ऋग्वेदः सूक्तं ७.१५

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.१४ ऋग्वेदः - मण्डल ७
सूक्तं ७.१५
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.१६ →
दे. अग्निः। गायत्री।


उपसद्याय मीळ्हुष आस्ये जुहुता हविः ।
यो नो नेदिष्ठमाप्यम् ॥१॥
यः पञ्च चर्षणीरभि निषसाद दमेदमे ।
कविर्गृहपतिर्युवा ॥२॥
स नो वेदो अमात्यमग्नी रक्षतु विश्वतः ।
उतास्मान्पात्वंहसः ॥३॥
नवं नु स्तोममग्नये दिवः श्येनाय जीजनम् ।
वस्वः कुविद्वनाति नः ॥४॥
स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा ।
अग्रे यज्ञस्य शोचतः ॥५॥
सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः ।
यजिष्ठो हव्यवाहनः ॥६॥
नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि ।
सुवीरमग्न आहुत ॥७॥
क्षप उस्रश्च दीदिहि स्वग्नयस्त्वया वयम् ।
सुवीरस्त्वमस्मयुः ॥८॥
उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः ।
उपाक्षरा सहस्रिणी ॥९॥
अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।
शुचिः पावक ईड्यः ॥१०॥
स नो राधांस्या भरेशानः सहसो यहो ।
भगश्च दातु वार्यम् ॥११॥
त्वमग्ने वीरवद्यशो देवश्च सविता भगः ।
दितिश्च दाति वार्यम् ॥१२॥
अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः ।
तपिष्ठैरजरो दह ॥१३॥
अधा मही न आयस्यनाधृष्टो नृपीतये ।
पूर्भवा शतभुजिः ॥१४॥
त्वं नः पाह्यंहसो दोषावस्तरघायतः ।
दिवा नक्तमदाभ्य ॥१५॥


सायणभाष्यम्

‘ उपसद्याय' इति पञ्चदशर्चं पञ्चदशं सूक्तं वसिष्ठस्यार्षं गायत्रमाग्नेयम् । तथा चानुक्रान्तम्-- ’ उपसद्याय पञ्चोना गायत्रम्' इति । प्रातरनुवाक आग्नेये क्रतौ गायत्रे छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च - उपसद्याय त्वमग्ने यज्ञानामिति तिस्र उत्तमा उद्धरेत्' (आश्व. श्रौ. ४.१३) इति । उपसदि पौर्वाह्णिक्याम् ‘उपसद्याय' इत्याद्यास्तिस्र ऋचः सामिधेन्यः। सूत्र्यते च -उपसद्याय मीळ्हुष इति तिस्र एकैकां त्रिरनवानम्' (आश्व. श्रौ. ४. ८) इति । पवित्रेष्ट्याम् ' अग्नी रक्षांसि' इत्येषा प्रथमाज्यभागानुवाक्या । सूत्रितं च--’ पावकवन्तावाज्यभागावग्नी रक्षांसि सेधति' (आश्व. श्रौ. २.१२) इति । अन्वारम्भणीयायामग्नेर्भगिनो याज्या । सूत्रितं च- आ सवं सवितुर्यथा स नो राधांस्या भर' (आश्व. श्रौ. २. ८) इति । स्वस्त्ययन्यामिष्टौ ‘अग्ने रक्षा णः' इति प्रथमाज्यभागानुवाक्या । सूत्रितं च - ‘स्वस्त्ययन्यां रक्षितवन्तावग्ने रक्षा णो अंहसः' (आश्व. श्रौ. २.१०) इति ॥


उ॒प॒सद्या॑य मी॒ळ्हुष॑ आ॒स्ये॑ जुहुता ह॒विः ।

यो नो॒ नेदि॑ष्ठ॒माप्यं॑ ॥१

उ॒प॒ऽसद्या॑य । मी॒ळ्हुषे॑ । आ॒स्ये॑ । जु॒हु॒त॒ । ह॒विः ।

यः । नः॒ । नेदि॑ष्ठम् । आप्य॑म् ॥

उपऽसद्याय । मीळ्हुषे । आस्ये । जुहुत । हविः ।

यः । नः । नेदिष्ठम् । आप्यम् ॥

हे अध्वर्यवः “उपसद्याय उपसदनीयाय "मीळ्हुषे कामानां वर्षित्रेऽग्नये तत्प्रीत्यर्थम् "आस्ये तस्यैव मुखे "हविः "जुहुत । "यः अग्निः "नेदिष्ठम् आसन्नतमम् "आप्यं भवति । आसन्नतमो बन्धुर्भवतीत्यर्थः । आप्यमिति स्वार्थिकस्तद्धितः ॥


यः पंच॑ चर्ष॒णीर॒भि नि॑ष॒साद॒ दमे॑दमे ।

क॒विर्गृ॒हप॑ति॒र्युवा॑ ॥२

यः । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । नि॒ऽस॒साद॑ । दमे॑ऽदमे ।

क॒विः । गृ॒हऽप॑तिः । युवा॑ ॥

यः । पञ्च । चर्षणीः । अभि । निऽससाद । दमेऽदमे ।

कविः । गृहऽपतिः । युवा ॥

"यः अग्निः "कविः प्राज्ञः "गृहपतिः गृहाणां पालयिता "युवा नित्यतरुणः सन् "पञ्च “चर्षणीः पञ्च जनान् मनुष्यान् "अभि अभिमुखं "दमेदमे गृहेगृहे "निषसाद निषीदति । उत्तरया वाक्यपरिसमाप्तिः ॥


स नो॒ वेदो॑ अ॒मात्य॑म॒ग्नी र॑क्षतु वि॒श्वतः॑ ।

उ॒तास्मान्पा॒त्वंह॑सः ॥३

सः । नः॒ । वेदः॑ । अ॒मात्य॑म् । अ॒ग्निः । र॒क्ष॒तु॒ । वि॒श्वतः॑ ।

उ॒त । अ॒स्मान् । पा॒तु॒ । अंह॑सः ॥

सः । नः । वेदः । अमात्यम् । अग्निः । रक्षतु । विश्वतः ।

उत । अस्मान् । पातु । अंहसः ॥

“सः "अग्निः "नः अस्माकं "वेदः धनम् "अमात्यम् अन्तिके भवं सहभूतं वा “विश्वतः सर्वतः बाधकात् "रक्षतु । "उत अपि च "अस्मान् वसिष्ठान् "अंहसः पापात् "पातु रक्षतु ॥


नवं॒ नु स्तोम॑म॒ग्नये॑ दि॒वः श्ये॒नाय॑ जीजनं ।

वस्वः॑ कु॒विद्व॒नाति॑ नः ॥४

नव॑म् । नु । स्तोम॑म् । अ॒ग्नये॑ । दि॒वः । श्ये॒नाय॑ । जी॒ज॒न॒म् ।

वस्वः॑ । कु॒वित् । व॒नाति॑ । नः॒ ॥

नवम् । नु । स्तोमम् । अग्नये । दिवः । श्येनाय । जीजनम् ।

वस्वः । कुवित् । वनाति । नः ॥

“दिवः द्युलोकस्य “श्येनाय श्येनसदृशाय "नु क्षिप्रं गन्त्रे "अग्नये यस्मै "नवं नूतनं "स्तोमं “जीजनं जनयामि सोऽग्निः "नः अस्मभ्यं "कुवित् बहु “वस्वः वसु धनम् । कर्मणि षष्ठी । “वनाति । ददात्वित्यर्थः ॥


स्पा॒र्हा यस्य॒ श्रियो॑ दृ॒शे र॒यिर्वी॒रव॑तो यथा ।

अग्रे॑ य॒ज्ञस्य॒ शोच॑तः ॥५

स्पा॒र्हाः । यस्य॑ । श्रियः॑ । दृ॒शे । र॒यिः । वी॒रऽव॑तः । य॒था॒ ।

अग्रे॑ । य॒ज्ञस्य॑ । शोच॑तः ॥

स्पार्हाः । यस्य । श्रियः । दृशे । रयिः । वीरऽवतः । यथा ।

अग्रे । यज्ञस्य । शोचतः ॥

"यज्ञस्य "अग्रे पुरस्ताद्भागे “शोचतः दीप्यमानस्य "यस्य अग्नेः "श्रियः दीप्तयः "वीरवतः पुत्रवतः "रयिः धनं "यथा तद्वत् "दृशे द्रष्टुं चक्षुषे वा "स्पार्हाः स्पृहणीया भवन्ति तस्मै नवं स्तोमं जीजनमित्यनुषङ्गः । उत्तरत्र संबन्धो वा ॥ ॥ १८ ॥


सेमां वे॑तु॒ वष॑ट्कृतिम॒ग्निर्जु॑षत नो॒ गिरः॑ ।

यजि॑ष्ठो हव्य॒वाह॑नः ॥६

सः । इ॒माम् । वे॒तु॒ । वष॑ट्ऽकृतिम् । अ॒ग्निः । जु॒ष॒त॒ । नः॒ । गिरः॑ ।

यजि॑ष्ठः । ह॒व्य॒ऽवाह॑नः ॥

सः । इमाम् । वेतु । वषट्ऽकृतिम् । अग्निः । जुषत । नः । गिरः ।

यजिष्ठः । हव्यऽवाहनः ॥

"यजिष्ठः यजनीयतमो यष्टृतमो वा "हव्यवाहनः हव्यानां हविषां वोढा "सः "अग्निः “इमां “वषट्कृतिम् अस्माभिर्दीयमानामाहुतिं “वेतु कामयतां भक्षयतु वा । “नः अस्माकं "गिरः स्तुतीश्च "जुषत सेवताम् ॥


नि त्वा॑ नक्ष्य विश्पते द्यु॒मंतं॑ देव धीमहि ।

सु॒वीर॑मग्न आहुत ॥७

नि । त्वा॒ । न॒क्ष्य॒ । वि॒श्प॒ते॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । धी॒म॒हि॒ ।

सु॒ऽवीर॑म् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ ॥

नि । त्वा । नक्ष्य । विश्पते । द्युऽमन्तम् । देव । धीमहि ।

सुऽवीरम् । अग्ने । आऽहुत ॥

"नक्ष्य उपगन्तव्य । नक्षतिर्व्याप्तिकर्मा। "विश्पते विशां पते "देव द्योतमान "आहुत सर्वैर्यजमानैरभिहुत हे "अग्ने "द्युमन्तं दीप्तिमन्तं "सुवीरं कल्याणस्तोतृकं "त्वा त्वां वयं "नि “धीमहि निहितवन्तः ॥


क्षप॑ उ॒स्रश्च॑ दीदिहि स्व॒ग्नय॒स्त्वया॑ व॒यं ।

सु॒वीर॒स्त्वम॑स्म॒युः ॥८

क्षपः॑ । उ॒स्रः । च॒ । दी॒दि॒हि॒ । सु॒ऽअ॒ग्नयः॑ । त्वया॑ । व॒यम् ।

सु॒ऽवीरः॑ । त्वम् । अ॒स्म॒ऽयुः ॥

क्षपः । उस्रः । च । दीदिहि । सुऽअग्नयः । त्वया । वयम् ।

सुऽवीरः । त्वम् । अस्मऽयुः ॥

हे अग्ने त्वं “क्षपः रात्रीः "उस्रः अहानि च । सर्वदेति यावत् । "दीदिहि दीप्यस्व। दीप्यमानेन “त्वया “वयं वसिष्ठाः "स्वग्नयः शोभमानाग्नयो भवाम । "अस्मयुः अस्मान् कामयमानः ॥ ‘सुप आत्मनः क्यच्' इति क्यचि कृते ‘क्याच्छन्दसि ' इत्युप्रत्ययः । दकारलोपश्छान्दसः । तथा च यास्कः’ अस्मयुरस्मान् कामयमानः ' ( निरु. ६:२१ ) इति ॥ "त्वं "सुवीरः सुस्तोतृको भव ॥


उप॑ त्वा सा॒तये॒ नरो॒ विप्रा॑सो यंति धी॒तिभिः॑ ।

उपाक्ष॑रा सह॒स्रिणी॑ ॥९

उप॑ । त्वा॒ । सा॒तये॑ । नरः॑ । विप्रा॑सः । य॒न्ति॒ । धी॒तिऽभिः॑ ।

उप॑ । अक्ष॑रा । स॒ह॒स्रिणी॑ ॥

उप । त्वा । सातये । नरः । विप्रासः । यन्ति । धीतिऽभिः ।

उप । अक्षरा । सहस्रिणी ॥

हे अग्ने “त्वा त्वां "नरः नेतारो यजमानाः "विप्रासः विप्रा मेधाविनः “धीतिभिः कर्मभिः “सातये धनाय कामानां लाभाय वा “उप "यन्ति उपगच्छन्ति । "सहस्रिणी सहस्रसंख्याका “अक्षरा क्षयरहिता स्तुतिरूपा अस्मदीया वाक् त्वाम् “उप याति च ॥


अ॒ग्नी रक्षां॑सि सेधति शु॒क्रशो॑चि॒रम॑र्त्यः ।

शुचिः॑ पाव॒क ईड्यः॑ ॥१०

अ॒ग्निः । रक्षां॑सि । से॒ध॒ति॒ । शु॒क्रऽशो॑चिः । अम॑र्त्यः ।

शुचिः॑ । पा॒व॒कः । ईड्यः॑ ॥

अग्निः । रक्षांसि । सेधति । शुक्रऽशोचिः । अमर्त्यः ।

शुचिः । पावकः । ईड्यः ॥

“शुक्रशोचिः शुभ्रज्वालः “अमर्त्यः मरणरहितो देवतात्मा “शुचिः स्वयं शुद्धः "पावकः अन्येषामपि शोधकः "ईड्यः स्तुत्यः "अग्निः "रक्षांसि राक्षसान् "सेधति बाधताम् ॥ ॥ १९ ॥


स नो॒ राधां॒स्या भ॒रेशा॑नः सहसो यहो ।

भग॑श्च दातु॒ वार्यं॑ ॥११

सः । नः॒ । राधां॑सि । आ । भ॒र॒ । ईशा॑नः । स॒ह॒सः॒ । य॒हो॒ इति॑ ।

भगः॑ । च॒ । दा॒तु॒ । वार्य॑म् ॥

सः । नः । राधांसि । आ । भर । ईशानः । सहसः । यहो इति ।

भगः । च । दातु । वार्यम् ॥

हे "सहसो “यहो बलस्य पुत्राग्ने “सः प्रसिद्धस्त्वम् "ईशानः सर्वस्य जगतः। ईश्वरः सन् "नः अस्मभ्यं "राधांसि धनानि । ‘रायो राधः' इति धननामसु पाठात् । “आ “भर आहर । "भगश्च भगो देवोऽपि “वार्यं धनं “दातु अस्मभ्यं ददातु । अभ्यासलोपश्छान्दसः। भगोऽत्र सूक्ते निपातभागिनी देवता ॥


त्वम॑ग्ने वी॒रव॒द्यशो॑ दे॒वश्च॑ सवि॒ता भगः॑ ।

दिति॑श्च दाति॒ वार्यं॑ ॥१२

त्वम् । अ॒ग्ने॒ । वी॒रऽव॑त् । यशः॑ । दे॒वः । च॒ । स॒वि॒ता । भगः॑ ।

दितिः॑ । च॒ । दा॒ति॒ । वार्य॑म् ॥

त्वम् । अग्ने । वीरऽवत् । यशः । देवः । च । सविता । भगः ।

दितिः । च । दाति । वार्यम् ॥

हे “अग्ने “त्वं “वीरवत् पुत्रपौत्रोपेतं “यशः अन्नं देहीति शेषः । “देवश्च “सविता सविता देवोऽपि “वार्यं वरणीयं धनं “दाति ददातु । “भगः च देवोऽपि ददातु । “दितिश्च दितिरपि देवी ददातु। सवित्रादिः सूक्ते निपातभागिनी देवता ॥


अग्ने॒ रक्षा॑ णो॒ अंह॑सः॒ प्रति॑ ष्म देव॒ रीष॑तः ।

तपि॑ष्ठैर॒जरो॑ दह ॥१३

अग्ने॑ । रक्ष॑ । नः॒ । अंह॑सः । प्रति॑ । स्म॒ । दे॒व॒ । रिष॑तः ।

तपि॑ष्ठैः । अ॒जरः॑ । द॒ह॒ ॥

अग्ने । रक्ष । नः । अंहसः । प्रति । स्म । देव । रिषतः ।

तपिष्ठैः । अजरः । दह ॥

हे “अग्ने त्वं “नः अस्मान् “अंहसः पापात् "रक्ष पाहि । संहितायां दीर्घश्छान्दसः । अपि च हे "देव द्योतमानाग्ने “अजरः जरारहितस्त्वं “रिषतः हिंसतः शत्रून् "तपिष्ठैः अतिशयेन तापकैस्तेजोभिः "दह भस्मीकुरु ॥


अधा॑ म॒ही न॒ आय॒स्यना॑धृष्टो॒ नृपी॑तये ।

पूर्भ॑वा श॒तभु॑जिः ॥१४

अग्ने॑ । म॒ही । नः॒ । आय॑सी । अना॑धृष्टः । नृऽपी॑तये ।

पूः । भ॒व॒ । श॒तऽभु॑जिः ॥

अग्ने । मही । नः । आयसी । अनाधृष्टः । नृऽपीतये ।

पूः । भव । शतऽभुजिः ॥

“अध अधुना हे अग्ने “अनाधृष्टः अप्रतिधर्षणीयस्त्वं “नः अस्माकं “नृपीतये नृणां रक्षणार्थं “मही महती “आयसी अयसा निर्मिता “शतभुजिः अत्यन्तं विस्तृता शतगुणा “पूः पुरी । तद्रक्षासाधनभूतप्राकारादिर्वा पूरुच्यते। “भव । यथायसा निर्मिता पुरी तद्रक्षासाधनभूतप्राकारादिर्वा शत्रुभ्यो भीतान् रक्षति तद्वद्राक्षसेभ्यो भीतानस्मान् पाहीत्यर्थः ॥


त्वं नः॑ पा॒ह्यंह॑सो॒ दोषा॑वस्तरघाय॒तः ।

दिवा॒ नक्त॑मदाभ्य ॥१५

त्वम् । नः॒ । पा॒हि॒ । अंह॑सः । दोषा॑ऽवस्तः । अ॒घ॒ऽय॒तः ।

दिवा॑ । नक्त॑म् । अ॒दा॒भ्य॒ ॥

त्वम् । नः । पाहि । अंहसः । दोषाऽवस्तः । अघऽयतः ।

दिवा । नक्तम् । अदाभ्य ॥

हे “अदाभ्य अहिंस्य "दोषावस्तः रात्रेराच्छादयितः । तमसो वारयितरित्यर्थः । अग्ने “त्वं “नः अस्मान् “अंहसः पापात् "अघायतः पापमिच्छतः शत्रोश्च “दिवा “नक्तम् अहनि रात्रौ च सर्वदा “पाहि रक्ष ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१५&oldid=166951" इत्यस्माद् पुनः प्राप्तिः