सामग्री पर जाएँ

ऋग्वेदः सूक्तं ७.५

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ७.४ ऋग्वेदः - मण्डल ७
सूक्तं ७.५
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.६ →
दे. वैश्वानरोऽग्निः। त्रिष्टुप्।


प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः ।
यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥१॥
पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभ स्तियानाम् ।
स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥२॥
त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि ।
वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः ॥३॥
तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त ।
त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥४॥
त्वामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः ।
पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम् ॥५॥
त्वे असुर्यं वसवो न्यृण्वन्क्रतुं हि ते मित्रमहो जुषन्त ।
त्वं दस्यूँरोकसो अग्न आज उरु ज्योतिर्जनयन्नार्याय ॥६॥
स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः ।
त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन् ॥७॥
तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः ।
यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥८॥
तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व ।
वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः ॥९॥


सायणभाष्यम्

‘ प्राग्नये तवसे' इति नवर्चं पञ्चमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वैश्वानराग्निदेवताकम् । तथा चानुक्रान्तं -- प्राग्नये नव वैश्वानरीयं तु' इति । विनियोगो लैङ्गिकः ॥


प्राग्नये॑ त॒वसे॑ भरध्वं॒ गिरं॑ दि॒वो अ॑र॒तये॑ पृथि॒व्याः ।

यो विश्वे॑षाम॒मृता॑नामु॒पस्थे॑ वैश्वान॒रो वा॑वृ॒धे जा॑गृ॒वद्भिः॑ ॥१

प्र । अ॒ग्नये॑ । त॒वसे॑ । भ॒र॒ध्व॒म् । गिर॑म् । दि॒वः । अ॒र॒तये॑ । पृ॒थि॒व्याः ।

यः । विश्वे॑षाम् । अ॒मृता॑नाम् । उ॒पऽस्थे॑ । वै॒श्वा॒न॒रः । व॒वृ॒धे । जा॒गृ॒वत्ऽभिः॑ ॥१

प्र । अग्नये । तवसे । भरध्वम् । गिरम् । दिवः । अरतये । पृथिव्याः ।

यः । विश्वेषाम् । अमृतानाम् । उपऽस्थे । वैश्वानरः । ववृधे । जागृवत्ऽभिः ॥१

हे स्तोतारः “तवसे प्रवृद्धाय “दिवः अन्तरिक्षस्य “पृथिव्याः च अरतये गन्त्रे “अग्नये वैश्वानरसंज्ञकायाग्नये "गिरं स्तुतिं “प्र “भरध्वम् । “यः “वैश्वानरः विश्वनरहितोऽग्निः “विश्वेषां सर्वेषाम् “अमृतानां देवानाम् “उपस्थे उपस्थाने यज्ञे जागृवद्भिः प्रबुद्धैर्देवैः सहितः सन् “ववृधे स्तुतिभिर्हविर्भिश्च वर्धते ।।


पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिंधू॑नां वृष॒भः स्तिया॑नां ।

स मानु॑षीर॒भि विशो॒ वि भा॑ति वैश्वान॒रो वा॑वृधा॒नो वरे॑ण ॥२

पृ॒ष्टः । दि॒वि । धायि॑ । अ॒ग्निः । पृ॒थि॒व्याम् । ने॒ता । सिन्धू॑नाम् । वृ॒ष॒भः । स्तिया॑नाम् ।

सः । मानु॑षीः । अ॒भि । विशः॑ । वि । भा॒ति॒ । वै॒श्वा॒न॒रः । व॒वृ॒धा॒नः । वरे॑ण ॥२

पृष्टः । दिवि । धायि । अग्निः । पृथिव्याम् । नेता । सिन्धूनाम् । वृषभः । स्तियानाम् ।

सः । मानुषीः । अभि । विशः । वि । भाति । वैश्वानरः । ववृधानः । वरेण ॥२

“सिन्धूनां नदीनां “नेता “स्तियानाम् अपाम् । ‘स्तिया आपो भवन्ति स्यायनात् ' (निरु. ६. १७) इति यास्कवचनात् । “वृषभः वर्षिता “पृष्टः अर्चितः तेजसा संपृक्तो वा यः “अग्निः “दिवि अन्तरिक्षे “पृथिव्यां च “धायि न्यधायि “सः “वैश्वानरः विश्वनरहितोऽग्निः “वरेण श्रेष्ठेन हविषा तेजसा वा “वावृधानः वर्धमानः सन् “मानुषीः “विशः “अभि मानुषीः प्रजा: प्रति “वि “भाति ॥


त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि ।

वैश्वा॑नर पू॒रवे॒ शोशु॑चानः॒ पुरो॒ यद॑ग्ने द॒रय॒न्नदी॑देः ॥३

त्वत् । भि॒या । विशः॑ । आ॒य॒न् । असि॑क्नीः । अ॒स॒म॒नाः । जह॑तीः । भोज॑नानि ।

वैश्वा॑नर । पू॒रवे॑ । शोशु॑चानः । पुरः॑ । यत् । अ॒ग्ने॒ । द॒रय॑न् । अदी॑देः ॥३

त्वत् । भिया । विशः । आयन् । असिक्नीः । असमनाः । जहतीः । भोजनानि ।

वैश्वानर । पूरवे । शोशुचानः । पुरः । यत् । अग्ने । दरयन् । अदीदेः ॥३

हे "वैश्वानर विश्वनरहित “अग्ने “त्वत् त्वत्तः “भिया भीत्या “असिक्नीः असितवर्णा राजस्यः ॥ प्रथमार्थे द्वितीया ॥ “विशः प्रजाः “असमनाः परस्परमसमेताः “भोजनानि धनानि “जहतीः त्यजन्त्यः “आयन् आगच्छन् । कदेत्यत आह । “यत् यदा “पूरवे राज्ञे “शोशुचानः दीप्यमानः “पुरः तस्य शत्रूणां पुरः “दरयन् दारयन् “अदीदेः अज्वलः । तथा च निगमः-’ अंहो राजन्वरिवः पूरवे कः' (ऋ. सं. १. ६३. ७) इति ॥


तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा॑नर व्र॒तम॑ग्ने सचंत ।

त्वं भा॒सा रोद॑सी॒ आ त॑तं॒थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ॥४

तव॑ । त्रि॒ऽधातु॑ । पृ॒थि॒वी । उ॒त । द्यौः । वैश्वा॑नर । व्र॒तम् । अ॒ग्ने॒ । स॒च॒न्त॒ ।

त्वम् । भा॒सा । रोद॑सी॒ इति॑ । आ । त॒त॒न्थ॒ । अज॑स्रेण । शो॒चिषा॑ । शोशु॑चानः ॥४

तव । त्रिऽधातु । पृथिवी । उत । द्यौः । वैश्वानर । व्रतम् । अग्ने । सचन्त ।

त्वम् । भासा । रोदसी इति । आ । ततन्थ । अजस्रेण । शोचिषा । शोशुचानः ॥४

हे “वैश्वानर विश्वेषां नराणां नेतः “अग्ने । तथा च यास्कः-’ वैश्वानरः कस्मात् विश्वान्नरान्नयति विश्व एनं नरा नयन्तीति वा ' (निरु. ७. २१) इति। “तव “व्रतं त्वत्प्रीतिकरं कर्म “त्रिधातु अन्तरिक्षं “पृथिवी च “उत अपि च “द्यौः इति त्रयो लोकाः “सचन्त सेवन्ते । त्रैलोक्यवर्तिन्यः प्रजास्त्वदर्थं कर्म कुर्वन्तीत्यर्थः । अपि च “त्वम् अजस्रेण “शोचिषा नित्येन प्रकाशेन “शोशुचानः दीप्यमानः “भासा दीप्त्या “रोदसी द्यावापृथिव्यौ च “आ “ततन्थ विस्तारयसि ॥


त्वाम॑ग्ने ह॒रितो॑ वावशा॒ना गिरः॑ सचंते॒ धुन॑यो घृ॒ताचीः॑ ।

पतिं॑ कृष्टी॒नां र॒थ्यं॑ रयी॒णां वै॑श्वान॒रमु॒षसां॑ के॒तुमह्नां॑ ॥५

त्वाम् । अ॒ग्ने॒ । ह॒रितः॑ । वा॒व॒शा॒नाः । गिरः॑ । स॒च॒न्ते॒ । धुन॑यः । घृ॒ताचीः॑ ।

पति॑म् । कृ॒ष्टी॒नाम् । र॒थ्य॑म् । र॒यी॒णाम् । वै॒श्वा॒न॒रम् । उ॒षसा॑म् । के॒तुम् । अह्ना॑म् ॥५

त्वाम् । अग्ने । हरितः । वावशानाः । गिरः । सचन्ते । धुनयः । घृताचीः ।

पतिम् । कृष्टीनाम् । रथ्यम् । रयीणाम् । वैश्वानरम् । उषसाम् । केतुम् । अह्नाम् ॥५

हे “अग्ने “कृष्टीनां प्रजानाम् । ‘क्षितयः कृष्टयः' इति मनुष्यनामसु पाठात् । “पतिं स्वामिनं “रयीणां धनानां “रथ्यं नेतारम् "उषसाम् “अह्नां केतुं प्रज्ञापकं “वैश्वानरं विश्वनरहितं “त्वां “हरितः अश्वाः “वावशानाः कामयमानाः “सचन्ते सेवन्ते । तथा “गिरः नृणां स्तुतिरूपा वाचः “धुनयः पापं धुन्वानाः “घृताचीः घृतमञ्चन्त्यः । हविषा सहिता इत्यर्थः । सचन्ते ॥ ॥ ७ ॥


त्वे अ॑सु॒र्यं१॒॑ वस॑वो॒ न्यृ॑ण्व॒न्क्रतुं॒ हि ते॑ मित्रमहो जु॒षंत॑ ।

त्वं दस्यूँ॒रोक॑सो अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या॑य ॥६

त्वे इति॑ । अ॒सु॒र्य॑म् । वस॑वः । नि । ऋ॒ण्व॒न् । क्रतु॑म् । हि । ते॒ । मि॒त्र॒ऽम॒हः॒ । जु॒षन्त॑ ।

त्वम् । दस्यू॑न् । ओक॑सः । अ॒ग्ने॒ । आ॒जः॒ । उ॒रु । ज्योतिः॑ । ज॒नय॑न् । आर्या॑य ॥६

त्वे इति । असुर्यम् । वसवः । नि । ऋण्वन् । क्रतुम् । हि । ते । मित्रऽमहः । जुषन्त ।

त्वम् । दस्यून् । ओकसः । अग्ने । आजः । उरु । ज्योतिः । जनयन् । आर्याय ॥६

हे “मित्रमहः मित्राणां पूजयितः “अग्ने “त्वे त्वयि “वसवः वासका देवा: “असुर्यं बलं “न्यृण्वन् न्यगमयन् । “ते “क्रतुं त्वत्प्रीतिकरं कर्म “जुषन्त असेवन्त “हि । किंच “त्वम् “आर्याय कर्मवते जनाय "उरु “ज्योतिः अधिकं तेजः “जनयन् “दस्यून् कर्महीनान् “ओकसः स्थानात् “आजः निरगमयः ॥


स जाय॑मानः पर॒मे व्यो॑मन्वा॒युर्न पाथः॒ परि॑ पासि स॒द्यः ।

त्वं भुव॑ना ज॒नय॑न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ॥७

सः । जाय॑मानः । प॒र॒मे । विऽओ॑मन् । वा॒युः । न । पाथः॑ । परि॑ । पा॒सि॒ । स॒द्यः ।

त्वम् । भुव॑ना । ज॒नय॑न् । अ॒भि । क्र॒न् । अप॑त्याय । जा॒त॒ऽवे॒दः॒ । द॒श॒स्यन् ॥७

सः । जायमानः । परमे । विऽओमन् । वायुः । न । पाथः । परि । पासि । सद्यः ।

त्वम् । भुवना । जनयन् । अभि । क्रन् । अपत्याय । जातऽवेदः । दशस्यन् ॥७

हे वैश्वानर “सः प्रसिद्धस्त्वं “परमे दूरस्थे “व्योमन् अन्तरिक्षे “जायमानः सूर्यरूपेण प्रादुर्भवन् “वायुर्न यथा वायुः द्विदेवत्यग्रहेषु प्रथमं सोमं पिबति तथा “पाथः सोमं “सद्यः “परि “पासि परिपिबसि । यद्वा । वायुरिव पाथो जलं परि पासि परिपिबसि । शोषयसीत्यर्थः । किंच है “जातवेदः जातधनाग्ने “त्वं “भुवना भुवनान्युदकानि । “भूतं भुवनम्' इत्युदकनामसु पाठात् । “जनयन् अपत्याय अपत्यवत्पालनीयाय यजमानाय “दशस्यन् कामान् प्रयच्छन् “अभि “क्रन् वैद्युतात्मना अभिक्रन्दसि अभिगर्जसि वा ॥ ।


ताम॑ग्ने अ॒स्मे इष॒मेर॑यस्व॒ वैश्वा॑नर द्यु॒मतीं॑ जातवेदः ।

यया॒ राधः॒ पिन्व॑सि विश्ववार पृ॒थु श्रवो॑ दा॒शुषे॒ मर्त्या॑य ॥८

ताम् । अ॒ग्ने॒ । अ॒स्मे इति॑ । इष॑म् । आ । ई॒र॒य॒स्व॒ । वैश्वा॑नर । द्यु॒ऽमती॑म् । जा॒त॒ऽवे॒दः॒ ।

यया॑ । राधः॑ । पिन्व॑सि । वि॒श्व॒ऽवा॒र॒ । पृ॒थु । श्रवः॑ । दा॒शुषे॑ । मर्त्या॑य ॥८

ताम् । अग्ने । अस्मे इति । इषम् । आ । ईरयस्व । वैश्वानर । द्युऽमतीम् । जातऽवेदः ।

यया । राधः । पिन्वसि । विश्वऽवार । पृथु । श्रवः । दाशुषे । मर्त्याय ॥८

हे “जातवेदः जातप्रज्ञ “वैश्वानर विश्वनरहित “अग्ने “ताम् “इषम् एषणीयां वृष्टिं “द्युमतीं दीप्तिमतीम् “अस्मे अस्मभ्यम् “एरयस्व प्रेरयस्व । वृष्ट्या त्रैलोक्यं द्योतते हि । यद्वा । द्युमतीं तामिषमन्नमेरयस्व । तथा च श्रूयते---तस्माद्यस्यैवेह भूयिष्ठमन्नं भवति स एव भूयिष्ठं लोके विराजति' (ऐ. ब्रा. १.५) इति । अथवा इषमेषणीयां तां द्युमतीं भास्वतीं दीप्तिमेरयस्व । “यया इषा “राधः धनं “पिन्वसि पालयसि । अपि च हे “विश्ववार विश्वैर्वरणीयाग्ने “पृथु विस्तीर्णं “श्रवः यशः “दाशुषे मर्त्याय यजमानाय पिन्वसि ॥


तं नो॑ अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं॑ युवस्व ।

वैश्वा॑नर॒ महि॑ नः॒ शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषाः॑ ॥९

तम् । नः॒ । अ॒ग्ने॒ । म॒घव॑त्ऽभ्यः । पु॒रु॒ऽक्षुम् । र॒यिम् । नि । वाज॑म् । श्रुत्य॑म् । यु॒व॒स्व॒ ।

वैश्वा॑नर । महि॑ । नः॒ । शर्म॑ । य॒च्छ॒ । रु॒द्रेभिः॑ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ ॥९

तम् । नः । अग्ने । मघवत्ऽभ्यः । पुरुऽक्षुम् । रयिम् । नि । वाजम् । श्रुत्यम् । युवस्व ।

वैश्वानर । महि । नः । शर्म । यच्छ । रुद्रेभिः । अग्ने । वसुऽभिः । सऽजोषाः ॥९

हे "अग्ने “मघवद्भ्यः धनवद्भ्यः । हविष्मद्भ्य इत्यर्थः । “नः अस्मभ्यं “पुरुक्षुं बह्वन्नं बहुयशस्कं वा “तं प्रसिद्धं “रयिं “श्रुत्यं श्रवणीयं “वाजं बलं च “नि “युवस्व नितरां मिश्रयस्व । किंच हे "वैश्वानर विश्वनरहित अग्ने त्वं “रुद्रेभिः रुद्रैः “वसुभिः च देवैः “सजोषाः सहितश्च सन् “नः अस्मभ्यं "महि महत् “शर्म सुखं यच्छ प्रयच्छ ॥ ॥ ८ ॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५&oldid=209129" इत्यस्माद् प्रतिप्राप्तम्