ऋग्वेदः सूक्तं ७.३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ७.२ ऋग्वेदः - मण्डल ७
सूक्तं ७.३
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.४ →
दे. अग्निः। त्रिष्टुप्।


अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् ।
यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥१॥
प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् ।
आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥२॥
उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः ।
अच्छा द्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥३॥
वि यस्य ते पृथिव्यां पाजो अश्रेत्तृषु यदन्ना समवृक्त जम्भैः ।
सेनेव सृष्टा प्रसितिष्ट एति यवं न दस्म जुह्वा विवेक्षि ॥४॥
तमिद्दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः ।
निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वृष्णः ॥५॥
सुसंदृक्ते स्वनीक प्रतीकं वि यद्रुक्मो न रोचस उपाके ।
दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः प्रति चक्षि भानुम् ॥६॥
यथा वः स्वाहाग्नये दाशेम परीळाभिर्घृतवद्भिश्च हव्यैः ।
तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि ॥७॥
या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर्नृवतीरुरुष्याः ।
ताभिर्नः सूनो सहसो नि पाहि स्मत्सूरीञ्जरितॄञ्जातवेदः ॥८॥
निर्यत्पूतेव स्वधितिः शुचिर्गात्स्वया कृपा तन्वा रोचमानः ।
आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥९॥
एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम ।
विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥१०॥


सायणभाष्यम्

' अग्निं वो देवम् ' इति दशर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमाग्नेयम् । अत्रेयानुक्रमणिका’ अग्निं वो दश' इति । अग्निं वो देवम्' इत्येतदादीनि दश सूक्तानि तृतीयचतुर्थवर्जितानि प्रातरनुवाक आग्नेये क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे व विनियुक्तानि । सूत्रितं च- अग्निं वो देवमिति दशानां तृतीयचतुर्थे उद्धरेत् ' ( आश्व. श्रौ. ४.१३) इति । व्यूळ्हे दशरात्रेऽष्टमेऽहनीदं सूक्तमाज्यशस्त्रम् । सूत्र्यते हि -- द्वितीयस्याग्निं वो देवमित्याज्यम्' (आश्व. श्रौ. ८.१०) इति ।।


अ॒ग्निं वो॑ दे॒वम॒ग्निभिः॑ स॒जोषा॒ यजि॑ष्ठं दू॒तम॑ध्व॒रे कृ॑णुध्वं ।

यो मर्त्ये॑षु॒ निध्रु॑विर्ऋ॒तावा॒ तपु॑र्मूर्धा घृ॒तान्नः॑ पाव॒कः ॥१

अ॒ग्निम् । वः॒ । दे॒वम् । अ॒ग्निऽभिः॑ । स॒ऽजोषाः॑ । यजि॑ष्ठम् । दू॒तम् । अ॒ध्व॒रे । कृ॒णु॒ध्व॒म् ।

यः । मर्त्ये॑षु । निऽध्रु॑विः । ऋ॒तऽवा॑ । तपुः॑ऽमूर्धा । घृ॒तऽअ॑न्नः । पा॒व॒कः ॥

अग्निम् । वः । देवम् । अग्निऽभिः । सऽजोषाः । यजिष्ठम् । दूतम् । अध्वरे । कृणुध्वम् ।

यः । मर्त्येषु । निऽध्रुविः । ऋतऽवा । तपुःऽमूर्धा । घृतऽअन्नः । पावकः ॥

हे देवाः “वः यूयं “देवं द्योतमानम् “अग्निभिः अन्यैरग्निभिः “सजोषाः सजोषसं सहितम् । द्वितीथार्थे प्रथमा । “यजिष्ठं यष्टृतमम् “अग्निम् “अध्वरे कौटिल्यरहिते यज्ञे “दूतं “कृणुध्वं कुरुत । “यः अग्निर्देवोऽपि सन् “मर्त्येषु “निध्रुविः नितरां ध्रुवस्तिष्ठति “ऋतावा यज्ञवान् सत्यवान् वा “तपुर्मूर्धा तापकतेजाः “घृतान्नः “पावकः शोधकश्च भवति ॥


प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था॑त् ।

आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ॥२

प्रोथ॑त् । अश्वः॑ । न । यव॑से । अ॒वि॒ष्यन् । य॒दा । म॒हः । स॒म्ऽवर॑णात् । वि । अस्था॑त् ।

आत् । अ॒स्य॒ । वातः॑ । अनु॑ । वा॒ति॒ । शो॒चिः । अध॑ । स्म॒ । ते॒ । व्रज॑नम् । कृ॒ष्णम् । अ॒स्ति॒ ॥

प्रोथत् । अश्वः । न । यवसे । अविष्यन् । यदा । महः । सम्ऽवरणात् । वि । अस्थात् ।

आत् । अस्य । वातः । अनु । वाति । शोचिः । अध । स्म । ते । व्रजनम् । कृष्णम् । अस्ति ॥

“यवसे घासे “अविष्यन् भक्षयन् “प्रोथत् शब्दं कुर्वन् संचरन् वा “अश्वो न अश्व इव “महः महतः “संवरणात् निरोधात् दावरूपोऽग्निः “यदा “व्यस्थात संततेषु वृक्षेषु वितिष्ठते “आत् तदा “अस्य अग्नेः “शोचिः अर्चिः “अनु “वातः “वाति । अथ प्रत्यक्षस्तुतिः । “अध अनन्तरं हे अग्ने “ते तव “व्रजनं वर्त्म "कृष्णमस्ति भवति । “स्म इति पूरणः ॥


उद्यस्य॑ ते॒ नव॑जातस्य॒ वृष्णोऽग्ने॒ चरं॑त्य॒जरा॑ इधा॒नाः ।

अच्छा॒ द्याम॑रु॒षो धू॒म ए॑ति॒ सं दू॒तो अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ॥३

उत् । यस्य॑ । ते॒ । नव॑ऽजातस्य । वृष्णः॑ । अग्ने॑ । चर॑न्ति । अ॒जराः॑ । इ॒धा॒नाः ।

अच्छ॑ । द्याम् । अ॒रु॒षः । धू॒मः । ए॒ति॒ । सम् । दू॒तः । अ॒ग्ने॒ । ईय॑से । हि । दे॒वान् ॥

उत् । यस्य । ते । नवऽजातस्य । वृष्णः । अग्ने । चरन्ति । अजराः । इधानाः ।

अच्छ । द्याम् । अरुषः । धूमः । एति । सम् । दूतः । अग्ने । ईयसे । हि । देवान् ॥

हे “अग्ने “नवजातस्य नवप्रादुर्भावस्य “वृष्णः वर्षितुः “यस्य “ते तव “अजराः जरारहिता ज्वालाः “इधानाः "उत् “चरन्ति उद्गच्छन्ति अस्य “अरुषः आरोचमानः “धूमः “द्याम् “अच्छ दिवमभि “एति गच्छति । हे “अग्ने त्वं "दूतः सन् "देवान् “सम् "ईयसे हि संप्राप्नोषि च ॥


वि यस्य॑ ते पृथि॒व्यां पाजो॒ अश्रे॑त्तृ॒षु यदन्ना॑ स॒मवृ॑क्त॒ जंभैः॑ ।

सेने॑व सृ॒ष्टा प्रसि॑तिष्ट एति॒ यवं॒ न द॑स्म जु॒ह्वा॑ विवेक्षि ॥४

वि । यस्य॑ । ते॒ । पृ॒थि॒व्याम् । पाजः॑ । अश्रे॑त् । तृ॒षु । यत् । अन्ना॑ । स॒म्ऽअवृ॑क्त । जम्भैः॑ ।

सेना॑ऽइव । सृ॒ष्टा । प्रऽसि॑तिः । ते॒ । ए॒ति॒ । यव॑म् । न । द॒स्म॒ । जु॒ह्वा॑ । वि॒वे॒क्षि॒ ॥

वि । यस्य । ते । पृथिव्याम् । पाजः । अश्रेत् । तृषु । यत् । अन्ना । सम्ऽअवृक्त । जम्भैः ।

सेनाऽइव । सृष्टा । प्रऽसितिः । ते । एति । यवम् । न । दस्म । जुह्वा । विवेक्षि ॥

हे अग्ने “यस्य दावरूपस्य “ते तव “पाजः तेजः “पृथिव्यां भूम्यां “तृषु क्षिप्रं “वि “अश्रेत् विश्रयति “यत् यदा अन्नानि काष्ठादीनि “जम्भैः दन्तैः । ज्वालाभिरित्यर्थः । “समवृक्त वृङ्क्ते खादति । तथा “सेनेव “सृष्टा उद्युक्ता “ते तव “प्रसितिः ज्वाला “एति गच्छति । “दस्म हे दर्शनीयाग्ने त्वं “यवं “न यवमिव “जुह्वा ज्वालया “विवेक्षि काष्ठादीनि भक्षयसि व्याप्नोषि वा ॥


तमिद्दो॒षा तमु॒षसि॒ यवि॑ष्ठम॒ग्निमत्यं॒ न म॑र्जयंत॒ नरः॑ ।

नि॒शिशा॑ना॒ अति॑थिमस्य॒ योनौ॑ दी॒दाय॑ शो॒चिराहु॑तस्य॒ वृष्णः॑ ॥५

तम् । इत् । दो॒षा । तम् । उ॒षसि॑ । यवि॑ष्ठम् । अ॒ग्निम् । अत्य॑म् । न । म॒र्ज॒य॒न्त॒ । नरः॑ ।

नि॒ऽशिशा॑नाः । अति॑थिम् । अ॒स्य॒ । योनौ॑ । दी॒दाय॑ । शो॒चिः । आऽहु॑तस्य । वृष्णः॑ ॥

तम् । इत् । दोषा । तम् । उषसि । यविष्ठम् । अग्निम् । अत्यम् । न । मर्जयन्त । नरः ।

निऽशिशानाः । अतिथिम् । अस्य । योनौ । दीदाय । शोचिः । आऽहुतस्य । वृष्णः ॥

“यविष्ठं युवतमम् “अतिथिम् अतिथिवत् पूज्यं “तमित् तमेव “अग्निं “दोषा दोषायां रात्रौ “उषसि वासरेऽपि “तम् एव “अस्य अग्नेः “योनौ स्थाने आहवनीयायतने धिष्ण्ये वा “निशिशानाः दीपयन्तः “नरः मनुष्याः “अत्यं “न सततगमनयुक्तं वोढारमश्वमिव “मर्जयन्त परिचरन्ति । “आहुतस्य च 'वृष्णः कामानां वर्षितुरग्नेस्तस्य “शोचिः ज्वाला "दीदाय दीप्यते ॥ ॥ ३ ॥


सु॒सं॒दृक्ते॑ स्वनीक॒ प्रती॑कं॒ वि यद्रु॒क्मो न रोच॑स उपा॒के ।

दि॒वो न ते॑ तन्य॒तुरे॑ति॒ शुष्म॑श्चि॒त्रो न सूरः॒ प्रति॑ चक्षि भा॒नुं ॥६

सु॒ऽस॒न्दृक् । ते॒ । सु॒ऽअ॒नी॒क॒ । प्रती॑कम् । वि । यत् । रु॒क्मः । न । रोच॑से । उ॒पा॒के ।

दि॒वः । न । ते॒ । त॒न्य॒तुः । ए॒ति॒ । शुष्मः॑ । चि॒त्रः । न । सूरः॑ । प्रति॑ । च॒क्षि॒ । भा॒नुम् ॥

सुऽसन्दृक् । ते । सुऽअनीक । प्रतीकम् । वि । यत् । रुक्मः । न । रोचसे । उपाके ।

दिवः । न । ते । तन्यतुः । एति । शुष्मः । चित्रः । न । सूरः । प्रति । चक्षि । भानुम् ॥

“स्वनीक हे सुतेजस्काग्ने त्वं “यत् यदा “रुक्मो “न सूर्य इव । सुवर्णमिव वा । “उपाके अन्तिके “वि “रोचसे विशेषेण दीप्यसे तदा “ते तव “प्रतीकं रूपमङ्गं वा "सुसंदृक् सुसंदर्शनं भवति । किंच “ते तव “शुष्मः “दिवः अन्तरिक्षात् “तन्यतुः “न अशनिरिव एति निर्गच्छति । “चित्रः दर्शनीयः “सूरः “न सूर्य इव “भानुं स्वां दीप्तिं “प्रति “चक्षि प्रदर्शयसि ।।


यथा॑ वः॒ स्वाहा॒ग्नये॒ दाशे॑म॒ परीळा॑भिर्घृ॒तव॑द्भिश्च ह॒व्यैः ।

तेभि॑र्नो अग्ने॒ अमि॑तै॒र्महो॑भिः श॒तं पू॒र्भिराय॑सीभि॒र्नि पा॑हि ॥७

यथा॑ । वः॒ । स्वाहा॑ । अ॒ग्नये॑ । दाशे॑म । परि॑ । इळा॑भिः । घृ॒तव॑त्ऽभिः । च॒ । ह॒व्यैः ।

तेभिः॑ । नः॒ । अ॒ग्ने॒ । अमि॑तैः । महः॑ऽभिः । श॒तम् । पूः॒ऽभिः । आय॑सीभिः । नि । पा॒हि॒ ॥

यथा । वः । स्वाहा । अग्नये । दाशेम । परि । इळाभिः । घृतवत्ऽभिः । च । हव्यैः ।

तेभिः । नः । अग्ने । अमितैः । महःऽभिः । शतम् । पूःऽभिः । आयसीभिः । नि । पाहि ॥

हे “अग्ने “अग्नये अग्रस्य नेत्रे "वः तुभ्यं “स्वाहा स्वाहुतं हविः । किंच यथा वयम् “इळाभिः । गोभिर्गोविकारैः क्षीरादिभिः “घृतवद्भिः घृतसहितैः “हव्यैः पुरोडाशादिभिः “च “दाशेम परिचरेम तथा त्वमपि “तेभिः प्रसिद्धैः “अमितैः अपरिमितैः “महोभिः तेजोभिः “शतम् अपरिमिताभिः “आयसीभिः हिरण्मयीभिः । “ रुक्मम् अयः' इति हिरण्यनामसु पाठात् । “पूर्भिः नगरीभिरिव “नः अस्मान् “नि पाहि नितरां रक्ष ॥


या वा॑ ते॒ संति॑ दा॒शुषे॒ अधृ॑ष्टा॒ गिरो॑ वा॒ याभि॑र्नृ॒वती॑रुरु॒ष्याः ।

ताभि॑र्नः सूनो सहसो॒ नि पा॑हि॒ स्मत्सू॒रींज॑रि॒तॄंजा॑तवेदः ॥८

याः । वा॒ । ते॒ । सन्ति॑ । दा॒शुषे॑ । अधृ॑ष्टाः । गिरः॑ । वा॒ । याभिः॑ । नृ॒ऽवतीः॑ । उ॒रु॒ष्याः ।

ताभिः॑ । नः॒ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नि । पा॒हि॒ । स्मत् । सू॒रीन् । ज॒रि॒तॄन् । जा॒त॒ऽवे॒दः॒ ॥

याः । वा । ते । सन्ति । दाशुषे । अधृष्टाः । गिरः । वा । याभिः । नृऽवतीः । उरुष्याः ।

ताभिः । नः । सूनो इति । सहसः । नि । पाहि । स्मत् । सूरीन् । जरितॄन् । जातऽवेदः ॥

“सहसः “सूनो हे बलस्य पुत्र “जातवेदः अग्ने “दाशुषे दाशुषः “ते तव “याः “वा याश्च ज्वालाः “सन्ति । “अधृष्टाः रक्षोभिः अप्रधृषिताः “गिरो “वा गिरश्च सन्ति । "याभिः गीर्भिः “नृवतीः पुत्रवतीः प्रजाः “उरुष्याः रक्षेः । “ताभिः उभयीभिः “नः अस्मान् । “स्मत् इति प्रशस्तवचनः । प्रशस्तान् “सूरीन् हविषां प्रेरकान् “जरितॄन् स्तोतॄंश्च “नि “पाहि नितरां रक्ष ॥


निर्यत्पू॒तेव॒ स्वधि॑तिः॒ शुचि॒र्गात्स्वया॑ कृ॒पा त॒न्वा॒३॒॑ रोच॑मानः ।

आ यो मा॒त्रोरु॒शेन्यो॒ जनि॑ष्ट देव॒यज्या॑य सु॒क्रतुः॑ पाव॒कः ॥९

निः । यत् । पू॒ताऽइ॑व । स्वऽधि॑तिः । शुचिः॑ । गात् । स्वया॑ । कृ॒पा । त॒न्वा॑ । रोच॑मानः ।

आ । यः । मा॒त्रोः । उ॒शेन्यः॑ । जनि॑ष्ट । दे॒व॒ऽयज्या॑य । सु॒ऽक्रतुः॑ । पा॒व॒कः ॥

निः । यत् । पूताऽइव । स्वऽधितिः । शुचिः । गात् । स्वया । कृपा । तन्वा । रोचमानः ।

आ । यः । मात्रोः । उशेन्यः । जनिष्ट । देवऽयज्याय । सुऽक्रतुः । पावकः ॥

“यत् यदा “शुचिः अग्निः “स्वया स्वकीयया “तन्वा ततया “कृपा कृपया दीप्त्या “रोचमानः “पूतेव “स्वधितिः तीक्ष्णीकृता स्वधितिरिव “निः “गात् काष्ठान्निर्गच्छति तदानीं “देवयज्याय भवति । तदेव विशदयति । “यः अग्निः “उशेन्यः कमनीयः “सुक्रतुः सुकर्मा “पावकः शोधकश्च “मात्रोः अरण्योः “आ “जनिष्ट आजायत स देवयज्याय भवतीति ॥


ए॒ता नो॑ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं॑ सु॒चेत॑सं वतेम ।

विश्वा॑ स्तो॒तृभ्यो॑ गृण॒ते च॑ संतु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥१०

ए॒ता । नः॒ । अ॒ग्ने॒ । सौभ॑गा । दि॒दी॒हि॒ । अपि॑ । क्रतु॑म् । सु॒ऽचेत॑सम् । व॒ते॒म॒ ।

विश्वा॑ । स्तो॒तृऽभ्यः॑ । गृ॒ण॒ते । च॒ । स॒न्तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

एता । नः । अग्ने । सौभगा । दिदीहि । अपि । क्रतुम् । सुऽचेतसम् । वतेम ।

विश्वा । स्तोतृऽभ्यः । गृणते । च । सन्तु । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

हे “अग्ने “एता एतानि परिदृश्यमानानि “सौभगा सौभगानि शोभनानि धनानि “नः अस्मभ्यं “दिदीहि दीपय देहि वा । “अपि अपि च “क्रतुं कर्म यज्ञानां कर्तारं वा “सुचेतसं शोभनप्रज्ञानयुक्तं सुप्रज्ञानं पुत्रं वा “वतेम संभजेमहि ॥ वनतेः संभजनार्थस्य वर्णान्तरागमे सति रूपम् ॥ “विश्वा विश्वानि धनानि “स्तोतृभ्यः उद्गातृभ्यः “गृणते शंसते “च “सन्तु । “यूयं त्वत्परिवाराश्च सर्वे यूयं नः अस्मान् “स्वस्तिभिः क्षेमैः “सदा सर्वदा “पात रक्षत ॥ ॥ ४ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.३&oldid=170785" इत्यस्माद् पुनः प्राप्तिः