ऋग्वेदः सूक्तं ७.६६

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.६५ ऋग्वेदः - मण्डल ७
सूक्तं ७.६६
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.६७ →
दे. मित्रावरुणौ, ४-१३ आदित्याः, १४-१६ सूर्यः। गायत्री, १०-१५ प्रगाथः - (विषमा बृहती, समा सतोबृहती), १६ पुर उष्णिक्।


प्र मित्रयोर्वरुणयो स्तोमो न एतु शूष्यः ।
नमस्वान्तुविजातयोः ॥१॥
या धारयन्त देवाः सुदक्षा दक्षपितरा ।
असुर्याय प्रमहसा ॥२॥
ता न स्तिपा तनूपा वरुण जरितॄणाम् ।
मित्र साधयतं धियः ॥३॥
यदद्य सूर उदितेऽनागा मित्रो अर्यमा ।
सुवाति सविता भगः ॥४॥
सुप्रावीरस्तु स क्षयः प्र नु यामन्सुदानवः ।
ये नो अंहोऽतिपिप्रति ॥५॥
उत स्वराजो अदितिरदब्धस्य व्रतस्य ये ।
महो राजान ईशते ॥६॥
प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् ।
अर्यमणं रिशादसम् ॥७॥
राया हिरण्यया मतिरियमवृकाय शवसे ।
इयं विप्रा मेधसातये ॥८॥
ते स्याम देव वरुण ते मित्र सूरिभिः सह ।
इषं स्वश्च धीमहि ॥९॥
बहवः सूरचक्षसोऽग्निजिह्वा ऋतावृधः ।
त्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः ॥१०॥
वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचम् ।
अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥११॥
तद्वो अद्य मनामहे सूक्तैः सूर उदिते ।
यदोहते वरुणो मित्रो अर्यमा यूयमृतस्य रथ्यः ॥१२॥
ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः ।
तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः ॥१३॥
उदु त्यद्दर्शतं वपुर्दिव एति प्रतिह्वरे ।
यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम् ॥१४॥
शीर्ष्णःशीर्ष्णो जगतस्तस्थुषस्पतिं समया विश्वमा रजः ।
सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥१५॥
तच्चक्षुर्देवहितं शुक्रमुच्चरत् ।
पश्येम शरदः शतं जीवेम शरदः शतम् ॥१६॥
काव्येभिरदाभ्या यातं वरुण द्युमत् ।
मित्रश्च सोमपीतये ॥१७॥
दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा ।
पिबतं सोममातुजी ॥१८॥
आ यातं मित्रावरुणा जुषाणावाहुतिं नरा ।
पातं सोममृतावृधा ॥१९॥


सायणभाष्यम्

‘प्र मित्रयोः' इत्येकोनविंशत्यृचमेकादशं सूक्तं वसिष्ठस्यार्षम् । अत्रेयमनुक्रमणिका – प्र मित्रयोरेकोना गायत्रं दशम्याद्यास्त्रयः प्रगाथाः पुरउष्णिक् चतुर्थ्याद्या दशादित्यास्तिस्रः सौर्यः । इति । दशमी बृहत्येकादशी सतोबृहती द्वादशी बृहती त्रयोदशी सतोबृहती चतुर्दशी बृहती पञ्चदशी सतोबृहती षोडशी पुरउणिक् शिष्टा गायत्र्यः । चतुर्थ्याद्यास्त्रयोदश्यन्ता आदित्यदेवताः चतुर्दश्याद्यास्तिस्रः सूर्यदेवत्याः। आद्यन्त्यौ तृचौ पूर्ववन्मैत्रावरुणौ । अग्निष्टोमे माध्यंदिनसवने मैश्रावरुणशस्त्र आदितो नवर्चः शस्याः। प्र मित्रयोर्वरुणयोरिति नव' (आश्व. श्रौ. ५. १०) इति सूत्रितत्वात् । पृष्ठ्याभिप्लवषडहयोः स्तोमवृद्धिनिमित्तमावापार्था आद्याः षडृचः । सूत्रितं च -- ‘ प्र मित्रयोर्वरुणयोरिति षट् ' ( आश्व. श्रौ. ७. ५) इति ॥


प्र मि॒त्रयो॒र्वरु॑णयो॒ः स्तोमो॑ न एतु शू॒ष्य॑ः ।

नम॑स्वान्तुविजा॒तयो॑ः ॥१

प्र । मि॒त्रयोः॑ । वरु॑णयोः । स्तोमः॑ । नः॒ । ए॒तु॒ । शू॒ष्यः॑ ।

नम॑स्वान् । तु॒वि॒ऽजा॒तयोः॑ ॥१

प्र । मित्रयोः । वरुणयोः । स्तोमः । नः । एतु । शूष्यः ।

नमस्वान् । तुविऽजातयोः ॥१

"मित्रयोर्वरुणयोः। मित्रावरुणयोरित्यर्थः । उभयत्र प्रतियोगापेक्षया द्विवचनत्वम्। "तुविजातयोः बहुप्रादुर्भावयोर्दैवयोः “नः अस्मदीयः “शूष्यः सुखकरः "नमस्वान् अन्नवान् हविर्भिर्युक्तः “स्तोमः स्तोत्रं “प्र “एतु गच्छतु। ‘अहोरात्रे वै मित्रावरुणौ ' (तै. सं. २. ४. १०. १) इति श्रुतिः। अनयोरहोरात्रापेक्षत्वात्तयोः पुनःपुनरागमनादनयोस्तुविजातत्वम् । अथवा बहूनामुपकारायानयोः प्रादुर्भावात्तुविजातत्वम् ।।


या धा॒रय॑न्त दे॒वाः सु॒दक्षा॒ दक्ष॑पितरा ।

अ॒सु॒र्या॑य॒ प्रम॑हसा ॥२

या । धा॒रय॑न्त । दे॒वाः । सु॒ऽदक्षा॑ । दक्ष॑ऽपितरा ।

अ॒सु॒र्या॑य । प्रऽम॑हसा ॥२

या । धारयन्त । देवाः । सुऽदक्षा । दक्षऽपितरा ।

असुर्याय । प्रऽमहसा ॥२

“या यौ युवां “धारयन्त । क। "देवाः आदिकर्तारः "असुर्याय बलकरणाय । कीदृशौ युवाम् । “सुदक्षा शोभनबलौ दक्षपितरा बलस्य पालकौ स्वामिनौ वा । बलप्रदावित्यर्थः । “प्रमहसा प्रकृष्टतेजस्कौ । तौ साधयतमित्युत्तरत्रान्वयः ॥


ता न॑ः स्ति॒पा त॑नू॒पा वरु॑ण जरितॄ॒णाम् ।

मित्र॑ सा॒धय॑तं॒ धिय॑ः ॥३

ता । नः॒ । स्ति॒ऽपा । त॒नू॒ऽपा । वरु॑ण । ज॒रि॒तॄ॒णाम् ।

मित्र॑ । सा॒धय॑तम् । धियः॑ ॥३

ता । नः । स्तिऽपा । तनूऽपा । वरुण । जरितॄणाम् ।

मित्र । साधयतम् । धियः ॥३

“ता तौ “स्तिपा। स्त्यायन्त इति स्तयो गृहाः। तान् पात इति स्तिपौ। “तनूपा तन्वः पातारौ हे “वरुण हे "मित्र उक्तलक्षणौ युवां “जरितॄणां "नः अस्माकं “धियः कर्माणि स्तुतिरूपाणि “साधयतं फलवन्ति कुरुतम् ॥


यद॒द्य सूर॒ उदि॒तेऽना॑गा मि॒त्रो अ॑र्य॒मा ।

सु॒वाति॑ सवि॒ता भग॑ः ॥४

यत् । अ॒द्य । सूरे॑ । उत्ऽइ॑ते । अना॑गाः । मि॒त्रः । अ॒र्य॒मा ।

सु॒वाति॑ । स॒वि॒ता । भगः॑ ॥४

यत् । अद्य । सूरे । उत्ऽइते । अनागाः । मित्रः । अर्यमा ।

सुवाति । सविता । भगः ॥४

“यत् धनमस्माकमपेक्षितं तत् “अद्य अस्मिन् काले "सूर "उदिते सति प्रातःसवने “अनागाः पापहन्ता "मित्रोऽर्यमा “सविता “भगः चैते प्रत्येकं "सुवाति प्रेरयेत् । अथवा । अनागा मित्रोऽर्यमा दाता भवतु । तदीप्सितं धनं भगो भजनीयः सविता सुवाति प्रेरयतु ।।


सु॒प्रा॒वीर॑स्तु॒ स क्षय॒ः प्र नु याम॑न्सुदानवः ।

ये नो॒ अंहो॑ऽति॒पिप्र॑ति ॥५

सु॒प्र॒ऽअ॒वीः । अ॒स्तु॒ । सः । क्षयः॑ । प्र । नु । याम॑न् । सु॒ऽदा॒न॒वः॒ ।

ये । नः॒ । अंहः॑ । अ॒ति॒ऽपिप्र॑ति ॥५

सुप्रऽअवीः । अस्तु । सः । क्षयः । प्र । नु । यामन् । सुऽदानवः ।

ये । नः । अंहः । अतिऽपिप्रति ॥५

“सः “क्षयः स निवासः "सुप्रावीरस्तु सुष्ठु प्रकर्षेण रक्षितास्तु । प्रशब्द आदरार्थः । प्रकर्षेण “नु क्षिप्रं भवन्त्विति शेषः । कदेति उच्यते । हे “सुदानवः सुदानाः युष्माकं “यामन् यामनि गमने सति । कीदृशानां गमने। “ये यूयमागत्य “नः अस्माकम् "अहः पापम् “अतिपिप्रति अतिपारयथ तेषां गमन इति ॥ ॥ ८ ॥


उ॒त स्व॒राजो॒ अदि॑ति॒रद॑ब्धस्य व्र॒तस्य॒ ये ।

म॒हो राजा॑न ईशते ॥६

उ॒त । स्व॒ऽराजः॑ । अदि॑तिः । अद॑ब्धस्य । व्र॒तस्य॑ । ये ।

म॒हः । राजा॑नः । ई॒श॒ते॒ ॥६

उत । स्वऽराजः । अदितिः । अदब्धस्य । व्रतस्य । ये ।

महः । राजानः । ईशते ॥६

“उत अपि च “ये मित्रादयस्त्रयः "स्वराजः सर्वस्य स्वामिनः “अदितिः तेषां माता च सन्ति “अदब्धस्य अहिंसितस्य “महः महतः “व्रतस्य अस्य कर्मणः “राजानः स्वामिनः ते “ईशते समर्था भवन्ति । अभिमतं दातुमिति शेषः । अथवैवं योज्यम्। ये मित्रादयोऽदितिश्चादब्धस्य व्रतस्य स्वराज ईश्वराः ते महो महतोऽस्मदभिमतधनस्य राजानः स्वामिनः सन्त ईशतेऽस्मभ्यं तद्दातुम् ॥


‘प्रति वाम्' इत्येष तृचश्चातुर्विंशिकेऽहनि प्रातःसवने मैत्रावरुणस्य पर्यासार्थः । सूत्रितं च --- प्रति वां सूर उदिते व्यन्तरिक्षमतरत् ' (अश्व. श्रौ. ७. २) इति ॥

प्रति॑ वां॒ सूर॒ उदि॑ते मि॒त्रं गृ॑णीषे॒ वरु॑णम् ।

अ॒र्य॒मणं॑ रि॒शाद॑सम् ॥७

प्रति॑ । वा॒म् । सूरे॑ । उत्ऽइ॑ते । मि॒त्रम् । गृ॒णी॒षे॒ । वरु॑णम् ।

अ॒र्य॒मण॑म् । रि॒शाद॑सम् ॥७

प्रति । वाम् । सूरे । उत्ऽइते । मित्रम् । गृणीषे । वरुणम् ।

अर्यमणम् । रिशादसम् ॥७

हे मित्रावरुणौ “मित्रं त्वां “वरुणं च युवां “रिशादसं शत्रूणामत्तारम् “अर्यमणं च “प्रति प्रत्येकं "गृणीषे स्तुवे । कदेति उच्यते । “सूरे सूर्ये देवे “उदिते सति । प्रातरित्यर्थः ॥


रा॒या हि॑रण्य॒या म॒तिरि॒यम॑वृ॒काय॒ शव॑से ।

इ॒यं विप्रा॑ मे॒धसा॑तये ॥८

रा॒या । हि॒र॒ण्य॒ऽया । म॒तिः । इ॒यम् । अ॒वृ॒काय॑ । शव॑से ।

इ॒यम् । विप्रा॑ । मे॒धऽसा॑तये ॥८

राया । हिरण्यऽया । मतिः । इयम् । अवृकाय । शवसे ।

इयम् । विप्रा । मेधऽसातये ॥८

“हिरण्यया हितरमणीयेन “राया धनेन सहिताय “अवृकाय अहिंस्याय “शवसे अस्माकं बलाय “इयम् इदानीं क्रियमाणा “मतिः स्तुतिर्भवत्विति शेषः ।। हिरण्ययेत्यत्र ‘सुपां सुलुक् । इति तृतीयैकवचनस्य याजादेशः ।। किंच हे “विप्राः प्राज्ञाः “इयम् एव स्तुतिः “मेधसातये यज्ञलाभाय च भवतु ॥


ते स्या॑म देव वरुण॒ ते मि॑त्र सू॒रिभि॑ः स॒ह ।

इषं॒ स्व॑श्च धीमहि ॥९

ते । स्या॒म॒ । दे॒व॒ । व॒रु॒ण॒ । ते । मि॒त्र॒ । सू॒रिऽभिः॑ । स॒ह ।

इष॑म् । स्व१॒॑रिति॑ स्वः॑ । च॒ । धी॒म॒हि॒ ॥९

ते । स्याम । देव । वरुण । ते । मित्र । सूरिऽभिः । सह ।

इषम् । स्वरिति स्वः । च । धीमहि ॥९

हे “देव "वरुण “ते वयं तव स्तोतारः “स्याम समृद्धा भवेम । न केवलं वयमेव यजमानाः किंतु "सूरिभिः स्तोतृभिर्ऋत्विग्भिः “सह । तथा हे “मित्र देव "ते वयं सूरिभिः सह स्याम भवेम । किंच “इषम् अन्नं “स्वः उदकं “च “धीमहि धारयामहे ।।


आश्विनशस्त्रे ' बहवः सूरचक्षसः' इति प्रगाथः । सूत्रितं च -- बहवः सूरचक्षस इति प्रगाथाः' (आश्व. श्रौ. ६. ५) इति । दशरात्रे पञ्चमेऽहनि प्रउगशस्त्रेऽप्ययं प्रगाथः । सूत्रितं च --- ‘ बहवः सूरचक्षस इमा उ वां दिविष्टयः' ( आश्व. श्रौ. ७. १२) इति ॥

ब॒हव॒ः सूर॑चक्षसोऽग्निजि॒ह्वा ऋ॑ता॒वृध॑ः ।

त्रीणि॒ ये ये॒मुर्वि॒दथा॑नि धी॒तिभि॒र्विश्वा॑नि॒ परि॑भूतिभिः ॥१०

ब॒हवः॑ । सूर॑ऽचक्षसः । अ॒ग्नि॒ऽजि॒ह्वाः । ऋ॒त॒ऽवृधः॑ ।

त्रीणि॑ । ये । ये॒मुः । वि॒दथा॑नि । धी॒तिऽभिः॑ । विश्वा॑नि । परि॑भूतिऽभिः ॥१०

बहवः । सूरऽचक्षसः । अग्निऽजिह्वाः । ऋतऽवृधः ।

त्रीणि । ये । येमुः । विदथानि । धीतिऽभिः । विश्वानि । परिभूतिऽभिः ॥१०

“बहवः महान्तः "सूरचक्षसः सूर्यसदृशप्रकाशाः । सूरः प्रकाशको येषामिति वा । “अग्निजिह्वाः। अग्निरेव जिह्वादनसाधनो येषां तादृशाः। “ऋतावृधः यज्ञस्य वर्धयितारो मित्रादयः । किंच "ये “त्रीणि “विश्वानि व्याप्तानि “विदथानि क्षित्यादिस्थानानि क्षित्यादीनि “परिभूतिभिः परिभावुकैः “धीतिभिः कर्मभिः “येमुः प्रयच्छन्ति ते क्षत्रमाशतेत्युत्तरत्र संबन्धनीयम् । अथवात्रैव ये त्रीणि स्थानानि प्रयच्छन्ति ते बहुत्वादिगुणोपेता आगच्छन्त्वित्यध्याहार्यम् ॥ ॥ ९ ॥


वि ये द॒धुः श॒रदं॒ मास॒मादह॑र्य॒ज्ञम॒क्तुं चादृच॑म् ।

अ॒ना॒प्यं वरु॑णो मि॒त्रो अ॑र्य॒मा क्ष॒त्रं राजा॑न आशत ॥११

वि । ये । द॒धुः । श॒रद॑म् । मास॑म् । आत् । अहः॑ । य॒ज्ञम् । अ॒क्तुम् । च॒ । आत् । ऋच॑म् ।

अ॒ना॒प्यम् । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । क्ष॒त्रम् । राजा॑नः । आ॒श॒त॒ ॥११

वि । ये । दधुः । शरदम् । मासम् । आत् । अहः । यज्ञम् । अक्तुम् । च । आत् । ऋचम् ।

अनाप्यम् । वरुणः । मित्रः । अर्यमा । क्षत्रम् । राजानः । आशत ॥११

“ये मित्रादयः “शरदं संवत्सरं “वि "दधुः अकुर्वन् “आत् अनन्तरमेव "मासम् अनन्तरम् “अहः अनन्तरमहःसाध्यं “यज्ञम् “आत् अनन्तरम् “अक्तुं रात्रिं “च “ऋचं मन्त्रांश्च । यद्वा सर्वत्र आत् इत्ययम् अपीत्यर्थे वर्तते । तथा सति क्रमोऽविवक्षितः । ते “वरुणः “मित्रः “अर्यमा च त्रयः “अनाप्यम् अन्यैरप्राप्तं “क्षत्रं बलं “राजानः राजमानाः “आशत व्याप्तवन्तः ॥


तद्वो॑ अ॒द्य म॑नामहे सू॒क्तैः सूर॒ उदि॑ते ।

यदोह॑ते॒ वरु॑णो मि॒त्रो अ॑र्य॒मा यू॒यमृ॒तस्य॑ रथ्यः ॥१२

तत् । वः॒ । अ॒द्य । म॒ना॒म॒हे॒ । सु॒ऽउ॒क्तैः । सूरे॑ । उत्ऽइ॑ते ।

यत् । ओह॑ते । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । यू॒यम् । ऋ॒तस्य॑ । र॒थ्यः॒ ॥१२

तत् । वः । अद्य । मनामहे । सुऽउक्तैः । सूरे । उत्ऽइते ।

यत् । ओहते । वरुणः । मित्रः । अर्यमा । यूयम् । ऋतस्य । रथ्यः ॥१२

"तत् प्रसिद्धम् “अद्य अस्मिन् यागकाले “वः युष्मान् “मनामहे याचामहे । कैः साधनैः । “सूक्तैः । कस्मिन् काले। “सूर “उदिते । प्रातःकाल इत्यर्थः । “यत् धनं हे “ऋतस्य उदकस्य “रथ्यः नेतारः “यूयं वरुणादयः “ओहते। यूयमित्यनेन सामानाधिकरण्यात् ओहत इत्यत्र पुरुषव्यत्ययः । ओहध्व इत्यर्थः । तद्धनं मनामह इति ॥


ऋ॒तावा॑न ऋ॒तजा॑ता ऋता॒वृधो॑ घो॒रासो॑ अनृत॒द्विष॑ः ।

तेषां॑ वः सु॒म्ने सु॑च्छ॒र्दिष्ट॑मे नर॒ः स्याम॒ ये च॑ सू॒रय॑ः ॥१३

ऋ॒तऽवा॑नः । ऋ॒तऽजा॑ताः । ऋ॒त॒ऽवृधः॑ । घो॒रासः॑ । अ॒नृ॒त॒ऽद्विषः॑ ।

तेषा॑म् । वः॒ । सु॒म्ने । सु॒च्छ॒र्दिःऽत॑मे । न॒रः॒ । स्याम॑ । ये । च॒ । सू॒रयः॑ ॥१३

ऋतऽवानः । ऋतऽजाताः । ऋतऽवृधः । घोरासः । अनृतऽद्विषः ।

तेषाम् । वः । सुम्ने । सुच्छर्दिःऽतमे । नरः । स्याम । ये । च । सूरयः ॥१३

हे यूयम् “ऋतावानः ऋतवन्तो यज्ञवन्त उदकवन्तो वा “ऋतजाताः। उक्त ऋतशब्दार्थः । तदर्थमुत्पन्नाः । अथवा ऋतात् प्रजापतेः सकाशादुत्पन्नाः । “ऋतावृधः उक्तार्थस्य ऋतस्य वर्धयितारः “घोरासः घोराः “अनृतद्विषः अयष्टृद्वेष्टारः “तेषां “वः युष्माकं “सुच्छर्दिष्टमे सुखतमे “सुम्ने धने अत्यन्तरमणीयगृहयुक्ते सुखे वा ये वयं “ये “च अन्ये "सूरयः स्तोतारस्ते सर्वे “स्याम भवेम ।।


सोमातिरेके माध्यंदिनसवने नैमित्तिके शस्त्रे ‘उदु त्यत्' इत्ययं प्रगाथोऽनुरूपः । सूत्रितं च - बण्महाँ असि सूर्योदु त्यद्दर्शतं वपुरिति प्रगाथौ स्तोत्रियानुरूपौ ' (आश्व. श्रौ. ६. ७ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवनेऽयमेव वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितं - उदु त्यद्दर्शतं वपुरुदु त्ये मधुमत्तमाः' (आश्व. श्रौ. ७. ४) इति ।।

उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए॑ति प्रतिह्व॒रे ।

यदी॑मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒ अर॑म् ॥१४

उत् । ऊं॒ इति॑ । त्यत् । द॒र्श॒तम् । वपुः॑ । दि॒वः । ए॒ति॒ । प्र॒ति॒ऽह्व॒रे ।

यत् । ई॒म् । आ॒शुः । वह॑ति । दे॒वः । एत॑शः । विश्व॑स्मै । चक्ष॑से । अर॑म् ॥१४

उत् । ऊं इति । त्यत् । दर्शतम् । वपुः । दिवः । एति । प्रतिऽह्वरे ।

यत् । ईम् । आशुः । वहति । देवः । एतशः । विश्वस्मै । चक्षसे । अरम् ॥१४

“त्यत् तत् “दर्शतं दर्शनीयं "वपुः मण्डलं “दिवः अन्तरिक्षस्य "प्रतिह्वरे समीपे “उदु “एति उदेति । उ इति पूरणः। “यदीं यदेतन्मण्डलम् “आशुः शीघ्रगामी “एतशः एतदवर्णोऽश्वो “वहति धारयति । किमर्थम् । “विश्वस्मै सर्वस्मै "अरं “चक्षसे सम्यक् सर्वलोकदर्शनाय ॥


शी॒र्ष्णःशी॑र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं॑ स॒मया॒ विश्व॒मा रज॑ः ।

स॒प्त स्वसा॑रः सुवि॒ताय॒ सूर्यं॒ वह॑न्ति ह॒रितो॒ रथे॑ ॥१५

शी॒र्ष्णःऽशी॑र्ष्णः । जग॑तः । त॒स्थुषः॑ । पति॑म् । स॒मया॑ । विश्व॑म् । आ । रजः॑ ।

स॒प्त । स्वसा॑रः । सु॒वि॒ताय॑ । सूर्य॑म् । वह॑न्ति । ह॒रितः॑ । रथे॑ ॥१५

शीर्ष्णःऽशीर्ष्णः । जगतः । तस्थुषः । पतिम् । समया । विश्वम् । आ । रजः ।

सप्त । स्वसारः । सुविताय । सूर्यम् । वहन्ति । हरितः । रथे ॥१५

“शीर्ष्णःशीर्ष्णः सर्वस्यापि शिरसः। तृतीयार्थे पञ्चमी । स्वस्वशिरसेत्यर्थ: । सूर्यं वहन्तीत्यनेन संबध्यते । अथवा शिरःशब्देन तद्वान् पदार्थो लक्ष्यते । वीप्सया तस्य कार्त्स्न्यमुच्यते। सर्वस्य श्रेष्ठमित्यर्थः। जगतः जङ्गमस्य “तस्थुषः: स्थावरस्य “पतिं “रथे वर्तमानं सूर्यं “सुविताय कल्याणाय “विश्वं “रजः “समया सर्वलोकस्य समीपे। अभितः परितःसमया (पा. म. २. ३. २. १ ) इत्यादिना समयाशब्दयोगात् द्वितीया । “सप्त सप्तसंख्याकाः "स्वसारः अन्यनिरपेक्षेण स्वयमेव सरन्त्यः “हरितः हरितवर्णा अश्वाः “वहन्ति ॥ ॥ १० ॥


तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् ।

पश्ये॑म श॒रद॑ः श॒तं जीवे॑म श॒रद॑ः श॒तम् ॥१६

तत् । चक्षुः॑ । दे॒वऽहि॑तम् । शु॒क्रम् । उ॒त्ऽचर॑त् ।

पश्ये॑म । श॒रदः॑ । श॒तम् । जीवे॑म । श॒रदः॑ । श॒तम् ॥१६

तत् । चक्षुः । देवऽहितम् । शुक्रम् । उत्ऽचरत् ।

पश्येम । शरदः । शतम् । जीवेम । शरदः । शतम् ॥१६

“तत् प्रसिद्धं “चक्षुः सर्वस्य प्रकाशकं “देवहितं देवानां हितम् । तेषां हविःस्वीकारस्यैतदधीनत्वात् । अथवा देवेन हितं “शुक्रं निर्मलं सूर्यमण्डलम् “उच्चरत् उद्गच्छति । तत् “शरदः “शतं शतसंवत्सरं “पश्येम । “जीवेम “शरदः “शतम् । पुनःश्रुतिरादरार्था ॥


पृष्ठ्याभिप्लवषडहयोः स्तोमनिमित्त आवापे ‘काव्येभिरदाभ्या ' इति तृचः । 'काव्येभिरदाभ्येति तिस्रः' (आश्व. श्रौ. ७. ५) इति हि सूत्रितम् ॥

काव्ये॑भिरदा॒भ्या या॑तं वरुण द्यु॒मत् ।

मि॒त्रश्च॒ सोम॑पीतये ॥१७

काव्ये॑भिः । अ॒दा॒भ्या॒ । आ । या॒त॒म् । व॒रु॒ण॒ । द्यु॒ऽमत् ।

मि॒त्रः । च॒ । सोम॑ऽपीतये ॥१७

काव्येभिः । अदाभ्या । आ । यातम् । वरुण । द्युऽमत् ।

मित्रः । च । सोमऽपीतये ॥१७

हे “अदाभ्या अदम्भनीयौ हे “वरुण त्वं “मित्रश्च “द्युमत् द्युतिमन्तौ युवां “काव्येभिः अस्मत्कृतैः स्तोत्रैः "आ "यातम् । किमर्थम् । “सोमपीतये सोमपानाय ॥


दि॒वो धाम॑भिर्वरुण मि॒त्रश्चा या॑तम॒द्रुहा॑ ।

पिब॑तं॒ सोम॑मातु॒जी ॥१८

दि॒वः । धाम॑ऽभिः । व॒रु॒ण॒ । मि॒त्रः । च॒ । आ । या॒त॒म् । अ॒द्रुहा॑ ।

पिब॑तम् । सोम॑म् । आ॒तु॒जी इत्या॑ऽतु॒जी ॥१८

दिवः । धामऽभिः । वरुण । मित्रः । च । आ । यातम् । अद्रुहा ।

पिबतम् । सोमम् । आतुजी इत्याऽतुजी ॥१८

हे “वरुण त्वं “मित्रश्च “अद्रुहा अद्रोग्धारौ युवां “दिवः द्युलोकसंबन्धिभ्यः “धामभिः धामभ्यः स्थानेभ्यः । पञ्चम्यर्थे तृतीया । अथवा धामभिस्तेजोभिर्विभूतिभिः सार्धम् “आ “यातम् अस्मद्यज्ञमागच्छतम् । आगत्य च “आतुजी शत्रूणां सर्वतो हिंसकावादातारौ वा धनानामेवंरूपौ सन्तौ “सोमं “पिबतम् । “ तुजि पिजि हिंसाबलादाननिकेतनेषु' । अत्र हिंसायामादाने वा वर्तते ।


आ या॑तं मित्रावरुणा जुषा॒णावाहु॑तिं नरा ।

पा॒तं सोम॑मृतावृधा ॥१९

आ । या॒त॒म् । मि॒त्रा॒व॒रु॒णा॒ । जु॒षा॒णौ । आऽहु॑तिम् । न॒रा॒ ।

पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥१९

आ । यातम् । मित्रावरुणा । जुषाणौ । आऽहुतिम् । नरा ।

पातम् । सोमम् । ऋतऽवृधा ॥१९

हे “मित्रावरुणा मित्रावरुणौ हे “नरा यागनेतारौ “आहुतिं सोमलक्षणां “जुषाणौ प्रीयमाणौ सन्तौ "आ "यातम् आगच्छतं यज्ञम् । आगत्य च हे “ऋतावृधा यज्ञस्य वर्धकौ युवां “सोमं “पातं पिबतम् ॥ ॥ १३ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.६६&oldid=201197" इत्यस्माद् पुनः प्राप्तिः