ऋग्वेदः सूक्तं ७.४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.३ ऋग्वेदः - मण्डल ७
सूक्तं ७.४
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.५ →
दे. अग्निः। त्रिष्टुप्।


प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम् ।
यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति ॥१॥
स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः ।
सं यो वना युवते शुचिदन्भूरि चिदन्ना समिदत्ति सद्यः ॥२॥
अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे ।
नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच ॥३॥
अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो नि धायि ।
स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥४॥
आ यो योनिं देवकृतं ससाद क्रत्वा ह्यग्निरमृताँ अतारीत् ।
तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति ॥५॥
ईशे ह्यग्निरमृतस्य भूरेरीशे रायः सुवीर्यस्य दातोः ।
मा त्वा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः ॥६॥
परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम ।
न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ॥७॥
नहि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ ।
अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळेतु नव्यः ॥८॥
त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् ।
सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥९॥
एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम ।
विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥१०॥

सायणभाष्यम्

‘प्र वः शुक्राय' इति दशर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयम् । ‘प्र वः' इत्यनुक्रान्तम् । प्रातरनुवाकाश्विनशस्त्रयोर्दशसूक्तमध्ये द्वितीयत्वेनोक्तः सूक्तविनियोगः । एकादशिन आग्नेये पशौ ‘ प्र वः शुक्राय' इत्येषा वपाया याज्या । सूत्रितं च----’ प्र वः शुक्राय भानवे भरध्वं यथा विप्रस्य मनुषो हविर्भिः' ( आश्व. श्रौ. ३.७) इति ।।


प्र वः॑ शु॒क्राय॑ भा॒नवे॑ भरध्वं ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू॑तं ।

यो दैव्या॑नि॒ मानु॑षा ज॒नूंष्यं॒तर्विश्वा॑नि वि॒द्मना॒ जिगा॑ति ॥१

प्र । वः॒ । शु॒क्राय॑ । भा॒नवे॑ । भ॒र॒ध्व॒म् । ह॒व्यम् । म॒तिम् । च॒ । अ॒ग्नये॑ । सुऽपू॑तम् ।

यः । दैव्या॑नि । मानु॑षा । ज॒नूंषि॑ । अ॒न्तः । विश्वा॑नि । वि॒द्मना॑ । जिगा॑ति ॥१

प्र । वः । शुक्राय । भानवे । भरध्वम् । हव्यम् । मतिम् । च । अग्नये । सुऽपूतम् ।

यः । दैव्यानि । मानुषा । जनूंषि । अन्तः । विश्वानि । विद्मना । जिगाति ॥१

हे हविषां वोढारः “वः यूयं “शुक्राय शुभ्राय “भानवे दीप्ताय “अग्नये सुपूतं सुशुद्धं “हव्यं “मतिं स्तुतिं च “प्र “भरध्वम् । “यः अग्निः “दैव्यानि “मानुषा मानुषाणि च “विश्वानि “जनूंषि जातानि "अन्तः अन्तरा “विद्मना प्रज्ञानेन मार्गेण वा “जिगाति गच्छति । देवान् मनुष्यांश्च अन्तरा हवींषि नेतुं वर्तत इत्यर्थः ॥


स गृत्सो॑ अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒ अज॑निष्ट मा॒तुः ।

सं यो वना॑ यु॒वते॒ शुचि॑द॒न्भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ॥२

सः । गृत्सः॑ । अ॒ग्निः । तरु॑णः । चि॒त् । अ॒स्तु॒ । यतः॑ । यवि॑ष्ठः । अज॑निष्ट । मा॒तुः ।

सम् । यः । वना॑ । यु॒वते॑ । शुचि॑ऽदन् । भूरि॑ । चि॒त् । अन्ना॑ । सम् । इत् । अ॒त्ति॒ । स॒द्यः ॥२

सः । गृत्सः । अग्निः । तरुणः । चित् । अस्तु । यतः । यविष्ठः । अजनिष्ट । मातुः ।

सम् । यः । वना । युवते । शुचिऽदन् । भूरि । चित् । अन्ना । सम् । इत् । अत्ति । सद्यः ॥२

“सः “चित् स एव “गृत्सः मेधावी । तथा च यास्कः- गृत्स इति मेधाविनाम' ( निरु. ९.५)। "अग्निः “तरुणः तारको भवति । तदा “यतः यदा “मातुः अरण्याः “यविष्ठः युवतमः सन् "अजनिष्ट । "यः अग्निः “शुचिदन् दीप्तदन्तः “वना वनानि “सं “युवते आत्मना संयोजयति । किंच “भूरि “चित् भूरीण्यपि “अन्ना स्वीयान्यन्नानि “सद्यः “इत् सद्य एव “सम् “अत्ति सम्यक् भक्षयति ॥ ।


अ॒स्य दे॒वस्य॑ सं॒सद्यनी॑के॒ यं मर्ता॑सः श्ये॒तं ज॑गृ॒भ्रे ।

नि यो गृभं॒ पौरु॑षेयीमु॒वोच॑ दु॒रोक॑म॒ग्निरा॒यवे॑ शुशोच ॥३

अ॒स्य । दे॒वस्य॑ । स॒म्ऽसदि॑ । अनी॑के । यम् । मर्ता॑सः । श्ये॒तम् । ज॒गृ॒भ्रे ।

नि । यः । गृभ॑म् । पौरु॑षेयीम् । उ॒वोच॑ । दुः॒ऽओक॑म् । अ॒ग्निः । आ॒यवे॑ । शु॒शो॒च॒ ॥३

अस्य । देवस्य । सम्ऽसदि । अनीके । यम् । मर्तासः । श्येतम् । जगृभ्रे ।

नि । यः । गृभम् । पौरुषेयीम् । उवोच । दुःऽओकम् । अग्निः । आयवे । शुशोच ॥३

“अस्य “देवस्य अग्नेः “अनीके मुख्ये “संसदि स्थाने “श्येतं श्वेतं शुभ्रं “यम् अग्निं “मर्तासः मनुष्याः “जगृभ्रे परिगृह्णन्ति । “यः च अग्निः पौरुषेयीं पुरुषैः क्रियमाणां “गृभं गृभीतं “नि “उवोच ॥ अत्र वचिः सेवार्थे वर्तते । निषेवत इत्यर्थः । सः “अग्निः “आयवे मनुष्यार्थम् । द्रुह्यवः आयवः' इति मनुष्यनामसु पाठात् । दुरोकं सपत्नैर्दुःसेवं यथा भवति तथा “शुशोच दीप्यते ॥


अ॒यं क॒विरक॑विषु॒ प्रचे॑ता॒ मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि ।

स मा नो॒ अत्र॑ जुहुरः सहस्वः॒ सदा॒ त्वे सु॒मन॑सः स्याम ॥४

अ॒यम् । क॒विः । अक॑विषु । प्रऽचे॑ताः । मर्ते॑षु । अ॒ग्निः । अ॒मृतः॑ । नि । धा॒यि॒ ।

सः । मा । नः॒ । अत्र॑ । जु॒हु॒रः॒ । स॒ह॒स्वः॒ । सदा॑ । त्वे इति॑ । सु॒ऽमन॑सः । स्या॒म॒ ॥४

अयम् । कविः । अकविषु । प्रऽचेताः । मर्तेषु । अग्निः । अमृतः । नि । धायि ।

सः । मा । नः । अत्र । जुहुरः । सहस्वः । सदा । त्वे इति । सुऽमनसः । स्याम ॥४

“कविः क्रान्तदृक् “प्रचेताः प्रकाशकः “अमृतः मरणधर्मरहितः “अयम् “अग्निः “अकविषु अक्रान्तदृक्षु “मर्तेषु मरणधर्मकेषु “नि “धायि निहितः। अथ प्रत्यक्षस्तुतिः । “सहस्वः बलवन्नग्ने “त्वे यस्मिन् त्वयि “सदा वयं “सुमनसः सुमतयः “स्याम “सः त्वम् “अत्र अस्मिन् लोके “नः अस्मान् “मा "जुहुरः मा हिंसीः ।।


आ यो योनिं॑ दे॒वकृ॑तं स॒साद॒ क्रत्वा॒ ह्य१॒॑ग्निर॒मृताँ॒ अता॑रीत् ।

तमोष॑धीश्च व॒निन॑श्च॒ गर्भं॒ भूमि॑श्च वि॒श्वधा॑यसं बिभर्ति ॥५

आ । यः । योनि॑म् । दे॒वऽकृ॑तम् । स॒साद॑ । क्रत्वा॑ । हि । अ॒ग्निः । अ॒मृता॑न् । अता॑रीत् ।

तम् । ओष॑धीः । च॒ । व॒निनः॑ । च॒ । गर्भ॑म् । भूमिः॑ । च॒ । वि॒श्वऽधा॑यसम् । बि॒भ॒र्ति॒ ॥५

आ । यः । योनिम् । देवऽकृतम् । ससाद । क्रत्वा । हि । अग्निः । अमृतान् । अतारीत् ।

तम् । ओषधीः । च । वनिनः । च । गर्भम् । भूमिः । च । विश्वऽधायसम् । बिभर्ति ॥५

"यः अग्निः “देवकृतं देवैः कल्पितं “योनिं स्थानम् “आ ससाद अध्यास्ते । किमर्थं देवाः स्थानं कल्पयन्त्यग्नेः इत्यत आह । “हि यस्मात् कारणात् "अग्निः “क्रत्वा प्रज्ञया “अमृतान् देवान् “अतारीत दुर्गेभ्यस्तारयति । “तम् इममग्निं “विश्वधायसं विश्वस्य धारकम् “ओषधीः ओषधयः। “वनिनश्च वृक्षाश्च “गर्भं गर्भं सन्तं बिभ्रति । “भूमिश्च “बिभर्ति । श्रुतमेव बिभर्तीति पदं बहुवचनान्ततया विपरिणतं सत् ओषधीभिर्वनिभिश्च संबध्यते ॥ ॥ ५ ॥


ईशे॒ ह्य१॒॑ग्निर॒मृत॑स्य॒ भूरे॒रीशे॑ रा॒यः सु॒वीर्य॑स्य॒ दातोः॑ ।

मा त्वा॑ व॒यं स॑हसावन्न॒वीरा॒ माप्स॑वः॒ परि॑ षदाम॒ मादु॑वः ॥६

ईशे॑ । हि । अ॒ग्निः । अ॒मृत॑स्य । भूरेः॑ । ईशे॑ । रा॒यः । सु॒ऽवीर्य॑स्य । दातोः॑ ।

मा । त्वा॒ । व॒यम् । स॒ह॒सा॒ऽव॒न् । अ॒वीराः॑ । मा । अप्स॑वः । परि॑ । स॒दा॒म॒ । मा । अदु॑वः ॥६

ईशे । हि । अग्निः । अमृतस्य । भूरेः । ईशे । रायः । सुऽवीर्यस्य । दातोः ।

मा । त्वा । वयम् । सहसाऽवन् । अवीराः । मा । अप्सवः । परि । सदाम । मा । अदुवः ॥६

“अमृतस्य अन्नमुदकं वा । द्वितीयार्थे षष्ठी । “भूरेः अधिकं “दातोः दातुम् “अग्निः “ईशे ईष्टे “हि। “सुवीर्यस्य शोभनवीर्ययुक्तं “रायः धनं दातुम् “ईशे ईष्टे । अथ प्रत्यक्षस्तुतिः । “सहसावन् हे बलवन्नग्ने “वयं वसिष्ठाः “अवीराः पुत्रादिरहिताः सन्तः “मा “परि “षदाम मा पर्युपविशाम । “अप्सवः रूपरहिताश्च सन्तः "मा परि षदाम । तथा च यास्कः-’ अप्स' इति रूपनाम' (निरु. ५.१३) इति । “अदुवः परिचरणहीनाश्च “मा परि षदाम ॥ ।


प॒रि॒षद्यं॒ ह्यर॑णस्य॒ रेक्णो॒ नित्य॑स्य रा॒यः पत॑यः स्याम ।

न शेषो॑ अग्ने अ॒न्यजा॑तम॒स्त्यचे॑तानस्य॒ मा प॒थो वि दु॑क्षः ॥७

प॒रि॒ऽसद्य॑म् । हि । अर॑णस्य । रेक्णः॑ । नित्य॑स्य । रा॒यः । पत॑यः । स्या॒म॒ ।

न । शेषः॑ । अ॒ग्ने॒ । अ॒न्यऽजा॑तम् । अ॒स्ति॒ । अचे॑तानस्य । मा । प॒थः । वि । दु॒क्षः॒ ॥७

परिऽसद्यम् । हि । अरणस्य । रेक्णः । नित्यस्य । रायः । पतयः । स्याम ।

न । शेषः । अग्ने । अन्यऽजातम् । अस्ति । अचेतानस्य । मा । पथः । वि । दुक्षः ॥७

“अरणस्य अनृणस्य “रेक्णः धनं "परिषद्यं पर्याप्तं भवति “हि । अतः “नित्यस्य अपुनर्देयस्य “रायः धनस्य “पतयः “स्याम । यद्वा । अरणस्य रेक्णो धनं परिषद्यं परिहर्तव्यं भवति । अतो नित्यय औरसस्य रायः पुत्राख्यस्य धनस्य पतयः स्याम । हे “अग्ने “अन्यजातम् अनौरसं “शेषः अपत्यं “न “अस्ति न भवति । “अचेतानस्य अविदुषः “पथः मार्गान् पुत्रोत्पादनप्रमुखान् मार्गान् “मा “वि “दुक्षः मा विदुदुषः ॥ ‘ दुष वैकृत्ये ' इति धातुः ॥ तथा च यास्कः----’ परिहर्तव्यं हि नोपसर्तव्यमरणस्य रेक्णोऽरणोऽपार्णो भवति रेक्ण इति धननाम रिच्यते प्रयतः । नित्यस्य रायः पतयः स्याम । न शेषो अग्ने अन्यजातमस्ति । शेष इत्यपत्यनाम शिष्यते प्रयतोऽचेतयमानस्य तत्प्रमत्तस्य भवति मा नः पथो विदूदुषः' (निरु. ३.२) इति ॥


न॒हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद॑र्यो॒ मन॑सा॒ मंत॒वा उ॑ ।

अधा॑ चि॒दोकः॒ पुन॒रित्स ए॒त्या नो॑ वा॒ज्य॑भी॒षाळे॑तु॒ नव्यः॑ ॥८

न॒हि । ग्रभा॑य । अर॑णः । सु॒ऽशेवः॑ । अ॒न्यऽउ॑दर्यः । मन॑सा । मन्त॒वै । ऊं॒ इति॑ ।

अध॑ । चि॒त् । ओकः॑ । पुनः॑ । इत् । सः । ए॒ति॒ । आ । नः॒ । वा॒जी । अ॒भी॒षाट् । ए॒तु॒ । नव्यः॑ ॥८

नहि । ग्रभाय । अरणः । सुऽशेवः । अन्यऽउदर्यः । मनसा । मन्तवै । ऊं इति ।

अध । चित् । ओकः । पुनः । इत् । सः । एति । आ । नः । वाजी । अभीषाट् । एतु । नव्यः ॥८

पूर्वस्यामृचि उक्त एवार्थोऽत्र प्रपञ्च्यते । “अरणः अरममाणः “अन्योदर्यः “सुशेवः सुखतमः सन् "ग्रभाय पुत्रत्वेन ग्रहणाय “मनसा “मन्तवा “उ मनसापि मन्तव्यः “न भवति “हि । “अध “चित् अपि च "सः अन्योदर्यः “ओकः “इत् संस्थानमेव “पुनः “एति प्राप्नोति । अतः “वाजी अन्नवान् "अभीषाट् शत्रूणामभिभविता "नव्यः नवजातः पुत्रः “नः अस्मान् “आ “एतु आगच्छतु ।


त्वम॑ग्ने वनुष्य॒तो नि पा॑हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् ।

सं त्वा॑ ध्वस्म॒न्वद॒भ्ये॑तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ॥९

त्वम् । अ॒ग्ने॒ । व॒नु॒ष्य॒तः । नि । पा॒हि॒ । त्वम् । ऊं॒ इति॑ । नः॒ । स॒ह॒सा॒ऽव॒न् । अ॒व॒द्यात् ।

सम् । त्वा॒ । ध्व॒स्म॒न्ऽवत् । अ॒भि । ए॒तु॒ । पाथः॑ । सम् । र॒यिः । स्पृ॒ह॒याय्यः॑ । स॒ह॒स्री ॥९

त्वम् । अग्ने । वनुष्यतः । नि । पाहि । त्वम् । ऊं इति । नः । सहसाऽवन् । अवद्यात् ।

सम् । त्वा । ध्वस्मन्ऽवत् । अभि । एतु । पाथः । सम् । रयिः । स्पृहयाय्यः । सहस्री ॥९

हे “अग्ने “त्वं “वनुष्यतः हिंसकात् "नः अस्मान् “नि “पाहि। "सहसावन् हे बलवन्नग्ने “त्वम् “अवद्यात् पापाच्चास्मान् नि पाहि। “त्वा त्वां “ध्वस्मन्वत् ध्वस्तदोषं "पाथः अन्नं हविः “सम् “अभ्येतु सम्यक् प्राप्नोतु । अपि च अस्मान् “स्पृहयाय्यः स्पृहणीयः “सहस्री सहस्रसंख्याकः “रयिः अभ्येतु ॥


ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम ।

विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥१०

ए॒ता । नः॒ । अ॒ग्ने॒ । सौभ॑गा । दि॒दी॒हि॒ । अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । व॒ते॒म॒ ।

विश्वा॑ । स्तो॒तृऽभ्यः॑ । गृ॒ण॒ते । च॒ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥१०

एता । नः । अग्ने । सौभगा । दिदीहि । अपि । क्रतुम् । सुऽचेतसम् । वतेम ।

विश्वा । स्तोतृऽभ्यः । गृणते । च । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१०

एषा ऋग्व्याख्याता ॥ ॥ ६ ॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४&oldid=209128" इत्यस्माद् प्रतिप्राप्तम्