ऋग्वेदः सूक्तं ७.६७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.६६ ऋग्वेदः - मण्डल ७
सूक्तं ७.६७
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.६८ →
दे. अश्विनौ। त्रिष्टुप्।


प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन ।
यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि ॥१॥
अशोच्यग्निः समिधानो अस्मे उपो अदृश्रन्तमसश्चिदन्ताः ।
अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः ॥२॥
अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् ।
पूर्वीभिर्यातं पथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन ॥३॥
अवोर्वां नूनमश्विना युवाकुर्हुवे यद्वां सुते माध्वी वसूयुः ।
आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥४॥
प्राचीमु देवाश्विना धियं मेऽमृध्रां सातये कृतं वसूयुम् ।
विश्वा अविष्टं वाज आ पुरंधीस्ता नः शक्तं शचीपती शचीभिः ॥५॥
अविष्टं धीष्वश्विना न आसु प्रजावद्रेतो अह्रयं नो अस्तु ।
आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥६॥
एष स्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे ।
अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु ॥७॥
एकस्मिन्योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् ।
न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥८॥
असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति ।
प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥९॥
नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् ।
धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥१०॥

सायणभाष्यम्

‘प्रति वां रथम्' इति दशर्चं द्वादशं सूक्तम् । ‘प्रति वां दशाश्विनं तु तत्' इत्यनुक्रमणिका । ऋषिर्वसिष्ठः । छन्दस्त्रिष्टुप् । तुह्यादिपरिभाषयैतदादीनि अष्ट सूक्तान्यश्विदेवत्यानि। प्रातरनुवाक आश्विने क्रतौ त्रैष्टुभे छन्दस्येतदादिसूक्तसप्तकं द्वितीयवर्जं शंस्यम् । तथा च सूत्रं--- ‘प्रति वां रथमिति सप्तानां द्वितीयमुद्धरेत्' (आश्व. श्रौ. ४. १५) इति ।।


प्रति॑ वां॒ रथं॑ नृपती ज॒रध्यै॑ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये॑न ।

यो वां॑ दू॒तो न धि॑ष्ण्या॒वजी॑ग॒रच्छा॑ सू॒नुर्न पि॒तरा॑ विवक्मि ॥१

प्रति॑ । वा॒म् । रथ॑म् । नृ॒प॒ती॒ इति॑ नृऽपती । ज॒रध्यै॑ । ह॒विष्म॑ता । मन॑सा । य॒ज्ञिये॑न ।

यः । वा॒म् । दू॒तः । न । धि॒ष्ण्यौ॒ । अजी॑गः । अच्छ॑ । सू॒नुः । न । पि॒तरा॑ । वि॒व॒क्मि॒ ॥

प्रति । वाम् । रथम् । नृपती इति नृऽपती । जरध्यै । हविष्मता । मनसा । यज्ञियेन ।

यः । वाम् । दूतः । न । धिष्ण्यौ । अजीगः । अच्छ । सूनुः । न । पितरा । विवक्मि ॥

हे "नृपती नृणामृत्विग्यजमानानां स्वामिनावश्विनौ "वां युवयोः "रथं "जरध्यै । जरा स्तुतिः । स्तोतुं "प्रति गच्छामीति शेषः । केन साधनेनेति तदुच्यते । "हविष्मता हविर्युक्तेन “यज्ञियेन यज्ञार्हेण "मनसा स्तोत्रेण । “यः रथो वां हे “धिष्ण्यौ धिषणार्हौ। धिषणा स्तुतिः “वां युवां “दूतो न दूत इव "अजीगः जागरयति प्रबोधयति अस्मान् प्रति गन्तुं तं रथम् "अच्छा “विवक्मि आवच्मि । प्रबोधने दृष्टान्तः । "सुनुर्न "पितरा पुत्रो मातापितराविव । अथवात्र यो रथो युवामजीगः तेन रथेन गन्तुं बुध्यमानौ युवामच्छा विवक्मीति वा योज्यम् ॥


अशो॑च्य॒ग्निः स॑मिधा॒नो अ॒स्मे उपो॑ अदृश्रं॒तम॑सश्चि॒दंताः॑ ।

अचे॑ति के॒तुरु॒षसः॑ पु॒रस्ता॑च्छ्रि॒ये दि॒वो दु॑हि॒तुर्जाय॑मानः ॥२

अशो॑चि । अ॒ग्निः । स॒म्ऽइ॒धा॒नः । अ॒स्मे इति॑ । उपो॒ इति॑ । अ॒दृ॒श्र॒न् । तम॑सः । चि॒त् । अन्ताः॑ ।

अचे॑ति । के॒तुः । उ॒षसः॑ । पु॒रस्ता॑त् । श्रि॒ये । दि॒वः । दु॒हि॒तुः । जाय॑मानः ॥

अशोचि । अग्निः । सम्ऽइधानः । अस्मे इति । उपो इति । अदृश्रन् । तमसः । चित् । अन्ताः ।

अचेति । केतुः । उषसः । पुरस्तात् । श्रिये । दिवः । दुहितुः । जायमानः ॥

“अस्मे अस्माभिः "समिधानः समिध्यमानः सन् "अग्निः "अशोचि दीप्यते। तमसश्चित् तमसोऽपि "अन्ताः पर्यन्ताः प्रदेशाः “उपो अदृश्रन् उपदृश्यन्ते सर्वैः । "केतुः सर्वस्य प्रज्ञापकः सूर्यः "दिवो "दुहितुः "उषसः "पुरस्तात् पूर्वस्यां दिशि "श्रिये शोभायै "जायमानः सन् "अचेति ज्ञायते । यस्मादेवं तस्माद्युवयोरागमनसमयः । अत आगच्छतमिति शेषः ।


अ॒भि वां॑ नू॒नम॑श्विना॒ सुहो॑ता॒ स्तोमैः॑ सिषक्ति नासत्या विव॒क्वान् ।

पू॒र्वीभि॑र्यातं प॒थ्या॑भिर॒र्वाक्स्व॒र्विदा॒ वसु॑मता॒ रथे॑न ॥३

अ॒भि । वा॒म् । नू॒नम् । अ॒श्वि॒ना॒ । सुऽहो॑ता । स्तोमैः॑ । सि॒स॒क्ति॒ । ना॒स॒त्या॒ । वि॒व॒क्वान् ।

पू॒र्वीभिः॑ । या॒त॒म् । प॒थ्या॑भिः । अ॒र्वाक् । स्वः॒ऽविदा॑ । वसु॑ऽमता । रथे॑न ॥३

अभि । वाम् । नूनम् । अश्विना । सुऽहोता । स्तोमैः । सिसक्ति । नासत्या । विवक्वान् ।

पूर्वीभिः । यातम् । पथ्याभिः । अर्वाक् । स्वःऽविदा । वसुऽमता । रथेन ॥

हे अश्विना “वां युवां "सुहोता सुष्ठु देवानां स्तोता "विवक्वान् स्तुतीनां वक्ताहं हे "नासत्या सत्यभूतौ । इदमश्विनावित्यत्र योज्यम् । "स्तोमैः "सिषक्ति सेवते । अतः "अर्वाक् अस्मदभिमुखं “पूर्वीभिः "पथ्याभिः पूर्वक्षुण्णैर्मार्गैः स्वर्विदा स्वर्गमुदकं वा जानता स्वरणवता वा "वसुमता धनवता वा "रथेन "यातं गच्छतम् ॥


अ॒वोर्वां॑ नू॒नम॑श्विना यु॒वाकु॑र्हु॒वे यद्वां॑ सु॒ते मा॑ध्वी वसू॒युः ।

आ वां॑ वहंतु॒ स्थवि॑रासो॒ अश्वाः॒ पिबा॑थो अ॒स्मे सुषु॑ता॒ मधू॑नि ॥४

अ॒वोः । वा॒म् । नू॒नम् । अ॒श्वि॒ना॒ । यु॒वाकुः॑ । हु॒वे । यत् । वा॒म् । सु॒ते । मा॒ध्वी॒ इति॑ । व॒सु॒ऽयुः ।

आ । वा॒म् । व॒ह॒न्तु॒ । स्थवि॑रासः । अश्वाः॑ । पिबा॑थः । अ॒स्मे इति॑ । सुऽसु॑ता । मधू॑नि ॥

अवोः । वाम् । नूनम् । अश्विना । युवाकुः । हुवे । यत् । वाम् । सुते । माध्वी इति । वसुऽयुः ।

आ । वाम् । वहन्तु । स्थविरासः । अश्वाः । पिबाथः । अस्मे इति । सुऽसुता । मधूनि ॥

हे "अश्विना अश्विनौ "अवोः रक्षित्रोर्युवाभ्यां "युवाकुः युवां कामयमानोऽहं "नूनम् अत्र स्वभूतो भवामीति शेषः । "यत् यस्मात् हे "माध्वी मधुरस्य सोमस्यार्हौ मधुविद्यासंबन्धिनौ वा “वां युवां "सुते अभिषुते सोमे "वसूयुः वसुकामः "हुवे स्तौमि अतो वां स्वभूतः। "वां युवाम् “आ “वहन्तु । के। “स्थविरासः स्थूलाः प्रवृद्धाः “अश्वाः। एतयोरतिप्रवृद्धत्वाच्छीघ्रगतेरपेक्षितत्वाच्च स्थविरैरेव भाष्यम् । आगमनानन्तरम् "अस्मे अस्माभिः "सुषुता सुष्ठ्वभिषुतानि “मधूनि मधुररसान् "पिबाथः पिबतम् ॥


प्राची॑मु देवाश्विना॒ धियं॒ मेऽमृ॑ध्रां सा॒तये॑ कृतं वसू॒युं ।

विश्वा॑ अविष्टं॒ वाज॒ आ पुरं॑धी॒स्ता नः॑ शक्तं शचीपती॒ शची॑भिः ॥५

प्राची॑म् । ऊं॒ इति॑ । दे॒वा॒ । अ॒श्वि॒ना॒ । धिय॑म् । मे॒ । अमृ॑ध्राम् । सा॒तये॑ । कृ॒त॒म् । व॒सु॒ऽयुम् ।

विश्वाः॑ । अ॒वि॒ष्ट॒म् । वाजे॑ । आ । पुर॑म्ऽधीः । ता । नः॒ । श॒क्त॒म् । श॒ची॒प॒ती॒ इति॑ शचीऽपती । शची॑भिः ॥

प्राचीम् । ऊं इति । देवा । अश्विना । धियम् । मे । अमृध्राम् । सातये । कृतम् । वसुऽयुम् ।

विश्वाः । अविष्टम् । वाजे । आ । पुरम्ऽधीः । ता । नः । शक्तम् । शचीपती इति शचीऽपती । शचीभिः ॥

हे “अश्विना अश्विनौ “देवा देवौ युवां “प्राचीम् ऋज्वीम् “अमृध्राम् अहिंसितां “वसूयुं धनमिच्छन्तीं “मे मम “धियं बुद्धिं स्तुतिं कर्म वा “सातये लाभायोचितां “कृतं कुरुतम् । किंच “वाजे “आ संग्रामेऽपि “विश्वा: “पुरंधीः अस्मदीया बुद्धीः “अविष्टं रक्षतम् । हे “शचीपती । शचीति कर्मनाम । कर्मणां पालकौ “ता तौ युवां “शचीभिः. अस्मदीयैः स्तुत्यादिरूपैः कर्मभिः “नः अस्मान् “शक्तं प्रयच्छतं धनमिति शेषः ॥ ॥ १२ ॥


अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु ।

आ वां॑ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना॑सो दे॒ववी॑तिं गमेम ॥६

अ॒वि॒ष्टम् । धी॒षु । अ॒श्वि॒ना॒ । नः॒ । आ॒सु । प्र॒जाऽव॑त् । रेतः॑ । अह्र॑यम् । नः॒ । अ॒स्तु॒ ।

आ । वा॒म् । तो॒के । तन॑ये । तूतु॑जानाः । सु॒ऽरत्ना॑सः । दे॒वऽवी॑तिम् । ग॒मे॒म॒ ॥

अविष्टम् । धीषु । अश्विना । नः । आसु । प्रजाऽवत् । रेतः । अह्रयम् । नः । अस्तु ।

आ । वाम् । तोके । तनये । तूतुजानाः । सुऽरत्नासः । देवऽवीतिम् । गमेम ॥

हे “अश्विना अश्विनौ “नः अस्मान् “आसु “धीषु एषु कर्मसु “अविष्टं रक्षतम् । “नः अस्मभ्यम् “अह्रयम् अक्षीणं “प्रजावत् पुत्राद्युपेतं पुत्रोत्पादनसमर्थं “रेतः “अस्तु । “वां युवयोरनुग्रहाल्लब्धे “तोके पुत्रे “तनये तत्पुत्रादौ च “तुतुजानाः अभिमतं धनं प्रयच्छन्तः “सुरत्नासः शोभनधनाश्च सन्तः "देववीतिं देवानां वीतिः प्राप्तिर्यस्मिंस्तादृशं यज्ञम् “आ “गमेम आगच्छेम ।।


ए॒ष स्य वां॑ पूर्व॒गत्वे॑व॒ सख्ये॑ नि॒धिर्हि॒तो मा॑ध्वी रा॒तो अ॒स्मे ।

अहे॑ळता॒ मन॒सा या॑तम॒र्वाग॒श्नंता॑ ह॒व्यं मानु॑षीषु वि॒क्षु ॥७

ए॒षः । स्यः । वा॒म् । पू॒र्व॒गत्वा॑ऽइव । सख्ये॑ । नि॒ऽधिः । हि॒तः । मा॒ध्वी॒ इति॑ । रा॒तः । अ॒स्मे इति॑ ।

अहे॑ळता । मन॑सा । आ । या॒त॒म् । अ॒र्वाक् । अ॒श्नन्ता॑ । ह॒व्यम् । मानु॑षीषु । वि॒क्षु ॥

एषः । स्यः । वाम् । पूर्वगत्वाऽइव । सख्ये । निऽधिः । हितः । माध्वी इति । रातः । अस्मे इति ।

अहेळता । मनसा । आ । यातम् । अर्वाक् । अश्नन्ता । हव्यम् । मानुषीषु । विक्षु ॥

“एषः पुरतो दीयमानः “स्यः सः युवयोः प्रियत्वेन प्रसिद्धः सोमो हे “माध्वी मधुप्रियावश्विनौ “वां युवयोः पुरतः “निधिः निधिस्थानीयः “हितः स्थापितः “अस्मे अस्माभिः “रातः दत्तः संकल्पितः संनिहितः । किमिव । “सख्ये सख्यार्थं “पूर्वगत्वेव पुरतो गन्ता दूत इव । स यथा प्रियं जनयन स्वामिनः पुरतो वर्तते तद्वदित्यर्थः । यस्मादेवं तस्मात् “अहेळता अक्रुध्यता “मनसा अनुग्रहयुक्तेन चेतसा “अर्वाक् अस्मदभिमुखम् “आ "यातम् आगच्छतम् । “अश्नन्ता “हव्यं हविः सोमादिकमश्नन्तावभ्यवहरन्तौ । कुत्र । “मानुषीषु “विक्षु मनुष्यरूपासु प्रजासु वर्तमानम् ॥


एक॑स्मि॒न्योगे॑ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो॑ गात् ।

न वा॑यंति सु॒भ्वो॑ दे॒वयु॑क्ता॒ ये वां॑ धू॒र्षु त॒रण॑यो॒ वहं॑ति ॥८

एक॑स्मिन् । योगे॑ । भु॒र॒णा॒ । स॒मा॒ने । परि॑ । वा॒म् । स॒प्त । स्र॒वतः॑ । रथः॑ । गा॒त् ।

न । वा॒य॒न्ति॒ । सु॒ऽभ्वः॑ । दे॒वऽयु॑क्ताः । ये । वा॒म् । धूः॒ऽसु । त॒रण॑यः । वह॑न्ति ॥

एकस्मिन् । योगे । भुरणा । समाने । परि । वाम् । सप्त । स्रवतः । रथः । गात् ।

न । वायन्ति । सुऽभ्वः । देवऽयुक्ताः । ये । वाम् । धूःऽसु । तरणयः । वहन्ति ॥

हे "भुरणा सर्वस्य भर्तारौ युवयोः “एकस्मिन् “समाने उभयसाधारणे “योगे अस्मद्विषये सति “वां युवयोः “रथः “सप्त “स्रवतः सर्पणस्वभावाः सप्तसंख्याका वा गङ्गाद्याः “परि “गात् परिगच्छति । शीघ्रमागच्छतीत्यर्थः। तद्रथानुकूलाः “सुभ्वः सुभवनाः “देवयुक्ताः देवाभ्यां युवाभ्यां युक्ता अश्वाः शीघ्रगमने “न “वायन्ति न शुष्यन्ति न श्राम्यन्ते । "ये अश्वाः “वां “धूर्षु रथस्य “तरणयः तारकाः शीघ्रगन्तारः “वहन्ति युवां ते न वायन्तीति ।


अ॒स॒श्चता॑ म॒घव॑द्भ्यो॒ हि भू॒तं ये रा॒या म॑घ॒देयं॑ जु॒नंति॑ ।

प्र ये बंधुं॑ सू॒नृता॑भिस्ति॒रंते॒ गव्या॑ पृं॒चंतो॒ अश्व्या॑ म॒घानि॑ ॥९

अ॒स॒श्चता॑ । म॒घव॑त्ऽभ्यः । हि । भू॒तम् । ये । रा॒या । म॒घ॒ऽदेय॑म् । जु॒नन्ति॑ ।

प्र । ये । बन्धु॑म् । सू॒नृता॑भिः । ति॒रन्ते॑ । गव्या॑ । पृ॒ञ्चन्तः॑ । अश्व्या॑ । म॒घानि॑ ॥

असश्चता । मघवत्ऽभ्यः । हि । भूतम् । ये । राया । मघऽदेयम् । जुनन्ति ।

प्र । ये । बन्धुम् । सूनृताभिः । तिरन्ते । गव्या । पृञ्चन्तः । अश्व्या । मघानि ॥

“असश्चता कुत्राप्यसज्यमानी युवां मघवद्भ्यः धनवद्भ्यो हविष्मद्भ्यो यजमानेभ्यस्तेषामर्थाय “भूतं “हि भवतम् । तेभ्य एवानुरक्तौ भवतम् । अनुग्राह्या एव विशेष्यन्ते। “ये “राया धनेन निमित्तेन राया युक्ता वा “मघदेयं दातव्यं मघं धनं हविर्लक्षणं वा “जुनन्ति प्रेरयन्ति यच्छन्ति । “ये च “बन्धुम् । स्नेहेन बध्नातीति बन्धुः । तं स्वसंबन्धिनम् । अथदा फलेन बध्नातीति बन्धुरध्वर्य्वादिः । तं “सूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः “प्र “तिरन्ते प्रवर्धयन्ति । प्रपूर्वस्तिरतिर्वर्धनार्थः । किं कुर्वन्तः । “गव्या गोरूपाणि “अश्व्या अश्वरूपाणि च “मघानि धनानि “पृञ्चन्तः अर्थिभ्यः प्रयच्छन्तः । तेभ्यो मघवद्भ्यो भूतमिति ।।


नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ।

ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥१०

नु । मे॒ । हव॑म् । आ । शृ॒णु॒त॒म् । यु॒वा॒ना॒ । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ।

ध॒त्तम् । रत्ना॑नि । जर॑तम् । च॒ । सू॒रीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

नु । मे । हवम् । आ । शृणुतम् । युवाना । यासिष्टम् । वर्तिः । अश्विनौ । इराऽवत् ।

धत्तम् । रत्नानि । जरतम् । च । सूरीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

हे "युवाना नित्ययौवनौ "नु अद्य युवां “मे हवम् अस्मदीयां स्तुतिम् “आ “शृणुतम् । श्रुत्वा च हे “अश्विनौ “इरावत् हविर्युक्तं “वर्तिः गृहं “यासिष्टम् आगच्छतम् । आगत्य च “रत्नानि रमणीयानि धनानि “धत्तं दत्तम् । “सूरीन् स्तोतॄन् "जरतं वर्धयतम् । धातूनामनेकार्थत्वात् । शिष्टं स्पष्टम् ॥ ॥ १३ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.६७&oldid=163288" इत्यस्माद् पुनः प्राप्तिः