ऋग्वेदः सूक्तं ७.६८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.६७ ऋग्वेदः - मण्डल ७
सूक्तं ७.६८
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.६९ →
दे. अश्विनौ। विराट्, ८-९ त्रिष्टुप्।


आ शुभ्रा यातमश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः ।
हव्यानि च प्रतिभृता वीतं नः ॥१॥
प्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे ।
तिरो अर्यो हवनानि श्रुतं नः ॥२॥
प्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः ।
अस्मभ्यं सूर्यावसू इयानः ॥३॥
अयं ह यद्वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद्युवभ्याम् ।
आ वल्गू विप्रो ववृतीत हव्यैः ॥४॥
चित्रं ह यद्वां भोजनं न्वस्ति न्यत्रये महिष्वन्तं युयोतम् ।
यो वामोमानं दधते प्रियः सन् ॥५॥
उत त्यद्वां जुरते अश्विना भूच्च्यवानाय प्रतीत्यं हविर्दे ।
अधि यद्वर्प इतऊति धत्थः ॥६॥
उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे ।
निरीं पर्षदरावा यो युवाकुः ॥७॥
वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे हूयमाना ।
यावघ्न्यामपिन्वतमपो न स्तर्यं चिच्छक्त्यश्विना शचीभिः ॥८॥
एष स्य कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा ।
इषा तं वर्धदघ्न्या पयोभिर्यूयं पात स्वस्तिभिः सदा नः ॥९॥

सायणभाष्यम्

‘आ शुभा यातम्' इति नवर्चं त्रयोदशं सूक्तं वसिष्ठस्यार्षमाश्विनम् । आदितः सप्त विराजोऽष्टमीनवम्यौ त्रिष्टुभौ । अनुक्रम्यते च--- आ शुभ्रा नव सप्ताद्या विराजः' इति । सूक्तविनियोगो लैङ्गिकः ॥


आ शु॑भ्रा यातमश्विना॒ स्वश्वा॒ गिरो॑ दस्रा जुजुषा॒णा यु॒वाकोः॑ ।

ह॒व्यानि॑ च॒ प्रति॑भृता वी॒तं नः॑ ॥१

आ । शु॒भ्रा॒ । या॒त॒म् । अ॒श्वि॒ना॒ । सु॒ऽअश्वा॑ । गिरः॑ । द॒स्रा॒ । जु॒जु॒षा॒णा । यु॒वाकोः॑ ।

ह॒व्यानि॑ । च॒ । प्रति॑ऽभृता । वी॒तम् । नः॒ ॥१

आ । शुभ्रा । यातम् । अश्विना । सुऽअश्वा । गिरः । दस्रा । जुजुषाणा । युवाकोः ।

हव्यानि । च । प्रतिऽभृता । वीतम् । नः ॥१

हे “शुभ्रा दीप्तौ “स्वश्वा शोभनाश्वौ हे “अश्विना अश्विनौ “आ "यातम् अस्मद्यज्ञमागच्छतम् । “दस्रा शत्रूणामुपक्षपयितारौ युवां “युवाकोः युवां कामयमानस्य मम “गिरः स्तुतीः "जुजुषाणा सेवमानौ भवतमिति शेषः । न केवलं स्तुतिं किंतु नः अस्मदीयानि “प्रतिभृता संभृतानि “हव्यानि हवींषि “च “वीतं भक्षयतम् ॥


प्र वा॒मंधां॑सि॒ मद्या॑न्यस्थु॒ररं॑ गंतं ह॒विषो॑ वी॒तये॑ मे ।

ति॒रो अ॒र्यो हव॑नानि श्रु॒तं नः॑ ॥२

प्र । वा॒म् । अन्धां॑सि । मद्या॑नि । अ॒स्थुः॒ । अर॑म् । ग॒न्त॒म् । ह॒विषः॑ । वी॒तये॑ । मे॒ ।

ति॒रः । अ॒र्यः । हव॑नानि । श्रु॒तम् । नः॒ ॥२

प्र । वाम् । अन्धांसि । मद्यानि । अस्थुः । अरम् । गन्तम् । हविषः । वीतये । मे ।

तिरः । अर्यः । हवनानि । श्रुतम् । नः ॥२

हे अश्विनौ “वां युवाभ्यां “मद्यानि मदजनकानि “अन्धांसि सोमलक्षणान्यन्नानि “प्र “अस्थुः प्रास्थिषत । गृहीतान्यासन्नित्यर्थः । अतो युवां “मे मम “हविषः “वीतये पानाय “अरम् अत्यर्थं शीघ्रं “गन्तम् आगच्छतम् । “अर्यः अरेरस्मद्विरोधिनः “हवनानि “तिरः तिरस्कृत्य “नः । अस्मदाह्वानमित्यर्थः। तत् “श्रुतं शृणुतम् । श्रुतमित्यस्य वाक्यादित्वादनिघातः ॥


प्र वां॒ रथो॒ मनो॑जवा इयर्ति ति॒रो रजां॑स्यश्विना श॒तोतिः॑ ।

अ॒स्मभ्यं॑ सूर्यावसू इया॒नः ॥३

प्र । वा॒म् । रथः॑ । मनः॑ऽजवाः । इ॒य॒र्ति॒ । ति॒रः । रजां॑सि । अ॒श्वि॒ना॒ । श॒तऽऊ॑तिः ।

अ॒स्मभ्य॑म् । सू॒र्या॒व॒सू॒ इति॑ । इ॒या॒नः ॥३

प्र । वाम् । रथः । मनःऽजवाः । इयर्ति । तिरः । रजांसि । अश्विना । शतऽऊतिः ।

अस्मभ्यम् । सूर्यावसू इति । इयानः ॥३

हे सूर्यावसू सूर्यायाः सह रथे वसन्तौ “वां युवयोः “रथः अस्मभ्यम् अस्मदर्थम् “इयानः याच्यमानः सन् “इयर्ति । आगच्छत्यस्मद्यज्ञम् । अथवा वां प्रेरयति गमनाय । कीदृशो रथः । “मनोजवाः मनोवेगः “शतोतिः अपरिमितास्मद्विषयरक्षणः । किं कुर्वन् । “रजांसि लोकान् “तिरः तिरस्कृत्यातिक्रम्य इयर्तीति ॥


अ॒यं ह॒ यद्वां॑ देव॒या उ॒ अद्रि॑रू॒र्ध्वो विव॑क्ति सोम॒सुद्यु॒वभ्यां॑ ।

आ व॒ल्गू विप्रो॑ ववृतीत ह॒व्यैः ॥४

अ॒यम् । ह॒ । यत् । वा॒म् । दे॒व॒ऽयाः । ऊं॒ इति॑ । अद्रिः॑ । ऊ॒र्ध्वः । विव॑क्ति । सो॒म॒ऽसुत् । यु॒वऽभ्या॑म् ।

आ । व॒ल्गू इति॑ । विप्रः॑ । व॒वृ॒ती॒त॒ । ह॒व्यैः ॥४

अयम् । ह । यत् । वाम् । देवऽयाः । ऊं इति । अद्रिः । ऊर्ध्वः । विवक्ति । सोमऽसुत् । युवऽभ्याम् ।

आ । वल्गू इति । विप्रः । ववृतीत । हव्यैः ॥४

“यत् यदा “वां युवां प्रति "देवयाः देवौ युवां कामयमानः । “उ इति पूरणः । “अयम् “अद्रिः अभिषवग्रावा "सोमसुत् सोममभिषुण्वन् “युवभ्यां युवाभ्यामर्थायाभिषुण्वन्निति संबन्धः। एवं कुर्वन् “ऊर्ध्वः उन्नतः सन् “विवक्ति उच्चैः शब्दयति तदानीं “वल्गू सुन्दरौ युवां “विप्रः मेधावी यजमानः "हव्यैः हविर्भिः “आ “ववृतीत आवर्तयति ।।।


चि॒त्रं ह॒ यद्वां॒ भोज॑नं॒ न्वस्ति॒ न्यत्र॑ये॒ महि॑ष्वंतं युयोतं ।

यो वा॑मो॒मानं॒ दध॑ते प्रि॒यः सन् ॥५

चि॒त्रम् । ह॒ । यत् । वा॒म् । भोज॑नम् । नु । अस्ति॑ । नि । अत्र॑ये । महि॑ष्वन्तम् । यु॒यो॒त॒म् ।

यः । वा॒म् । ओ॒मान॑म् । दध॑ते । प्रि॒यः । सन् ॥५

चित्रम् । ह । यत् । वाम् । भोजनम् । नु । अस्ति । नि । अत्रये । महिष्वन्तम् । युयोतम् ।

यः । वाम् । ओमानम् । दधते । प्रियः । सन् ॥५

हे अश्विनौ “वां युवयोः “चित्रं चायनीयं यत् "भोजनं धनम् “अस्ति “ह अस्ति खलु । “नु इति पूरणः । तदस्मभ्यं दत्तमित्यर्थः । अथ तयोः स्तुतिः । “अत्रये एतन्नामकादृषेः । पञ्चम्यर्थे चतुर्थी। तस्मात् “महिष्वन्तम् ऋबीसं “नि “युयोतं पृथक्कुरुतम् । “यः अत्रिः “प्रियः “सन् स्तोतृत्वाद्युवाभ्यां प्रियभूतः सन् युवाभ्यामेव कृतम् “ओमानं रक्षणं सुखं दधते धारयति ।। ॥१४॥


उ॒त त्यद्वां॑ जुर॒ते अ॑श्विना भू॒च्च्यवा॑नाय प्र॒तीत्यं॑ हवि॒र्दे ।

अधि॒ यद्वर्प॑ इ॒तऊ॑ति ध॒त्थः ॥६

उ॒त । त्यत् । वा॒म् । जु॒र॒ते । अ॒श्वि॒ना॒ । भू॒त् । च्यवा॑नाय । प्र॒तीत्य॑म् । ह॒विः॒ऽदे ।

अधि॑ । यत् । वर्पः॑ । इ॒तःऽऊ॑ति । ध॒त्थः ॥६

उत । त्यत् । वाम् । जुरते । अश्विना । भूत् । च्यवानाय । प्रतीत्यम् । हविःऽदे ।

अधि । यत् । वर्पः । इतःऽऊति । धत्थः ॥६

“उत अपि च हे “अश्विना अश्विनौ "वां युवयोः कर्म कुर्वते "जुरते जूर्णाय 'हविर्दे हविर्दात्रे “च्यवानाय एतन्नामकाय महर्षये “त्यत् तत् "प्रतीत्यं प्रतिगमनं तस्य रूपस्य प्रत्याप्त्यै “भूत् अभूत् । किं तदिति । “यद्वर्पः रूपम् इतऊति इतोगमनाख्यं मृत्योः सकाशादितःप्राप्तिरूपम् “अधि “धत्थः अध्यधत्तम् । ‘युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः' ( ऋ. सं. १. ११७. १३) इत्यादिषु च्यवानस्य युवयोर्नवीकरणं प्रसिद्धम् ॥


उ॒त त्यं भु॒ज्युम॑श्विना॒ सखा॑यो॒ मध्ये॑ जहुर्दु॒रेवा॑सः समु॒द्रे ।

निरीं॑ पर्ष॒दरा॑वा॒ यो यु॒वाकुः॑ ॥७

उ॒त । त्यम् । भु॒ज्युम् । अ॒श्वि॒ना॒ । सखा॑यः । मध्ये॑ । ज॒हुः॒ । दुः॒ऽएवा॑सः । स॒मु॒द्रे ।

निः । ई॒म् । प॒र्ष॒त् । अरा॑वा । यः । यु॒वाकुः॑ ॥७

उत । त्यम् । भुज्युम् । अश्विना । सखायः । मध्ये । जहुः । दुःऽएवासः । समुद्रे ।

निः । ईम् । पर्षत् । अरावा । यः । युवाकुः ॥७

“उत अपि च “त्यं तं “भुज्युम् एतन्नामानं "समुद्रे “मध्ये समुद्रोदकस्य मध्ये "सखायः भुज्युसखिभूताः "दुरेवासः दुष्टगमनाः “जहुः त्यक्तवन्तः । "ईम् एनं समुद्रमध्ये क्षिप्तं “निः “पर्षत् निरपारयतम् । “यः भुज्युः “युवाकुः युवां कामयिता “अरावा अरणवानभिगन्ता च तमेनं निरपारयतम् ।अत्राश्विनेषु सूक्तेषु कथाः सूच्यन्ते । अत्रिभुज्य्वादीनामग्निजलादिभ्यो रक्षणरूपास्ताः सर्वा महता प्रपञ्चेनास्माभिः ‘नासत्याभ्यां बर्हिरिव' (ऋ. सं. १. ११६. १) इत्यत्र प्रपञ्चिताः । तास्तत्र द्रष्टव्याः ॥


वृका॑य चि॒ज्जस॑मानाय शक्तमु॒त श्रु॑तं श॒यवे॑ हू॒यमा॑ना ।

याव॒घ्न्यामपि॑न्वतम॒पो न स्त॒र्यं॑ चिच्छ॒क्त्य॑श्विना॒ शची॑भिः ॥८

वृका॑य । चि॒त् । जस॑मानाय । श॒क्त॒म् । उ॒त । श्रु॒त॒म् । श॒यवे॑ । हू॒यमा॑ना ।

यौ । अ॒घ्न्याम् । अपि॑न्वतम् । अ॒पः । न । स्त॒र्य॑म् । चि॒त् । श॒क्ती । अ॒श्वि॒ना॒ । शची॑भिः ॥८

वृकाय । चित् । जसमानाय । शक्तम् । उत । श्रुतम् । शयवे । हूयमाना ।

यौ । अघ्न्याम् । अपिन्वतम् । अपः । न । स्तर्यम् । चित् । शक्ती । अश्विना । शचीभिः ॥८

“वृकाय धनादात्रे । अभिलषत इत्यर्थः । “चित् इति पूरणः । अथवा परेभ्यो धनानि प्रयच्छते । यद्वा । वृकाय वृकवद्धिंसकाय । एतन्नामकाय “जसमानाय कर्मभिरुपक्षीयमाणायर्षये “शक्तम् अभिमतं धनमदत्तम् । शकेर्दानार्थस्य लुङयेतद्रूपम् । अडभावश्छान्दसः । “उत अपि च “शयवे एतन्नामकायर्षये “हूयमाना आहूयमानौ युवां “श्रुतम् अशृणुतम् । “यौ युवाम् “अघ्न्यां गाम् “अपिन्वतम् अपूरयतं क्षीरेण “अपो “न अद्भिरिव नदीम् । तां यथोदकेन पूरयतस्तद्वत् । कीदृशीमघ्न्याम् । “स्तर्यं “चित् स्तरीमपि निवृत्तप्रसवां वृद्धामपि “शक्ती शक्त्या सामर्थ्येन दोहनलक्षणेन युक्तां कृत्वा "शचीभिः युष्मदीयैः कर्मभिर्हे अश्विनाविति । ‘शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम्' (ऋ. सं. १. ११६. २२) इत्यादि ह्युक्तम् ॥


ए॒ष स्य का॒रुर्ज॑रते सू॒क्तैरग्रे॑ बुधा॒न उ॒षसां॑ सु॒मन्मा॑ ।

इ॒षा तं व॑र्धद॒घ्न्या पयो॑भिर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥९

ए॒षः । स्यः । का॒रुः । ज॒र॒ते॒ । सु॒ऽउ॒क्तैः । अग्रे॑ । बु॒धा॒नः । उ॒षसा॑म् । सु॒ऽमन्मा॑ ।

इ॒षा । तम् । व॒र्ध॒त् । अ॒घ्न्या । पयः॑ऽभिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥९

एषः । स्यः । कारुः । जरते । सुऽउक्तैः । अग्रे । बुधानः । उषसाम् । सुऽमन्मा ।

इषा । तम् । वर्धत् । अघ्न्या । पयःऽभिः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥९

“एषः स्तोता “स्यः स प्रसिद्धो वसिष्ठः “कारुः स्तोता “उषसाम् “अग्रे प्रातःसवने “बुधानः बुध्यमानः “सुमन्मा शोभनमतिः सुष्टुतिर्वा "सूक्तैः "जरते स्तौति । “तम् “इषा अन्नेन “वर्धत् वर्धयतम् । वचनव्यत्ययः । “अघ्न्या अहन्तव्या गौश्च वर्धत् वर्धयतु । अथवैकमेव वाक्यम् । अघ्न्या गौर्वसिष्ठस्य प्रतिनियताग्निहोत्रार्था गौरिषान्नेन । घृतादिनेत्यर्थः। “पयोभिः च तं वसिष्ठं वर्धत् वर्धयतु । एवमात्मानं परोक्षेण निर्दिदेश । शिष्टं स्पष्टम् ॥ ॥ १५ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.६८&oldid=209141" इत्यस्माद् पुनः प्राप्तिः