ऋग्वेदः सूक्तं ७.२१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.२० ऋग्वेदः - मण्डल ७
सूक्तं ७.२१
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.२२ →
दे. इन्द्रः। त्रिष्टुप्।


असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच ।
बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ॥१॥
प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः ।
न्यु भ्रियन्ते यशसो गृभादा दूरउपब्दो वृषणो नृषाचः ॥२॥
त्वमिन्द्र स्रवितवा अपस्कः परिष्ठिता अहिना शूर पूर्वीः ।
त्वद्वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ॥३॥
भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान् ।
इन्द्रः पुरो जर्हृषाणो वि दूधोद्वि वज्रहस्तो महिना जघान ॥४॥
न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः ।
स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुरृतं नः ॥५॥
अभि क्रत्वेन्द्र भूरध ज्मन्न ते विव्यङ्महिमानं रजांसि ।
स्वेना हि वृत्रं शवसा जघन्थ न शत्रुरन्तं विविदद्युधा ते ॥६॥
देवाश्चित्ते असुर्याय पूर्वेऽनु क्षत्राय ममिरे सहांसि ।
इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥७॥
कीरिश्चिद्धि त्वामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः ।
अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता ॥८॥
सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र ।
वन्वन्तु स्मा तेऽवसा समीकेऽभीतिमर्यो वनुषां शवांसि ॥९॥
स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥१०॥


सायणभाष्यम्

‘असावि देवम्' इति दशर्चं चतुर्थं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तम् -- ‘असावि ' इति । माध्यंदिनसवने मैत्रावरुणस्योन्नीयमानमिदं सूक्तम् । ‘असावि देवमिहोप यातेत्यनुसवनम् ' ( आश्व. श्रौ. ५.५) इति । इन्द्रस्य वृत्रघ्नः पशौ अभिक्रत्वा' इति वपाया अनुवाक्या । सूत्रितं च - ‘अभि क्रत्वेन्द्र भूरध ज्मंस्त्वं महाँ इन्द्र तुभ्यं ह क्षाः' (आश्व. श्रौ. ३.८) इति ।।


असा॑वि दे॒वं गोऋ॑जीक॒मन्धो॒ न्य॑स्मि॒न्निन्द्रो॑ ज॒नुषे॑मुवोच ।

बोधा॑मसि त्वा हर्यश्व य॒ज्ञैर्बोधा॑ न॒ः स्तोम॒मन्ध॑सो॒ मदे॑षु ॥१

असा॑वि । दे॒वम् । गोऽऋ॑जीकम् । अन्धः॑ । नि । अ॒स्मि॒न् । इन्द्रः॑ । ज॒नुषा॑ । ई॒म् । उ॒वो॒च॒ ।

बोधा॑मसि । त्वा॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । बोध॑ । नः॒ । स्तोम॑म् । अन्ध॑सः । मदे॑षु ॥१

असावि । देवम् । गोऽऋजीकम् । अन्धः । नि । अस्मिन् । इन्द्रः । जनुषा । ईम् । उवोच ।

बोधामसि । त्वा । हरिऽअश्व । यज्ञैः । बोध । नः । स्तोमम् । अन्धसः । मदेषु ॥१

“देवं दीप्तं “गोऋजीकं गोभिः संस्कृतम् । गव्येन मिश्रितमित्यर्थः । “अन्धः सोमरूपमन्नम् “असावि अभिषुतम् । “ईम् अयम् “इन्द्रः “अस्मिन् अभिषुते सोमरूपेऽन्धसि “जनुषा स्वभावत एव “नि “उवोच नितरां संगतो भवति । अथ प्रत्यक्षस्तुतिः। हे "हर्यश्व “त्वा त्वां “यज्ञैः स्तोत्रैर्हविर्भिर्वा "बोधामसि बोधयामः । “अन्धसः सोमस्य “मदेषु “नः अस्माकं “स्तोमं स्तोत्रं “बोध बुध्यस्व च ॥


प्र य॑न्ति य॒ज्ञं वि॒पय॑न्ति ब॒र्हिः सो॑म॒मादो॑ वि॒दथे॑ दु॒ध्रवा॑चः ।

न्यु॑ भ्रियन्ते य॒शसो॑ गृ॒भादा दू॒रउ॑पब्दो॒ वृष॑णो नृ॒षाच॑ः ॥२

प्र । य॒न्ति॒ । य॒ज्ञम् । वि॒पय॑न्ति । ब॒र्हिः । सो॒म॒ऽमादः॑ । वि॒दथे॑ । दु॒ध्रऽवा॑चः ।

नि । ऊं॒ इति॑ । भ्रि॒य॒न्ते॒ । य॒शसः॑ । गृ॒भात् । आ । दू॒रेऽउ॑पब्दः । वृष॑णः । नृ॒ऽसाचः॑ ॥२

प्र । यन्ति । यज्ञम् । विपयन्ति । बर्हिः । सोमऽमादः । विदथे । दुध्रऽवाचः ।

नि । ऊं इति । भ्रियन्ते । यशसः । गृभात् । आ । दूरेऽउपब्दः । वृषणः । नृऽसाचः ॥२

"यज्ञं “प्र "यन्ति यष्टारः “बर्हिः च “विपयन्ति स्तृणन्ति । विपिः स्तरणकर्मा । “विदथे यज्ञे “सोममादः ग्रावाणश्च “दुध्रवाचः दुर्धरवाचः भवन्ति । अपि च “यशसः यशस्विनः "दूरउपब्दः । दूर उपब्दिः शब्दो येषां ते दूरउपब्दः । “नृषाचः । नॄन्नेतॄनृत्विजः सचन्त इति नृषाचः । “वृषणः ग्रावाणः “गृभात् गृहात् । गृहमध्यमग्रावा' । तस्मात् । “आ इति चार्थे । “नि “भ्रियन्ते अभिषववेलायां निगृह्यन्ते । “उ इति पूरणः ॥


त्वमि॑न्द्र॒ स्रवि॑त॒वा अ॒पस्क॒ः परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।

त्वद्वा॑वक्रे र॒थ्यो॒३॒॑ न धेना॒ रेज॑न्ते॒ विश्वा॑ कृ॒त्रिमा॑णि भी॒षा ॥३

त्वम् । इ॒न्द्र॒ । स्रवि॑त॒वै । अ॒पः । क॒रिति॑ कः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः ।

त्वत् । वा॒व॒क्रे॒ । र॒थ्यः॑ । न । धेनाः॑ । रेज॑न्ते । विश्वा॑ । कृ॒त्रिमा॑णि । भी॒षा ॥३

त्वम् । इन्द्र । स्रवितवै । अपः । करिति कः । परिऽस्थिताः । अहिना । शूर । पूर्वीः ।

त्वत् । वावक्रे । रथ्यः । न । धेनाः । रेजन्ते । विश्वा । कृत्रिमाणि । भीषा ॥३

हे "शूर “इन्द्र “त्वम् “अहिना वृत्रेण “परिष्ठिताः आक्रान्ताः “पूर्वीः बह्वीः "अपः उदकानि “स्रवितवै स्रवितुं "कः अकार्षीः । “धेनाः नद्यश्च “त्वत् त्वत्तो हेतोः “रथ्यो “न रथिन इव “वावक्रे निर्गच्छन्ति । ‘वकि कौटिल्ये' इति धातुः । “विश्वा विश्वानि “कृत्रिमणि भुवनानि च । “भीषा त्वत्तो भीत्या “रेजन्ते कम्पन्ते ॥


भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां॑सि॒ विश्वा॒ नर्या॑णि वि॒द्वान् ।

इन्द्र॒ः पुरो॒ जर्हृ॑षाणो॒ वि दू॑धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ॥४

भी॒मः । वि॒वे॒ष॒ । आयु॑धेभिः । ए॒षा॒म् । अपां॑सि । विश्वा॑ । नर्या॑णि । वि॒द्वान् ।

इन्द्रः॑ । पुरः॑ । जर्हृ॑षाणः । वि । दू॒धो॒त् । वि । वज्र॑ऽहस्तः । म॒हि॒ना । ज॒घा॒न॒ ॥४

भीमः । विवेष । आयुधेभिः । एषाम् । अपांसि । विश्वा । नर्याणि । विद्वान् ।

इन्द्रः । पुरः । जर्हृषाणः । वि । दूधोत् । वि । वज्रऽहस्तः । महिना । जघान ॥४

“इन्द्रः "नर्याणि नरहितानि "विश्वा विश्वानि "अपांसि कर्माणि “विद्वान् जानन् "आयुधेभिः आयुधैः “भीमः भयंकरः सन् “एषाम् । कर्मणि षष्ठी । एतानसुरान् “विवेष व्याप्तवान् । “पुरः च तेषां “वि दूधोत् अकम्पयत् । अपि च "जर्हृषाणः हृष्यन् “महिना महिम्ना युक्तः “वज्रहस्तः सन् तान् “वि “जघान ॥


न या॒तव॑ इन्द्र जूजुवुर्नो॒ न वन्द॑ना शविष्ठ वे॒द्याभि॑ः ।

स श॑र्धद॒र्यो विषु॑णस्य ज॒न्तोर्मा शि॒श्नदे॑वा॒ अपि॑ गुरृ॒तं न॑ः ॥५

न । या॒तवः॑ । इ॒न्द्र॒ । जू॒जु॒वुः॒ । नः॒ । न । वन्द॑ना । श॒वि॒ष्ठ॒ । वे॒द्याभिः॑ ।

सः । श॒र्ध॒त् । अ॒र्यः । विषु॑णस्य । ज॒न्तोः । मा । शि॒श्नऽदे॑वाः । अपि॑ । गुः॒ । ऋ॒तम् । नः॒ ॥५

न । यातवः । इन्द्र । जूजुवुः । नः । न । वन्दना । शविष्ठ । वेद्याभिः ।

सः । शर्धत् । अर्यः । विषुणस्य । जन्तोः । मा । शिश्नऽदेवाः । अपि । गुः । ऋतम् । नः ॥५

हे “इन्द्र “यातवः राक्षसाः “नः अस्मान् "न “जूजुवुः न हिंस्युः। जूजुवुरिति हिंसाक्रियः पृथक्करणक्रियो वा । अपि च हे "शविष्ठ बलवत्तमेन्द्र “वन्दना वन्दनानि रक्षांसि “वेद्याभिः वेद्याभ्यः प्रजाभ्यो नोऽस्मान् “न जूजुवुः न पृथक्कुर्वन्तु । किंच "अर्यः स्वामी “सः इन्द्रः “विषुणस्य विषमस्य “जन्तोः प्राणिनः शासने “शर्धत् उत्सहेत । अथ च "शिश्नदेवाः । शिश्नेन दीव्यन्ति क्रीडन्त इति शिश्नदेवाः । अब्रह्मचर्या इत्यर्थः । “नः अस्माकम् “ऋतं यज्ञं सत्यं वा “मा “अपि “गुः मा अपिगमन् । तथा च यास्कः-’ स उत्सहतां यो विषुणस्य जन्तोर्विषमस्य मा शिश्नदेवा अब्रह्मचर्याः । शिश्नं श्नथतेः । अपि गुर्ऋतं नः सत्यं वा यज्ञं वा' (निरु. ४. १९) इति ॥ ॥ ३ ॥


अ॒भि क्रत्वे॑न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानं॒ रजां॑सि ।

स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ विविदद्यु॒धा ते॑ ॥६

अ॒भि । क्रत्वा॑ । इ॒न्द्र॒ । भूः॒ । अध॑ । ज्मन् । न । ते॒ । वि॒व्य॒क् । म॒हि॒मान॑म् । रजां॑सि ।

स्वेन॑ । हि । वृ॒त्रम् । शव॑सा । ज॒घन्थ॑ । न । शत्रुः॑ । अन्त॑म् । वि॒वि॒द॒त् । यु॒धा । ते॒ ॥६

अभि । क्रत्वा । इन्द्र । भूः । अध । ज्मन् । न । ते । विव्यक् । महिमानम् । रजांसि ।

स्वेन । हि । वृत्रम् । शवसा । जघन्थ । न । शत्रुः । अन्तम् । विविदत् । युधा । ते ॥६

हे "इन्द्र त्वं “क्रत्वा कर्मणा “ज्मन् पृथिव्यां वर्तमानान् जन्तून् वा “अभि "भूः अभ्यभूः । “अध अपि च “ते तव "महिमानं "रजांसि सर्वे लोकाः “न “विव्यक् । व्यचिर्व्याप्तिकर्मा । न व्याप्नुवन्नित्यर्थः । “स्वेन “हि आत्मीयेन च “शवसा बलेन “वृत्रं “जघन्थ त्वमवधीः । “शत्रुः च "युधा युद्धेन “ते तव "अन्तं हिंसां “न "विविदत् न लब्धवान् ॥


दे॒वाश्चि॑त्ते असु॒र्या॑य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां॑सि ।

इन्द्रो॑ म॒घानि॑ दयते वि॒षह्येन्द्रं॒ वाज॑स्य जोहुवन्त सा॒तौ ॥७

दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्या॑य । पूर्वे॑ । अनु॑ । क्ष॒त्राय॑ । म॒मि॒रे॒ । सहां॑सि ।

इन्द्रः॑ । म॒घानि॑ । द॒य॒ते॒ । वि॒ऽसह्य॑ । इन्द्र॑म् । वाज॑स्य । जो॒हु॒व॒न्त॒ । सा॒तौ ॥७

देवाः । चित् । ते । असुर्याय । पूर्वे । अनु । क्षत्राय । ममिरे । सहांसि ।

इन्द्रः । मघानि । दयते । विऽसह्य । इन्द्रम् । वाजस्य । जोहुवन्त । सातौ ॥७

"पूर्वे “देवाश्चित् असुरा अपि “असुर्याय बलाय "क्षत्राय । क्षदिर्हिंसाकर्मा । बलं हिंसां चोभे कर्तुमित्यर्थः । हे इन्द्र “ते तव “सहांसि बलानि “अनु “ममिरे ॥ ‘हीने ' ( पा. सू. १.४.८६ ) इत्यनुः कर्मप्रवचनीयः ॥ तव बलेभ्यो हीना ममिर इत्यर्थः । तथा च निगमान्तरम्- ’ अनु ते द्यौर्बृहती वीर्यं ममे ' ( ऋ. सं. १.५७.५) इति । अथ परोक्षस्तुतिः। “इन्द्रः शत्रून् “विषह्य “मघानि मंहनीयानि धनानि “दयते भक्तेभ्यः प्रयच्छति । अपि च “इन्द्रं “वाजस्य अन्नस्य “सातौ लाभार्थं “जोहुवन्त स्तुवन्ति स्तोतार आह्वयन्ति वा ॥


की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा॑नमिन्द्र॒ सौभ॑गस्य॒ भूरे॑ः ।

अवो॑ बभूथ शतमूते अ॒स्मे अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ॥८

की॒रिः । चि॒त् । हि । त्वाम् । अव॑से । जु॒हाव॑ । ईशा॑नम् । इ॒न्द्र॒ । सौभ॑गस्य । भूरेः॑ ।

अवः॑ । ब॒भू॒थ॒ । श॒त॒म्ऽऊ॒ते॒ । अ॒स्मे इति॑ । अ॒भि॒ऽक्ष॒त्तुः । त्वाऽव॑तः । व॒रू॒ता ॥८

कीरिः । चित् । हि । त्वाम् । अवसे । जुहाव । ईशानम् । इन्द्र । सौभगस्य । भूरेः ।

अवः । बभूथ । शतम्ऽऊते । अस्मे इति । अभिऽक्षत्तुः । त्वाऽवतः । वरूता ॥८

हे “इन्द्र “ईशानं “त्वां “कीरिः स्तोता। ‘कारुः कीरिः' इति स्तोतृनामसु पाठात् । वसिष्ठः “अवसे रक्षणाय "जुहाव “हि स्तौति हि ह्वयति वा । “चित् इति पूरणः । अपि च हे “शतमूते बहुरक्षेन्द्र “अस्मे अस्माकं “भूरेः प्रभूतस्य “सौभगस्य धनस्य “अवः रक्षा “बभूथ बभूविथ। “अभिक्षत्तुः अभिहिंसकस्य “त्वावतः त्वत्सदृशस्य “वरूता वारयिता च भव ॥


सखा॑यस्त इन्द्र वि॒श्वह॑ स्याम नमोवृ॒धासो॑ महि॒ना त॑रुत्र ।

व॒न्वन्तु॑ स्मा॒ तेऽव॑सा समी॒के॒३॒॑ऽभी॑तिम॒र्यो व॒नुषां॒ शवां॑सि ॥९

सखा॑यः । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । स्या॒म॒ । न॒मः॒ऽवृ॒धासः॑ । म॒हि॒ना । त॒रु॒त्र॒ ।

व॒न्वन्तु॑ । स्म॒ । ते॒ । अव॑सा । स॒म्ऽई॒के । अ॒भिऽइ॑तिम् । अ॒र्यः । व॒नुषा॑म् । शवां॑सि ॥९

सखायः । ते । इन्द्र । विश्वह । स्याम । नमःऽवृधासः । महिना । तरुत्र ।

वन्वन्तु । स्म । ते । अवसा । सम्ऽईके । अभिऽइतिम् । अर्यः । वनुषाम् । शवांसि ॥९

हे “इन्द्र “ते तव “नमोवृधासः नमसा स्तुत्या हविषा वा वर्धयितारो वयं “विश्वह सर्वदा “सखायः “स्याम भवेम । “महिना महिम्ना "तरुत्र अत्यन्तं तारकेन्द्र “ते तव “अवसा रक्षणेन “समीके संग्रामे “अर्यः “अभीतिम् अभिगमनं "वनुषां हिंसकानां “शवांसि बलानि च “वन्वन्तु स्तोतारो हिंसन्तु ॥


स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना॑ च॒ ये म॒घवा॑नो जु॒नन्ति॑ ।

वस्वी॒ षु ते॑ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥१०

सः । नः॒ । इ॒न्द्र॒ । त्वऽय॑तायै । इ॒षे । धाः॒ । त्मना॑ । च॒ । ये । म॒घऽवा॑नः । जु॒नन्ति॑ ।

वस्वी॑ । सु । ते॒ । ज॒रि॒त्रे । अ॒स्तु॒ । श॒क्तिः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥१०

सः । नः । इन्द्र । त्वऽयतायै । इषे । धाः । त्मना । च । ये । मघऽवानः । जुनन्ति ।

वस्वी । सु । ते । जरित्रे । अस्तु । शक्तिः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१०

इयमृग्व्याख्यातचरा ॥ ॥ ४ ॥


मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.२१&oldid=189285" इत्यस्माद् पुनः प्राप्तिः