ऋग्वेदः सूक्तं ७.२४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.२३ ऋग्वेदः - मण्डल ७
सूक्तं ७.२४
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.२५ →
दे. इन्द्रः। त्रिष्टुप् ।

योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरुहूत प्र याहि ।
असो यथा नोऽविता वृधे च ददो वसूनि ममदश्च सोमैः ॥१॥
गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि ।
विसृष्टधेना भरते सुवृक्तिरियमिन्द्रं जोहुवती मनीषा ॥२॥
आ नो दिव आ पृथिव्या ऋजीषिन्निदं बर्हिः सोमपेयाय याहि ।
वहन्तु त्वा हरयो मद्र्यञ्चमाङ्गूषमच्छा तवसं मदाय ॥३॥
आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि ।
वरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद्वृषणं शुष्ममिन्द्र ॥४॥
एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि ।
इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः ॥५॥
एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम ।
इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥६॥


सायणभाष्यम्

‘योनिष्ट इन्द्र सदने अकारि ' इति षडृचं सप्तमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । अनुक्रम्यते च-’ योनिः' इति । महाव्रते निष्केवल्य एतत्सूक्तम् । सूत्रितं च - ’ योनिष्ट इन्द्र सदने अकारीत्येतस्य चतस्रः शस्त्वोत्तमामुपसंतत्योपोत्तमया परिदधाति' (ऐ. आ. ५. ३. १) इति ॥


योनि॑ष्ट इन्द्र॒ सद॑ने अकारि॒ तमा नृभि॑ः पुरुहूत॒ प्र या॑हि ।

असो॒ यथा॑ नोऽवि॒ता वृ॒धे च॒ ददो॒ वसू॑नि म॒मद॑श्च॒ सोमै॑ः ॥१

योनिः॑ । ते॒ । इ॒न्द्र॒ । सद॑ने । अ॒का॒रि॒ । तम् । आ । नृऽभिः॑ । पु॒रु॒ऽहू॒त॒ । प्र । या॒हि॒ ।

असः॑ । यथा॑ । नः॒ । अ॒वि॒ता । वृ॒धे । च॒ । ददः॑ । वसू॑नि । म॒मदः॑ । च॒ । सोमैः॑ ॥१

योनिः । ते । इन्द्र । सदने । अकारि । तम् । आ । नृऽभिः । पुरुऽहूत । प्र । याहि ।

असः । यथा । नः । अविता । वृधे । च । ददः । वसूनि । ममदः । च । सोमैः ॥१

हे "इन्द्र "ते तव “सदने सदनार्थं "योनिः स्थानम् "अकारि । हे "पुरुहूत "नृभिः मरुद्भिः सार्धं "तं योनिम् "आ “प्र “याहि । “नः अस्माकं "यथा "अविता रक्षिता “असः भवसि नोऽस्माकं "वृधे वर्धनाय "च असः । तथा च "वसूनि "ददः अस्मभ्यं देहि । "सोमैः अस्मदीयैः “ममदः मादयस्व "च ॥


गृ॒भी॒तं ते॒ मन॑ इन्द्र द्वि॒बर्हा॑ः सु॒तः सोम॒ः परि॑षिक्ता॒ मधू॑नि ।

विसृ॑ष्टधेना भरते सुवृ॒क्तिरि॒यमिन्द्रं॒ जोहु॑वती मनी॒षा ॥२

गृ॒भी॒तम् । ते॒ । मनः॑ । इ॒न्द्र॒ । द्वि॒ऽबर्हाः॑ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि ।

विसृ॑ष्टऽधेना । भ॒र॒ते॒ । सु॒ऽवृ॒क्तिः । इ॒यम् । इन्द्र॑म् । जोहु॑वती । म॒नी॒षा ॥२

गृभीतम् । ते । मनः । इन्द्र । द्विऽबर्हाः । सुतः । सोमः । परिऽसिक्ता । मधूनि ।

विसृष्टऽधेना । भरते । सुऽवृक्तिः । इयम् । इन्द्रम् । जोहुवती । मनीषा ॥२

हे इन्द्र “द्विबर्हाः । षष्ठ्यर्थे प्रथमा । द्विबर्हसो द्वयोः स्थानयोः परिवृढस्य “ते तव “मनः “गृभीतम् अस्माभिः परिगृहीतम् । “सोमः च “सुतः अभिषुतः । “मधूनि च "परिषिक्ता पात्रेषु परिषिक्तानि । “विसृष्टधेना विसृष्टजिह्वा मध्यमस्वरेणोच्चार्यमाणा "सुवृक्तिः सुसमाप्तिः “इयं “मनीषा स्तुतिः “इन्द्रं "जोहुवती भृशमाह्वयन्ती “भरते संभ्रियते च ॥


आ नो॑ दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन्नि॒दं ब॒र्हिः सो॑म॒पेया॑य याहि ।

वह॑न्तु त्वा॒ हर॑यो म॒द्र्य॑ञ्चमाङ्गू॒षमच्छा॑ त॒वसं॒ मदा॑य ॥३

आ । नः॒ । दि॒वः । आ । पृ॒थि॒व्याः । ऋ॒जी॒षि॒न् । इ॒दम् । ब॒र्हिः । सो॒म॒ऽपेया॑य । या॒हि॒ ।

वह॑न्तु । त्वा॒ । हर॑यः । म॒द्र्य॑ञ्चम् । आ॒ङ्गू॒षम् । अच्छ॑ । त॒वस॑म् । मदा॑य ॥३

आ । नः । दिवः । आ । पृथिव्याः । ऋजीषिन् । इदम् । बर्हिः । सोमऽपेयाय । याहि ।

वहन्तु । त्वा । हरयः । मद्र्यञ्चम् । आङ्गूषम् । अच्छ । तवसम् । मदाय ॥३

हे “ऋजीषिन् इन्द्र “नः अस्माकम् “इदं “बर्हिः इमं यज्ञं “सोमपेयाय “दिवः स्वर्गात् “आ “याहि आगच्छ । “पृथिव्याः अन्तरिक्षाच्च । ‘ आपः पृथिवी' इत्यन्तरिक्षनामसु पाठात् । “आ याहि । अपि च “तवसं प्रवृद्धं बलवन्तं वा मद्र्यञ्चं मदभिमुखं “त्वा त्वाम् “आङ्गूषं स्तोत्रम् “अच्छ अभि “मदाय मदार्थं "हरयः अश्वाः "वहन्तु ॥


आ नो॒ विश्वा॑भिरू॒तिभि॑ः स॒जोषा॒ ब्रह्म॑ जुषा॒णो ह॑र्यश्व याहि ।

वरी॑वृज॒त्स्थवि॑रेभिः सुशिप्रा॒स्मे दध॒द्वृष॑णं॒ शुष्म॑मिन्द्र ॥४

आ । नः॒ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । ब्रह्म॑ । जु॒षा॒णः । ह॒रि॒ऽअ॒श्व॒ । या॒हि॒ ।

वरी॑वृजत् । स्थवि॑रेभिः । सु॒ऽशि॒प्र॒ । अ॒स्मे इति॑ । दध॑त् । वृष॑णम् । शुष्म॑म् । इ॒न्द्र॒ ॥४

आ । नः । विश्वाभिः । ऊतिऽभिः । सऽजोषाः । ब्रह्म । जुषाणः । हरिऽअश्व । याहि ।

वरीवृजत् । स्थविरेभिः । सुऽशिप्र । अस्मे इति । दधत् । वृषणम् । शुष्मम् । इन्द्र ॥४

हे "हर्यश्व हरिनामकाश्व “सुशिप्र शोभनहनो “इन्द्र “विश्वाभिः सर्वाभिः “ऊतिभिः रक्षाभिः “सजोषाः संगतः “स्थविरेभिः वृद्धैर्मरुद्भिः सह “वरीवृजत् शत्रून् भृशं हिंसन् “अस्मे अस्मभ्यं “वृषणं कामानां वर्षितारं “शुष्मं बलवन्तं पुत्रं “दधत् प्रयच्छन् “ब्रह्म स्तोत्रं "जुषाणः सेवमानः “नः अस्मान् “आ “याहि ॥


ए॒ष स्तोमो॑ म॒ह उ॒ग्राय॒ वाहे॑ धु॒री॒३॒॑वात्यो॒ न वा॒जय॑न्नधायि ।

इन्द्र॑ त्वा॒यम॒र्क ई॑ट्टे॒ वसू॑नां दि॒वी॑व॒ द्यामधि॑ न॒ः श्रोम॑तं धाः ॥५

ए॒षः । स्तोमः॑ । म॒हे । उ॒ग्राय॑ । वाहे॑ । धु॒रिऽइ॑व । अत्यः॑ । न । वा॒जय॑न् । अ॒धा॒यि॒ ।

इन्द्र॑ । त्वा॒ । अ॒यम् । अ॒र्कः । ई॒ट्टे॒ । वसू॑नाम् । दि॒विऽइ॑व । द्याम् । अधि॑ । नः॒ । श्रोम॑तम् । धाः॒ ॥५

एषः । स्तोमः । महे । उग्राय । वाहे । धुरिऽइव । अत्यः । न । वाजयन् । अधायि ।

इन्द्र । त्वा । अयम् । अर्कः । ईट्टे । वसूनाम् । दिविऽइव । द्याम् । अधि । नः । श्रोमतम् । धाः ॥५

"महे महते “उग्राय उद्गूर्णाय ओजस्विने वा “वाहे विश्वस्य वोढ्रे इन्द्राय “धुरीव रथस्य “अत्यो “न अश्व इव “वाजयन् बलं कुर्वन् “एष “स्तोमः “अधायि व्यधाथि । अथ प्रत्यक्षस्तुतिः । हे “इन्द्र यं त्वाम् “अयमर्कः स्तोता “वसूनां वसूनि धनानि “ईट्टे याचते स त्वं “नः अस्मासु “द्यां “दिवीव “श्रोमतं श्रवणीयमन्नं पुत्रं वा “अधि “धाः अधिधेहि ॥


ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते॑ म॒हीं सु॑म॒तिं वे॑विदाम ।

इषं॑ पिन्व म॒घव॑द्भ्यः सु॒वीरां॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥६

ए॒व । नः॒ । इ॒न्द्र॒ । वार्य॑स्य । पू॒र्धि॒ । प्र । ते॒ । म॒हीम् । सु॒ऽम॒तिम् । वे॒वि॒दा॒म॒ ।

इष॑म् । पि॒न्व॒ । म॒घव॑त्ऽभ्यः । सु॒ऽवीरा॑म् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६

एव । नः । इन्द्र । वार्यस्य । पूर्धि । प्र । ते । महीम् । सुऽमतिम् । वेविदाम ।

इषम् । पिन्व । मघवत्ऽभ्यः । सुऽवीराम् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६

हे “इन्द्र “नः अस्मान् “एव एवं “वार्यस्य । तृतीयार्थे षष्ठी। वरणीयेन धनेन “पूर्धि पूरय । “ते तव “महीं महतीं “सुमतिम् अनुग्रहबुद्धिं "वेविदाम भृशं लभेमहि । “मघवद्भ्यः हविष्मद्भ्योऽस्मभ्यं “सुवीरां शोभनपुत्रादियुताम् “इषम् अन्नं “पिन्व प्रयच्छेत्यर्थः । स्पष्टमन्यत् ॥ ॥ ८ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.२४&oldid=189510" इत्यस्माद् प्रतिप्राप्तम्