलायनमार्गं “भेजे प्राप॥


आ॒ध्रेण॑ चि॒त्तद्वेकं॑ चकार सिं॒ह्यं॑ चि॒त्पेत्वे॑ना जघान ।

अव॑ स्र॒क्तीर्वे॒श्या॑वृश्च॒दिन्द्र॒ः प्राय॑च्छ॒द्विश्वा॒ भोज॑ना सु॒दासे॑ ॥१७

आ॒ध्रेण॑ । चि॒त् । तत् । ऊं॒ इति॑ । एक॑म् । च॒का॒र॒ । सिं॒ह्य॑म् । चि॒त् । पेत्वे॑न । ज॒घा॒न॒ ।

अव॑ । स्र॒क्तीः । वे॒श्या॑ । अ॒वृ॒श्च॒त् । इन्द्रः॑ । प्र । अ॒य॒च्छ॒त् । विश्वा॑ । भोज॑ना । सु॒ऽदासे॑ ॥१७

आध्रेण । चित् । तत् । ऊं इति । एकम् । चकार । सिंह्यम् । चित् । पेत्वेन । जघान ।

अव । स्रक्तीः । वेश्या । अवृश्चत् । इन्द्रः । प्र । अयच्छत् । विश्वा । भोजना । सुऽदासे ॥१७

“इन्द्रः “तत् तदा “आध्रेण “चित् दरिद्रेणापि सुदासा “एकं मुख्यं दानकर्म “चकार कारयामास । “सिंह्यं चित् । प्रवयाः सिंहः सिंह्यः । तमपि “पेत्वेन छागेन “जघान घातयामास। “वेश्या । वेशी सूची । तया "स्रक्तीः यूपादेरश्रीन् “अव “अवृश्चत् अववृक्तवान् । वेश्यादेः कृत्यं सूच्यैवाकरोदित्यर्थः । तान्येतानि त्रीणि कर्माणि असंभावितानीति नाशङ्कनीयानि इन्द्रस्य महिम्नोऽधिकत्वात् । “विश्वा विश्वानि "भोजना भोजनानि भोग्यानि धनानि "सुदासे राज्ञे “प्रायच्छत् अदाच्च ॥


शश्व॑न्तो॒ हि शत्र॑वो रार॒धुष्टे॑ भे॒दस्य॑ चि॒च्छर्ध॑तो विन्द॒ रन्धि॑म् ।

मर्ताँ॒ एन॑ः स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न्नि ज॑हि॒ वज्र॑मिन्द्र ॥१८

शश्व॑न्तः । हि । शत्र॑वः । र॒र॒धुः । ते॒ । भे॒दस्य॑ । चि॒त् । शर्ध॑तः । वि॒न्द॒ । रन्धि॑म् ।

मर्ता॑न् । एनः॑ । स्तु॒व॒तः । यः । कृ॒णोति॑ । ति॒ग्मम् । तस्मि॑न् । नि । ज॒हि॒ । वज्र॑म् । इ॒न्द्र॒ ॥१८

शश्वन्तः । हि । शत्रवः । ररधुः । ते । भेदस्य । चित् । शर्धतः । विन्द । रन्धिम् ।

मर्तान् । एनः । स्तुवतः । यः । कृणोति । तिग्मम् । तस्मिन् । नि । जहि । वज्रम् । इन्द्र ॥१८

हे “इन्द्र "ते तव “शत्रवः अरयः “शश्वन्तः बहवः “ररधुः वशमीयुः । “चित् अपि च “शर्धतः उत्सहमानस्य “भेदस्य । भिनत्ति मर्यादा इति भेदो नास्तिकः । तस्य । यद्वा । भेदो नाम सुदासः शत्रुः कश्चित् । तस्येत्यर्थः । “रन्धिं वशीकरं "विन्द लभस्व । “यः भेदः “स्तुवतः त्वां स्तुवत “मर्तान् मर्त्यान् प्रति “एनः पापं “कृणोति करोति "तस्मिन् भेदे “तिग्मं निशितं योद्धारमुत्साहयन्तम्। तथा च यास्कः-’ तिग्मं तेजतेरुत्साहकर्मणः ' ( निरु. १०. ६) इति । “वज्रम् । वजति गच्छत्येव शत्रुं न प्रतिहन्यत इति वज्रः । तम् ॥ वज्रशब्दो वजेः ‘ऋज्रेन्द्राग्रवज्रविप्र० इत्यादिना रन्प्रत्ययान्तो निपातितः ॥ तं “जहि । वज्रेण भेदं प्रहरेत्यर्थः ॥


आव॒दिन्द्रं॑ य॒मुना॒ तृत्स॑वश्च॒ प्रात्र॑ भे॒दं स॒र्वता॑ता मुषायत् ।

अ॒जास॑श्च॒ शिग्र॑वो॒ यक्ष॑वश्च ब॒लिं शी॒र्षाणि॑ जभ्रु॒रश्व्या॑नि ॥१९

आव॑त् । इन्द्र॑म् । य॒मुना॑ । तृत्स॑वः । च॒ । प्र । अत्र॑ । भे॒दम् । स॒र्वऽता॑ता । मु॒षा॒य॒त् ।

अ॒जासः॑ । च॒ । शिग्र॑वः । यक्ष॑वः । च॒ । ब॒लिम् । शी॒र्षाणि॑ । ज॒भ्रुः॒ । अश्व्या॑नि ॥१९

आवत् । इन्द्रम् । यमुना । तृत्सवः । च । प्र । अत्र । भेदम् । सर्वऽताता । मुषायत् ।

अजासः । च । शिग्रवः । यक्षवः । च । बलिम् । शीर्षाणि । जभ्रुः । अश्व्यानि ॥१९

“अत्र अस्मिन् “सर्वताता सर्वतातौ युद्धे य इन्द्रः “भेदं नास्तिकं भेदनामकं वा सुदासः शत्रुं “प्र “मुषायत् प्रामुष्णात् । अवधीदित्यर्थः । तम् “इन्द्रं “यमुना “आवत् अतोषयत् । तत्तीरवासी जनः सर्वोऽप्यतोषयदित्यर्थः। “तृत्सवः तृत्सोः पुरुषाश्चावन् । आवत् इत्येकवचनं बहुवचनान्ततया विपरिणतं सदत्र संबध्यते । किंच “अजासः अजाः जनपदाः “शिग्रवः जनपदाः "यक्षवश्व जनपदाः “अश्व्यानि अश्वसंबन्धीनि “शीर्षाणि शिरांसि । युद्धे हतानामश्वानां शिरांसीत्यर्थः । “बलिम् उपहारं तस्मा इन्द्राय उप “जभ्रुः उपजह्रुः । यद्वा । अश्व्यानि शीर्षाणि युद्धे गृहीतान् मुख्यानश्वानिन्द्राय उपहारं जह्रुरित्यर्थः ॥ ।


न त॑ इन्द्र सुम॒तयो॒ न राय॑ः सं॒चक्षे॒ पूर्वा॑ उ॒षसो॒ न नूत्ना॑ः ।

देव॑कं चिन्मान्यमा॒नं ज॑घ॒न्थाव॒ त्मना॑ बृह॒तः शम्ब॑रं भेत् ॥२०

न । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तयः॑ । न । रायः॑ । स॒म्ऽचक्षे॑ । पूर्वाः॑ । उ॒षसः॑ । न । नूत्नाः॑ ।

देव॑कम् । चि॒त् । मा॒न्य॒मा॒नम् । ज॒घ॒न्थ॒ । अव॑ । त्मना॑ । बृ॒ह॒तः । शम्ब॑रम् । भे॒त् ॥२०

न । ते । इन्द्र । सुऽमतयः । न । रायः । सम्ऽचक्षे । पूर्वाः । उषसः । न । नूत्नाः ।

देवकम् । चित् । मान्यमानम् । जघन्थ । अव । त्मना । बृहतः । शम्बरम् । भेत् ॥२०

हे इन्द्र "ते तव "पूर्वा: पुरातनाः "सुमतयः शोभनमतयः “रायः धनानि च "उषसो “न उषस इव “न “संचक्षे संख्यातुं न शक्याः । “न "नूत्नाः नूतनाश्च सुमतयो रायश्च न संचक्षे । किंच त्वं “मान्यमानं मन्यमानस्य पुत्रं "देवकं देवकनामानं शत्रुं “जघन्थ अवधीः । “त्मना स्वयमेव "बृहतः महतः शैलात् “शम्बरं च "अव "भेत् अवाभैत्सीरिति ॥ ॥ २७ ॥


प्र ये गृ॒हादम॑मदुस्त्वा॒या प॑राश॒रः श॒तया॑तु॒र्वसि॑ष्ठः ।

न ते॑ भो॒जस्य॑ स॒ख्यं मृ॑ष॒न्ताधा॑ सू॒रिभ्य॑ः सु॒दिना॒ व्यु॑च्छान् ॥२१

प्र । ये । गृ॒हात् । अम॑मदुः । त्वा॒ऽया । प॒रा॒ऽश॒रः । श॒तऽया॑तुः । वसि॑ष्ठः ।

न । ते॒ । भो॒जस्य॑ । स॒ख्यम् । मृ॒ष॒न्त॒ । अध॑ । सू॒रिऽभ्यः॑ । सु॒ऽदिना॑ । वि । उ॒च्छा॒न् ॥२१

प्र । ये । गृहात् । अममदुः । त्वाऽया । पराऽशरः । शतऽयातुः । वसिष्ठः ।

न । ते । भोजस्य । सख्यम् । मृषन्त । अध । सूरिऽभ्यः । सुऽदिना । वि । उच्छान् ॥२१

हे इन्द्र “पराशरः “शतयातुः बहुरक्षाः । बहूनि रक्षांसि बाधितुं यं कामयन्ते स शतयातुः बहूनां रक्षसां शातयिता वा । शक्तिः “वसिष्ठः चैवमादयः “ये ऋषयः “त्वाया त्वदिच्छया "गृहात् गृहं प्राप्य ॥ ल्यब्लोपे द्वितीयार्थे पञ्चमी (पा. सू. २. ३. २८, १) ॥ यद्वा गृहात् गृहे । सप्तम्यर्थे पञ्चमी । “प्र “अममदुः त्वां प्रतुष्टवुः प्रकर्षेण तर्पितवन्तो वा ते पराशरप्रभृतयः “भोजस्य भोजकस्य पालकस्य “ते तव “सख्यं सख्युः कर्म स्तोत्रं यजनं वा “न “मृषन्त न विस्मरन्ति । मृष मर्षे ' । मर्षों मर्षणम् । तन्न कुर्वन्तीत्यर्थः । यतो न विस्मरन्ति “अध अतो हेतोः “सूरिभ्यः सूरीणां स्तोतॄणामेषाम् । अत्र विभक्तिव्यत्ययः । "सुदिना सुदिनानि “व्युच्छान् व्युच्छन्ति निवसन्ति । उपगच्छन्तीत्यर्थः ॥


द्वे नप्तु॑र्दे॒वव॑तः श॒ते गोर्द्वा रथा॑ व॒धूम॑न्ता सु॒दास॑ः ।

अर्ह॑न्नग्ने पैजव॒नस्य॒ दानं॒ होते॑व॒ सद्म॒ पर्ये॑मि॒ रेभ॑न् ॥२२

द्वे इति॑ । नप्तुः॑ । दे॒वऽव॑तः । श॒ते इति॑ । गोः । द्वा । रथा॑ । व॒धूऽम॑न्ता । सु॒ऽदासः॑ ।

अर्ह॑न् । अ॒ग्ने॒ । पै॒ज॒ऽव॒नस्य॑ । दान॑म् । होता॑ऽइव । सद्म॑ । परि॑ । ए॒मि॒ । रेभ॑न् ॥२२

द्वे इति । नप्तुः । देवऽवतः । शते इति । गोः । द्वा । रथा । वधूऽमन्ता । सुऽदासः ।

अर्हन् । अग्ने । पैजऽवनस्य । दानम् । होताऽइव । सद्म । परि । एमि । रेभन् ॥२२

“देववतः राज्ञः “नप्तुः पौत्रस्य “पैजवनस्य पिजवनपुत्रस्य "सुदासः राज्ञः "गोः गवां “द्वे “शते “वधूमन्ता वधूसंयुक्तौ “द्वा द्वौ “रथा रथौ च देयं “दानं दानभूतान् “रेभन् इन्द्रं स्तुवन् अत एव “अर्हन योग्योऽहं वसिष्ठो हे “अग्ने “सद्म यज्ञगृहं “होतेव वषट्कर्तेव “पर्येमि । अत्राग्नेः संबोधनं सर्वदेवमुख्यत्वप्रतिपादनार्थं न तु देवतात्वज्ञापनार्थमतद्देवताकत्वादस्य सूक्तस्य ॥


च॒त्वारो॑ मा पैजव॒नस्य॒ दाना॒ः स्मद्दि॑ष्टयः कृश॒निनो॑ निरे॒के ।

ऋ॒ज्रासो॑ मा पृथिवि॒ष्ठाः सु॒दास॑स्तो॒कं तो॒काय॒ श्रव॑से वहन्ति ॥२३

च॒त्वारः॑ । मा॒ । पै॒ज॒ऽव॒नस्य॑ । दानाः॑ । स्मत्ऽदि॑ष्टयः । कृ॒श॒निनः॑ । नि॒रे॒के ।

ऋ॒ज्रासः॑ । मा॒ । पृ॒थि॒वि॒ऽस्थाः । सु॒ऽदासः॑ । तो॒कम् । तो॒काय॑ । श्रव॑से । व॒ह॒न्ति॒ ॥२३

चत्वारः । मा । पैजऽवनस्य । दानाः । स्मत्ऽदिष्टयः । कृशनिनः । निरेके ।

ऋज्रासः । मा । पृथिविऽस्थाः । सुऽदासः । तोकम् । तोकाय । श्रवसे । वहन्ति ॥२३

“पैजवनस्य पिजवनपुत्रस्य "सुदासः राज्ञः "स्मद्दिष्टयः प्रशस्तातिसर्जनाः श्रद्धादिदानाङ्गयुक्ताः “कृशनिनः हिरण्यालंकारवन्तः “निरेके दुर्गतौ सत्याम् "ऋज्रासः ऋजुगामिनः पृथिविष्ठाः पृथिव्यां सुप्रतिष्ठिताः “दानाः देयभूताः “चत्वारः अश्वाः “तोकं पुत्रवत्पालनीयं मां वसिष्ठं रथे स्थितं “तोकाय तोकस्य पुत्रस्य । षष्ट्यर्थे चतुर्थी । “श्रवसे अन्नाय यशसे वा “वहन्ति । पुनः “मा इति पूरणः ॥


यस्य॒ श्रवो॒ रोद॑सी अ॒न्तरु॒र्वी शी॒र्ष्णेशी॑र्ष्णे विब॒भाजा॑ विभ॒क्ता ।

स॒प्तेदिन्द्रं॒ न स्र॒वतो॑ गृणन्ति॒ नि यु॑ध्याम॒धिम॑शिशाद॒भीके॑ ॥२४

यस्य॑ । श्रवः॑ । रोद॑सी॒ इति॑ । अ॒न्तः । उ॒र्वी इति॑ । शी॒र्ष्णेऽशी॑र्ष्णे । वि॒ऽब॒भाज॑ । वि॒ऽभ॒क्ता ।

स॒प्त । इत् । इन्द्र॑म् । न । स्र॒वतः॑ । गृ॒ण॒न्ति॒ । नि । यु॒ध्या॒म॒धिम् । अ॒शि॒शा॒त् । अ॒भीके॑ ॥२४

यस्य । श्रवः । रोदसी इति । अन्तः । उर्वी इति । शीर्ष्णेऽशीर्ष्णे । विऽबभाज । विऽभक्ता ।

सप्त । इत् । इन्द्रम् । न । स्रवतः । गृणन्ति । नि । युध्यामधिम् । अशिशात् । अभीके ॥२४

विस्तीर्णयोर्द्यावापृथिव्योर्मध्ये वर्तत इत्यर्थः । यश्च सुदाः “विभक्ता धनस्य प्रदाता “शीर्ष्णेशीर्ष्णे श्रेष्ठाय श्रेष्ठाय “विबभाज धनं प्रददौ तं सुदासं “सप्तेत् सप्तैव लोकाः “इन्द्रं “न इन्द्रमिव “गृणन्ति स्तुवन्ति । किंच “स्रवतः नद्यः "अभीके युद्धे "युध्यामधिं युध्यामधिनामकं सपत्नं “नि "अशिशात् न्यहन् ॥


इ॒मं न॑रो मरुतः सश्च॒तानु॒ दिवो॑दासं॒ न पि॒तरं॑ सु॒दास॑ः ।

अ॒वि॒ष्टना॑ पैजव॒नस्य॒ केतं॑ दू॒णाशं॑ क्ष॒त्रम॒जरं॑ दुवो॒यु ॥२५

इ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । अनु॑ । दिवः॑ऽदासम् । न । पि॒तर॑म् । सु॒ऽदासः॑ ।

अ॒वि॒ष्टन॑ । पै॒ज॒ऽव॒नस्य॑ । केत॑म् । दुः॒ऽनश॑म् । क्ष॒त्रम् । अ॒जर॑म् । दु॒वः॒ऽयु ॥२५

इमम् । नरः । मरुतः । सश्चत । अनु । दिवःऽदासम् । न । पितरम् । सुऽदासः ।

अविष्टन । पैजऽवनस्य । केतम् । दुःऽनशम् । क्षत्रम् । अजरम् । दुवःऽयु ॥२५

हे “नरः नेतारः “मरुतः “इमं सुदासं राजानं “सुदासः राज्ञः “पितरं “दिवोदासं "न दिवोदासमिव । दिवोदास इति पिजवनस्यैव नामान्तरम् । “अनु "सश्चत अनुसेवध्वम् । किंच “दुवोयु परिचरणकामस्य ॥ षष्ठ्या लुक् ॥ “पैजवनस्य पिजवनपुत्रस्य सुदासः “केतं मन्त्रं गृहं वा “अविष्टन रक्षत । अपि चास्य सुदासः “क्षत्रं बलं “दूणाशं दुर्नशमविनाशि "अजरम् अशिथिलं चास्तु ॥ ॥ २८॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१८&oldid=189176" इत्यस्माद् पुनः प्राप्तिः