ऋग्वेदः मण्डल ७

विकिस्रोतः तः
Jump to navigation Jump to search
ऋग्वेदः — ऋग्वेदः मण्डल ७


रथन्तरम्
वसिष्ठः

[सम्पाद्यताम्]

टिप्पणी

वसिष्ठोपरि पौराणिकाः संदर्भाः

वसिष्ठोपरि टिप्पणी एवं वैदिकसंदर्भाः

ब्रह्माण्डपुराणे १.१.५.७६ एवं वायुपुराणे ९.१००/१.९.९४ कथनमस्ति यत् ब्रह्मणः समानप्राणतः वसिष्ठऋषेः उत्पत्तिरभवत्। वसिष्ठऋषेः कार्यं समानप्राणस्य पूरणमेव अस्ति। समानप्राणः किं भवति, अस्मिन् विषये प्रत्यक्षरूपेण सूचना उपलब्धा नास्ति। कथनमस्ति – यस्य वायोः देहे समानरूपस्य व्याप्तिः अस्ति, तत् समानप्राणः। आधुनिकविज्ञानानुसारे समानप्राणस्य अभिगमयितुं श्री गोवान कृतस्य अन्वेषणः Gowan उपयोगी अस्ति। श्री गोवानकृतस्य अन्वेषणस्य सारं अयं प्रतीयते – कस्मिंश्चित् काले यदा महत् विस्फोटस्य कारणे द्रव्यस्य समष्टितः विच्छेदनं अभूत्, तदा द्रव्यस्य परितः तस्य अङ्गभूता या सममिति आसीत्, तस्यापि विच्छेदनमभवत्। किन्तु तत् सममितिः छायारूपेण द्रव्योपरि अद्यापि विद्यमाना अस्ति। महिला नोएथरस्य गणितप्रतिपत्ति अनुसारेण सममितिः अक्षरा अस्ति, अनष्टव्या अस्ति। द्रव्योपरि सा विद्युदावेशरूपेण विद्यमाना अस्ति। यः विद्युदावेशः अस्ति, तत् महद्रूपे सूर्यस्य आलोकः अस्ति। श्री गोवानस्य यः कथनं स्थूलद्रव्यस्य संदर्भे सत्यमस्ति, तत् जङ्गमप्राणिनां विषयेपि सत्यं अस्ति। जीवस्य सममिति ईश्वरे अथवा सूर्ये अथवा समष्ट्यां निहिता अस्ति। तस्याः संवर्धनं केन प्रकारेण करणीयं अस्ति। अस्मिन् संदर्भे सामवेदे रथन्तरसाम्नः अस्तित्वं अस्ति। स्थूलद्रव्यस्य संदर्भे तस्य सममितिः वैद्युतावेशे निहिता अस्ति। किन्तु स्थावर एवं जङ्गमप्राणिनां विषये सममित्याः विश्लेषणं ब्रह्माण्डादिपुराणेषु (ब्रह्माण्डपुराणम् १.१.५.६१, पद्मपुराणम् १.३.७३ , लिङ्गपुराणम् १.७०.१५८ ) कृतमस्ति। अस्मिन् ब्रह्माण्डे ब्रह्मणः प्रवेशं चतुर्धा व्यभवत् –

विपर्ययेण शक्त्या च बुद्ध्या सिद्ध्या तथैव च ।

स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तितः ॥

सिद्धात्मानो मनुष्यास्तु पुष्टिर्देवेषु कृत्स्नशः ।

यः स्थूलद्रव्यस्य क्रिस्टलः भवति, तस्मिन् विपर्ययप्रकारस्य सममितिः द्रष्टव्यमस्ति। वनस्पति एवं अन्यप्राणिषु अपि विपर्यासः अङ्गानां विपर्यासरूपेण द्रष्टव्यमस्ति। एकः हस्तः द्वितीयस्य विपर्ययः ( दर्पण सममिति) अस्ति। अतएव सममित्याः ये चत्वार्यः प्रकाराः कथिताः सन्ति, तेषां विद्यमानता अणु-अणु उपरि भवितुं संभाव्यते। यदि सा सममितिः प्रत्यक्षरूपेण द्रष्टव्या नास्ति, तदा तस्याः प्रत्यक्षीकरणस्य आवश्यकता अस्ति।

रथन्तरसाम्नः समानप्राणतः कः सम्बन्धमस्ति। अस्मिन् विषये ऐतरेयआरण्यक १.४.२ स्य कथनं उल्लेखनीयमस्ति। अनेनानुसारेण यः रथन्तरमस्ति, तत् ऊनमस्ति। यः बृहत् अस्ति, तत् अतिरिक्तमस्ति। अतएव, बृहत् सामः रथन्तरसाम्नः वृषा, रेतःसेचकः अस्ति। सूर्यः बृहत् सामः अस्ति। पृथिवी यदा गौरूपे रूपान्तरिता भवति, तदा सा रथन्तरः भवति। अतएव सूर्यस्य ज्योतिः रथन्तररूपायाः पृथिव्याः भरणं करोति। रथन्तरस्य विषये जैमिनीयब्राह्मणे कथनं (द्र. रथन्तरोपरि टिप्पणी ) अस्ति यत् गोरूपा पृथिवी केवलं आदाता नास्ति, अपितु सा स्वद्रव्याणां रूपान्तरणं स्वदुग्धरूपे करोति एवं तेन दुग्धेन स्ववत्सस्य आदित्यस्य भरणं करोति। कथनमस्ति यत् रथन्तरसामे ये भा भादि अक्षराः सन्ति, तेभिः सा गौः आदित्यं वत्सं स्वमुखे धारणं करोति।

समानप्राणस्य विषये पुराणेषु उल्लेखमस्ति यत् आवसथ्य अग्निः समानप्राणस्य रूपमस्ति। आवसथ्योपरि टिप्पणी द्रष्टव्यमस्ति।


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_मण्डल_७&oldid=196191" इत्यस्माद् पुनः प्राप्तिः