सामग्री पर जाएँ

ऋग्वेदः सूक्तं ७.९६

विकिस्रोतः तः
← सूक्तं ७.९५ ऋग्वेदः - मण्डल ७
सूक्तं ७.९६
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.९७ →
दे. सरस्वती, ४-६ सरस्वान्। १-२ प्रगाथः (विषमा बृहती, समा सतोबृहती), ३ प्रस्तारपङ्क्तिः, ४-६ गायत्री।

बृहदु गायिषे वचोऽसुर्या नदीनाम् ।
सरस्वतीमिन्महया सुवृक्तिभि स्तोमैर्वसिष्ठ रोदसी ॥१॥
उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः ।
सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् ॥२॥
भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती ।
गृणाना जमदग्निवत्स्तुवाना च वसिष्ठवत् ॥३॥
जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः ।
सरस्वन्तं हवामहे ॥४॥
ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः ।
तेभिर्नोऽविता भव ॥५॥
पीपिवांसं सरस्वत स्तनं यो विश्वदर्शतः ।
भक्षीमहि प्रजामिषम् ॥६॥

सायणभाष्यम्

‘बृहदु गायिषे ' इति षडृचं सप्तमं सूक्तं वसिष्ठस्यार्षम् । आद्या बृहती द्वितीया सतोबृहती तृतीया प्रस्तारपङ्क्तिः शिष्टास्तिस्रो गायत्र्यः । आद्यस्तृचः सरस्वतीदेवताकोऽन्त्यश्च सरस्वद्देवताकः । तथा चानुक्रान्तं-- बृहदु प्रगाथः प्रस्तारपङ्क्तिः परास्तिस्रो गायत्र्यः सरस्वते ' इति । पञ्चमेऽहनि प्रउगशस्त्र आद्यः प्रगाथः सारस्वतस्तृचः । सूत्रितं च--- बृहदु गायिष' इति बार्हतं प्रउगं प्रगाथानेके । ( आश्व. श्रौ. ७. १२ ) इति ॥


बृ॒हदु॑ गायिषे॒ वचो॑ऽसु॒र्या॑ न॒दीना॑म् ।

सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभि॒ः स्तोमै॑र्वसिष्ठ॒ रोद॑सी ॥१

बृ॒हत् । ऊं॒ इति॑ । गा॒यि॒षे॒ । वचः॑ । अ॒सु॒र्या॑ । न॒दीना॑म् ।

सर॑स्वतीम् । इत् । म॒ह॒य॒ । सु॒वृ॒क्तिऽभिः॑ । स्तोमैः॑ । व॒सि॒ष्ठ॒ । रोद॑सी॒ इति॑ ॥१

बृहत् । ऊँ इति । गायिषे । वचः । असुर्या । नदीनाम् ।

सरस्वतीम् । इत् । महय । सुवृक्तिऽभिः । स्तोमैः । वसिष्ठ । रोदसी इति ॥ १ ॥

अनयर्षिरात्मानं संबोध्य सरस्वत्याः स्तुतौ प्रेरयति । हे “वसिष्ठ त्वं बृहदु बृहदेव महदेव “वचः स्तोत्रं गायिषे गायसि । किमर्थम् । “नदीनां मध्ये "असुर्या । असुराशब्दाच्चतुर्थ्येकवचनस्य यादेशः । असुरायै बलवत्यै नदीरूपायै सरस्वत्यै। अस्याः प्रीणनार्थमित्यर्थः । तथा “रोदसी द्यावापृथिव्योः स्थितां दिवि देवतारूपेण भूम्यां वाग्रूपेण निवसन्तीं “सरस्वतीमित् सरस्वतीमेव “सुवृक्तिभिः सुष्ठु दोषवर्जितैः “स्तोमैः स्तोत्रैः "महय पूजय । सर्वदा सरस्वतीमेव स्तुहि नान्यां देवतामिति भावः ॥


उ॒भे यत्ते॑ महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रवः॑ ।

सा नो॑ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो॑ म॒घोना॑म् ॥२

उ॒भे इति॑ । यत् । ते॒ । म॒हि॒ना । शु॒भ्रे॒ । अन्ध॑सी॒ इति॑ । अ॒धि॒ऽक्षि॒यन्ति॑ । पू॒रवः॑ ।

सा । नः॒ । बो॒धि॒ । अ॒वि॒त्री । म॒रुत्ऽस॑खा । चोद॑ । राधः॑ । म॒घोना॑म् ॥२

उभे इति । यत् । ते । महिना । शुभ्रे । अन्धसी इति । अधिऽक्षियन्ति । पूरवः ।

सा। नः । बोधि । अवित्री । मरुत्ऽसखा । चोद । राधः । मघोनाम् ॥ २ ॥

हे “शुभ्रे शुभ्रवर्णे सरस्वति “यत् यस्याः "ते तव "महिना महिम्ना “उभे “अन्धसी उभयविधं दिव्यं पार्थिवं चाग्निं ग्राम्यमारण्यं वा “पूरवः पूरयितव्या मनुष्याः “अधिक्षियन्ति अधिगच्छन्ति “सा त्वम् “अवित्री रक्षित्री सती "नः अस्मान् "बोधि बुध्यस्व । अपि च “मरुत्सखा । मरुतो माध्यमिका देवगणाः। ते सखायो यस्या माध्यमिकाया वाचस्तादृशी त्वं “मघोनां हविर्लक्षणधनोपेतानामस्माकं “राधः धनं “चोद प्रेरय ॥


भ॒द्रमिद्भ॒द्रा कृ॑णव॒त्सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी॑वती ।

गृ॒णा॒ना ज॑मदग्नि॒वत्स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ॥३

भ॒द्रम् । इत् । भ॒द्रा । कृ॒ण॒व॒त् । सर॑स्वती । अक॑वऽअरी । चे॒त॒ति॒ । वा॒जिनी॑ऽवती ।

गृ॒णा॒ना । ज॒म॒द॒ग्नि॒ऽवत् । स्तु॒वा॒ना । च॒ । व॒सि॒ष्ठ॒ऽवत् ॥३

भद्रम् । इत् । भद्रा । कृणवत्। सरस्वती। अकवऽअरी । चेतति । वाजिनीऽवती ।

गृणाना । जमदग्निऽवत् । स्तुवाना। च । वसिष्ठऽवत् ॥ ३ ॥

“भद्रा कल्याणी भजनीया वा “सरस्वती “भद्रमित् भद्रमेव कल्याणमेव “कृणवत् अस्माकं करोतु । तथा “अकवारी अकुत्सितगमना “वाजिनीवती अन्नवती “चेतति चेतयतु अस्मान् प्रज्ञापयतु। यद्वा । मदीयं स्तोत्रं चेतति जानातु । तथा “जमदग्निवत् जमदग्निनर्षिणेव मया “गृणाना स्तूयमाना “वसिष्ठवत् । अर्हार्थे वतिप्रत्ययः । वसिष्ठार्हं वसिष्ठस्यानुरूपं “स्तुवाना स्तूयमाना “च भव ॥


सरस्वदेवताके पशौ ‘जनीयन्तः' इति तिस्रः पशुपुरोडाशहविषां क्रमेणानुवाक्याः । सूत्रितं च – जनीयन्तो न्वग्रव इति तिस्रो दिव्यं सुपर्णं वायसं बृहन्तम्' (आश्व. श्रौ. ३. ८) इति ॥

ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्तः॑ सु॒दान॑वः ।

सर॑स्वन्तं हवामहे ॥४

ज॒नि॒ऽयन्तः॑ । नु । अग्र॑वः । पु॒त्रि॒ऽयन्तः॑ । सु॒ऽदान॑वः ।

सर॑स्वन्तम् । ह॒वा॒म॒हे॒ ॥४

जनिऽयन्तः । नु । अग्रवः । पुत्रिऽयन्तः । सुदानवः ।

सरस्वन्तम् । हवामहे ।। ४ ।।

“जनीयन्तः । जायन्त आस्वपत्यानीति जनयो जायाः । ता इच्छन्तः “पुत्रीयन्तः पुत्रान् कामयमानाः “सुदानवः शोभनदानाः “अग्रवः उपगन्तारो वयं “नु अद्य “सरस्वन्तं देवं “हवामहे स्तुमहे आह्वयामहे वा ।।


ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ ।

तेभि॑र्नोऽवि॒ता भ॑व ॥५

ये । ते॒ । स॒र॒स्वः॒ । ऊ॒र्मयः॑ । मधु॑ऽमन्तः । घृ॒त॒ऽश्चुतः॑ ।

तेभिः॑ । नः॒ । अ॒वि॒ता । भ॒व॒ ॥५

ये। ते। सरस्वः । ऊर्मयः । मधुऽमन्तः । घृतऽश्चुतः ।

तेभिः । नः । अविता । भव ।। ५ ।।

हे “सरस्वः सरस्वन् देव “ते त्वदीयाः “ये “ऊर्मयः जलसंघाः "मधुमन्तः रसवन्तः “घृतश्चुतः घृतस्य वृष्ट्युदकस्य क्षारिणो भवन्ति “तेभिः तैरूर्मिभिः नः अस्माकम् “अविता रक्षिता “भव ॥


अन्वारम्भणीयायां सरस्वतो यागस्य ‘पीपिवांसम्' इत्यनुवाक्या । सूत्रितं च-’पीपिवांसं सरस्वतो दिव्यं सुपर्णं वायसं बृहन्तम्' (आश्व. श्रौ. २.८) इति ॥

पी॒पि॒वांसं॒ सर॑स्वत॒ः स्तनं॒ यो वि॒श्वद॑र्शतः ।

भ॒क्षी॒महि॑ प्र॒जामिष॑म् ॥६

पी॒पि॒ऽवांस॑म् । सर॑स्वतः । स्तन॑म् । यः । वि॒श्वऽद॑र्शतः ।

भ॒क्षी॒महि॑ । प्र॒ऽजाम् । इष॑म् ॥६

पीपिऽवांसम् । सरस्वतः । स्तनम् । यः । विश्वऽदर्शतः ।

भक्षीमहि। प्रऽजाम् । इषम् ॥६॥

“पीपिवांसं प्रवृद्धं "सरस्वतः देवस्य "स्तनं शब्दायमानं स्तनवद्रसाधारं वा मेघं “भक्षीमहि भजेमहि प्राप्नुयाम । "यः विश्वदर्शतः विश्वैः सर्वैर्दर्शतो भवति दृश्यमानो भवति । तं स्तनं मेघमित्यर्थः । तथा “प्रजां पुत्रादिरूपाम् "इषम् अन्नं च सरस्वतः प्रसादात् भक्षीमहि ॥ ॥२०॥


टिप्पणी

७.९६.३ भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती । गृणाना जमदग्निवत्स्तुवाना च वसिष्ठवत् ॥३॥

ऋक्षु सार्वत्रिकरूपेण जमदग्नेः वाचः संज्ञा गृणाना इति अस्ति। जै.ब्रा. २.२१८ मध्ये कथनमस्ति यत् जमदग्नेः कामना भूमावस्था प्राप्त्यै अस्ति(अथाकामयत जमदग्निर्भूमानं प्रजया पशुभिर्गच्छेयमिति ) । जैब्रा ३.२४१ मध्ये कथनमस्ति - अथो भूमा वै पशवः। भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। एवंप्रकारेण, अयं प्रतीयते यत् गृणनं एवं अनुरूपवाक् मध्ये साम्यमस्ति। मनो वै स्तोत्रियो, वाग् अनुरूपः। साम वै स्तोत्रिय, ऋग् अनुरूपः। अहर् वै स्तोत्रियो, रात्रिर् अनुरूपः। इयं वै स्तोत्रियो, ऽसाव् अनुरूपः। आत्मा वै स्तोत्रियः, प्रजानुरूपः - जै.ब्रा. ३.२१। द्र. जमदग्नि उपरि टिप्पणी


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.९६&oldid=339376" इत्यस्माद् प्रतिप्राप्तम्