बृहद्देवता/अध्यायः १

विकिस्रोतः तः
Jump to navigation Jump to search

।। अथ शौनकीयबृहद्देवताप्रारम्भः ।।
मन्त्रदृग्भ्यो नमस्कृत्वा समाम्नायानुपूर्वशः ।
सूक्तर्गर्धर्चपादानाम् ऋग्भ्यो वक्ष्यामि दैवतम् ।। १ ।।
वेदितव्यं दैवतं हि मन्त्रे मन्त्रे प्रयत्नतः ।
दैवतज्ञो हि मन्त्राणां तदर्थमवगच्छति ।। २ ।।
 तद्धितांस्तदभिप्रायान् ऋषीणां मन्त्रदृष्टिषु ।
विज्ञापयति विज्ञानं कर्माणि विविधानि च ।। ३ ।।
न हि कश्चिदविज्ञाय याथातथ्येन दैवतम् ।
लौक्यानां वैदिकानां वा कर्मणां फलमश्नुते ।। ४ ।।
प्रथमो भजते त्वासां वर्गोऽग्निमिह दैवतम् ।
द्वितीयो वायुमिन्द्रं वा तृतीयः सूर्यमेव च ।। ५ ।।
अर्थमिच्छन्नृषिर्देंवं यं यमाहायमस्त्विति ।
प्राधान्येन स्तुवन्भक्त्या मन्त्रस्तद्देव एव सः ।। ६ ।।
स्तुतिस्तु नाम्ना रूपेण कर्मणा बान्धवेन च ।
स्वर्गायुर्धनपुत्राद्यैर् अर्थैराशीस्तु कथ्यते ।। ७ ।।
स्तुत्याशिषौ तुऽ यास्वृक्षु दृश्येतेऽल्पास्तु ता इह ।
ताभ्याश्चाल्पतरास्ताः स्युः स्वर्गो याभिस्तु याच्यते ।।८।।
स्तुवन्तं वेद सर्वोऽयम् अर्थयत्येष मामिति ।
स्तौतीत्यर्थं ब्रुवन्तं च सार्थं मामेष पश्यति ।।९।।
स्तुवद्भिर्वा ब्रुवद्भिर्वा ऋषिभिस्तत्त्वदर्शिभिः ।
भवत्युभयमेवोक्तम् उभयं ह्यर्थतः समम् ।। १० ।।
प्रत्यक्षं देवतानाम यस्मिन्मन्त्रेऽभिधीयते ।
तामेव देवतां विद्यान् मन्त्रे लक्षणसंपदा ।। ११ ।।
तस्मात्तु देवतां नाम्ना मन्त्रे मन्त्रे प्रयोगवित् ।
बहुत्वमभिधानां च प्रयत्नेनोपलक्षयेत् ।। १२।।
सम्पूर्णमृषिवाक्यं तु सूक्तमित्यभिधीयते ।
दृश्यन्ते देवता यस्मिन्न् एकस्मिन् बहुषु द्वयोः ।। १३ ।।
देवतार्षार्थछन्दस्तो वैविध्यं च प्रजायते ।
ऋषिसूक्तं तु यावन्ति सूक्तान्येकस्य वै स्तुतिः ।। १४ ।।
श्रूयन्ते तानि सर्वाणि ऋषेः सूक्तं हि तस्य तत् ।
यावदर्थसमाप्तिः स्याद् अर्थसूक्तं वदन्ति तत् ।। १५ ।।
समानछन्दसो याः स्युस् तच्छन्दः सूक्तमुच्यते ।
वैविध्यमेवं सूक्तानाम् इह विद्याद्यथातथम् ।। १ ६।।
देवतानामधेयानि मन्त्रेषु त्रिविधानि तु ।
सूक्तभाञ्ज्यथवरभाञ्जि तथा नैपातिकानि तु ।। १७ ।।
सूक्तभाञ्जि भजन्ते वै सूक्तान्यृग्भाञ्जि वै ऋचः ।
मन्त्रैऽन्यदैवतेऽन्यानि निगद्यन्तेऽत्र कानिचित् ।। १ ८।।
सालोक्यात्साहचर्याद्वा तानि नैपातिकानि तु ।
तस्माद्बहुप्रकारेऽपि सूक्ते स्यात्सूक्तभागिनी ।। १९ ।।
देवता तद्यथा सूक्तम् अविशेष्यं प्रतीयते ।
भिन्ने सूक्ते वदेदेव देवतामिह लिङ्गतः ।। २० ।।
तत्र तत्र यथावच्च मन्त्रान्कर्मसु योजयेत् ।
देवतायाः परिज्ञानात् तद्धि कर्म समृध्यते ।। २१ ।।
आद्यन्तयोस्तु सूक्तानां प्रसङ्गपरिकीर्तनात् ।
स्तोतृभिर्देवता नाम्ना उपेक्षेतेह मन्त्रवित् ।। २२ । ।
तत्खल्वाहुः कतिभ्यस्तु कर्मभ्यो नाम जायते ।
सत्त्वानां वैदिकानां वा यद्वान्यदिह किंचन ।। २३ ।।
नवभ्य इति नैरुक्ताः पुराणाः कवयश्च ये ।
मधुकः श्वेतकेतुश्च गालवश्चैव मन्वते ।। २४ ।।
निवासात्कर्मणो रूपान् मङ्गलाद्वाच आशिषः ।
यदृच्छयोपवसनात् तथामुष्यायणाच्च यत् ।। २५ ।।
चतुर्भ्य इति तत्राहुर् यास्कगार्ग्यरथीतराः ।
आशिषोऽथार्थवैरूप्याद् वाचः कर्मण एव च ।। २६ ।।
सर्वाण्येतानि नामानि कर्मतस्त्वाह शौनकः ।
आशी रूपं च वाच्यं च सर्वं भवति कर्मतः ।।२७।।
यदृच्छयोपवसनात् तथामुष्यायणाच्च यत् ।
तथा तदपि कर्मैव तच्छृणुध्वं च हेतवः ।। २८ ।।
प्रजाः कर्मसमुत्था हि कर्मतः सत्त्वसंगतिः ।
क्वचित्संजायते सच्च निवासात्तत्प्रजायते ।। २९ ।।
यादृच्छिकं तु नामाभिधीयते यत्र कुत्रचित् ।
औपम्यादपि तद्विद्याद् भावस्यैवेह कस्यचित् ।। ३० ।।
नाकर्मकोऽस्ति भावो हि न नामास्ति निरर्थकम् ।
नान्यत्र भावान्नामानि तस्मात्सर्वाणि कर्मतः ।। ३१ ।।
मङ्गलात्क्रियते यच्च नामोपवसनाच्च यत् ।
भवत्येव तु सा ह्याशीः स्वस्त्यादेर्मङ्गलादिह । । ३२ ।।
अपि कुत्सितनामायम् इह जीवेत्कथं चिरम् ।
इति क्रियन्ते नामानि भूतानां विदितान्यपि ।। ३३ ।।
मन्त्रा नानाप्रकाराः स्युर् दृष्टा ये मन्त्रदर्शिभिः ।
स्तुत्या चैव विभूत्या च प्रभावाद्देवतात्मनः ।। ३ ४।।
स्तुतिः प्रशंसा निन्दा च संशयः परिदेवना ।
स्पृहाशीः कत्थना याञ्चा प्रश्नः प्रैषः प्रवह्लिका ।। ३५।।
नियोगश्चानुयोगश्च श्लाघा विलपितं च यत् ।
आचिख्यासाथ संलापः पवित्राख्यानमेव च ।। ३६ ।।
आहनस्या नमस्कारः प्रतिराधस्तथैव च ।
संकल्पश्च प्रलापश्च प्रतिवाक्यं तथैव च ।। ३७ ।।
प्रतिषेधोपदेशौ च प्रमादापह्नवौ च ह ।
उपप्रैषश्च यः प्रोक्तः संज्वरो यश्च विस्मयः ।। ३८ ।।
आक्रोशोऽभिष्टवश्चैव क्षेपः शापस्तथैव च ।
उपसर्गो निपातश्च नाम चाख्यातमित्यपि ।। ३९ ।।
भूतं भव्यं भविष्यं च पुमान् स्त्री च नपुंसकम् ।
एवंप्रकृतयो मन्त्राः सर्ववेदेषु सर्वशः ।। ४० ।।
वाक्यार्थदर्शनार्थीया ऋचोऽर्धर्चाः पदानि च ।
ब्राह्मणे चाथ कल्पे च निगद्यन्तेऽत्र कानिचित् ।। ४१ ।।
शब्देनोच्चरितेनेह येन द्रव्यं प्रतीयते ।
तदक्षरविधौ युक्तं नामेत्याहुर्मनीषिणः ।। ४२ ।।
अष्टौ यत्र प्रयुज्यन्ते नानार्थेषु विभक्तयः ।
तन्नाम कवयः प्राहुर् भेदे वचनलिङ्गयोः । । ४३ ।।
क्रियासु बह्वीष्वभिसंश्रितो यः पूर्वापरीभूत इहैक एव ।
क्रियाभिनिर्वृत्तिवशेन सिद्ध आख्यातशब्देन तमर्थमाहुः ।।४४।।
क्रियाभिनिर्वृत्तिवशोपजातः कृदन्तशब्दाभिहितो यदा स्यात् ।
संख्याविभक्त्यव्ययलिङ्गयुक्तो भावस्तदा द्रव्यमिवोपलक्ष्यः ।। ४५ ।।
यथा नानाविधैः शब्दैर् अपश्यन्नृषयः पुरा ।
विविधानीह वाक्यानि तान्यनुक्रमतः शृणु ।। ४६ ।।
रूपादिभि स्तुतिः प्रोक्ता आशीः स्वर्गादिभिस्तथा ।
यानि वाक्यान्यतोऽन्यानि तान्यपि स्यूरनेकधा ।।४७।।
मन्त्रे प्रशंसा भोजस्य चित्र इत् सोभरे स्तुतिः ।
आक्रोशार्थास्तु दृश्यन्ते माता चेत्यभिमेथति ।। ४८ ।।
ऋङ् मोघमन्नं निन्दा च शापो यो मेत्यृगेव तु ।
याञ्चा यदिन्द्र चित्रेति क्षेपोऽभीदमिति त्वचि ।। ४९ ।।
आशीस्तु वात आ वातु दण्डेति परिदेवना ।
प्रश्नश्च प्रतिवाक्यं च पृच्छामि त्वेत्यृचौ पृथक् ।। ५० ।।
संशयोऽधः स्विदासीच्च कत्थना स्यादहं मनुः ।
इमं नो यज्ञमित्यस्यां नियोगः पाद उच्यते ।। ५१ ।।
इह ब्रवीत्वनुयोगः संलाप ऋगुपोप मे ।
प्रतिषेधोपदेशौ तु अक्षैर्मेत्यक्षसंस्तुतौ ।। ५२ ।।
आख्यानं तु हये जाये विलापः स्यान्नदस्य मा ।
अवीरामात्मनः श्लाघा सुदेव इति तु स्पृहा ।। ५३ ।।
नमस्कारः शुनःशेपे नमस्ते अस्तु विद्युते ।
संकल्पयन्निदं तुल्योऽहं स्यामिति यदुच्यते ।।। ५४ ।।
संकल्पस्तु यदिन्द्राहं प्रलापस्त्वैतशस्य यः ।
महानग्न्याहनस्या स्यात् प्रतिराधो भुगित्यपि ।। ५५ ।।
प्रमादस्त्वेष हन्ताहं न स स्व इत्यपह्नवः ।
इन्द्राकुत्सेत्युपप्रैषो न विजानामि संज्वरः ।। ५६ ।।
होता यक्षदिति प्रैषः को अद्येति तु विस्मयः ।
जामयेऽपह्नवो नैषा विततादिः प्रवल्हिका ।। ५७ ।।
न मृत्युरासीदित्येताम् आचिख्यासां प्रचक्षते ।
अभिशापोऽप्रजाः सन्तु भद्रमाशीस्तु गोतमे ।। ५८ ।।
बह्वप्येवंप्रकारं तु शक्यं द्रष्टुमितीदृशम् ।
वक्तुं प्रयोगतश्चैषाम् ऋक्सूक्तार्धर्चसंश्रितम् ।। ५९ ।।

एते तु मन्त्रवाक्यार्था देवतां सूक्तभागिनीम् ।
संश्रयन्ते यथान्यायं स्तुतिस्त्वत्रानुमानिकी ।। ६० ।।
भवद्भूस्य भव्यस्य जङ्गमस्थावरस्य च ।
अस्यैके सूर्यमेवैकं प्रभवं प्रलयं विदुः ।। ६१ ।।
असतश्च सतश्चैव योनिरेषा प्रजापतिः ।
यदक्षरं च वाच्यं च यथैतद्ब्रह्म शाश्वतम् ।। ६२ ।।
कृत्वैष हि त्रिधात्मानम् एषु लोकेषु तिष्ठति ।
देवान्यथायथं सर्वान् निवेश्य स्वेषु रश्मिषु ।। ६३ ।।
एतद्भूतेषु लोकेषु अग्निभूतं स्थितं त्रिधा ।
ऋषयो गीर्भिरर्चन्ति व्यञ्जितं नामभिस्त्रिभिः ।। ६४ ।।
तिष्ठत्येष हि भूतानां जठरे जठरे ज्वलन् ।
त्रिस्थानं चैनमर्चन्ति होत्रायां वृक्तबर्हिषः ।। ६५ ।।
इहैष पवमानोऽग्निर् मध्यमोऽग्निर्वनस्पतिः ।
अमुष्मिन्नेव विप्रस्तु लोकेऽग्निः शुचिरुच्यते ।। ६६ ।।
इहाग्निभूतस्त्वृषिभिर् लोके स्तुतिभिरीळितः ।
जातवेदा स्तुतो मध्ये स्तुतो वैश्वानरो दिवि ।। ६७ ।।
रसान् रश्मिभिरादाय वायुनायं गतः सह ।
वर्षत्येव च यल्लोके तेनेन्द्र इति स स्मृतः ।। ६८ ।।
अग्निरस्मिन्नथेन्द्रस्तु मध्यतो वायुरेव च ।
सूर्यो दिवीति विज्ञेयास् तिस्र एवेह देवताः ।। ६९ ।।
एतासामेव माहात्म्यान् नामान्यत्वं विधीयते ।
तत्तत्स्थानविभागेन तत्र तत्रेह दृश्यते ।। ७० ।।
तासामियं विभूतिर्हि नामानि यदनेकशः ।
आहुस्तासां तु मन्त्रेषु कवयोऽन्योन्ययोनिताम् ।। ७१ ।।
यथास्थानं प्रदिष्टास्ता नामान्यत्वेन देवताः ।
तद्भक्तास्तत्प्रधानाश्च केचिदेवं वदन्ति ताः ।। ७२ ।।
पृथक्पुरस्ताद्ये तूक्ता लोकादिपतयस्त्रयः ।
तेषामात्मैव तत्सर्वं यद्यद्भक्तिः प्रकीर्त्यते ।। ७३ ।।
तेजस्त्वेवायुधं प्राहुर् वाहनं चैव यस्य यत् ।
इमामैन्द्रीं च दिव्यां च वाचमेवं पृथक् स्तुताम् ।।७४।।
बहुदेवता स्तुतयो द्विवत्संस्तुतयश्च याः ।
प्राधान्यमेव सर्वासु पतीनामेव तास्वपि ।। ७५ ।।
स्थानं नामानि भक्तीश्च देवताया स्तुतौ स्तुतौ ।
संपादयन्नुपेक्षेत यां कांचिदिह संपदम् ।।७६।।
अग्निभक्तिस्तुतान्सर्वान् अग्नावेव समापयेत् ।
यदिन्द्रभक्ति तच्चेन्द्रे सूर्ये सूर्यानुगं च यत् ।।।७७।
निरुप्यते हविर्यस्यै सूक्तं च भजते च या ।
सैव तत्र प्रधानं स्यान् न निपातेन या स्तुता ।। ७८ ।।
इति त्रयाणामेतेषाम् उक्तः सामासिको विधिः ।
समासेनैवमुक्तस्तु विस्तरेण त्वनुक्रमः ।।७९।।
अवश्यं वेदितव्यो हि नाम्नां सर्वस्व विस्तरः ।
नहि नामान्यविज्ञाय मन्त्राः शक्या हि वेदितुम् ।।८०।।
सत्त्वान्यमूर्तान्यपि च देवतावन्महर्षयः ।
तुष्टुवुर्ऋषयः शक्त्या तासु तासु स्तुतिष्विह ।। ८१ ।।
यैस्त्वग्निरिन्द्रः सोमश्च वायुः सूर्यो बृहस्पतिः ।
चन्द्रोऽथ विष्णुः पर्जन्यः पूषा चाप्यृभवोऽश्विनौ ।।८२।।
रोदसी मरुतो देवाः पृथिव्यापः प्रजापतिः ।
देवौ च मित्रावरुणौ पृथक् सह च तावुभौ ।। ८३ ।।
विश्वे च देवाः सविता त्वष्टा वै रूपकृन्मतः ।
अश्वोऽन्नमृत्विजो वज्रो ग्रावणो रथसंयुताः ।।८४।
स्तुताः पृथक् पृथक् स्वैः स्वैः सूक्तैर्ऋग्भिश्च नामभिः ।
स्तुतौ स्तुतौ प्रवक्ष्यामि तानि तेषामनुक्रमात् ।।८५।।
व्यवस्येन्मन्त्रमाग्नेयं लिङ्गैरग्नेश्च लक्षितम् ।
हविष्पङ्क्तिप्रधानैश्च नामाह्वानैश्च केवलैः ।। ८६ ।।
ऐन्द्रस्तु मन्त्रो वायव्यैर् लिङ्गैरैन्द्रैश्च लक्ष्यते ।
नामधेयैश्च वज्रस्य बलकृत्या बलेन च ।। ८७ ।।
सौर्यस्तु लिङ्गैः सूर्यस्य गुणैः सर्वैश्च तैजसैः ।
नामधेयैश्च चन्द्रस्य सूक्तं च भजतेऽत्र यैः ।। ८८ ।।
एतासां देवतानां तु नामधेयानुकीर्तनैः ।
यस्य यस्येह यावन्ति न व्यवस्यन्त्यतोऽन्यथा ।।८९।।
अयं प्रयोगस्त्वेतेषां ज्योतिषां त्रिषु वर्तताम् ।
लोकेषु मन्त्रविद्विद्वान् प्रयोगे नावसीदति ।। ९० ।।
नीयतेऽयं नृभिर्यस्मान् नयत्यस्मादसौ च तम् ।
तेनेमौ चक्रतुः कर्म सनामानौ पृथक् पृथक् ।। ९१ ।।
यद्विद्यते हि जातः सञ् जातैर्यद्वात्र विद्यते ।
तेनेमौ तुल्यनामानौ उभौ लोकौ समाप्न्रुतः ।। ९२ ।।
विसृजन्नयमेतेषां भ्राजते व्योम्नि मध्यमः ।
निपातमात्रे कथ्यन्ते तथाग्नेयानि कानिचित् ।। ९३ ।।
अर्चिभिः केश्ययं त्वग्निर् विद्युद्भिश्चैव मध्यमः ।
असौ तु रश्मिभिः केशी तेनैनानाह कैशिनः ।। ९४ ।।
एतेषां तु पृथक्त्वेन त्रयाणां केशिनामिह ।
संलक्ष्यन्ते प्रक्रियासु त्रयः केशिन इत्यृचि ।। ९५ ।।
न चैवैषां प्रसूतिर्वा विभूतिस्थानजन्म वा ।
निर्वक्तुं शक्यमेतैर्हि कृत्स्नं व्याप्तमिदं जगत् ।। ९६ ।।
वैश्वानरं श्रितो ह्यग्निर् अग्निं वैश्वानरः श्रितः ।
अनयोर्जातवेदास्तु तथैते जातवेदसी ।। ९७ ।।
सालोक्याच्चैकजातत्वाद् व्याप्तिमत्त्वात्तु तेजसः ।
तस्य तस्येह देवत्वं दृश्यन्ते च पृथक् स्तुताः ।।९८।।
यत्त्वाग्नेयमिति ब्रूमः सूक्तभाक् तत्र पार्थिवः ।
जातवेदस्यमित्युक्ते सूक्तेऽस्मिन्मध्यमः स्मृतः ।। ९९ ।।
वैश्वानरीयमिति तु यत्र ब्रूमोऽथ वा क्वचित् ।
सूर्यः सूक्तस्य भाक् तत्र ज्ञेयो वैश्वानरस्तुतौ ।। १०० ।।
सूर्यप्रसूतावग्नी तु दृष्टौ पार्थिवमध्यमौ ।
एतेषामेव लोकानां त्रयाणामध्वरेऽध्वरे ।। १०१ ।।
रोहात्प्रत्यवरोहेण चिकीर्षन्नाग्निमारुतम् ।
शस्त्रं वैश्वानरीयेण सूक्तेन प्रतिपद्यते ।। १०२ ।।
ततस्तु मध्यमस्थाना देवतास्त्वनुशंसति ।
रुद्रं च मरुतश्चैव स्तोत्रियेऽग्निमिमं पुनः ।। १०३ ।।
यथैतदुक्तमेतेषां विभूतिस्थानसंभवम् ।
तथा च देवदेवस्य तत्र तत्रेह दृश्यते ।। १०४ ।।
यद्यत्र पृथिवीस्थानं पार्थिवं चाग्निमाश्रितम् ।
तत्सर्वमानुपूर्व्येण कथ्यमानं निबोधत ।। १०५ ।।
जातवेदाः श्रितो ह्यग्निम् अग्निं वैश्वानरः श्रितः ।
द्रविणोदास्तथेध्मश्च श्रितश्चाग्निं तनूनपात् ।। १०६।।
नराशंसः श्रितश्चैनम् एनमेवाश्रितस्त्विलः ।
बर्हिर्द्वारश्च देव्योऽग्निम् एनमेव तु संश्रिताः ।। १०७ ।।
नक्तोषासा च दैव्यौ च होतारावेतदाश्रयौ ।
देव्यस्तिस्रः श्रिताश्चैनं त्वष्टा चैवैतदाश्रयः ।। १०८ ।।
श्रितो वनस्पतिश्चैनं स्वाहाकृतय एव च ।
अश्वश्च शकुनिश्चैव मण्डूकाश्चैतदाश्रयाः ।। १०९ ।।
ग्रावाणश्चैनमक्षाश्च नराशंसस्तथा रथः ।
दुन्दुभिश्चेषुधिञ्चैनं हस्तघ्नोऽभीशवो धनुः ।। ११० ।।
ज्या च तदाश्रितेषुश्च श्रिता अश्वाजनी च या ।
वृषभो द्रुघणश्चैनम् एनं पितुरुलूखलम् ।।११ १ ।।
नद्यश्चैवैनमापश्च सर्वा ओषधयश्च ह ।
रात्र्यप्वाग्नाय्यरण्यानी श्रद्धेळा पृथिवी तथा ।। ११२ ।।
भजेते चैनमेवार्ली द्वन्द्वभूते च रोदसी ।
मुसलोलूखले चैनं हविर्धाने च ये स्मृते ।। ११३ ।।
जोष्ट्री चोर्जाहुती चैनं शुतुद्र्या च विपाट् सह ।
यौ च देवौ शुनासीरौ तौ चाग्नी चैतदाश्रयौ ।। ११४ ।।
लोकोऽयं यच्च वै प्रातः सवनं क्रियते मखे ।
वसन्तशरदौ चर्तुं स्तोमोऽनुष्टुबथो त्रिवृत् ।। ११५ ।।
गायत्री चैकविंशश्च यच्च साम रथंतरम् ।
साध्याः साम च वैराजम् आप्त्याश्च वसुभिः सह ।। ११ ६।।
इन्द्रेण च मरुद्भिश्च सोमेन वरुणेन च ।
पर्जन्येनर्तुभिश्चैव विष्णुना चास्य संस्तवः ।। ११७ ।।
अस्यैवाग्नेस्तु पूष्णा च साम्राज्यं वरुणेन च ।
देवतामर्थतत्त्वज्ञो मन्त्रैः संयोजयेद्धविः ।। ११८ ।।
असंस्तुतस्यापि सतो हविरेकं निरुप्यते ।
देवतावाहनं चैव वहनं हविषां तथा ।। ११९ ।।
कर्म दृष्टे च यत्किंचिद् विषये परिवर्तते ।
इत्युक्तोऽयं गणः सर्वः पृथिव्यग्न्याश्रयो महान् ।। १२० ।
यश्चैन्द्रो मध्यमस्थानो गणः सोऽयमतः परः ।
विमानानि च दिव्यानि गणश्चाप्सरसां तथा ।। १२१ ।।
इन्द्राश्रयस्तु पर्जन्यो रुद्रो वायुर्बृहस्पतिः ।
वरुणः कश्च मृत्युश्च देवश्च ब्रह्मणस्पतिः ।। १२२ ।।
मन्युश्च विश्वकर्मा च मित्रः क्षेत्रपतिर्यमः ।
तार्क्ष्यो वास्तोष्पतिश्चैव सरस्वांश्चैवमत्र ह ।। १२३ ।।
अपांनपाद्दधिक्राश्च सुपर्णोऽथ पुरूरवाः ।
ऋतोऽसुनीतिर्वेनश्च तस्यैतस्याश्रयेऽदितिः ।। १२४ ।।
त्वष्टा च सविता चैव वातो वाचस्पतिस्तथा ।
धाता प्रजापतिश्चैव अथर्वाणश्च ये स्मृताः ।। १ २५।।
श्येनश्चैवैवमग्निश्च तथेळा चैव या स्मृता ।
विधातेन्दुरहिर्बुध्न्यः सोमोऽहिरथ चन्द्रमाः ।। १२६ ।।
विश्वानरश्च वै देवो रुद्राणां संस्तुतो गणः ।
मरुतोऽङ्गिरसश्चैव पितरश्चर्भुभिः सह ।। १२७ ।।
राका वाक् सरमाप्त्याश्च भृगवोऽघ्न्या सरस्वती ।
यम्युर्वशी सिनीवाली पथ्या स्वस्तिरुषाः कुहूः ।। १२८ ।।
पृथिव्यनुमतिर्धेनुः सीता लाक्षा तथैव गौः ।
गौरी च रोदसी चैव इन्द्राण्याश्चैष वै पतिः ।। १२९ ।।
छन्दस्त्रिष्ट्रुप् च पङ्क्तिश्च लोकानां मध्यमश्च यः ।
एतेष्वेवाश्रयो विद्यात् सवनं मध्यमं च यत् ।। १३० ।।
ऋतू च ग्रोष्महेमन्तौ यश्च सामोच्यते बृहत् ।
शक्वरीषु च यद्गीतं नाम्ना तत्साम शाक्वरम् ।। १३१ ।।
।। इति बृहद्देवतायां प्रथमोऽध्यायः ।।