ऋग्वेदः सूक्तं ७.१६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.१५ ऋग्वेदः - मण्डल ७
सूक्तं ७.१६
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.१७ →
दे. अग्निः। प्रगाथः (विषमा बृहती, समा सतोबृहती।


एना वो अग्निं नमसोर्जो नपातमा हुवे ।
प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् ॥१॥
स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः ।
सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥२॥
उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः ।
उद्धूमासो अरुषासो दिविस्पृशः समग्निमिन्धते नरः ॥३॥
तं त्वा दूतं कृण्महे यशस्तमं देवाँ आ वीतये वह ।
विश्वा सूनो सहसो मर्तभोजना रास्व तद्यत्त्वेमहे ॥४॥
त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे ।
त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥५॥
कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि ।
आ न ऋते शिशीहि विश्वमृत्विजं सुशंसो यश्च दक्षते ॥६॥
त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।
यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम् ॥७॥
येषामिळा घृतहस्ता दुरोण आँ अपि प्राता निषीदति ।
ताँस्त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥८॥
स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः ।
अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥९॥
ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः ।
ताँ अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥१०॥
देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् ।
उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥११॥
तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥१२॥


सायणभाष्यम्

द्वितीयेऽनुवाके षोडश सूक्तानि । तत्र ‘त्वे ह यत्पितरः' इति पञ्चविंशत्यृचं प्रथमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमिन्द्रदेवताकम् । द्वाविंशादिभिश्चतसृभिः सुदासनाम्नो राज्ञो दानं स्तूयते । अतस्तास्तदेवताकाः । अनुक्रम्यते हि - त्वे ह यत्पञ्चाधिकैन्द्रं सुदासः पैजवनस्य चतस्रोऽन्त्याः दानस्तुतिः' इति । महाव्रत आदितः पञ्चदशर्चः शंसनीयाः। तथैव पञ्चमारण्यके सूत्रितं -’ त्वे ह यत्पितरश्चिन्न इन्द्रेति पञ्चदश' (ऐ. आ. ५. २. २) इति ॥


ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे ।

प्रि॒यं चेति॑ष्ठमर॒तिं स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत॑म् ॥१

ए॒ना । वः॒ । अ॒ग्निम् । नम॑सा । ऊ॒र्जः । नपा॑तम् । आ । हु॒वे॒ ।

प्रि॒यम् । चेति॑ष्ठम् । अ॒र॒तिम् । सु॒ऽअ॒ध्व॒रम् । विश्व॑स्य । दू॒तम् । अ॒मृत॑म् ॥१

एना । वः । अग्निम् । नमसा । ऊर्जः । नपातम् । आ । हुवे ।

प्रियम् । चेतिष्ठम् । अरतिम् । सुऽअध्वरम् । विश्वस्य । दूतम् । अमृतम् ॥१

“उर्जः बलस्य “नपातं पुत्रम् । ' सूनुः नपात्' इत्यपत्यनामसु पाठात् । प्रियं प्रियमस्माकं “चेतिष्ठम् अतिशयेन ज्ञातारं प्रज्ञापकं वा “अरतिं गन्तारं स्वामिनं वा “स्वध्वरं सुयज्ञं “विश्वस्य सर्वस्य यजमानस्य “दूतम् “अमृतं नित्यम् अग्निम् “एना एनेन “नमसा स्तोत्रेण । यद्यप्यत्रान्वादेशो नास्ति तथापि छान्दसत्वादिदंशब्दस्यैनादेशः । यद्वा । एनैनमित्यग्नेर्विशेषणम् । समानार्षत्वात् पूर्वेषु सूक्तेष्वादिष्टत्वाद्वसिष्ठेनान्वादिश्यते । “वः युष्मदर्थम् "आ "हुवे आह्वयामि ॥


स यो॑जते अरु॒षा वि॒श्वभो॑जसा॒ स दु॑द्रव॒त्स्वा॑हुतः ।

सु॒ब्रह्मा॑ य॒ज्ञः सु॒शमी॒ वसू॑नां दे॒वं राधो॒ जना॑नाम् ॥२

सः । यो॒ज॒ते॒ । अ॒रु॒षा । वि॒श्वऽभो॑जसा । सः । दु॒द्र॒व॒त् । सुऽआ॑हुतः ।

सु॒ऽब्रह्मा॑ । य॒ज्ञः । सु॒ऽशमी॑ । वसू॑नाम् । दे॒वम् । राधः॑ । जना॑नाम् ॥२

सः । योजते । अरुषा । विश्वऽभोजसा । सः । दुद्रवत् । सुऽआहुतः ।

सुऽब्रह्मा । यज्ञः । सुऽशमी । वसूनाम् । देवम् । राधः । जनानाम् ॥२

“सः अग्निः “अरुषा आरोचमानौ विश्वभोजसा विश्वस्य पालयितारावश्वौ “योजते रथे युनक्तु । यद्वा । सोऽरुषा आरोचमानेन तेजसा विश्वभोजसा विश्वस्य रक्षकेण योजते युज्यते । किंच “सः अग्निः “दुद्रवत् आनेतुं देवान् प्रति भृशं द्रवतु द्रवति वा । “स्वाहुतः सुष्ठु आहुतः “सुब्रह्मा सुस्तुतिः शोभनान्नो वा “यज्ञः यष्टव्यः “सुशमी सुकर्मा च भवति । तमिमं “देवं द्योतमानं “वसूनां वासकानां “जनानां वसिष्ठानां “राधः हविः अभिगच्छत्विति शेषः । यद्वा । एवंगुणविशिष्टोऽग्निर्वसूनां धनानां मध्ये देवमत्यन्तप्रकाशमानं राधो धनं जनानां यजमानानाम् । धनवत् प्रियतम इत्यर्थः ॥


उद॑स्य शो॒चिर॑स्थादा॒जुह्वा॑नस्य मी॒ळ्हुष॑ः ।

उद्धू॒मासो॑ अरु॒षासो॑ दिवि॒स्पृश॒ः सम॒ग्निमि॑न्धते॒ नर॑ः ॥३

उत् । अ॒स्य॒ । शो॒चिः । अ॒स्था॒त् । आ॒ऽजुह्वा॑नस्य । मी॒ळ्हुषः॑ ।

उत् । धू॒मासः॑ । अ॒रु॒षासः॑ । दि॒वि॒ऽस्पृशः॑ । सम् । अ॒ग्निम् । इ॒न्ध॒ते॒ । नरः॑ ॥३

उत् । अस्य । शोचिः । अस्थात् । आऽजुह्वानस्य । मीळ्हुषः ।

उत् । धूमासः । अरुषासः । दिविऽस्पृशः । सम् । अग्निम् । इन्धते । नरः ॥३

“मीळ्हुषः कामानां वर्षितुः “आजुह्वानस्य अभिहूयमानस्याग्नेः “शोचिः तेजः “उत् “अस्थात् उत्तिष्ठति । “अरुषासः आरोचमानाः “दिविस्पृशः अन्तरिक्षस्पृशः “धूमासः धूमाश्च “उत् अस्थुः। अस्थादित्येकवचनान्तं बहुवचनान्ततया विपरिणतं सदत्रान्वेति । तमिमम् “अग्निं “नरः कर्मणां नेतार ऋत्विजः “सम् “इन्धते सम्यग्दीपयन्ति ॥


तं त्वा॑ दू॒तं कृ॑ण्महे य॒शस्त॑मं दे॒वाँ आ वी॒तये॑ वह ।

विश्वा॑ सूनो सहसो मर्त॒भोज॑ना॒ रास्व॒ तद्यत्त्वेम॑हे ॥४

तम् । त्वा॒ । दू॒तम् । कृ॒ण्म॒हे॒ । य॒शःऽत॑मम् । दे॒वान् । आ । वी॒तये॑ । व॒ह॒ ।

विश्वा॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । म॒र्त॒ऽभोज॑ना । रास्व॑ । तत् । यत् । त्वा॒ । ईम॑हे ॥४

तम् । त्वा । दूतम् । कृण्महे । यशःऽतमम् । देवान् । आ । वीतये । वह ।

विश्वा । सूनो इति । सहसः । मर्तऽभोजना । रास्व । तत् । यत् । त्वा । ईमहे ॥४

हे “सहसः "सूनो बलस्य पुत्राग्ने “यशस्तमम् अतिशयेन यशस्विनं “तं प्रसिद्धं यं “त्वा त्वां “दूतं "कृण्महे कुर्मः स त्वं “देवान् “वीतये हविषां भक्षणाय “आ “वह । किंच “यत् यदा “त्वा त्वाम् “ईमहे याचामहे तदैव “विश्वा विश्वानि मर्तभोजनानि मनुष्याणां भोग्यानि कल्याणानि धनानि “रास्व अस्मभ्यं देहि ॥


त्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता॑ नो अध्व॒रे ।

त्वं पोता॑ विश्ववार॒ प्रचे॑ता॒ यक्षि॒ वेषि॑ च॒ वार्य॑म् ॥५

त्वम् । अ॒ग्ने॒ । गृ॒हऽप॑तिः । त्वम् । होता॑ । नः॒ । अ॒ध्व॒रे ।

त्वम् । पोता॑ । वि॒श्व॒ऽवा॒र॒ । प्रऽचे॑ताः । यक्षि॑ । वेषि॑ । च॒ । वार्य॑म् ॥५

त्वम् । अग्ने । गृहऽपतिः । त्वम् । होता । नः । अध्वरे ।

त्वम् । पोता । विश्वऽवार । प्रऽचेताः । यक्षि । वेषि । च । वार्यम् ॥५

हे “विश्ववार विश्वैर्वरणीय “अग्ने “त्वं “नः अस्माकम् “अध्वरे यागे “गृहपतिः असि यजमानोऽसि । “त्वं “होता देवानामाह्वाता “त्वं त्वमेव “पोता असि । अतः “प्रचेताः प्रकृष्टमतिस्त्वं “वार्यं वरणीयं हविः “यक्षि यज । “वेषि “च कामयस्व भक्षय वा ॥


कृ॒धि रत्नं॒ यज॑मानाय सुक्रतो॒ त्वं हि र॑त्न॒धा असि॑ ।

आ न॑ ऋ॒ते शि॑शीहि॒ विश्व॑मृ॒त्विजं॑ सु॒शंसो॒ यश्च॒ दक्ष॑ते ॥६

कृ॒धि । रत्न॑म् । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । त्वम् । हि । र॒त्न॒ऽधाः । असि॑ ।

आ । नः॒ । ऋ॒ते । शि॒शी॒हि॒ । विश्व॑म् । ऋ॒त्विज॑म् । सु॒ऽशंसः॑ । यः । च॒ । दक्ष॑ते ॥६

कृधि । रत्नम् । यजमानाय । सुक्रतो इति सुऽक्रतो । त्वम् । हि । रत्नऽधाः । असि ।

आ । नः । ऋते । शिशीहि । विश्वम् । ऋत्विजम् । सुऽशंसः । यः । च । दक्षते ॥६

हे "सुक्रतो शोभनकर्मन्नग्ने “यजमानाय मह्यं “रत्नं धनम्। 'श्वात्रं रत्नम्' इति धननामसु पाठात् । “कृधि कुरु। देहीत्यर्थः। “हि यस्मात् “त्वं “रत्नधाः रत्नस्य दाता “असि । “नः अस्माकम् “ऋते यज्ञे “विश्वं सर्वम् “ऋत्विजम् “आ “शिशीहि तीक्ष्णीकुरु । किंच “यः “सुशंसः सुस्तुतिरस्मत्पुत्रः “दक्षते वर्धते तं वर्धय । यद्वा । यः सुशंसो होता वर्धते तं वर्धयेत्यर्थः। होतुः पृथगुपादानमादरार्थम् ॥ ॥२१॥


त्वे अ॑ग्ने स्वाहुत प्रि॒यास॑ः सन्तु सू॒रय॑ः ।

य॒न्तारो॒ ये म॒घवा॑नो॒ जना॑नामू॒र्वान्दय॑न्त॒ गोना॑म् ॥७

त्वे इति॑ । अ॒ग्ने॒ । सु॒ऽआ॒हु॒त॒ । प्रि॒यासः॑ । स॒न्तु॒ । सू॒रयः॑ ।

य॒न्तारः॑ । ये । म॒घऽवा॑नः । जना॑नाम् । ऊ॒र्वान् । दय॑न्त । गोना॑म् ॥७

त्वे इति । अग्ने । सुऽआहुत । प्रियासः । सन्तु । सूरयः ।

यन्तारः । ये । मघऽवानः । जनानाम् । ऊर्वान् । दयन्त । गोनाम् ॥७

हे “अग्ने "स्वाहुत यजमानैः सुष्ठु आहुत “त्वे तव "सूरयः प्रेरकाः स्तोतारो वा “प्रियासः प्रियाः “सन्तु भवन्तु । किंच “ये “मघवानः धनवन्तः “यन्तारः प्रदातारः “जनानाम् अस्मदीयानाम् “ऊर्वान् समूहान् “गोनां गवां चोर्वान् “दयन्त प्रयच्छन्ति ते च तव प्रियासः सन्त्विति पूर्वेणान्वयः॥


येषा॒मिळा॑ घृ॒तह॑स्ता दुरो॒ण आँ अपि॑ प्रा॒ता नि॒षीद॑ति ।

ताँस्त्रा॑यस्व सहस्य द्रु॒हो नि॒दो यच्छा॑ न॒ः शर्म॑ दीर्घ॒श्रुत् ॥८

येषा॑म् । इळा॑ । घृ॒तऽह॑स्ता । दु॒रो॒णे । आ । अपि॑ । प्रा॒ता । नि॒ऽसीद॑ति ।

तान् । त्रा॒य॒स्व॒ । स॒ह॒स्य॒ । द्रु॒हः । नि॒दः । यच्छ॑ । नः॒ । शर्म॑ । दी॒र्घ॒ऽश्रुत् ॥८

येषाम् । इळा । घृतऽहस्ता । दुरोणे । आ । अपि । प्राता । निऽसीदति ।

तान् । त्रायस्व । सहस्य । द्रुहः । निदः । यच्छ । नः । शर्म । दीर्घऽश्रुत् ॥८

“येषां "दुरोणे गृहे "घृतहस्ता । घृतयुक्तो हस्तो यस्या असौ घृतहस्ता । घृतेनाभिघारितेत्यर्थः । “इळा अन्नरूपा हविर्लक्षणा देवी। 'इरा इळा' इत्यन्ननामसु पाठात् । “प्राता पूर्णा “आ “निषीदति आसीदति । “अपि इति पूरणः । “तान् हविष्मतो यजमानान् हे “सहस्य सहसे बलाय हिताग्ने “द्रुहः दोग्ध्रुः “निदः निन्दकाच्च शत्रोः “त्रायस्व । “नः अस्मभ्यं “दीर्घश्रुत् दीर्घकालं श्रोतव्यं “शर्म सुखं गृहं वा “यच्छ च देहि ॥


स म॒न्द्रया॑ च जि॒ह्वया॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः ।

अग्ने॑ र॒यिं म॒घव॑द्भ्यो न॒ आ व॑ह ह॒व्यदा॑तिं च सूदय ॥९

सः । म॒न्द्रया॑ । च॒ । जि॒ह्वया॑ । वह्निः॑ । आ॒सा । वि॒दुःऽत॑रः ।

अग्ने॑ । र॒यिम् । म॒घव॑त्ऽभ्यः । नः॒ । आ । व॒ह॒ । ह॒व्यऽदा॑तिम् । च॒ । सू॒द॒य॒ ॥९

सः । मन्द्रया । च । जिह्वया । वह्निः । आसा । विदुःऽतरः ।

अग्ने । रयिम् । मघवत्ऽभ्यः । नः । आ । वह । हव्यऽदातिम् । च । सूदय ॥९

हे “अग्ने “मन्द्रया “च मोदयित्र्या देवानाम् “आसा आस्यस्थानीयया “जिह्वया ज्वालया “वह्निः हविषां वोढा “विदुष्टरः विद्वत्तरः “सः प्रसिद्धस्त्वं “मघवद्भ्यः हविष्मद्भ्यः नः अस्मभ्यं “रयिं धनम् “आ “वह च । “हव्यदातिम् । हव्यानि ददातीति हव्यदातिर्यजमानः तम् । तथा च वाजसनेयिन आमनन्ति- 'यजमानो वै हव्यदातिः' (श. ब्रा. १. ४. १. २४) इति । "सूदय “च कर्मसु प्रेरय च ॥


ये राधां॑सि॒ दद॒त्यश्व्या॑ म॒घा कामे॑न॒ श्रव॑सो म॒हः ।

ताँ अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ॥१०

ये । राधां॑सि । दद॑ति । अश्व्या॑ । म॒घा । कामे॑न । श्रव॑सः । म॒हः ।

तान् । अंह॑सः । पि॒पृ॒हि॒ । प॒र्तृऽभिः॑ । त्वम् । श॒तम् । पूः॒ऽभिः । य॒वि॒ष्ठ्य॒ ॥१०

ये । राधांसि । ददति । अश्व्या । मघा । कामेन । श्रवसः । महः ।

तान् । अंहसः । पिपृहि । पर्तृऽभिः । त्वम् । शतम् । पूःऽभिः । यविष्ठ्य ॥१०

हे "यविष्ठ्य युवतमाग्ने “त्वं “ये यजमानाः "महः महतः “श्रवसः यशसः "कामेन इच्छया। यशस्कामाः सन्त इत्यर्थः । “राधांसि साधकानि “अश्व्या अश्वात्मकानि “मघा मघानि “ददति “तान् दातॄन् “अंहसः पापात् शत्रोर्वा “पर्तृभिः रक्षासाधनभूतैः “शतम् अपरिमिताभिः “पूर्भिः नगरीभिश्च “पिपृहि पालय ॥


दे॒वो वो॑ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिच॑म् ।

उद्वा॑ सि॒ञ्चध्व॒मुप॑ वा पृणध्व॒मादिद्वो॑ दे॒व ओ॑हते ॥११

दे॒वः । वः॒ । द्र॒वि॒णः॒ऽदाः । पू॒र्णाम् । वि॒व॒ष्टि॒ । आ॒ऽसिच॑म् ।

उत् । वा॒ । सि॒ञ्चध्व॑म् । उप॑ । वा॒ । पृ॒ण॒ध्व॒म् । आत् । इत् । वः॒ । दे॒वः । ओ॒ह॒ते॒ ॥११

देवः । वः । द्रविणःऽदाः । पूर्णाम् । विवष्टि । आऽसिचम् ।

उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥११

“द्रविणोदाः धनानां दाता “देवः अग्निः “वः युष्मदीयां “पूर्णां हविषा “आसिचम् आसिक्तां स्रुचं “विवष्टि कामयते । अतः “उत् “सिञ्चध्वं “वा सोमेन पात्रम् । “उप “पृणध्वं “वा सोमम् । वाशब्दौ समुच्चयार्थौ । ध्रुवग्रहेण होतृचमसं पूरयत चाग्नये सोमं यच्छत चेत्यर्थः । “आदित् अनन्तरमेव “देवः अग्निः “वः युष्मान् “ओहते वहति ॥


तं होता॑रमध्व॒रस्य॒ प्रचे॑तसं॒ वह्निं॑ दे॒वा अ॑कृण्वत ।

दधा॑ति॒ रत्नं॑ विध॒ते सु॒वीर्य॑म॒ग्निर्जना॑य दा॒शुषे॑ ॥१२

तम् । होता॑रम् । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसम् । वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ।

दधा॑ति । रत्न॑म् । वि॒ध॒ते । सु॒ऽवीर्य॑म् । अ॒ग्निः । जना॑य । दा॒शुषे॑ ॥१२

तम् । होतारम् । अध्वरस्य । प्रऽचेतसम् । वह्निम् । देवाः । अकृण्वत ।

दधाति । रत्नम् । विधते । सुऽवीर्यम् । अग्निः । जनाय । दाशुषे ॥१२

“देवाः 'प्रचेतसं प्रकृष्टमतिमग्निम् “अध्वरस्य यज्ञस्य “वह्निं वोढारं “होतारं च “अकृण्वत अकुर्वन् । किमर्थमित्यत आह । स च अग्निः “ विधते परिचरते “दाशुषे हविषां प्रदात्रे “जनाय “सुवीर्यं शोभनवीर्योपेतं “रत्नं रमणीयं धनं “दधाति ददात्वित्यर्थः ॥ ॥२२॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१६&oldid=270215" इत्यस्माद् प्रतिप्राप्तम्