ऋग्वेदः सूक्तं ७.६९

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ७.६९ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ७.६८ ऋग्वेदः - मण्डल ७
सूक्तं ७.६९
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.७० →
दे. अश्विनौ। त्रिष्टुप्।


आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः ।
घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्वाजिनीवान् ॥१॥
स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः ।
विशो येन गच्छथो देवयन्तीः कुत्रा चिद्याममश्विना दधाना ॥२॥
स्वश्वा यशसा यातमर्वाग्दस्रा निधिं मधुमन्तं पिबाथः ।
वि वां रथो वध्वा यादमानोऽन्तान्दिवो बाधते वर्तनिभ्याम् ॥३॥
युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायाम् ।
यद्देवयन्तमवथः शचीभिः परि घ्रंसमोमना वां वयो गात् ॥४॥
यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः ।
तेन नः शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् ॥५॥
नरा गौरेव विद्युतं तृषाणास्माकमद्य सवनोप यातम् ।
पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि यमन्देवयन्तः ॥६॥
युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः ।
पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता ॥७॥
नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् ।
धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥८॥

सायणभाष्यम्

‘आ वां रथः' इत्यष्टर्चं चतुर्दशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाश्विनम् । अनुक्रम्यते च - ’आ वां रथोऽष्टौ ' इति । प्रातरनुवाकाश्विनशस्त्रयोर्विनियोग उक्तः ॥


आ वां॒ रथो॒ रोद॑सी बद्बधा॒नो हि॑र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः॑ ।

घृ॒तव॑र्तनिः प॒विभी॑ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति॑र्वा॒जिनी॑वान् ॥१

आ । वा॒म् । रथः॑ । रोद॑सी॒ इति॑ । ब॒द्ब॒धा॒नः । हि॒र॒ण्ययः॑ । वृष॑ऽभिः । या॒तु॒ । अश्वैः॑ ।

घृ॒तऽव॑र्तनिः । प॒विऽभिः॑ । रु॒चा॒नः । इ॒षाम् । वो॒ळ्हा । नृ॒ऽपतिः॑ । वा॒जिनी॑ऽवान् ॥१

आ । वाम् । रथः । रोदसी इति । बद्बधानः । हिरण्ययः । वृषऽभिः । यातु । अश्वैः ।

घृतऽवर्तनिः । पविऽभिः । रुचानः । इषाम् । वोळ्हा । नृऽपतिः । वाजिनीऽवान् ॥१

हे अश्विनौ "वां “रथः “वृषभिः युवभिः “अश्वैः युक्तः सन् “आ “यातु यज्ञमस्मदीयम् । कीदृशो रथः । रथो विशेष्यते । “रोदसी द्यावापृथिव्यौ “बद्बधानः बाधमानः “हिरण्ययः हिरण्मयः “घृतवर्तनिः घृतमुदकं वर्तन्यां यस्य तादृशः “पविभिः रथनेमिभिर्मधुपात्रैर्वा “रुचानः दीप्यमानः “इषां “वोळ्हा यजमानैर्दत्तानां हविषां वाहको दातव्यानां वान्नानां वोळ्हा “नृपतिः नृणां यजमानानां स्वामी “वाजिनीवान् अन्नवान् ।।


स प॑प्रथा॒नो अ॒भि पंच॒ भूमा॑ त्रिवंधु॒रो मन॒सा या॑तु यु॒क्तः ।

विशो॒ येन॒ गच्छ॑थो देव॒यंतीः॒ कुत्रा॑ चि॒द्याम॑मश्विना॒ दधा॑ना ॥२

सः । प॒प्र॒था॒नः । अ॒भि । पञ्च॑ । भूम॑ । त्रि॒ऽव॒न्धु॒रः । मन॑सा । आ । या॒तु॒ । यु॒क्तः ।

विशः॑ । येन॑ । गच्छ॑थः । दे॒व॒ऽयन्तीः॑ । कुत्र॑ । चि॒त् । याम॑म् । अ॒श्वि॒ना॒ । दधा॑ना ॥२

सः । पप्रथानः । अभि । पञ्च । भूम । त्रिऽवन्धुरः । मनसा । आ । यातु । युक्तः ।

विशः । येन । गच्छथः । देवऽयन्तीः । कुत्र । चित् । यामम् । अश्विना । दधाना ॥२

"सः रथः “पञ्च “भूम भूतानि सर्वप्राणिनः “पप्रथानः प्रथमानः “त्रिवन्धुरः । वन्धुरमुच्चावचं सारथ्यवस्थानं काष्ठमयम् । तादृशैस्त्रिभिर्युक्तः "मनसा अस्मत्स्तुत्या “युक्तः "अभि “आ “यातु । “येन रथेन “देवयन्तीः “विशः यजमानान् प्रति गच्छथः । हे “अश्विना अश्विनौ “कुत्र “चित् यत्र क्वापि “यामं गमनं “दधाना धारयन्तौ येन विशो गच्छथः स यात्विति ॥


स्वश्वा॑ य॒शसा या॑तम॒र्वाग्दस्रा॑ नि॒धिं मधु॑मंतं पिबाथः ।

वि वां॒ रथो॑ व॒ध्वा॒३॒॑ याद॑मा॒नोऽंतां॑दि॒वो बा॑धते वर्त॒निभ्यां॑ ॥३

सु॒ऽअश्वा॑ । य॒शसा॑ । आ । या॒त॒म् । अ॒र्वाक् । दस्रा॑ । नि॒ऽधिम् । मधु॑ऽमन्तम् । पि॒बा॒थः॒ ।

वि । वा॒म् । रथः॑ । व॒ध्वा॑ । याद॑मानः । अन्ता॑न् । दि॒वः । बा॒ध॒ते॒ । व॒र्त॒निऽभ्या॑म् ॥३

सुऽअश्वा । यशसा । आ । यातम् । अर्वाक् । दस्रा । निऽधिम् । मधुऽमन्तम् । पिबाथः ।

वि । वाम् । रथः । वध्वा । यादमानः । अन्तान् । दिवः । बाधते । वर्तनिऽभ्याम् ॥३

हे देवौ “स्वश्वा शोभनाश्वेन "यशसा च "अर्वाक् अस्मदभिमुखं "यातम् आगच्छतम् । हे “दस्रा शत्रूणामुपक्षपयितारौ "मधुमन्तं मधुररसोपेतं “निधिं निधिवन्निहितं सोमं “पिबाथः पिबतम् । “वां युवयोः “रथः “वध्वा सूर्यया सह “यादमानः गन्तव्यान् प्रति गच्छन् । गमयन्नित्यर्थः । एवं कुर्वन् “वर्तनिभ्यां स्वचक्राभ्यां “दिवः “अन्तान् पर्यन्तप्रदेशान् बाधते शीघ्रगमनेन पीडयति ॥


यु॒वोः श्रियं॒ परि॒ योषा॑वृणीत॒ सूरो॑ दुहि॒ता परि॑तक्म्यायां ।

यद्दे॑व॒यंत॒मव॑थः॒ शची॑भिः॒ परि॑ घ्रं॒समो॒मना॑ वां॒ वयो॑ गात् ॥४

यु॒वोः । श्रिय॑म् । परि॑ । योषा॑ । अ॒वृ॒णी॒त॒ । सूरः॑ । दु॒हि॒ता । परि॑ऽतक्म्यायाम् ।

यत् । दे॒व॒ऽयन्त॑म् । अव॑थः । शची॑भिः । परि॑ । घ्रं॒सम् । ओ॒मना॑ । वा॒म् । वयः॑ । गा॒त् ॥४

युवोः । श्रियम् । परि । योषा । अवृणीत । सूरः । दुहिता । परिऽतक्म्यायाम् ।

यत् । देवऽयन्तम् । अवथः । शचीभिः । परि । घ्रंसम् । ओमना । वाम् । वयः । गात् ॥४

“युवोः युवयोः “श्रियम् । श्रयत इति श्री रथः । तं सेवामेव वा “योषा सर्वदा मिश्रयन्ती योषित् "सूरः सूर्यस्य “दुहिता “परि “अवृणीत । कदा। परितक्म्यायां रात्रौ परितस्तकनवति संग्रामे यज्ञे वा गन्तव्ये । किंच “यत् यदा “देवयन्तं देवकामं यजमानं यज्ञं वा “शचीभिः युवयोर्गमनादिलक्षणैः कर्मभिः “अवथः रक्षथः तदानीं “घ्रंसं दीप्तं “वयः अन्नं सोमादिलक्षणम् “ओमना अवनेन रक्षणेन निमित्तेन "वां “परि “गात् पर्यगात् ॥


यो ह॒ स्य वां॑ रथिरा॒ वस्त॑ उ॒स्रा रथो॑ युजा॒नः प॑रि॒याति॑ व॒र्तिः ।

तेन॑ नः॒ शं योरु॒षसो॒ व्यु॑ष्टौ॒ न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन् ॥५

यः । ह॒ । स्यः । वा॒म् । र॒थि॒रा॒ । वस्ते॑ । उ॒स्राः । रथः॑ । यु॒जा॒नः । प॒रि॒ऽयाति॑ । व॒र्तिः ।

तेन॑ । नः॒ । शम् । योः । उ॒षसः॑ । विऽउ॑ष्टौ । नि । अ॒श्वि॒ना॒ । व॒ह॒त॒म् । य॒ज्ञे । अ॒स्मिन् ॥५

यः । ह । स्यः । वाम् । रथिरा । वस्ते । उस्राः । रथः । युजानः । परिऽयाति । वर्तिः ।

तेन । नः । शम् । योः । उषसः । विऽउष्टौ । नि । अश्विना । वहतम् । यज्ञे । अस्मिन् ॥५

“यः रथः । “ह इति पूरणः । “स्यः स प्रसिद्धो रथो हे “रथिरा रथिनौ । मत्वर्थीयो रः। “उस्राः तेजांसि “वस्ते आच्छादयति । यश्च “रथः “युजानः अश्वैर्युक्तः सन् “वर्तिः मार्गं यजमानगृहं वा “परियाति परिगच्छति । “तेन रथेन हे “अश्विना अश्विनौ “नः अस्माकम् “अस्मिन् “यज्ञे “उषसो “व्युष्टौ प्रातःकाले “शं शमनाय पापानां “योः मिश्रणाय च सुखानां “नि "वहतं नितरां प्राप्नुतम् ॥


नरा॑ गौ॒रेव॑ वि॒द्युतं॑ तृषा॒णास्माक॑म॒द्य सव॒नोप॑ यातं ।

पु॒रु॒त्रा हि वां॑ म॒तिभि॒र्हवं॑ते॒ मा वा॑म॒न्ये नि य॑मंदेव॒यंतः॑ ॥६

नरा॑ । गौ॒राऽइ॑व । वि॒ऽद्युत॑म् । तृ॒षा॒णा । अ॒स्माक॑म् । अ॒द्य । सव॑ना । उप॑ । या॒त॒म् ।

पु॒रु॒ऽत्रा । हि । वा॒म् । म॒तिऽभिः॑ । हव॑न्ते । मा । वा॒म् । अ॒न्ये । नि । य॒म॒न् । दे॒व॒ऽयन्तः॑ ॥६

नरा । गौराऽइव । विऽद्युतम् । तृषाणा । अस्माकम् । अद्य । सवना । उप । यातम् ।

पुरुऽत्रा । हि । वाम् । मतिऽभिः । हवन्ते । मा । वाम् । अन्ये । नि । यमन् । देवऽयन्तः ॥६

हे “नरा नेतारावश्विनौ “गौरिव गौरा मृगीव “विद्युतं विशेषेण दीप्यमानं सोमं प्रति “तृषाणा तृष्णायुक्तौ “अद्य अस्माकं “सवना सवनानि “उप “यातम् उपागच्छतम् । “पुरुत्रा बहुषु यज्ञेषु “वां युवां यजमानाः "मतिभिः स्तुतिभिः "हवन्ते “हि स्तुवन्ति । अतः “वां युवाम् “अन्ये यष्टारः “देवयन्तः देवौ कामयमाना वां युवां “मा “नि “यमन् मा नियच्छन्तु ॥ ।


यु॒वं भु॒ज्युमव॑विद्धं समु॒द्र उदू॑हथु॒रर्ण॑सो॒ अस्रि॑धानैः ।

प॒त॒त्रिभि॑रश्र॒मैर॑व्य॒थिभि॑र्दं॒सना॑भिरश्विना पा॒रयं॑ता ॥७

यु॒वम् । भु॒ज्युम् । अव॑ऽविद्धम् । स॒मु॒द्रे । उत् । ऊ॒ह॒थुः॒ । अर्ण॑सः । अस्रि॑धानैः ।

प॒त॒त्रिऽभिः॑ । अ॒श्र॒मैः । अ॒व्य॒थिऽभिः॑ । दं॒सना॑भिः । अ॒श्वि॒ना॒ । पा॒रय॑न्ता ॥७

युवम् । भुज्युम् । अवऽविद्धम् । समुद्रे । उत् । ऊहथुः । अर्णसः । अस्रिधानैः ।

पतत्रिऽभिः । अश्रमैः । अव्यथिऽभिः । दंसनाभिः । अश्विना । पारयन्ता ॥७

हे “अश्विना अश्विनौ "युवं “भुज्युम् एतन्नामकम् “अवविद्धं विक्षिप्तं सखिभिः “समुद्रे तन्मध्ये निमग्नम् “अर्णसः उदकात् "उदूहथुः । किं कुर्वन्ताविति तदुच्यते । “अस्रिधानैः अक्षीयमाणैः "अश्रमैः “अव्यथिभिः च "पतत्रिभिः पतनवद्भिर्गमनवद्भी रथे नियुक्तैरश्वैः “दंसनाभिः शारीरैः कर्मभिश्च “पारयन्ता पारयन्तौ समुद्रमर्णस उदूहथुरिति । ‘नासत्या भुज्युमूहथुः पतङ्गैः । (ऋ. सं. १. ११६. ४) इति ह्युक्तम् ॥


नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा॑वत् ।

ध॒त्तं रत्ना॑नि॒ जर॑तं च सू॒रीन्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥८

नु । मे॒ । हव॑म् । आ । शृ॒णु॒त॒म् । यु॒वा॒ना॒ । या॒सि॒ष्टम् । व॒र्तिः । अ॒श्वि॒नौ॒ । इरा॑ऽवत् ।

ध॒त्तम् । रत्ना॑नि । जर॑तम् । च॒ । सू॒रीन् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥८

नु । मे । हवम् । आ । शृणुतम् । युवाना । यासिष्टम् । वर्तिः । अश्विनौ । इराऽवत् ।

धत्तम् । रत्नानि । जरतम् । च । सूरीन् । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥८

‘नू मे हवम्' इत्यष्टमी सिद्धा ॥ ॥ १६ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.६९&oldid=209142" इत्यस्माद् पुनः प्राप्तिः