ऋग्वेदः सूक्तं ७.३६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.३५ ऋग्वेदः - मण्डल ७
सूक्तं ७.३६
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.३७ →
दे. विश्वे देवाः । त्रिष्टुप्।


प्र ब्रह्मैतु सदनादृतस्य वि रश्मिभिः ससृजे सूर्यो गाः ।
वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः ॥१॥
इमां वां मित्रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः ।
इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति ब्रुवाणः ॥२॥
आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः ।
महो दिवः सदने जायमानोऽचिक्रदद्वृषभः सस्मिन्नूधन् ॥३॥
गिरा य एता युनजद्धरी त इन्द्र प्रिया सुरथा शूर धायू ।
प्र यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं ववृत्याम् ॥४॥
यजन्ते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन् ।
वि पृक्षो बाबधे नृभि स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥५॥
आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता ।
याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥६॥
उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनोऽवन्तु ।
मा नः परि ख्यदक्षरा चरन्त्यवीवृधन्युज्यं ते रयिं नः ॥७॥
प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं न वीरम् ।
भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरंधिम् ॥८॥
अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः ।
उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥९॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ पञ्चमाष्टके चतुर्थोऽध्याय आरभ्यते । तत्र षडनुवाकात्मकस्य वासिष्ठस्य सप्तमस्य मण्डलस्य तृतीयेऽनुवाके द्वाविंशतिसूक्तानि । तत्र ‘प्र ब्रह्म' इति नवर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं पूर्ववद्वैश्वदेवम् । अनुक्रान्तं च--- प्र ब्रह्म नव ' इति । विनियोगो लैङ्गिकः ॥


प्र ब्रह्मै॑तु॒ सद॑नादृ॒तस्य॒ वि र॒श्मिभि॑ः ससृजे॒ सूर्यो॒ गाः ।

वि सानु॑ना पृथि॒वी स॑स्र उ॒र्वी पृ॒थु प्रती॑क॒मध्येधे॑ अ॒ग्निः ॥१

प्र । ब्रह्म॑ । ए॒तु॒ । सद॑नात् । ऋ॒तस्य॑ । वि । र॒श्मिऽभिः॑ । स॒सृ॒जे॒ । सूर्यः॑ । गाः ।

वि । सानु॑ना । पृ॒थि॒वी । स॒स्रे॒ । उ॒र्वी । पृ॒थु । प्रती॑कम् । अधि॑ । आ । ई॒धे॒ । अ॒ग्निः ॥१

प्र । ब्रह्म । एतु । सदनात् । ऋतस्य । वि । रश्मिऽभिः । ससृजे । सूर्यः । गाः ।

वि । सानुना । पृथिवी । सस्रे । उर्वी । पृथु । प्रतीकम् । अधि । आ । ईधे । अग्निः ॥१

“ऋतस्य यज्ञस्य “सदनात् स्थानाद्देवयजनदेशात् "ब्रह्म स्तोत्रं स्तुत्यान् सूर्यादीन् “प्र “एतु प्रकर्षेण गच्छतु । किं तद्ब्रह्मेति तदाह । "सूर्यः सर्वस्य प्रेरकः शोभनवीर्यो वा देवः “रश्मिभिः आत्मीयैः किरणैः “गाः अपो वृष्ट्युदकानि “वि “ससृजे विसृजति विमुञ्चति । प्रवर्षति । श्रूयते हि - ‘ याभिरादित्यस्तपति रश्मिभिस्ताभिः पर्जन्यो वर्षति' (तै. आ. १०.६३) इति । स्मृतिश्च भवति – ‘आदित्याज्जायते वृष्टिर्वृष्टेरन्ननं ततः प्रजाः ' इति । अत ईदृशं माहात्म्यं सूर्यस्यैव विद्यते नान्यस्य कस्यचिदित्यनेन पादेन सूर्यः स्तूयते । अपि च “पृथिवी प्रथिता भूमिः “सानुना समुच्छ्रितेन पर्वतादिना “उर्वी विस्तीर्णा सती “वि “सस्रे विसरति व्याप्नोति । तथा “अग्निः “पृथु विस्तीर्णं “प्रतीकं पृथिव्या अवयवं देवयजनलक्षणं स्थानम् “अधि । “अधिपरी अनर्थकौ इत्यधेः कर्मप्रवचनीयसंज्ञायां कर्मप्रवचनीययुक्ते°। इति सप्तम्यर्थे द्वितीया । ईदृशे स्थाने “एधे आदीप्यते ॥


इ॒मां वां॑ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ॑ण्वे असुरा॒ नवी॑यः ।

इ॒नो वा॑म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं॑ च मि॒त्रो य॑तति ब्रुवा॒णः ॥२

इ॒माम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिम् । इष॑म् । न । कृ॒ण्वे॒ । अ॒सु॒रा॒ । नवी॑यः ।

इ॒नः । वा॒म् । अ॒न्यः । प॒द॒ऽवीः । अद॑ब्धः । जन॑म् । च॒ । मि॒त्रः । य॒त॒ति॒ । ब्रु॒वा॒णः ॥२

इमाम् । वाम् । मित्रावरुणा । सुऽवृक्तिम् । इषम् । न । कृण्वे । असुरा । नवीयः ।

इनः । वाम् । अन्यः । पदऽवीः । अदब्धः । जनम् । च । मित्रः । यतति । ब्रुवाणः ॥२

हे "असुरा असुरौ बलवन्तौ हे "मित्रावरुणा मित्रावरुणौ “वां युवाभ्याम् “इषं “न हषीरूपमन्नमिव “नवीयः नवीयसीम् “इमाम् अस्मदीयां पुरोवर्तिनीं "सुवृक्तिं स्तुतिं “कृण्वे अहं स्तोता करोमि। "वां युवयोः “अन्यः अन्यतरः "इनः प्रभुः “अदब्धः शत्रुभिरहिंसितो वरुणः “पदवीः पदस्य स्थानस्य प्रजनयिता। वरुणो हि धर्माधर्मयोर्धारयितेति पदवीरित्युच्यते । “ब्रुवाणः अस्माभिः स्तूयमानः “मित्रः “च “जनं सर्वं प्राणिजातं “यतति यातयति प्रवर्तयति । तथा च श्रूयते - मित्रो जनान्यातयति बुवाणः' (ऋ. सं. ३. ५९. ५) इति ॥


आ वात॑स्य॒ ध्रज॑तो रन्त इ॒त्या अपी॑पयन्त धे॒नवो॒ न सूदा॑ः ।

म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद्वृष॒भः सस्मि॒न्नूध॑न् ॥३

आ । वात॑स्य । ध्रज॑तः । र॒न्ते॒ । इ॒त्याः । अपी॑पयन्त । धे॒नवः॑ । न । सूदाः॑ ।

म॒हः । दि॒वः । सद॑ने । जाय॑मानः । अचि॑क्रदत् । वृ॒ष॒भः । सस्मि॑न् । ऊध॑न् ॥३

आ । वातस्य । ध्रजतः । रन्ते । इत्याः । अपीपयन्त । धेनवः । न । सूदाः ।

महः । दिवः । सदने । जायमानः । अचिक्रदत् । वृषभः । सस्मिन् । ऊधन् ॥३

“ध्रजतः गच्छतः “वातस्य वायोः “इत्याः गतयः “आ “रन्ते अभितो रमन्ते । तथा “सूदाः ।‘सूद प्रेरणे ' इति धातुः । क्षीरस्य प्रेरयित्र्यः “धेनवो “न । नेति चार्थे । गावश्च “अपीपयन्त प्यायन्ते एधन्ते । अपि च “महः महतः “दिवः द्योतमानस्यादित्यस्य “सदने स्थानेऽन्तरिक्षे “जायमानः उत्पद्यमानः “वृषभः वर्षणशीलः पर्जन्यः “सस्मिन्नूधन् तस्मिन् अन्तरिक्षे “अचिक्रदत् ॥


गि॒रा य ए॒ता यु॒नज॒द्धरी॑ त॒ इन्द्र॑ प्रि॒या सु॒रथा॑ शूर धा॒यू ।

प्र यो म॒न्युं रिरि॑क्षतो मि॒नात्या सु॒क्रतु॑मर्य॒मणं॑ ववृत्याम् ॥४

गि॒रा । यः । ए॒ता । यु॒नज॑त् । हरी॒ इति॑ । ते॒ । इन्द्र॑ । प्रि॒या । सु॒ऽरथा॑ । शू॒र॒ । धा॒यू इति॑ ।

प्र । यः । म॒न्युम् । रिरि॑क्षतः । मि॒नाति॑ । आ । सु॒ऽक्रतु॑म् । अ॒र्य॒मण॑म् । व॒वृ॒त्या॒म् ॥४

गिरा । यः । एता । युनजत् । हरी इति । ते । इन्द्र । प्रिया । सुऽरथा । शूर । धायू इति ।

प्र । यः । मन्युम् । रिरिक्षतः । मिनाति । आ । सुऽक्रतुम् । अर्यमणम् । ववृत्याम् ॥४

अस्याः पूर्वोऽर्धर्च इन्द्रस्तुतिरपरोऽर्यम्णः स्तुतिः । हे “शूर विक्रान्त “इन्द्र "ते तव “प्रिया प्रियौ “सुरथा सुष्ठुरंहणौ “धायू धारकौ “एता एतौ “हरी त्वदीयावश्वौ “यः जनः “गिरा स्तुतिरूपया वाचा “युनजत् रथे युञ्ज्यात् हे इन्द्र त्वम् अस्य यागमायाहीति शेषः । “यः अर्यमा “रिरिक्षतः हिंसितुमिच्छतः शत्रोः संबन्धिनं “मन्युं कोपं “प्र “मिनाति प्रकर्षेण हिनस्ति “सुक्रतुं शोभनकर्माणम् “अर्यमणम् “आ “ववृत्यां स्तुत्यावर्तयामि ॥


यज॑न्ते अस्य स॒ख्यं वय॑श्च नम॒स्विन॒ः स्व ऋ॒तस्य॒ धाम॑न् ।

वि पृक्षो॑ बाबधे॒ नृभि॒ः स्तवा॑न इ॒दं नमो॑ रु॒द्राय॒ प्रेष्ठ॑म् ॥५

यज॑न्ते । अ॒स्य॒ । स॒ख्यम् । वयः॑ । च॒ । न॒म॒स्विनः॑ । स्वे । ऋ॒तस्य॑ । धाम॑न् ।

वि । पृक्षः॑ । बा॒ब॒धे॒ । नृऽभिः॑ । स्तवा॑नः । इ॒दम् । नमः॑ । रु॒द्राय॑ । प्रेष्ठ॑म् ॥५

यजन्ते । अस्य । सख्यम् । वयः । च । नमस्विनः । स्वे । ऋतस्य । धामन् ।

वि । पृक्षः । बाबधे । नृऽभिः । स्तवानः । इदम् । नमः । रुद्राय । प्रेष्ठम् ॥५

अनया रुद्रः स्तूयते । “नमस्विनः हविर्लक्षणान्नवन्तः “स्वे स्वकीये “ऋतस्य यज्ञस्य “धामन् धामनि स्थाने । स्वकीये यज्ञगृहे स्थिता इत्यर्थः। “वयश्च गन्तारः कर्माणि कुर्वाणा यजमानाः “अस्य रुद्रस्य “सख्यं सखित्वमुद्दिश्य "यजन्ते पूजयन्ति । “नृभिः नेतृभिः “स्तवानः स्तूयमानो रुद्रः "पृक्षः अन्नं स्तोतृषु “वि “बाबधे विबध्नाति । ददातीत्यर्थः । “प्रेष्ठं रुद्रस्य प्रियतमम् “इदं “नमः तस्मै "रुद्राय मया क्रियते ॥ ॥ १ ॥


आ यत्सा॒कं य॒शसो॑ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिन्धु॑माता ।

याः सु॒ष्वय॑न्त सु॒दुघा॑ः सुधा॒रा अ॒भि स्वेन॒ पय॑सा॒ पीप्या॑नाः ॥६

आ । यत् । सा॒कम् । य॒शसः॑ । वा॒व॒शा॒नाः । सर॑स्वती । स॒प्तथी॑ । सिन्धु॑ऽमाता ।

याः । सु॒स्वय॑न्त । सु॒ऽदुघाः॑ । सु॒ऽधा॒राः । अ॒भि । स्वेन॑ । पय॑सा । पीप्या॑नाः ॥६

आ । यत् । साकम् । यशसः । वावशानाः । सरस्वती । सप्तथी । सिन्धुऽमाता ।

याः । सुस्वयन्त । सुऽदुघाः । सुऽधाराः । अभि । स्वेन । पयसा । पीप्यानाः ॥६

“यत् यासां गङ्गादीनां नदीनां मध्ये “सिन्धुमाता अपां मातृभूता “सरस्वती एतदाख्या नदी "सप्तथी सप्तमी भवति “सुदुघाः कामान् दोग्धुं सुशक्याः “सुधाराः शोभनधारो पेताश्च नद्यः "सुष्वयन्त सुष्वयन्ते। गतिकर्मैतत् । प्रवहन्ति । “स्वेन स्वकीयेन “पयसा उदकेन “अभि "पीप्यानाः “याः च अभिवर्धयन्त्यः “यशसः अन्नवत्यः "वावशानाः कामयमाना नद्यः “साकं युगपदेव “आ गच्छन्तु । आ इत्युपसर्गस्य योग्यक्रियाध्याहारः ॥


उ॒त त्ये नो॑ म॒रुतो॑ मन्दसा॒ना धियं॑ तो॒कं च॑ वा॒जिनो॑ऽवन्तु ।

मा न॒ः परि॑ ख्य॒दक्ष॑रा॒ चर॒न्त्यवी॑वृध॒न्युज्यं॒ ते र॒यिं न॑ः ॥७

उ॒त । त्ये । नः॒ । म॒रुतः॑ । म॒न्द॒सा॒नाः । धिय॑म् । तो॒कम् । च॒ । वा॒जिनः॑ । अ॒व॒न्तु॒ ।

मा । नः॒ । परि॑ । ख्य॒त् । अक्ष॑रा । चर॑न्ती । अवी॑वृधन् । युज्य॑म् । ते । र॒यिम् । नः॒ ॥७

उत । त्ये । नः । मरुतः । मन्दसानाः । धियम् । तोकम् । च । वाजिनः । अवन्तु ।

मा । नः । परि । ख्यत् । अक्षरा । चरन्ती । अवीवृधन् । युज्यम् । ते । रयिम् । नः ॥७

"उत अपि च “मन्दसानाः मोदमानाः “वाजिनः वेगवन्तः “त्ये ते “मरुतः “नः अस्मदीयं “धियं यज्ञाख्यं कर्म “तोकं “च अस्मदीयं पुत्रं च “अवन्तु रक्षन्तु । “अक्षरा व्याप्ता “चरन्ती वाग्देवता च “नः अस्मान् “परि त्यक्त्वा अस्मद्व्यतिरिक्तानन्यान् “मा “ख्यत् मा द्राक्षीत् । “ते पूर्वोक्ता मरुतो वाक्च “युज्यं युक्तमपि “नः अस्मदीयं “रयिं धनम् अवीवृधन् वर्धयन्तु ॥


प्र वो॑ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं॑ विद॒थ्यं१॒॑ न वी॒रम् ।

भगं॑ धि॒यो॑ऽवि॒तारं॑ नो अ॒स्याः सा॒तौ वाजं॑ राति॒षाचं॒ पुरं॑धिम् ॥८

प्र । वः॒ । म॒हीम् । अ॒रम॑तिम् । कृ॒णु॒ध्व॒म् । प्र । पू॒षण॑म् । वि॒द॒थ्य॑म् । न । वी॒रम् ।

भग॑म् । धि॒यः । अ॒वि॒तार॑म् । नः॒ । अ॒स्याः । सा॒तौ । वाज॑म् । रा॒ति॒ऽसाच॑म् । पुर॑म्ऽधिम् ॥८

प्र । वः । महीम् । अरमतिम् । कृणुध्वम् । प्र । पूषणम् । विदथ्यम् । न । वीरम् ।

भगम् । धियः । अवितारम् । नः । अस्याः । सातौ । वाजम् । रातिऽसाचम् । पुरम्ऽधिम् ॥८

हे स्तोतारः “वः यूयम् “अरमतिम् उपरतिरहितां “महीं महतीं भूमिं “प्र “कृणुध्वम् आह्वयत । तथा “विदथ्यं यज्ञार्हं “वीरं “न सर्वेषां प्रेरकं च “पूषणम् एतन्नामकं देवं “प्र कृणुध्वम् । तथा “अस्याः “धियः “नः अस्मदीयस्यास्य कर्मणः “अवितारं रक्षितारं “भगं देवं चाह्वयत । अपि च “सातौ अस्मदीये यज्ञे युद्धे वा “वाजम् ऋभूणामन्यतमं देवमाह्वयत । कीदृशं वाजम् । “रातिषाचं दानसेवकं “पुरंधिं पुराणां धारयितारम् ॥


यज्ञपुच्छे अच्छायं वः' इति चमसिनः स्वं स्वं चमसमभिमृशेयुः । सूत्रितं च - अच्छायं वो मरुतः श्लोक एत्वित्येतयाभिमृशन्ति' (आश्व. श्रौ. ६. १२) इति ॥

अच्छा॒यं वो॑ मरुत॒ः श्लोक॑ ए॒त्वच्छा॒ विष्णुं॑ निषिक्त॒पामवो॑भिः ।

उ॒त प्र॒जायै॑ गृण॒ते वयो॑ धुर्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥९

अच्छ॑ । अ॒यम् । वः॒ । म॒रु॒तः॒ । श्लोकः॑ । ए॒तु॒ । अच्छ॑ । विष्णु॑म् । नि॒सि॒क्त॒ऽपाम् । अवः॑ऽभिः ।

उ॒त । प्र॒ऽजायै॑ । गृ॒ण॒ते । वयः॑ । धुः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥९

अच्छ । अयम् । वः । मरुतः । श्लोकः । एतु । अच्छ । विष्णुम् । निसिक्तऽपाम् । अवःऽभिः ।

उत । प्रऽजायै । गृणते । वयः । धुः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥९

हे “मरुतः “वः युष्मान् "अयं “श्लोकः अस्मदीयमिदं स्तोत्रम् "अच्छ “एतु अभिगच्छतु । “निषिक्तपां निषिक्तस्य गर्भस्य रक्षितारम् । यद्वा । चमसे निषिक्तानां सोमानां पातारम् । “अवोभिः अस्मद्विषयरक्षणैर्युक्तं “विष्णुं चास्मदीयं स्तोत्रम् "अच्छ एतु । “उत अपि च मरुतो विष्णुश्च "गृणते स्तुवते मह्यं "प्रजायै पुत्ररूपां प्रजां “वयः अन्नं च “धुः अधुः दधतु । हे मरुतो हे विष्णो “यूयं “स्वस्तिभिः अविनाशैः “नः अस्मान् “सदा सर्वदा "पात रक्षत ॥ ॥ १॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.३६&oldid=200749" इत्यस्माद् पुनः प्राप्तिः