ऋग्वेदः सूक्तं ७.८६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.८५ ऋग्वेदः - मण्डल ७
सूक्तं ७.८६
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.८७ →
दे. वरुणः। त्रिष्टुप्।
मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी ।
प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ॥१॥
उत स्वया तन्वा सं वदे तत्कदा न्वन्तर्वरुणे भुवानि ।
किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥२॥
पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् ।
समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते ॥३॥
किमाग आस वरुण ज्येष्ठं यत्स्तोतारं जिघांससि सखायम् ।
प्र तन्मे वोचो दूळभ स्वधावोऽव त्वानेना नमसा तुर इयाम् ॥४॥
अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः ।
अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥५॥
न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः ।
अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥६॥
अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः ।
अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥७॥
अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु ।
शं नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः ॥८॥

[सम्पाद्यताम्]

सायणभाष्यम्

' धीरा त्वस्य ' इत्यष्टर्चं षोडशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वरुणदेवत्यम्। तथा चानुक्रान्तं- ' धीराष्टौ वारुणं ह ' इति । गतो विनियोगः ।।

धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तम्भ॒ रोद॑सी चिदु॒र्वी ।

प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हन्तं॑ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥

अस्य वरुणस्य जनूंषि जन्मानि महिना महिम्ना तु क्षिप्रं धीरा धीराणि धैर्यवन्ति भवन्ति । यः वरुणः उर्वी विस्तीर्णे रोदसी चित् द्यावापृथिव्यावपि वि तस्तम्भ विविधं स्तब्धे स्वकीये स्थाने स्थिते अकरोत् । यश्च बृहन्तं महान्तं नाकम् आदित्यं नक्षत्रं च ऋष्वं दर्शनीयं द्विता द्वैधं प्र नुनुदे प्रेरयति स्म । अहनि सूर्य दर्शनीयं प्रेरयति रात्रौ नक्षत्रं तथेति द्विप्रकारः । भूम भूमिं च यः अपप्रथत् अप्रथयत् विस्तारितवान् । तस्यास्य वरुणस्येत्यन्वयः ।।


उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्व१॒॑न्तर्वरु॑णे भुवानि ।

किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्य॑म् ॥

वरुणं शीघ्रं दिदृक्षमाणऋषिरनया वितर्कयति उतेति विचिकित्सायाम् उत् किं स्वया तन्वा स्वीयेन आत्मीयेन शरीरेण संवदे सहवदनं करोमि आहोस्वित् तत्तेन वरुणेन सह संवदे कदानु कदा खलु वरुणे देवे अन्तर्भूतो भवानि वरुणस्य चित्ते संलग्नो भवानीत्यर्थः अपि च मे मदीयं हव्यं स्तोत्रं हविर्वा अहृणानो क्रुध्यन्वरुणः किं केन हेतुना जुषेत सेवेत सुमनाः शोभनमनस्कः सन्नहं कदा कस्मिन्काले मृळीकं सुखयितारं वरुणं अभिख्यं अभिपश्येयम्।।२।।

पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छ॑म् ।

स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥

हे वरुण तदेनः पापं पृच्छे त्वां पृच्छामि दिदृक्षु छान्दसः सुलोपः द्रष्टुमिच्छन्नहं येन पापेन हेतुना त्वदीयैः पाशैर्बद्धोस्मि पृष्टः सन्तत्पापं कथय अहं विपृच्छं विविधं प्रष्टुं चिकितु- षो विदुषोजनान् उपो एमि उपागाम् ते कवयश्चित् क्रान्तदर्शिनो जनाश्च मे मह्यं समानमित् समानमेव एकरूपमेव आहुः अकथयन् यदाहुस्तदाह हे स्तोतः तुभ्यं अयं ह अयमेव वरुणोहृणीते कुध्यतीति अतः क्रोधं परित्यज्य अस्मान्पाशेभ्यो मोचय ।। ३ ।।

किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां॑ससि॒ सखा॑यम् ।

प्र तन्मे॑ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑याम् ॥

हे वरुण ज्येष्ठमधिकं किं आगः आस कोपराधो मया कृतो बभूव यत् येन आगसा स- खायं मित्रभूतं सन्तं स्तोतारं जिघांससि हन्तुमिच्छसि । हे दूळभ दुर्दभ अन्यैर्बाधितुमशक्य स्वधावस्तेजस्विन् हे वरुण तदागः मे मह्यं प्रवोचः प्रब्रूहि एवं सति तस्य प्रायश्चित्तं कृत्वा अनेनाः अपापः सन्नहं तुरस्त्वरमाणः शीघ्रः नमसा नमस्कारेण हविषा वा त्वा त्वां अवेयां अवगच्छेयम् ।। ४ ।।

अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ ।

अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठम् ॥

हे वरुण पित्र्या पितृतः प्राप्तानि नोस्मदीयानि द्रुग्धानि द्रोहान् बन्धनहेतुभूतान् अव- सृज विमुञ्च अस्मत्तो विश्लेषय वयं च या यानि द्रोहजातानि तनुभिः शरीरैः चकृम कृतवन्तः स्म तानि च अवसृज । हे राजन्राजमान वरुण पशुतृपं न तायुं स्तैन्यप्रायश्चित्तं कृत्वा अवसाने घासादिभिः पशूनां तर्पयितारं स्तेनमिव दात्रोरज्जोर्वत्सं न वत्समिव च वसिष्ठं मां बन्धकात्पापादवसृज विमुञ्च ।। ५ ।।

न स स्वो दक्षो॑ वरुण॒ ध्रुति॒ः सा सुरा॑ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः ।

अस्ति॒ ज्याया॒न्कनी॑यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥

हे वरुण सः स्वोदक्षः पुरुषस्य स्वरूपवद्बलं पापपवृत्तौ कारणं न भवति किं तर्हि श्रुतिः स्थिरा उत्पत्तिसमय एव निर्मिता दैवगतिः कारणम् । ध्रुगतिस्थैर्ययोरिति धातुः। सा च ध्रुतिः वक्ष्यमाणरूपासुरा प्रमादकारिणी मन्युः क्रोधश्च गुर्वादिविषयः सन् अनर्थहेतुः बिभीदकः द्यूतसाधनोक्षः स च द्यूतेषु पुरुषं प्रेरयन्ननर्थहेतुर्भवति अचित्तिः अज्ञानं अविवेककारणं अत ईदृशी दैवक्लृप्तिरेव पुरुषस्य पापप्रवृत्तौ कारणम् अपि च कनीयसः अल्पस्यहीनस्य पुरुषस्य पापप्रवृत्तौ उपारे उपागते समीपे नियंतृत्वेनस्थितः ज्यायानधिकः ईश्वरोस्ति स एव तं पापे प्रवर्तयति तथा चाम्नातम् - एष त्ये वा साधुकर्मकारयति तं यमधोनिनीषत इति । एवं च सति स्वप्नश्चन स्वप्नोपि अनृतस्य पापस्य प्रयोता प्रकर्षेण मिश्रयिता भवति इदिति पूरकः स्वप्ने कृतैरपि कर्मभिर्बहूनि पापानि जायन्ते किमु वक्तव्यं जाग्रतिकृतैः कर्मग्निः पापान्युत्पद्यन्त इति । अतो ममापराधो दैवागत इति हे वरुण त्वया क्षन्तव्य इति भावः ।। ६ ।।

अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः ।

अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥

मीह्ळुषे सेके कामानां वर्षित्रे भूर्णये जगतो भर्त्रे देवाय दानादिगुणयुक्ताय वरुणाय अ- नागाः तत्प्रसादात् अपापः सन्नहं अरं अलं पर्याप्तं कराणि परिचरणं करवाणि दासो न यथा भृत्यः स्वामिने सम्यक्परिचरति तद्वत् अर्यः स्वामी स च देवः अचितः अजानतोस्मान् अचेत- यत्चेतयतु प्रज्ञापयतु गृत्सं स्तोतारं च कवितरः प्राज्ञतरो देवः राये धनाय धनप्राप्त्यर्थं जुना- ति जुनातु प्रेरयतु ।। ७ ।।

अ॒यं सु तुभ्यं॑ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु । शं न॒ः क्षेमे॒ शमु॒ योगे॑ नो अस्तु यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

हे स्वधावः अन्नवन्वरुण तुभ्यं त्वदर्थं क्रियमाणः अयं एतत्सृक्तात्मकः स्तोमः स्तोत्रं हृदि त्वदीये हृदये सु सुष्ठु उपश्रितः उपगतः समवेतोस्तु चिदिति पूरकः अप्राप्तस्य प्रापणं यो- गः प्राप्तस्य रक्षणं क्षेमः नोस्मदीयि क्षेमे रक्षणे शं उपद्रवाणां शमनमस्तु योगे च नोस्मदीये प्रापणे शमु शमनमेवास्तु उपद्रवाणां हे वरुणादयो देवाः यूयं नोस्मान्सर्वदा स्वस्तिभिरविनाशैः पात रक्षत ।। ८ ।।


७.८६.६

प्रमादस्त्वेष हन्ताहं न स स्व इत्यपह्नवः । इन्द्राकुत्सेत्युपप्रैषो न विजानामि संज्वरः ।।बृहद्देवता १.५६ ।।

पद्यानुवादं (डा. फतहसिंह, वैदिक दर्शन)

टिप्पणी

धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तम्भ॒ रोद॑सी चिदु॒र्वी ।

प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हन्तं॑ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ॥१

जीवलोक है धीर उसी के बल से। महत् रोदसी टिके जिसी के डर से॥

परमबृहत उत्तुङ्ग ‘नाक’ मथ डाला।नक्षत्र भूमि में द्विधा उसे कर डाला॥

उ॒त स्वया॑ त॒न्वा॒३॒॑ सं व॑दे॒ तत्क॒दा न्व१॒॑न्तर्वरु॑णे भुवानि ।

किं मे॑ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना॑ अ॒भि ख्य॑म् ॥२

केवल चिन्तन एक व्यथित मन करता- ‘वरुण मुझे कब मिलें और कैसे हा!

कैसे वे तज कोप हव्य अपनावें। हम मृलीक को सुमन कभी लख पावें॥

पृ॒च्छे तदेनो॑ वरुण दि॒दृक्षूपो॑ एमि चिकि॒तुषो॑ वि॒पृच्छ॑म् ।

स॒मा॒नमिन्मे॑ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ॥३

इसी चाह से, ‘भूल’, पूछता फिरता। बुधजन में इस हेतु डोलता फिरता॥

ज्ञानी-जन भी यह बात बस कहते। ‘अरे! वरुण हैं कुपित आप से रहते’॥

किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां॑ससि॒ सखा॑यम् ।

प्र तन्मे॑ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑याम् ॥४

वरुण! कौन है महापाप वह मेरा। बना क्रोध का कवल भक्त जो तेरा॥

कहो महान्! स्वतन्त्र! वरुण! बस कह दो। पग पडता, मैं तुम्हें मनाता कह दो॥

अव॑ द्रु॒ग्धानि॒ पित्र्या॑ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ ।

अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठम् ॥५

क्षमा करो वे पाप किये मेरे पुरखों ने। क्षमा करो वे पाप किये जो तन से मैंने॥

राजन्! मुक्त वसिष्ठ करो पशुतृप सम ऐसे। निज बन्धन से वत्स मुक्त होता है जैसे॥

न स स्वो दक्षो॑ वरुण॒ ध्रुति॒ः सा सुरा॑ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः ।

अस्ति॒ ज्याया॒न्कनी॑यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ॥६

नहीं वरुण अघ स्ववश किया पर भ्रमवश। सुरा, द्यूत अविवेक, मन्यु से परवश॥

छोटों पर तो सदा बडों का वश है। नहीं स्वप्न में उन्हें अनृत का वश है॥

अरं॑ दा॒सो न मी॒ळ्हुषे॑ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना॑गाः ।

अचे॑तयद॒चितो॑ दे॒वो अ॒र्यो गृत्सं॑ रा॒ये क॒वित॑रो जुनाति ॥७

अनघ, अमल हो कुपित देव मृदु कर लूँ। सेवा तेरी मृदुल! दास सम कर लूँ॥

अविवेकी को देव! विवेक सिखाते। बुद्ध! गृत्स को ज्ञान तुम्हीं बतलाते॥

अ॒यं सु तुभ्यं॑ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु ।

शं न॒ः क्षेमे॒ शमु॒ योगे॑ नो अस्तु यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥८

हे स्वतन्त्र! हे वरुण! प्रशस्ति हमारी। द्रवित करे तब हृदय पहुँचकर भारी॥

सुखकर योग-क्षेम रहे सब मेरा। सदा करो कल्याण त्राण तुम मेरा॥(८)

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.८६&oldid=138645" इत्यस्माद् पुनः प्राप्तिः