ऋग्वेदः सूक्तं ७.४४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.४३ ऋग्वेदः - मण्डल ७
सूक्तं ७.४४
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.४५ →
दे. दधिक्राः, १ दधिक्राश्व्युषोऽग्निर्भगेन्द्रविष्णुपूषब्रह्मणस्पत्यादित्यद्यावापृथिव्यापः। त्रिष्टुप्, १ जगती।


दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे ।
इन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः स्वः ॥१॥
दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः ।
इळां देवीं बर्हिषि सादयन्तोऽश्विना विप्रा सुहवा हुवेम ॥२॥
दधिक्रावाणं बुबुधानो अग्निमुप ब्रुव उषसं सूर्यं गाम् ।
ब्रध्नं माँश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद्दुरिता यावयन्तु ॥३॥
दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन् ।
संविदान उषसा सूर्येणादित्येभिर्वसुभिरङ्गिरोभिः ॥४॥
आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ ।
शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ॥५॥


सायणभाष्यम्

‘दधिक्रां वः ' इति पञ्चर्चमेकादशं सूक्तं वसिष्ठस्यार्षं दधिक्राख्यदेवताकम् । आद्या जगती सा तु दधिक्रादिलिङ्गोक्तदेवताका शिष्टाश्चतस्रस्त्रिष्टुभः । अनुक्रम्यते हि - दधिक्रां दाधिक्रं जगत्याद्या लिङ्गोक्तदेवता ' इति । गतो विनियोगः ॥


द॒धि॒क्रां व॑ः प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये॑ हुवे ।

इन्द्रं॒ विष्णुं॑ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा॑पृथि॒वी अ॒पः स्व॑ः ॥१

द॒धि॒ऽक्राम् । वः॒ । प्र॒थ॒मम् । अ॒श्विना॑ । उ॒षस॑म् । अ॒ग्निम् । सम्ऽइ॑द्धम् । भग॑म् । ऊ॒तये॑ । हु॒वे॒ ।

इन्द्र॑म् । विष्णु॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । आ॒दि॒त्यान् । द्यावा॑पृथि॒वी इति॑ । अ॒पः । स्वः॑ ॥१

दधिऽक्राम् । वः । प्रथमम् । अश्विना । उषसम् । अग्निम् । सम्ऽइद्धम् । भगम् । ऊतये । हुवे ।

इन्द्रम् । विष्णुम् । पूषणम् । ब्रह्मणः । पतिम् । आदित्यान् । द्यावापृथिवी इति । अपः । स्वः ॥१

हे स्तोतारः “वः युष्माकम् “ऊतये रक्षणाय “प्रथमं “दधिक्राम् अश्वाभिमानिनीं देवतां “हुवे आह्वयामि । ततः “अश्विना अश्विनौ देवौ "उषसम् उषोदेवतां च “समिद्धं सम्यग्दीप्तम् “अग्निं च "भगम् एतदाख्यं देवं च आह्वयामि । “इन्द्रं “विष्णुं “पूषणं च “ब्रह्मणस्पतिमादित्यान् “द्यावापृथिवी “अपः उदकदेवताः “स्वः सूर्यमित्येतान् देवानाह्वयामि ॥


द॒धि॒क्रामु॒ नम॑सा बो॒धय॑न्त उ॒दीरा॑णा य॒ज्ञमु॑पप्र॒यन्त॑ः ।

इळां॑ दे॒वीं ब॒र्हिषि॑ सा॒दय॑न्तो॒ऽश्विना॒ विप्रा॑ सु॒हवा॑ हुवेम ॥२

द॒धि॒ऽक्राम् । ऊं॒ इति॑ । नम॑सा । बो॒धय॑न्तः । उ॒त्ऽईरा॑णाः । य॒ज्ञम् । उ॒प॒ऽप्र॒यन्तः॑ ।

इळा॑म् । दे॒वीम् । ब॒र्हिषि॑ । सा॒दय॑न्तः । अ॒श्विना॑ । विप्राः॑ । सु॒ऽहवा॑ । हु॒वे॒म॒ ॥२

दधिऽक्राम् । ऊं इति । नमसा । बोधयन्तः । उत्ऽईराणाः । यज्ञम् । उपऽप्रयन्तः ।

इळाम् । देवीम् । बर्हिषि । सादयन्तः । अश्विना । विप्राः । सुऽहवा । हुवेम ॥२

“दधिक्राम् एतन्नामकमश्वविशेषं देवं “नमसा स्तोत्रेण “बोधयन्तः प्रज्ञापयन्तः “उदीराणाः प्रेरयन्तः “यज्ञं यागम् “उपप्रयन्तः उपक्रममाणाः वयं “बर्हिषि "इळां हवीरूपां देवीं “सादयन्तः आस्थापयन्तः “सुहवा शोभनाह्वानौ “विप्रा विप्रौ मेधाविनौ “अश्विना अश्विनौ देवौ “हुवेम आह्वयाम । “उ इति पूरणः ॥


द॒धि॒क्रावा॑णं बुबुधा॒नो अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गाम् ।

ब्र॒ध्नं माँ॑श्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या॑वयन्तु ॥३

द॒धि॒ऽक्रावा॑णम् । बु॒बु॒धा॒नः । अ॒ग्निम् । उप॑ । ब्रु॒वे॒ । उ॒षस॑म् । सूर्य॑म् । गाम् ।

ब्र॒ध्नम् । मं॒श्च॒तोः । वरु॑णस्य । ब॒भ्रुम् । ते । विश्वा॑ । अ॒स्मत् । दुः॒ऽइ॒ता । य॒व॒य॒न्तु॒ ॥३

दधिऽक्रावाणम् । बुबुधानः । अग्निम् । उप । ब्रुवे । उषसम् । सूर्यम् । गाम् ।

ब्रध्नम् । मंश्चतोः । वरुणस्य । बभ्रुम् । ते । विश्वा । अस्मत् । दुःऽइता । यवयन्तु ॥३

“दधिक्रावाजम् अश्वविशेषं “बुबुधानः स्तोत्रेण बोधयन्नहम् "अग्निं देवम् “उप “ब्रुवे उपस्तौमि । तथा च "उषसम् उषोदेवतां "सूर्यं सर्वस्य प्रेरकं देवं “गां भूमिम् । वाग्देवतां वा । एवंभूतान् देवानहमुपस्तौमि। “मंश्चतोः । मन्यमानान् स्तुवतो जनांश्चेतयते जानातीति यद्वाभिमन्यमानांश्चातयते नाशयतीति मंश्चतुः। तस्य वरुणस्य “ब्रध्नं महान्तं "बभ्रुं पिङ्गलवर्णमश्वं तस्थानयनार्थमहमुप ब्रुवे। “ते देवाः “अस्मत् अस्मत्तः “विश्वा विश्वानि सर्वाणि “दुरिता दुरितानि पापानि “यवयन्तु पृथक्कुर्वन्तु ॥


द॒धि॒क्रावा॑ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा॑नां भवति प्रजा॒नन् ।

सं॒वि॒दा॒न उ॒षसा॒ सूर्ये॑णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ॥४

द॒धि॒ऽक्रावा॑ । प्र॒थ॒मः । वा॒जी । अर्वा॑ । अग्रे॑ । रथा॑नाम् । भ॒व॒ति॒ । प्र॒ऽजा॒नन् ।

स॒म्ऽवि॒दा॒नः । उ॒षसा॑ । सूर्ये॑ण । आ॒दि॒त्येभिः॑ । वसु॑ऽभिः । अङ्गि॑रःऽभिः ॥४

दधिऽक्रावा । प्रथमः । वाजी । अर्वा । अग्रे । रथानाम् । भवति । प्रऽजानन् ।

सम्ऽविदानः । उषसा । सूर्येण । आदित्येभिः । वसुऽभिः । अङ्गिरःऽभिः ॥४

“प्रथमः सर्वेषामश्वानां मुख्यः “वाजी शीघ्रगामी “अर्वा गमनशीलः “दधिक्रावा अश्वरूपो देवः “प्रजानन् रथसंयोजनीयांस्तांस्तानश्वानधिष्ठाय ज्ञातव्यानि सम्यग्जानन् “रथानाम् “अग्रे प्रमुखः “भवति। कीदृशोऽश्वः । “उषसा उषोदेवतया "सूर्येण सर्वस्य प्रेरकेण देवेन “आदित्येभिः आदित्यैश्च “वसुभिः च “अङ्गिरोभिः देवैः सह स्तोतव्यैर्ऋषिभिश्च “संविदानः सम्यग्जानन् । ऐकमत्वं प्राप्त इत्यर्थः ॥


आ नो॑ दधि॒क्राः प॒थ्या॑मनक्त्वृ॒तस्य॒ पन्था॒मन्वे॑त॒वा उ॑ ।

शृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो॑ अ॒ग्निः शृ॒ण्वन्तु॒ विश्वे॑ महि॒षा अमू॑राः ॥५

आ । नः॒ । द॒धि॒ऽक्राः । प॒थ्या॑म् । अ॒न॒क्तु॒ । ऋ॒तस्य॑ । पन्था॑म् । अनु॑ऽए॒त॒वै । ऊं॒ इति॑ ।

शृ॒णोतु॑ । नः॒ । दैव्य॑म् । शर्धः॑ । अ॒ग्निः । शृ॒ण्वन्तु॑ । विश्वे॑ । म॒हि॒षाः । अमू॑राः ॥५

आ । नः । दधिऽक्राः । पथ्याम् । अनक्तु । ऋतस्य । पन्थाम् । अनुऽएतवै । ऊं इति ।

शृणोतु । नः । दैव्यम् । शर्धः । अग्निः । शृण्वन्तु । विश्वे । महिषाः । अमूराः ॥५

"दधिक्राः अश्वरूपो देवः “ऋतस्य यज्ञस्य “पन्थां पन्थानं मार्गम् "अन्वेतवै अनुगन्तुं प्रवृत्तानां “नः अस्माकं “पथ्यां पदवीम् "आ "अनक्तु उदकेनासिञ्चतु। “उ इति पूरणः । “दैव्यं “शर्धः देवसंबन्धि बलमीदृग्रूपः "अग्निः “नः अस्मदीयं हवं “शृणोतु । "अमूराः अमूढाः “महिषाः महान्तः “विश्वे सर्वे देवा अस्मदीयं हवं “शृण्वन्तु ॥ ॥ ११ ॥

[सम्पाद्यताम्]


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४४&oldid=216132" इत्यस्माद् प्रतिप्राप्तम्