ऋग्वेदः सूक्तं ७.७५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.७५ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ७.७४ ऋग्वेदः - मण्डल ७
सूक्तं ७.७५
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.७६ →
दे. उषसः। त्रिष्टुप्।


व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानमागात् ।
अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा पथ्या अजीगः ॥१॥
महे नो अद्य सुविताय बोध्युषो महे सौभगाय प्र यन्धि ।
चित्रं रयिं यशसं धेह्यस्मे देवि मर्तेषु मानुषि श्रवस्युम् ॥२॥
एते त्ये भानवो दर्शतायाश्चित्रा उषसो अमृतास आगुः ।
जनयन्तो दैव्यानि व्रतान्यापृणन्तो अन्तरिक्षा व्यस्थुः ॥३॥
एषा स्या युजाना पराकात्पञ्च क्षितीः परि सद्यो जिगाति ।
अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥४॥
वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् ।
ऋषिष्टुता जरयन्ती मघोन्युषा उच्छति वह्निभिर्गृणाना ॥५॥
प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहन्तः ।
याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥६॥
सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः ।
रुजद्दृळ्हानि दददुस्रियाणां प्रति गाव उषसं वावशन्त ॥७॥
नू नो गोमद्वीरवद्धेहि रत्नमुषो अश्वावत्पुरुभोजो अस्मे ।
मा नो बर्हिः पुरुषता निदे कर्यूयं पात स्वस्तिभिः सदा नः ॥८॥


सायणभाष्यम्

‘व्युषा आवः' इत्यष्टर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षम् । अत्रानुक्रमणिका – व्युषा अष्टावुषस्यं तु वै ' इति । तु वै इत्युक्तत्वात्तुह्यादिपरिभाषया इदमादीनि सप्त सूक्तान्युषोदेवत्यानि । प्रातरनुवाक उषस्ये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चेदमादीनि षट् सूक्तानि । तथा च सूत्र्यते - ' व्युषा आवो दिविजा इति षडिति त्रैष्टुभम् ' (आश्व. श्रौ. ४. १४) इति । ऋग्विधान आख्यातो विनियोगोऽत्र लिख्यते - 'रात्र्या अपरकाले य उत्थाय प्रयतः शुचिः । व्युषा इत्युपतिष्ठेत षड्भिः सूक्तैः कृताञ्जलिः ॥ प्राप्नुयात् स हिरण्यानि नानारूपं धनं बहु । गा अश्वान् पुरुषान् धान्यं स्त्रियो वासांस्यजाविकम् ' (ऋग्वि. २. ३१७-१८) इति ।


व्यु१॒॑षा आ॑वो दिवि॒जा ऋ॒तेना॑विष्कृण्वा॒ना म॑हि॒मान॒मागा॑त् ।

अप॒ द्रुह॒स्तम॑ आव॒रजु॑ष्ट॒मङ्गि॑रस्तमा प॒थ्या॑ अजीगः ॥१

वि । उ॒षाः । आ॒वः॒ । दि॒वि॒ऽजाः । ऋ॒तेन॑ । आ॒विः॒ऽकृ॒ण्वा॒ना । म॒हि॒मान॑म् । आ । अ॒गा॒त् ।

अप॑ । द्रुहः॑ । तमः॑ । आ॒वः॒ । अजु॑ष्टम् । अङ्गि॑रःऽतमा । प॒थ्याः॑ । अ॒जी॒ग॒रिति॑ ॥१

वि । उषाः । आवः । दिविऽजाः । ऋतेन । आविःऽकृण्वाना । महिमानम् । आ । अगात् ।

अप । द्रुहः । तमः । आवः । अजुष्टम् । अङ्गिरःऽतमा । पथ्याः । अजीगरिति ॥१

इयम् "उषाः "दिविजाः दिव्यन्तरिक्षेः प्रादुर्भूता सती “वि “आवः व्यौच्छत् । विभानं कृतवतीत्यर्थः । वसिर्निवासवाच्यत्र विपूर्वो व्युच्छने भवेत्। 'छन्दस्यपि दृश्यते' इत्यत्र दृशिग्रहणस्य विध्यन्तरोपसंग्रहणार्थत्वादनजादेरप्याडागमः। “हल्यङ्याब्भ्यः' इति लोपः । सैवोषाः “ऋतेन तेजसा "महिमानं स्वमहत्त्वम् "आविष्कृण्वाना "आगात् आगतवती । आगत्य च "द्रुहः अस्मद्द्रोग्धॄन "अजुष्टं सर्वेषामप्रियं "तमः च "अप "आवः अपवृणोति । किंच अङ्गिरस्तमा । अङ्गेर्गत्यर्थादङ्गिराः । गन्तृतमा "पथ्याः पदवीः "अजीगः उद्गिरति । प्राणिनां व्यवहाराय प्रकाशयतीत्यर्थः ॥


म॒हे नो॑ अ॒द्य सु॑वि॒ताय॑ बो॒ध्युषो॑ म॒हे सौभ॑गाय॒ प्र य॑न्धि ।

चि॒त्रं र॒यिं य॒शसं॑ धेह्य॒स्मे देवि॒ मर्ते॑षु मानुषि श्रव॒स्युम् ॥२

म॒हे । नः॒ । अ॒द्य । सु॒वि॒ताय॑ । बो॒धि॒ । उषः॑ । म॒हे । सौभ॑गाय । प्र । य॒न्धि॒ ।

चि॒त्रम् । र॒यिम् । य॒शस॑म् । धे॒हि॒ । अ॒स्मे इति॑ । देवि॑ । मर्ते॑षु । मा॒नु॒षि॒ । श्र॒व॒स्युम् ॥२

महे । नः । अद्य । सुविताय । बोधि । उषः । महे । सौभगाय । प्र । यन्धि ।

चित्रम् । रयिम् । यशसम् । धेहि । अस्मे इति । देवि । मर्तेषु । मानुषि । श्रवस्युम् ॥२

"अद्य "नः अस्माकं “महे महते "सुविताय सुखप्राप्तये सुखगमनाय वा “बोधि भव । किंच हे "उषः “महे महते “सौभगाय सौभाग्याय “प्र “यन्धि प्रयच्छास्मान् । किंच "चित्रं चायनीयं "यशसं यशोयुक्तं "रयिं धनं “धेहि धारय "अस्मे अस्मासु । हे "मानुषि मनुष्यहिते "देवि "मर्तेषु अस्मासु “श्रवस्युम् अन्नवन्तं पुत्रं धेहीत्यनुषङ्गः ॥


ए॒ते त्ये भा॒नवो॑ दर्श॒ताया॑श्चि॒त्रा उ॒षसो॑ अ॒मृता॑स॒ आगु॑ः ।

ज॒नय॑न्तो॒ दैव्या॑नि व्र॒तान्या॑पृ॒णन्तो॑ अ॒न्तरि॑क्षा॒ व्य॑स्थुः ॥३

ए॒ते । त्ये । भा॒नवः॑ । द॒र्श॒तायाः॑ । चि॒त्राः । उ॒षसः॑ । अ॒मृता॑सः । आ । अ॒गुः॒ ।

ज॒नय॑न्तः । दैव्या॑नि । व्र॒तानि॑ । आ॒ऽपृ॒णन्तः॑ । अ॒न्तरि॑क्षा । वि । अ॒स्थुः॒ ॥३

एते । त्ये । भानवः । दर्शतायाः । चित्राः । उषसः । अमृतासः । आ । अगुः ।

जनयन्तः । दैव्यानि । व्रतानि । आऽपृणन्तः । अन्तरिक्षा । वि । अस्थुः ॥३

"दर्शतायाः दर्शनीयायाः प्रकाशयुक्तायाः "उषसः एते पुरो दृश्यमानाः “त्ये ते प्रसिद्धाः “चित्राः पूज्या आश्चर्यभूता वा "अमृतासः अमरणा अनश्वराः "भानवः रश्मयः "आगुः आगच्छन्ति । किं कुर्वन्तः। "दैव्यानि देवानां संबन्धीनि "व्रतानि कर्माणि "जनयन्तः उत्पादयन्तः । तदनुकूलप्रकाशप्रदानात्तदुत्पादकत्वमेषाम्। "अन्तरिक्षा अन्तरिक्षाणि आपृणन्तः आपूरयन्तः । एकस्यैवान्तरिक्षस्य वायुमेघपक्षिणामालम्बनोपाधिना त्रिविधत्वम् । अतो बहुवचनमुपपन्नम्। एवं कुर्वन्तो भानवः "व्यस्थुः विविधं तिष्ठन्ति । सरन्ति ॥


ए॒षा स्या यु॑जा॒ना प॑रा॒कात्पञ्च॑ क्षि॒तीः परि॑ स॒द्यो जि॑गाति ।

अ॒भि॒पश्य॑न्ती व॒युना॒ जना॑नां दि॒वो दु॑हि॒ता भुव॑नस्य॒ पत्नी॑ ॥४

ए॒षा । स्या । यु॒जा॒ना । प॒रा॒कात् । पञ्च॑ । क्षि॒तीः । परि॑ । स॒द्यः । जि॒गा॒ति॒ ।

अ॒भि॒ऽपश्य॑न्ती । व॒युना॑ । जना॑नाम् । दि॒वः । दु॒हि॒ता । भुव॑नस्य । पत्नी॑ ॥४

एषा । स्या । युजाना । पराकात् । पञ्च । क्षितीः । परि । सद्यः । जिगाति ।

अभिऽपश्यन्ती । वयुना । जनानाम् । दिवः । दुहिता । भुवनस्य । पत्नी ॥४

“एषा “स्या सोषाः "पराकात् दूरदेशाद्दूरे स्थितापि "युजाना उद्योगं कुर्वाणा प्रकाशाय "पञ्च “क्षितीः निषादपञ्चमाश्चत्वारो वर्णास्तान् "सद्यः "परि “जिगाति परिगच्छति। किं कुर्वती। "जनानां प्राणिनां “वयुना प्रज्ञानानि “अभिपश्यन्ती साक्षित्वेनावलोकयन्ती । कीदृशी सा। "दिवो "दुहिता दुहितृस्थानीया “भुवनस्य भूतजातस्य “पत्नी पालयित्री । परि जिगातीत्यन्वयः ॥


वा॒जिनी॑वती॒ सूर्य॑स्य॒ योषा॑ चि॒त्राम॑घा रा॒य ई॑शे॒ वसू॑नाम् ।

ऋषि॑ष्टुता ज॒रय॑न्ती म॒घोन्यु॒षा उ॑च्छति॒ वह्नि॑भिर्गृणा॒ना ॥५

ए॒षा । स्या । यु॒जा॒ना । प॒रा॒कात् । पञ्च॑ । क्षि॒तीः । परि॑ । स॒द्यः । जि॒गा॒ति॒ ।

अ॒भि॒ऽपश्य॑न्ती । व॒युना॑ । जना॑नाम् । दि॒वः । दु॒हि॒ता । भुव॑नस्य । पत्नी॑ ॥५

एषा । स्या । युजाना । पराकात् । पञ्च । क्षितीः । परि । सद्यः । जिगाति ।

अभिऽपश्यन्ती । वयुना । जनानाम् । दिवः । दुहिता । भुवनस्य । पत्नी ॥५

वाजिनीवती बह्वन्ना। यद्यप्युषोनामैतत् तथापि चित्रामघा इत्यस्याप्युषोनामकस्य पृथग्विद्यमानत्वादत्रैको योगरूढोऽवगन्तव्यः। "सूर्यस्य "योषा योषित् 'चित्रामघा विचित्रधना विचित्ररश्म्याख्यधना वा “रायः धनस्याविशिष्टस्य तस्य “वसूनां देवमनुष्यादिसर्वाश्रयाणां धनानां च “ईशे ईष्टे । अथवा वसवो वासका रश्मयः । तेषामपीष्टे । “ऋषिष्टुता ऋषिभिः स्तुता “जरयन्ती प्राणिजातानि । उषाः खलु पुनःपुनरावर्तमाना प्राणिनामायुः क्षपयति । "मघोनी धनवती “उषाः “वह्निभिः कर्मवोढृभिर्यजमानैः "गृणाना स्तूयमाना “उच्छति विभानं करोति ॥


प्रति॑ द्युता॒नाम॑रु॒षासो॒ अश्वा॑श्चि॒त्रा अ॑दृश्रन्नु॒षसं॒ वह॑न्तः ।

याति॑ शु॒भ्रा वि॑श्व॒पिशा॒ रथे॑न॒ दधा॑ति॒ रत्नं॑ विध॒ते जना॑य ॥६

प्रति॑ । द्यु॒ता॒नाम् । अ॒रु॒षासः॑ । अश्वाः॑ । चि॒त्राः । अ॒दृ॒श्र॒न् । उ॒षस॑म् । वह॑न्तः ।

याति॑ । शु॒भ्रा । वि॒श्व॒ऽपिशा॑ । रथे॑न । दधा॑ति । रत्न॑म् । वि॒ध॒ते । जना॑य ॥६

प्रति । द्युतानाम् । अरुषासः । अश्वाः । चित्राः । अदृश्रन् । उषसम् । वहन्तः ।

याति । शुभ्रा । विश्वऽपिशा । रथेन । दधाति । रत्नम् । विधते । जनाय ॥६

“द्युतानां द्योतमानाम् "उषसं "वहन्तः धारयन्तः "अरुषासः आरोचमानाः “चित्राः चायनीयाः “अश्वाः “प्रति अदृश्रन् प्रतिदृश्यन्ते । सा चोषाः "शुभ्रा दीप्यमाना “विश्वपिशा बहुरूपेण "रथेन "याति सर्वत्र गच्छति। "विधते परिचरते "जनाय "रत्नं रमणीयं धनं "दधाति ददाति च ॥


स॒त्या स॒त्येभि॑र्मह॒ती म॒हद्भि॑र्दे॒वी दे॒वेभि॑र्यज॒ता यज॑त्रैः ।

रु॒जद्दृ॒ळ्हानि॒ दद॑दु॒स्रिया॑णां॒ प्रति॒ गाव॑ उ॒षसं॑ वावशन्त ॥७

स॒त्या । स॒त्येभिः॑ । म॒ह॒ती । म॒हत्ऽभिः॑ । दे॒वी । दे॒वेभिः॑ । य॒ज॒ता । यज॑त्रैः ।

रु॒जत् । दृ॒ळ्हानि॑ । दद॑त् । उ॒स्रिया॑णाम् । प्रति॑ । गावः॑ । उ॒षस॑म् । वा॒व॒श॒न्त॒ ॥७

सत्या । सत्येभिः । महती । महत्ऽभिः । देवी । देवेभिः । यजता । यजत्रैः ।

रुजत् । दृळ्हानि । ददत् । उस्रियाणाम् । प्रति । गावः । उषसम् । वावशन्त ॥७

“सत्या अन्यैरबाध्या “महती पूजनीया प्रवृद्धा वा गुणैः “देवी द्योतमाना “यजता यजनीयोषाः “सत्येभिः सत्यैः “महद्भिः देवैः “यजत्रै. उक्तलक्षणैः किरणैर्निपातभाग्भिरन्यैर्देवैर्वा सहिता सती “दृळहानि अत्यन्तं स्थिराणि तमांसि “रुजत् भिनत्ति । “उस्रियाणाम् । गोनामैतत् । उत्स्राविण आसां भोगा इति तद्व्युत्पत्तिः । तासां संचाराय “ददत् ददाति । सामर्थ्यात् प्रकाशमित्यर्थः । अथवोस्रिया गा ददत् ददाति स्तोतृभ्यः । किंच “गावः । उपलक्षणमेतत् । सर्वेऽपि तमोऽवरुद्धाः प्राणिनः “उषसं “वावशन्त उशन्ति कामयन्ते । विशेषेण गवां प्रभाते संचारार्थमुषसोऽपेक्षितत्वात्तासां प्राधान्येनोक्तिः ।।


नू नो॒ गोम॑द्वी॒रव॑द्धेहि॒ रत्न॒मुषो॒ अश्वा॑वत्पुरु॒भोजो॑ अ॒स्मे ।

मा नो॑ ब॒र्हिः पु॑रु॒षता॑ नि॒दे क॑र्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥८

नु । नः॒ । गोऽम॑त् । वी॒रऽव॑त् । धे॒हि॒ । रत्न॑म् । उषः॑ । अश्व॑ऽवत् । पु॒रु॒ऽभोजः॑ । अ॒स्मे इति॑ ।

मा । नः॒ । ब॒र्हिः । पु॒रु॒षता॑ । नि॒दे । कः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥८

नु । नः । गोऽमत् । वीरऽवत् । धेहि । रत्नम् । उषः । अश्वऽवत् । पुरुऽभोजः । अस्मे इति ।

मा । नः । बर्हिः । पुरुषता । निदे । कः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥८

हे “उषः “नु “नः अस्मभ्यं “गोमत् बहुभिर्गोभिर्युक्तं “वीरवत् वीरैः पुत्रैरुपेतं “रत्नं रमणीयं धनं “पुरुभोजः बह्वन्नं च “अस्मे अस्मासु “धेहि देहि । पादभेदादस्मे इति पुनरभिधानम् । “नः अस्माकं “बर्हिः यज्ञं “पुरुषता पुरुषतायां पुरुषसमूहेषु । अस्मत्सदृशेष्वित्यर्थः । “निदे निन्दायै “मा “कः मा कार्षीः । यथा ते निन्दन्ति तथा मा कुर्वित्यर्थः ।। ।। २२ ।।


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.७५&oldid=201198" इत्यस्माद् पुनः प्राप्तिः