ऋग्वेदः सूक्तं ७.१३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.१२ ऋग्वेदः - मण्डल ७
सूक्तं ७.१३
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.१४ →
दे. वैश्वानरोऽग्निः। त्रिष्टुप्।



प्राग्नये विश्वशुचे धियंधेऽसुरघ्ने मन्म धीतिं भरध्वम् ।
भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् ॥१॥
त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः ।
त्वं देवाँ अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥२॥
जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा ।
वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः सदा नः ॥३॥


सायणभाष्यम्

‘प्राग्नये' इति तृचं त्रयोदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वानराग्निदेवताकम् । तथा चानुक्रान्तं -- ’ प्राग्नये वैश्वानरीयम्' इति । विनियोगो लैङ्गिकः ॥


प्राग्नये॑ विश्व॒शुचे॑ धियं॒धे॑ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वं ।

भरे॑ ह॒विर्न ब॒र्हिषि॑ प्रीणा॒नो वै॑श्वान॒राय॒ यत॑ये मती॒नां ॥१

प्र । अ॒ग्नये॑ । वि॒श्व॒ऽशुचे॑ । धि॒य॒म्ऽधे॑ । अ॒सु॒र॒ऽघ्ने । मन्म॑ । धी॒तिम् । भ॒र॒ध्व॒म् ।

भरे॑ । ह॒विः । न । ब॒र्हिषि॑ । प्री॒णा॒नः । वै॒श्वा॒न॒राय॑ । यत॑ये । म॒ती॒नाम् ॥

प्र । अग्नये । विश्वऽशुचे । धियम्ऽधे । असुरऽघ्ने । मन्म । धीतिम् । भरध्वम् ।

भरे । हविः । न । बर्हिषि । प्रीणानः । वैश्वानराय । यतये । मतीनाम् ॥

हे सखायः "विश्वशुचे विश्वं यो दीपयति तस्मै "धियंधे धियां कर्मणां यो धाता तस्मै "असुरघ्ने असुराणां यो हन्ता तस्मै “अग्नये "मन्म मननीयं स्तोत्रं “धीतिं कर्म च “प्र “भरध्वम् । "मतीनाम् अभिमतानां कामानां "यतये दात्रे "वैश्वानराय विश्वनरहितायाग्निविशेषाय “बर्हिषि यज्ञे "हविर्न हविरिव स्तुतिं "प्रीणानः प्रीयमाणोऽहं "भरे भरामि । यद्वा । हविः प्रीणानः प्रीणयन्नहं बर्हिषि हविर्भरे संभरामि । नेति संप्रत्यर्थे ।


त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः ।

त्वं दे॒वाँ अ॒भिश॑स्तेरमुंचो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥२

त्वम् । अ॒ग्ने॒ । शो॒चिषा॑ । शोशु॑चानः । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णाः॒ । जाय॑मानः ।

त्वम् । दे॒वान् । अ॒भिऽश॑स्तेः । अ॒मु॒ञ्चः॒ । वैश्वा॑नर । जा॒त॒ऽवे॒दः॒ । म॒हि॒ऽत्वा ॥

त्वम् । अग्ने । शोचिषा । शोशुचानः । आ । रोदसी इति । अपृणाः । जायमानः ।

त्वम् । देवान् । अभिऽशस्तेः । अमुञ्चः । वैश्वानर । जातऽवेदः । महिऽत्वा ॥

हे "अग्ने "त्वं "शोचिषा दीप्त्या “शोशुचानः दीप्यमानः “जायमानः जायमान एव "रोदसी द्यावापृथिव्यौ "आ “अपृणाः आपूरयः । अपि च "जातवेदः जातप्रज्ञ जातधन वा “वैश्वानर विश्वनरहित हे अग्ने “त्वं “देवान् "महित्वा महत्त्वेन “अभिशस्तेः अभिशंसकात् शत्रोः "अमुञ्चः अमोचयः ॥


जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शून्न गो॒पा इर्यः॒ परि॑ज्मा ।

वैश्वा॑नर॒ ब्रह्म॑णे विंद गा॒तुं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥३

जा॒तः । यत् । अ॒ग्ने॒ । भुव॑ना । वि । अख्यः॑ । प॒शून् । न । गो॒पाः । इर्यः॑ । परि॑ऽज्मा ।

वैश्वा॑नर । ब्रह्म॑णे । वि॒न्द॒ । गा॒तुम् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

जातः । यत् । अग्ने । भुवना । वि । अख्यः । पशून् । न । गोपाः । इर्यः । परिऽज्मा ।

वैश्वानर । ब्रह्मणे । विन्द । गातुम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

हे "अग्ने "जातः सूर्यात्मना जातस्त्वम् “इर्यः स्वामी प्रेरयन् वा "परिज्मा परितो गन्ता सन् “पशून्न “गोपाः । यथा गवां पालकः पशून् पश्यति तद्वत् । "यत् यदा "भुवना भूतानि “व्यख्यः रक्षार्थं पश्यसि तदा “ब्रह्मणे । ब्रह्म स्तोत्रम् । तदर्थं "गातुं गतिं फलप्राप्तिं “विन्द । यद्वा । ब्रह्मणे ब्राह्मणार्थं गातुं विन्द । येन ब्राह्मणा उपद्रवान्निर्गच्छन्ति तं गातुं विन्देत्यर्थः । स्पष्टमन्यत् ॥ ॥ १६ ॥

[सम्पाद्यताम्]


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.१३&oldid=167536" इत्यस्माद् पुनः प्राप्तिः