ऋग्वेदः सूक्तं ७.१३
← सूक्तं ७.१२ | ऋग्वेदः - मण्डल ७ सूक्तं ७.१३ मैत्रावरुणिर्वसिष्ठः। |
सूक्तं ७.१४ → |
दे. वैश्वानरोऽग्निः। त्रिष्टुप्। |
प्राग्नये विश्वशुचे धियंधेऽसुरघ्ने मन्म धीतिं भरध्वम् ।
भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् ॥१॥
त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः ।
त्वं देवाँ अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥२॥
जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा ।
वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः सदा नः ॥३॥
सायणभाष्यम्
‘प्राग्नये' इति तृचं त्रयोदशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वानराग्निदेवताकम् । तथा चानुक्रान्तं -- ’ प्राग्नये वैश्वानरीयम्' इति । विनियोगो लैङ्गिकः ॥
प्राग्नये॑ विश्व॒शुचे॑ धियं॒धे॑ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वं ।
भरे॑ ह॒विर्न ब॒र्हिषि॑ प्रीणा॒नो वै॑श्वान॒राय॒ यत॑ये मती॒नां ॥१
प्र । अ॒ग्नये॑ । वि॒श्व॒ऽशुचे॑ । धि॒य॒म्ऽधे॑ । अ॒सु॒र॒ऽघ्ने । मन्म॑ । धी॒तिम् । भ॒र॒ध्व॒म् ।
भरे॑ । ह॒विः । न । ब॒र्हिषि॑ । प्री॒णा॒नः । वै॒श्वा॒न॒राय॑ । यत॑ये । म॒ती॒नाम् ॥१
प्र । अग्नये । विश्वऽशुचे । धियम्ऽधे । असुरऽघ्ने । मन्म । धीतिम् । भरध्वम् ।
भरे । हविः । न । बर्हिषि । प्रीणानः । वैश्वानराय । यतये । मतीनाम् ॥१
हे सखायः "विश्वशुचे विश्वं यो दीपयति तस्मै "धियंधे धियां कर्मणां यो धाता तस्मै "असुरघ्ने असुराणां यो हन्ता तस्मै “अग्नये "मन्म मननीयं स्तोत्रं “धीतिं कर्म च “प्र “भरध्वम् । "मतीनाम् अभिमतानां कामानां "यतये दात्रे "वैश्वानराय विश्वनरहितायाग्निविशेषाय “बर्हिषि यज्ञे "हविर्न हविरिव स्तुतिं "प्रीणानः प्रीयमाणोऽहं "भरे भरामि । यद्वा । हविः प्रीणानः प्रीणयन्नहं बर्हिषि हविर्भरे संभरामि । नेति संप्रत्यर्थे ।
त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः ।
त्वं दे॒वाँ अ॒भिश॑स्तेरमुंचो॒ वैश्वा॑नर जातवेदो महि॒त्वा ॥२
त्वम् । अ॒ग्ने॒ । शो॒चिषा॑ । शोशु॑चानः । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णाः॒ । जाय॑मानः ।
त्वम् । दे॒वान् । अ॒भिऽश॑स्तेः । अ॒मु॒ञ्चः॒ । वैश्वा॑नर । जा॒त॒ऽवे॒दः॒ । म॒हि॒ऽत्वा ॥२
त्वम् । अग्ने । शोचिषा । शोशुचानः । आ । रोदसी इति । अपृणाः । जायमानः ।
त्वम् । देवान् । अभिऽशस्तेः । अमुञ्चः । वैश्वानर । जातऽवेदः । महिऽत्वा ॥२
हे "अग्ने "त्वं "शोचिषा दीप्त्या “शोशुचानः दीप्यमानः “जायमानः जायमान एव "रोदसी द्यावापृथिव्यौ "आ “अपृणाः आपूरयः । अपि च "जातवेदः जातप्रज्ञ जातधन वा “वैश्वानर विश्वनरहित हे अग्ने “त्वं “देवान् "महित्वा महत्त्वेन “अभिशस्तेः अभिशंसकात् शत्रोः "अमुञ्चः अमोचयः ॥
जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शून्न गो॒पा इर्यः॒ परि॑ज्मा ।
वैश्वा॑नर॒ ब्रह्म॑णे विंद गा॒तुं यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥३
जा॒तः । यत् । अ॒ग्ने॒ । भुव॑ना । वि । अख्यः॑ । प॒शून् । न । गो॒पाः । इर्यः॑ । परि॑ऽज्मा ।
वैश्वा॑नर । ब्रह्म॑णे । वि॒न्द॒ । गा॒तुम् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥३
जातः । यत् । अग्ने । भुवना । वि । अख्यः । पशून् । न । गोपाः । इर्यः । परिऽज्मा ।
वैश्वानर । ब्रह्मणे । विन्द । गातुम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥३
हे "अग्ने "जातः सूर्यात्मना जातस्त्वम् “इर्यः स्वामी प्रेरयन् वा "परिज्मा परितो गन्ता सन् “पशून्न “गोपाः । यथा गवां पालकः पशून् पश्यति तद्वत् । "यत् यदा "भुवना भूतानि “व्यख्यः रक्षार्थं पश्यसि तदा “ब्रह्मणे । ब्रह्म स्तोत्रम् । तदर्थं "गातुं गतिं फलप्राप्तिं “विन्द । यद्वा । ब्रह्मणे ब्राह्मणार्थं गातुं विन्द । येन ब्राह्मणा उपद्रवान्निर्गच्छन्ति तं गातुं विन्देत्यर्थः । स्पष्टमन्यत् ॥ ॥ १६ ॥
मण्डल ७ | ||||||
---|---|---|---|---|---|---|