ऋग्वेदः सूक्तं ७.५४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.५३ ऋग्वेदः - मण्डल ७
सूक्तं ७.५४
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.५५ →
दे. वास्तोष्पतिः । त्रिष्टुप् ।


वास्तोष्पते प्रति जानीह्यस्मान्स्वावेशो अनमीवो भवा नः ।
यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥१॥
वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो ।
अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व ॥२॥
वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या ।
पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः ॥३॥


सायणभाष्यम्

‘वास्तोष्पते' इति तृचात्मकमेकविंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वास्तोष्पत्यम् । तथा चानुक्रम्यते- ‘ वास्तोष्पते वास्तोष्पत्यम् ' इति । स्मार्ते गृहनिर्माणे 'वास्तोष्पते ' इति चतसृभिः प्रत्यृचं जुहुयात् । सूत्रितं च - वास्तोष्पते प्रति जानीह्यस्मानिति चतसृभिः प्रत्यृचं हुत्वा ' (आश्व. गृ. २. ९. ९ ) इति ॥


वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः ।

यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शं नो॑ भव द्वि॒पदे॒ शं चतु॑ष्पदे ॥१

वास्तोः॑ । प॒ते॒ । प्रति॑ । जा॒नी॒हि॒ । अ॒स्मान् । सु॒ऽआ॒वे॒शः । अ॒न॒मी॒वः । भ॒व॒ । नः॒ ।

यत् । त्वा॒ । ईम॑हे । प्रति॑ । तत् । नः॒ । जु॒ष॒स्व॒ । शम् । नः॒ । भ॒व॒ । द्वि॒ऽपदे॑ । शम् । चतुः॑ऽपदे ॥१

वास्तोः । पते । प्रति । जानीहि । अस्मान् । सुऽआवेशः । अनमीवः । भव । नः ।

यत् । त्वा । ईमहे । प्रति । तत् । नः । जुषस्व । शम् । नः । भव । द्विऽपदे । शम् । चतुःऽपदे ॥१

हे "वास्तोष्पते गृहस्य पालयितर्देव त्वम् "अस्मान् त्वदीयान् स्तोतॄनिति “प्रति “जानीहि प्रबुध्यस्व । तदनन्तरं "नः अस्माकं “स्वावेशः शोभननिवेशः "अनमीवः अरोगकृच्च “भव । किंच वयं “त्वा त्वां “यत् धनम् "ईमहे याचामहे त्वमपि "तत् धनं "नः अस्मभ्यं “प्रति “जुषस्व प्रयच्छ । अपि च "नः अस्माकं "द्विपदे पुत्रपौत्रादिजनाय “शं सुखकरः “भव । "चतुष्पदे अस्मदीयाय गवाश्वादिवर्गाय च "शं सुखकरो भव ॥


वास्तो॑ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒ गोभि॒रश्वे॑भिरिन्दो ।

अ॒जरा॑सस्ते स॒ख्ये स्या॑म पि॒तेव॑ पु॒त्रान्प्रति॑ नो जुषस्व ॥२

वास्तोः॑ । प॒ते॒ । प्र॒ऽतर॑णः । नः॒ । ए॒धि॒ । ग॒य॒ऽस्फानः॑ । गोभिः॑ । अश्वे॑भिः । इ॒न्दो॒ इति॑ ।

अ॒जरा॑सः । ते॒ । स॒ख्ये । स्या॒म॒ । पि॒ताऽइ॑व । पु॒त्रान् । प्रति॑ । नः॒ । जु॒ष॒स्व॒ ॥२

वास्तोः । पते । प्रऽतरणः । नः । एधि । गयऽस्फानः । गोभिः । अश्वेभिः । इन्दो इति ।

अजरासः । ते । सख्ये । स्याम । पिताऽइव । पुत्रान् । प्रति । नः । जुषस्व ॥२

हे "वास्तोष्पते गृहस्य पालयितर्देव त्वं "नः अस्माकं "प्रतरणः प्रवर्धकः “गयस्फानः गयस्य अस्मदीयस्य धनस्य स्फाययिता प्रवर्धकः “एधि भव । हे “इन्दो सोमवदाह्लादक "ते त्वया सह “सख्ये सति वयं "गोभिः पशुभिः "अश्वेभिः अश्वैश्च सहिताः “अजरासः जरारहिताः "स्याम भवेम । विनाशरहिता इत्यर्थः । "पितेव “पुत्रान् यथा पिता पुत्रान् रक्षकत्वेन सेवते तथा त्वमपि “नः अस्मान् "प्रति "जुषस्व सेवस्व ॥


वास्तो॑ष्पते श॒ग्मया॑ सं॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या॑ ।

पा॒हि क्षेम॑ उ॒त योगे॒ वरं॑ नो यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥३

वास्तोः॑ । प॒ते॒ । श॒ग्मया॑ । स॒म्ऽसदा॑ । ते॒ । स॒क्षी॒महि॑ । र॒ण्वया॑ । गा॒तु॒ऽमत्या॑ ।

पा॒हि । क्षेमे॑ । उ॒त । योगे॑ । वर॑म् । नः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥३

वास्तोः । पते । शग्मया । सम्ऽसदा । ते । सक्षीमहि । रण्वया । गातुऽमत्या ।

पाहि । क्षेमे । उत । योगे । वरम् । नः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥३

हे "वास्तोष्पते देव “शग्मया सुखकर्या “रण्वया रमणीयया “गातुमत्या धनवत्या “ते त्वया देयया “संसदा स्थानेन “सक्षीमहि वयं संगच्छेमहि । त्वमपि "क्षेमे प्राप्तस्य रक्षणे “उत अपि च “योगे अप्राप्तस्य प्रापणे “वरं वरणीयं "नः अस्मदीयं धनं "पाहि रक्ष । हे वास्तोष्पते "यूयं त्वं “नः अस्मान् सर्वदा कल्याणैः “पात पाहि ॥ ॥ २१ ॥

[सम्पाद्यताम्]

टिप्पणी

शौअ ३.१२ (इहैव ध्रुवां इति), ५.९(दिवे स्वाहा इति), ५.१०(अश्मवर्ममेसि इति) , ५.२६(यजूंषि यज्ञे इति), ६.७३.३ (इहैव स्त इति)।

प्रयाणं करिष्यतोऽग्निहोत्रिणोऽग्निसमारोपणम, वास्तोष्पतिहोमम् च(तैसं. ३.४.१०)

वास्तु उपरि टिप्पणी

वास्तुसूत्रोपनिषत्

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.५४&oldid=310102" इत्यस्माद् प्रतिप्राप्तम्