ऋग्वेदः सूक्तं ७.७४

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.७३ ऋग्वेदः - मण्डल ७
सूक्तं ७.७४
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.७५ →
दे. अश्विनौ। प्रगाथः - (विषमा बृहती, समा सतोबृहती)


इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना ।
अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥१॥
युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते ।
अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥२॥
आ यातमुप भूषतं मध्वः पिबतमश्विना ।
दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतम् ॥३॥
अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति बिभ्रतः ।
मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू ॥४॥
अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः ।
ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्या ॥५॥
प्र ये ययुरवृकासो रथा इव नृपातारो जनानाम् ।
उत स्वेन शवसा शूशुवुर्नर उत क्षियन्ति सुक्षितिम् ॥६॥

सायणभाष्यम्

‘इमा उ वाम्' इति षडृचं चतुर्थं सूक्तमाश्विनं वसिष्ठस्यार्षम् । आद्यातृतीयापञ्चम्यो बृहत्यः शिष्टाः सतोबृहत्यः । तथा चानुक्रान्तम्-’इमा उ वां षट् प्रागाथम् ' इति । प्रातरनुवाक आश्विने क्रतौ बार्हते छन्दस्याश्विनशस्त्रे च सूक्तम् । सूत्रितं च--- इमा उ वामयं वाम् ' (आश्व. श्रौ. ४. १५) इति । दशरात्रे पञ्चमेऽहनि प्रउगशस्त्रे 'इमा उ वाम्' इत्ययमाश्विनस्तृचः। सूत्रितं च---’इमा उ वां दिविष्टयः पिबा सुतस्य रसिनः' (आश्व. श्रौ. ७. १२) इति ॥


इ॒मा उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वंते अश्विना ।

अ॒यं वा॑म॒ह्वेऽव॑से शचीवसू॒ विशं॑विशं॒ हि गच्छ॑थः ॥१

इ॒माः । ऊं॒ इति॑ । वा॒म् । दिवि॑ष्टयः । उ॒स्रा । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ।

अ॒यम् । वा॒म् । अ॒ह्वे॒ । अव॑से । श॒ची॒व॒सू॒ इति॑ शचीऽवसू । विश॑म्ऽविशम् । हि । गच्छ॑थः ॥

इमाः । ऊं इति । वाम् । दिविष्टयः । उस्रा । हवन्ते । अश्विना ।

अयम् । वाम् । अह्वे । अवसे । शचीवसू इति शचीऽवसू । विशम्ऽविशम् । हि । गच्छथः ॥

“इमाः “दिविष्टयः दिवमिच्छन्त्यः प्रजाः ऋत्विजोऽपि । “उ इति चार्थे । हे “अश्विना “उस्रा वासकौ “वां हवन्ते आह्वयन्ति । “अयं वसिष्ठोऽपि हे “शचीवसू कर्मधनौ “वां युवाम् “अवसे अस्मद्रक्षणाय युवयोस्तर्पणाय वा “अह्वे आह्वयामि । किमर्थमेवं प्रजा अप्यहमपीत्यादरोक्तिरिति तत्राह । “हि यस्मात्कारणाद्युवां विशंविशं प्रजां प्रजां प्रति "गच्छथः ॥


यु॒वं चि॒त्रं द॑दथु॒र्भोज॑नं नरा॒ चोदे॑थां सू॒नृता॑वते ।

अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ॥२

यु॒वम् । चि॒त्रम् । द॒द॒थुः॒ । भोज॑नम् । न॒रा॒ । चोदे॑थाम् । सू॒नृता॑ऽवते ।

अ॒र्वाक् । रथ॑म् । सऽम॑नसा । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥

युवम् । चित्रम् । ददथुः । भोजनम् । नरा । चोदेथाम् । सूनृताऽवते ।

अर्वाक् । रथम् । सऽमनसा । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ॥

हे अश्विनौ “युवं युवां “चित्रं चायनीयं “भोजनं धनं “ददथुः धारयेथे। तद्धनं “सूनृतावते स्तुतिवते स्तोत्रे “चोदेथां प्रेरयतम् । तदर्थं "समनसा समानमनस्कौ सन्तौ “रथं युवयोः संबन्धिनम् “अर्वाङ् अस्मदभिमुखं “नि “यच्छतं नियमयतम् । तथा कृत्वा "सोम्यं सोमसंबन्धिनं “मधु मधुररसं पिबतम् ।।


आ या॑त॒मुप॑ भूषतं॒ मध्वः॑ पिबतमश्विना ।

दु॒ग्धं पयो॑ वृषणा जेन्यावसू॒ मा नो॑ मर्धिष्ट॒मा ग॑तं ॥३

आ । या॒त॒म् । उप॑ । भू॒ष॒त॒म् । मध्वः॑ । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ।

दु॒ग्धम् । पयः॑ । वृ॒ष॒णा॒ । जे॒न्या॒व॒सू॒ इति॑ । मा । नः॒ । म॒र्धि॒ष्ट॒म् । आ । ग॒त॒म् ॥

आ । यातम् । उप । भूषतम् । मध्वः । पिबतम् । अश्विना ।

दुग्धम् । पयः । वृषणा । जेन्यावसू इति । मा । नः । मर्धिष्टम् । आ । गतम् ॥

हे “अश्विना युवाम् आ “यातम् आगच्छतम् । आगत्य स "उप समीपे “भूषतं भवतम् । “मध्वः मधुरं सोमरसं “पिबतम् । पीत्वा च हे “वृषणा वर्षकौ हे "जेन्यावसू जेतव्यधनौ । जितधनावित्यर्थः । युवां “पयः वृष्ट्युदकमन्तरिक्षात् “दुग्धम् । “नः अस्मान् “मा “मर्धिष्टं मा हिंस्तम् । ईदृशप्रार्थनाकरणमेव हिंसा' । “आ “गतम् आगच्छतं शीघ्रम् ॥


अश्वा॑सो॒ ये वा॒मुप॑ दा॒शुषो॑ गृ॒हं यु॒वां दीयं॑ति॒ बिभ्र॑तः ।

म॒क्षू॒युभि॑र्नरा॒ हये॑भिरश्वि॒ना दे॑वा यातमस्म॒यू ॥४

अश्वा॑सः । ये । वा॒म् । उप॑ । दा॒शुषः॑ । गृ॒हम् । यु॒वाम् । दीय॑न्ति । बिभ्र॑तः ।

म॒क्षु॒युऽभिः॑ । न॒रा॒ । हये॑भिः । अ॒श्वि॒ना॒ । आ । दे॒वा॒ । या॒त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥

अश्वासः । ये । वाम् । उप । दाशुषः । गृहम् । युवाम् । दीयन्ति । बिभ्रतः ।

मक्षुयुऽभिः । नरा । हयेभिः । अश्विना । आ । देवा । यातम् । अस्मयू इत्यस्मऽयू ॥

"ये अश्वासः अश्वाः “वां युवयोः स्वभूताः “दाशुषः हविर्दातुः “गृहं “युवां “बिभ्रतः धारयन्तः "दीयन्ति । गमयन्तीत्यर्थः। “मक्षूयुभिः शीघ्रगन्तृभिः “हयेभिः हथैः अश्वैर्हे “नरा नेतारौ “अश्विना अश्विनौ "देवा देवौ “अस्मयू अस्मान् कामयमानौ “आ “यातम् अस्मद्यज्ञमागच्छतम् ॥


अधा॑ ह॒ यंतो॑ अ॒श्विना॒ पृक्षः॑ सचंत सू॒रयः॑ ।

ता यं॑सतो म॒घव॑द्भ्यो ध्रु॒वं यश॑श्छ॒र्दिर॒स्मभ्यं॒ नास॑त्या ॥५

अध॑ । ह॒ । यन्तः॑ । अ॒श्विना॑ । पृक्षः॑ । स॒च॒न्त॒ । सू॒रयः॑ ।

ता । यं॒स॒तः॒ । म॒घव॑त्ऽभ्यः । ध्रु॒वम् । यशः॑ । छ॒र्दिः । अ॒स्मभ्य॑म् । नास॑त्या ॥

अध । ह । यन्तः । अश्विना । पृक्षः । सचन्त । सूरयः ।

ता । यंसतः । मघवत्ऽभ्यः । ध्रुवम् । यशः । छर्दिः । अस्मभ्यम् । नासत्या ॥

“अधा “ह अपि च “अश्विना अश्विनौ “यन्तः स्तुतिभिर्गच्छन्तो यजमानाः “सूरयः मेधाविनः स्तोतारः “पृक्षः अन्नं प्रभूतं “सचन्त सेवन्ते संयन्ति वा। “ता तौ युवां मघवद्भ्यः अन्नवद्भ्यः “अस्मभ्यं “ध्रुवम् अविचलितं “यशः अन्नं यश एव वा “छर्दिः गृहं "यंसतः प्रयच्छतं हे "नासत्या अश्विनौ ॥


प्र ये य॒युर॑वृ॒कासो॒ रथा॑ इव नृपा॒तारो॒ जना॑नां ।

उ॒त स्वेन॒ शव॑सा शूशुवु॒र्नर॑ उ॒त क्षि॑यंति सुक्षि॒तिं ॥६

प्र । ये । य॒युः । अ॒वृ॒कासः । रथाः॑ऽइव । नृ॒ऽपा॒तारः॑ । जना॑नाम् ।

उ॒त । स्वेन॑ । शव॑सा । शू॒शु॒वुः॒ । नरः॑ । उ॒त । क्षि॒य॒न्ति॒ । सु॒ऽक्षि॒तिम् ॥

प्र । ये । ययुः । अवृकासः । रथाःऽइव । नृऽपातारः । जनानाम् ।

उत । स्वेन । शवसा । शूशुवुः । नरः । उत । क्षियन्ति । सुऽक्षितिम् ॥

“ये यजमानाः "अवृकासः परकीयधनस्यानादातारः “जनानां मनुष्याणां मध्ये "नृपातारः ऋत्विग्रूपाणां नृणां रक्षितारः सन्तः “ययुः युवां प्राप्नुवन्ति हविर्भः। प्राप्तौ दृष्टान्तः। “रथाइव व्रीह्यादिपूर्णा रथा यथा प्राप्नुवन्ति स्वामिगृहम् । उतेत्ययमुत्तरवाक्यापेक्षः । अपि च ते “नरः यजमानाः “स्वेन “शवसा स्वीयेन बलेन “शूशुवुः वर्धन्ते । "उत अपि च "सुक्षितिं सुनिवासं “क्षियन्ति गच्छन्ति प्राप्नुवन्ति ॥ ॥ २१ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.७४&oldid=163435" इत्यस्माद् पुनः प्राप्तिः