सामग्री पर जाएँ

ऋग्वेदः सूक्तं ७.३७

विकिस्रोतः तः
← सूक्तं ७.३६ ऋग्वेदः - मण्डल ७
सूक्तं ७.३७
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.३८ →
दे. विश्वे देवाः। त्रिष्टुप्।


आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः ।
अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम् ॥१॥
यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् ।
सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम् ॥२॥
उवोचिथ हि मघवन्देष्णं महो अर्भस्य वसुनो विभागे ।
उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥३॥
त्वमिन्द्र स्वयशा ऋभुक्षा वाजो न साधुरस्तमेष्यृक्वा ।
वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ॥४॥
सनितासि प्रवतो दाशुषे चिद्याभिर्विवेषो हर्यश्व धीभिः ।
ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः ॥५॥
वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः ।
अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी ॥६॥
अभि यं देवी निरृतिश्चिदीशे नक्षन्त इन्द्रं शरदः सुपृक्षः ।
उप त्रिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कृणवन्त मर्ताः ॥७॥
आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ ।
सदा नो दिव्यः पायुः सिषक्तु यूयं पात स्वस्तिभिः सदा नः ॥८॥


सायणभाष्यम्

‘आ वो वाहिष्ठः ' इत्यष्टर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वदेवम् । अनुक्रम्यते च - ‘आ वोऽष्टौ ' इति । विनियोगो लैङ्गिकः ॥


आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो॑ वाजा ऋभुक्षणो॒ अमृ॑क्तः ।

अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे॑ सुशिप्रा म॒हभि॑ः पृणध्वम् ॥१

आ । वः॒ । वाहि॑ष्ठः । व॒ह॒तु॒ । स्त॒वध्यै॑ । रथः॑ । वा॒जाः॒ । ऋ॒भु॒क्ष॒णः॒ । अमृ॑क्तः ।

अ॒भि । त्रि॑ऽपृ॒ष्ठैः । सव॑नेषु । सोमैः॑ । मदे॑ । सु॒ऽशि॒प्राः॒ । म॒हऽभिः॑ । पृ॒ण॒ध्व॒म् ॥१

आ । वः । वाहिष्ठः । वहतु । स्तवध्यै । रथः । वाजाः । ऋभुक्षणः । अमृक्तः ।

अभि । त्रिऽपृष्ठैः । सवनेषु । सोमैः । मदे । सुऽशिप्राः । महऽभिः । पृणध्वम् ॥१

अनेन द्वृचेन ऋभवः स्तूयन्ते। “ऋभुक्षणः विस्तीर्णस्य तेजसो निवासभूता हे "वाजाः ऋभवः “वाहिष्ठः वोढ़ृतमः “स्तवध्यै स्तोतुमर्हः “अमृक्तः केनाप्यहिंसितो युष्मदीयः “रथः “वः युष्मान् “आ “वहतु आ समन्तादस्मदीयं यज्ञं प्रापयतु । हे “सुशिप्राः शोभनहनवः यूयं तेन रथेनागत्य “सवनेषु अस्मदीययज्ञेषु "मदे मदनिमित्ते “त्रिपृष्ठैः क्षीरदधिसक्तुमिश्रैः "महभिः महद्भिः “सोमैः “अभि "पृणध्वं युष्मदीयं जठरमभिपूरयत । स रथो युष्मानावहत्विति पूर्वेणान्वयः ।।


यू॒यं ह॒ रत्नं॑ म॒घव॑त्सु धत्थ स्व॒र्दृश॑ ऋभुक्षणो॒ अमृ॑क्तम् ।

सं य॒ज्ञेषु॑ स्वधावन्तः पिबध्वं॒ वि नो॒ राधां॑सि म॒तिभि॑र्दयध्वम् ॥२

यू॒यम् । ह॒ । रत्न॑म् । म॒घव॑त्ऽसु । ध॒त्थ॒ । स्वः॒ऽदृशः॑ । ऋ॒भु॒क्ष॒णः॒ । अमृ॑क्तम् ।

सम् । य॒ज्ञेषु॑ । स्व॒धा॒ऽव॒न्तः॒ । पि॒ब॒ध्व॒म् । वि । नः॒ । राधां॑सि । म॒तिऽभिः॑ । द॒य॒ध्व॒म् ॥२

यूयम् । ह । रत्नम् । मघवत्ऽसु । धत्थ । स्वःऽदृशः । ऋभुक्षणः । अमृक्तम् ।

सम् । यज्ञेषु । स्वधाऽवन्तः । पिबध्वम् । वि । नः । राधांसि । मतिऽभिः । दयध्वम् ॥२

हे "ऋभुक्षणः हे ऋभवः “स्वर्दृशः स्वर्गं पश्यन्तः "यूयं “ह यूयमेव "मघवत्सु हविर्लक्षणान्नवत्स्वस्मासु निमित्तेषु “अमृक्तम् अहिंसितम्। चोरादिभिर्नापहृतमित्यर्थः । “रत्नं रमणीयं “धत्थ धारयथ। तदनन्तरं “स्वधावन्तः बलवन्तस्ते यूयं “यज्ञेषु अस्मदीययज्ञेषु “सं “पिबध्वं सम्यक् सोमं पिबत । अपि च यूयं "मतिभिः धनहेतुभिः “नः अस्मभ्यं "राधांसि धनानि “वि “दयध्वं विशेषेण दत्त ।।


उ॒वोचि॑थ॒ हि म॑घवन्दे॒ष्णं म॒हो अर्भ॑स्य॒ वसु॑नो विभा॒गे ।

उ॒भा ते॑ पू॒र्णा वसु॑ना॒ गभ॑स्ती॒ न सू॒नृता॒ नि य॑मते वस॒व्या॑ ॥३

उ॒वोचि॑थ । हि । म॒घ॒ऽव॒न् । दे॒ष्णम् । म॒हः । अर्भ॑स्य । वसु॑नः । वि॒ऽभा॒गे ।

उ॒भा । ते॒ । पू॒र्णा । वसु॑ना । गभ॑स्ती॒ इति॑ । न । सू॒नृता॑ । नि । य॒म॒ते॒ । व॒स॒व्या॑ ॥३

उवोचिथ । हि । मघऽवन् । देष्णम् । महः । अर्भस्य । वसुनः । विऽभागे ।

उभा । ते । पूर्णा । वसुना । गभस्ती इति । न । सूनृता । नि । यमते । वसव्या ॥३

‘ उवोचिथ ' इत्याद्याः पञ्चर्च इन्द्रदेवताकाः। हे "मघवन् धनवन्निन्द्र त्वं “महः महतः “अर्भस्य अल्पस्य च "वसुनः धनस्य “विभागे परिचरणानुकूले दाननिमित्ते “देष्णं धनम् “उवोचिथ “हि सेवसे खलु। उचतिः सेवाकर्मा। तथा “ते त्वदीयौ “उभा उभौ “गभस्ती बाहू "वसुना धनेन "पूर्णा संपूर्णौ भवतः । ते त्वदीया "सूनृता वाक् “वसव्या वसूनि धनानि “न “नि "यमते न नियच्छति । यद्वा । वसव्या वसुषु धनेषु साधुः सूनृता वाक् धनेन संपूर्णौ त्वदीयौ बाहू न नियच्छति । नाल्पं प्रदापयतीत्यर्थः ॥ ।


त्वमि॑न्द्र॒ स्वय॑शा ऋभु॒क्षा वाजो॒ न सा॒धुरस्त॑मे॒ष्यृक्वा॑ ।

व॒यं नु ते॑ दा॒श्वांस॑ः स्याम॒ ब्रह्म॑ कृ॒ण्वन्तो॑ हरिवो॒ वसि॑ष्ठाः ॥४

त्वम् । इ॒न्द्र॒ । स्वऽय॑शाः । ऋ॒भु॒क्षाः । वाजः॑ । न । सा॒धुः । अस्त॑म् । ए॒षि॒ । ऋक्वा॑ ।

व॒यम् । नु । ते॒ । दा॒श्वांसः॑ । स्या॒म॒ । ब्रह्म॑ । कृ॒ण्वन्तः॑ । ह॒रि॒ऽवः॒ । वसि॑ष्ठाः ॥४

त्वम् । इन्द्र । स्वऽयशाः । ऋभुक्षाः । वाजः । न । साधुः । अस्तम् । एषि । ऋक्वा ।

वयम् । नु । ते । दाश्वांसः । स्याम । ब्रह्म । कृण्वन्तः । हरिऽवः । वसिष्ठाः ॥४

हे इन्द्र "स्वयशाः असाधारणकीर्तिः “ऋभुक्षाः ऋभुनिवासकः ऋभूणामीश्वरो वा “त्वं “साधुः साधकः "वाजः “न अन्नमिव “ऋक्वा ऋक्वणः स्तोतुर्मम “अस्तं गृहम् “एषि प्राप्नुहि । “नु अद्य “वसिष्ठाः एतत्संज्ञका ऋषयः “वयं हे "हरिवः स्वकीयाश्वोपेतेन्द्र “ते त्वदर्थं "दाश्वांसः हविर्लक्षणान्नं दत्तवन्तः “ब्रह्म स्तोत्रं “कृण्वन्तः कुर्वन्तः सन्तः “स्याम भवेम ।


सनि॑तासि प्र॒वतो॑ दा॒शुषे॑ चि॒द्याभि॒र्विवे॑षो हर्यश्व धी॒भिः ।

व॒व॒न्मा नु ते॒ युज्या॑भिरू॒ती क॒दा न॑ इन्द्र रा॒य आ द॑शस्येः ॥५

सनि॑ता । अ॒सि॒ । प्र॒ऽवतः॑ । दा॒शुषे॑ । चि॒त् । याभिः॑ । विवे॑षः । ह॒रि॒ऽअ॒श्व॒ । धी॒भिः ।

व॒व॒न्म । नु । ते॒ । युज्या॑भिः । ऊ॒ती । क॒दा । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । द॒श॒स्येः॒ ॥५

सनिता । असि । प्रऽवतः । दाशुषे । चित् । याभिः । विवेषः । हरिऽअश्व । धीभिः ।

ववन्म । नु । ते । युज्याभिः । ऊती । कदा । नः । इन्द्र । रायः । आ । दशस्येः ॥५

हे “हर्यश्व हरिनामकाश्वेन्द्र त्वं “याभिः “धीभिः अस्मदीयाभिः स्तुतिभिः “विवेषः व्याप्नोषि स त्वं “दाशुषे “चित् हविर्दत्तवते यजमानायापि “प्रवतः प्रवणस्य धनस्य “सनिता “असि दाता भवसि । अपि च हे इन्द्र त्वं “नः अस्मभ्यं “कदा कस्मिन् काले “रायः धनानि “आ “दशस्येः प्रयच्छेः । “नु अद्य “ते तव “युज्याभिः योग्याभिः “ऊती उतिभी रक्षाभिः “ववन्म त्वां संभजेम ॥ ॥ ३ ॥


वा॒सय॑सीव वे॒धस॒स्त्वं न॑ः क॒दा न॑ इन्द्र॒ वच॑सो बुबोधः ।

अस्तं॑ ता॒त्या धि॒या र॒यिं सु॒वीरं॑ पृ॒क्षो नो॒ अर्वा॒ न्यु॑हीत वा॒जी ॥६

वा॒सय॑सिऽइव । वे॒धसः॑ । त्वम् । नः॒ । क॒दा । नः॒ । इ॒न्द्र॒ । वच॑सः । बु॒बो॒धः॒ ।

अस्त॑म् । ता॒त्या । धि॒या । र॒यिम् । सु॒ऽवीर॑म् । पृ॒क्षः । नः॒ । अर्वा॑ । नि । उ॒ही॒त॒ । वा॒जी ॥६

वासयसिऽइव । वेधसः । त्वम् । नः । कदा । नः । इन्द्र । वचसः । बुबोधः ।

अस्तम् । तात्या । धिया । रयिम् । सुऽवीरम् । पृक्षः । नः । अर्वा । नि । उहीत । वाजी ॥६

हे इन्द्र “त्वं “कदा कस्मिन् काले “नः अस्मदीयं “वचसः वचोरूपं स्तोत्रं “बुबोधः अवगच्छेः। तथा स त्वं “वेधसः स्तोतॄनस्मान् “वासयसीव। इवेदानीमर्थे । इदानीं स्वकीये स्थानेऽवस्थापयसि । किंच “वाजी बलवान् “अर्वा वेगवांस्त्वदीयोऽश्वः । “तात्या। तनोतेरिदं रूपम्। संततया “धिया अस्मत्प्रेरितया स्तुत्या हेतुभूतया “सुवीरं शोभनपुत्रोपेतं “रयिं त्वदीयं धनं "पृक्षः अन्नं च “नः अस्मदीयम् “अस्तं गृहं “नि उहीत निवहेत् ॥


अ॒भि यं दे॒वी निरृ॑तिश्चि॒दीशे॒ नक्ष॑न्त॒ इन्द्रं॑ श॒रद॑ः सु॒पृक्ष॑ः ।

उप॑ त्रिब॒न्धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒ यं कृ॒णव॑न्त॒ मर्ता॑ः ॥७

अ॒भि । यम् । दे॒वी । निःऽऋ॑तिः । चि॒त् । ईशे॑ । नक्ष॑न्ते । इन्द्र॑म् । श॒रदः॑ । सु॒ऽपृक्षः॑ ।

उप॑ । त्रि॒ऽब॒न्धुः । ज॒रत्ऽअ॑ष्टिम् । ए॒ति॒ । अस्व॑वेशम् । यम् । कृ॒णव॑न्त । मर्ताः॑ ॥७

अभि । यम् । देवी । निःऽऋतिः । चित् । ईशे । नक्षन्ते । इन्द्रम् । शरदः । सुऽपृक्षः ।

उप । त्रिऽबन्धुः । जरत्ऽअष्टिम् । एति । अस्ववेशम् । यम् । कृणवन्त । मर्ताः ॥७

"देवी द्योतमाना “निर्ऋतिश्चित् भूमिरपि “ईशे ॥ कृत्यार्थे केन्प्रत्ययः ॥ ईशितव्या स्वभूता सती “यम् “इन्द्रम् “अभि नक्षते व्याप्नोति । “सुपृक्षः शोभनान्नैरुपेताः “शरदः संवत्सराश्च यमिन्द्रं “नक्षन्ते व्याप्नुवन्ति । “मर्ताः मरणधर्माणः स्तोतारो वयं “यम् इन्द्रम् “अस्ववेशं स्वकीये स्थानेऽनुपविशन्तं “कृणवन्त कुर्वन्ति । त्रिबन्धुः त्रयाणां लोकानां बन्धको विधारकः स इन्द्रः “जरदष्टिं जरज्जीर्णमष्टिरशनं यस्य बलस्य हेतुभूतं तद्बलम् “उप “एति उपगच्छति ॥


आ नो॒ राधां॑सि सवितः स्त॒वध्या॒ आ रायो॑ यन्तु॒ पर्व॑तस्य रा॒तौ ।

सदा॑ नो दि॒व्यः पा॒युः सि॑षक्तु यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥८

आ । नः॒ । राधां॑सि । स॒वि॒त॒रिति॑ । स्त॒वध्यै॑ । आ । रायः॑ । य॒न्तु॒ । पर्व॑तस्य । रा॒तौ ।

सदा॑ । नः॒ । दि॒व्यः । पा॒युः । सि॒स॒क्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥८

आ । नः । राधांसि । सवितरिति । स्तवध्यै । आ । रायः । यन्तु । पर्वतस्य । रातौ ।

सदा । नः । दिव्यः । पायुः । सिसक्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥८

हे “सवितः सर्वस्य प्रेरक देव त्वत्सकाशात् “स्तवध्यै स्तोतुं योग्यानि “राधांसि धनानि । “नः अस्मान् “आ “यन्तु आगच्छन्तु । “पर्वतस्य । पर्वत इति कश्चिदिन्द्रस्य सखा । एतत्संज्ञकस्य देवस्य "रातौ दाने सति “रायः धनान्यस्मान् “आ यन्तु। “पायुः सर्वस्य पालकः “दिव्यः दिवि भवः स इन्द्रः “सदा सर्वदा “नः अस्मान् “सिषक्तु रक्षकत्वेन सेवताम् । अस्मिन् सूक्ते ये प्रतिपादिता देवास्ते सर्वे “यूयं “नः अस्मान् “स्वस्तिभिः कल्याणैः “सदा “पात पालयत ॥ ॥ ४ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.३७&oldid=200750" इत्यस्माद् प्रतिप्राप्तम्