ऋग्वेदः सूक्तं ७.४५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.४४ ऋग्वेदः - मण्डल ७
सूक्तं ७.४५
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.४६ →
दे. सविता। त्रिष्टुप्।


आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः ।
हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम ॥१॥
उदस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्ताँ अनष्टाम् ।
नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम् ॥२॥
स घा नो देवः सविता सहावा साविषद्वसुपतिर्वसूनि ।
विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः ॥३॥
इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम् ।
चित्रं वयो बृहदस्मे दधातु यूयं पात स्वस्तिभिः सदा नः ॥४॥


सायणभाष्यम्

‘आ देवो यातु' इति चतुर्ऋचं द्वादशं सूक्तं वसिष्ठस्यार्षं सवितृदेवताकं त्रैष्टुभम्। 'आ देवश्चतुष्कं सावित्रम्' इत्यनुक्रान्तम् । व्यूळ्हे दशरात्रे चतुर्थेऽहनि वैश्वदेशस्त्र इदं सावित्रनिविद्धानम्। सूत्र्यते हि - चतुर्थेऽहन्या देवो यातु --' (आश्व. श्रौ. ८. ८)।... इत्येषा वपानुवाक्या। सूत्रितं च --' आ देवो यातु सविता सुरत्नः स घा नो देवः सविता सहावा ' (आश्व. श्रौ. ३. ७) इति। अश्वमेधेऽनुसवनं तिस्रः सावित्र्य इष्टयः । तत्र द्वितीयस्यामिष्टौ याज्येयम् । सूत्रितं च -- य इमा विश्वा जातान्या देवो यातु ' (आश्व. श्रौ. १०. ६) इति ॥


आ दे॒वो या॑तु सवि॒ता सु॒रत्नो॑ऽन्तरिक्ष॒प्रा वह॑मानो॒ अश्वै॑ः ।

हस्ते॒ दधा॑नो॒ नर्या॑ पु॒रूणि॑ निवे॒शय॑ञ्च प्रसु॒वञ्च॒ भूम॑ ॥१

आ । दे॒वः । या॒तु॒ । स॒वि॒ता । सु॒ऽरत्नः॑ । अ॒न्त॒रि॒क्ष॒ऽप्राः । वह॑मानः । अश्वैः॑ ।

हस्ते॑ । दधा॑नः । नर्या॑ । पु॒रूणि॑ । नि॒ऽवे॒शय॑न् । च॒ । प्र॒ऽसु॒वन् । च॒ । भूम॑ ॥१

आ । देवः । यातु । सविता । सुऽरत्नः । अन्तरिक्षऽप्राः । वहमानः । अश्वैः ।

हस्ते । दधानः । नर्या । पुरूणि । निऽवेशयन् । च । प्रऽसुवन् । च । भूम ॥१

"सुरत्नः शोभनरत्नोपेतः “अन्तरिक्षप्राः स्वकीयेन तेजसान्तरिक्षस्य पूरयिता “अश्वैः स्वकीयैर्वाहैः "वहमानः उह्यमानः “सविता सर्वस्य प्रेरकः “देवः “आ “यातु आगच्छतु । कीदृशः। “नर्या नर्याणि मनुष्यहितानि “पुरूणि बहूनि धनानि “हस्ते पाणौ “दधानः दातुं धारयन् "भूम भूतानि “निवेशयंश्च रात्रिषु स्वे स्थाने स्थापयंश्च "प्रसुवंश्च अहःसु प्रेरयंश्च । एवंभूतः सविता देव आ यातु ॥


उद॑स्य बा॒हू शि॑थि॒रा बृ॒हन्ता॑ हिर॒ण्यया॑ दि॒वो अन्ताँ॑ अनष्टाम् ।

नू॒नं सो अ॑स्य महि॒मा प॑निष्ट॒ सूर॑श्चिदस्मा॒ अनु॑ दादप॒स्याम् ॥२

उत् । अ॒स्य॒ । बा॒हू इति॑ । शि॒थि॒रा । बृ॒हन्ता॑ । हि॒र॒ण्यया॑ । दि॒वः । अन्ता॑न् । अ॒न॒ष्टा॒म् ।

नू॒नम् । सः । अ॒स्य॒ । म॒हि॒मा । प॒नि॒ष्ट॒ । सूरः॑ । चि॒त् । अ॒स्मै॒ । अनु॑ । दा॒त् । अ॒प॒स्याम् ॥२

उत् । अस्य । बाहू इति । शिथिरा । बृहन्ता । हिरण्यया । दिवः । अन्तान् । अनष्टाम् ।

नूनम् । सः । अस्य । महिमा । पनिष्ट । सूरः । चित् । अस्मै । अनु । दात् । अपस्याम् ॥२

"शिथिरा शिथिलौ दानार्थं प्रसारितौ "बृहन्ता बृहन्तौ महान्तौ “हिरण्यया हिरण्ययौ सुवर्णमयौ “अस्य सवितुः संबन्धिनौ "बाहू हस्तौ “दिवः अन्तरिक्षस्य "अन्तान् पर्यन्तान् "उत् "अनष्टाम् ऊर्ध्वौ सन्तौ व्याप्नुवताम् । “नूनम् अद्य "अस्य ईदृग्भूतस्य सवितुः “सः तादृशः “महिमा महत्त्वं “पनिष्ट अस्माभिः स्तूयते । “सूरश्चित् सूर्योऽपि “अस्मै सवित्रे “अपस्यां कर्मेच्छाम् “अनु “दात् अनुददातु ॥


सावित्रे पशौ पुरोडाशस्थ हविषोः ‘स घा नः' इति द्वे अनुवाक्ये । सूत्रं पूर्वमुदाहृतम् । आश्वमेधिकीषु सावित्रेष्टिषु तृतीयस्यामिष्टाविमे एव याज्यानुवाक्ये । सूत्रितं च - स घा नो देवः सविता सहावेति द्वे ' (आश्व. श्रौ. १०. ६) इति ॥

स घा॑ नो दे॒वः स॑वि॒ता स॒हावा सा॑विष॒द्वसु॑पति॒र्वसू॑नि ।

वि॒श्रय॑माणो अ॒मति॑मुरू॒चीं म॑र्त॒भोज॑न॒मध॑ रासते नः ॥३

सः । घ॒ । नः॒ । दे॒वः । स॒वि॒ता । स॒हऽवा॑ । आ । सा॒वि॒ष॒त् । वसु॑ऽपतिः । वसू॑नि ।

वि॒ऽश्रय॑माणः । अ॒मति॑म् । उ॒रू॒चीम् । म॒र्त॒ऽभोज॑नम् । अध॑ । रा॒स॒ते॒ । नः॒ ॥३

सः । घ । नः । देवः । सविता । सहऽवा । आ । साविषत् । वसुऽपतिः । वसूनि ।

विऽश्रयमाणः । अमतिम् । उरूचीम् । मर्तऽभोजनम् । अध । रासते । नः ॥३

“सहावा । तेजोऽन्तराण्यभिभावुकं तेजो यस्य सः । “वसुपतिः धनानां पालकः “सः “सविता “देवः “नः अस्मभ्यं “वसूनि धनानि “आ "साविषत् आ समन्तात् प्रेरयति । “घ इति पूरणः । स सविता देवः “उरूचीं विस्तीर्णगमनाम् “अमतिं रूपम् । दीप्तिमित्यर्थः। “विश्रयमाणः निषेवमाणः सन् “आध अधुना “नः अस्मभ्यं “मर्तभोजनं मनुष्याणां भोगयोग्यं धनं “रासते ददातु ॥


इ॒मा गिर॑ः सवि॒तारं॑ सुजि॒ह्वं पू॒र्णग॑भस्तिमीळते सुपा॒णिम् ।

चि॒त्रं वयो॑ बृ॒हद॒स्मे द॑धातु यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥४

इ॒माः । गिरः॑ । स॒वि॒तार॑म् । सु॒ऽजि॒ह्वम् । पू॒र्णऽग॑भस्तिम् । ई॒ळ॒ते॒ । सु॒ऽपा॒णिम् ।

चि॒त्रम् । वयः॑ । बृ॒हत् । अ॒स्मे इति॑ । द॒धा॒तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥४

इमाः । गिरः । सवितारम् । सुऽजिह्वम् । पूर्णऽगभस्तिम् । ईळते । सुऽपाणिम् ।

चित्रम् । वयः । बृहत् । अस्मे इति । दधातु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥४

“इमाः ईदृग्भूताः “गिरः । गृणन्ति स्तुवन्तीति गिरः स्तोत्र्यः प्रजाः । यद्वा । इमाः स्तुतिरूपा वाचः । “सुजिह्वं शोभनजिह्वम् । शोभनवाचमित्यर्थः । “पूर्णगभस्तिं संपूर्णधनहस्तं “सवितारं देवम् “ईळते स्तुवन्ति । स च सविता “चित्रं चायनीयं "बृहत् महत् "वयः अन्नम् “अस्मे अस्मासु “दधातु । यद्वा अस्मे अस्मभ्यं प्रयच्छतु । हे सवितृप्रमुखा देवाः “यूयं “नः अस्मान् “स्वस्तिभिः कल्याणैः “सदा सर्वदा “पात पालयत । ॥ १२ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४५&oldid=222987" इत्यस्माद् प्रतिप्राप्तम्