ऋग्वेदः सूक्तं ७.४९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सूक्तं ७.४८ ऋग्वेदः - मण्डल ७
सूक्तं ७.४९
मैत्रावरुणिर्वसिष्ठः।
सूक्तं ७.५० →
दे. आपः। त्रिष्टुप्।


समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः ।
इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥१॥
या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयंजाः ।
समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु ॥२॥
यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् ।
मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु ॥३॥
यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति ।
वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु ॥४॥


सायणभाष्यम्

‘समुद्रज्येष्ठाः' इति चतुर्ऋचं षोडशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमब्देवताकम् । तथा चानुक्रान्तं -- समुद्रज्येष्ठा आपम् ' इति । गतो विनियोगः ॥


स॒मु॒द्रज्ये॑ष्ठाः सलि॒लस्य॒ मध्या॑त्पुना॒ना य॒न्त्यनि॑विशमानाः ।

इन्द्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥१

स॒मु॒द्रऽज्ये॑ष्ठाः । स॒लि॒लस्य॑ । मध्या॑त् । पु॒ना॒नाः । य॒न्ति॒ । अनि॑ऽविशमानाः ।

इन्द्रः॑ । या । व॒ज्री । वृ॒ष॒भः । र॒राद॑ । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥१

समुद्रऽज्येष्ठाः । सलिलस्य । मध्यात् । पुनानाः । यन्ति । अनिऽविशमानाः ।

इन्द्रः । या । वज्री । वृषभः । रराद । ताः । आपः । देवीः । इह । माम् । अवन्१

"समुद्रज्येष्ठाः । समुद्रोऽर्णवो ज्येष्ठः प्रशस्यतमो यासामपां ताः । "सलिलस्य । अन्तरिक्षनामैतत् । अन्तरिक्षस्य “मध्यात् माध्यमिकात् स्थानात् "यन्ति गच्छन्ति । कीदृश्थः । "पुनानाः विश्वं शोधयन्त्यः "अनिविशमानाः सर्वदा गच्छन्त्यः । "वज्री वज्रभृत् "वृषभः कामानां वर्षिता “इन्द्रः "याः निरूद्धा अपः "रराद लिखति “देवीः देव्यः “ताः “आपः “इह अस्मिन् प्रदेशे स्थितं "मामवन्तु रक्षन्तु अभिगच्छन्तु वा ॥


या आपो॑ दि॒व्या उ॒त वा॒ स्रव॑न्ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः ।

स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥२

याः । आपः॑ । दि॒व्याः । उ॒त । वा॒ । स्रव॑न्ति । ख॒नित्रि॑माः । उ॒त । वा॒ । याः । स्व॒य॒म्ऽजाः ।

स॒मु॒द्रऽअ॑र्थाः । याः । शुच॑यः । पा॒व॒काः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥२

याः । आपः । दिव्याः । उत । वा । स्रवन्ति । खनित्रिमाः । उत । वा । याः । स्वयम्ऽजाः ।

समुद्रऽअर्थाः । याः । शुचयः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥२

“या "आपो "दिव्याः अन्तरिक्षभवाः सन्ति। “उत "वा अपि च याः आपः नद्यादिगताः सत्यः "स्रवन्ति गच्छन्ति । याश्च "खनित्रिमाः खननेन निर्वृत्ताः। “उत "वा अपि च “याः "स्वयंजाः स्वयमेव प्रादुर्भवन्त्यः "समुद्रार्थाः । समुद्र एवार्थो गन्तव्यो यासां ताः समुद्रार्थाः । "शुचयः दीप्तियुक्ताः "पावकाः शोधयित्र्यश्च भवन्ति । “ता "आपः "मामवन्तु इति ॥


यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम् ।

म॒धु॒श्चुत॒ः शुच॑यो॒ याः पा॑व॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥३

यासा॑म् । राजा॑ । वरु॑णः । याति॑ । मध्ये॑ । स॒त्या॒नृ॒ते इति॑ । अ॒व॒ऽपश्य॑न् । जना॑नाम् ।

म॒धु॒ऽश्चुतः॑ । शुच॑यः । याः । पा॒व॒काः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥३

यासाम् । राजा । वरुणः । याति । मध्ये । सत्यानृते इति । अवऽपश्यन् । जनानाम् ।

मधुऽश्चुतः । शुचयः । याः । पावकाः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥३

“वरुणः "यासाम् अपां "राजा स्वामी "मध्ये मध्यमलोके "याति गच्छति । किं कुर्वन् । “जनानां प्रजानां "सत्यानृते सत्यं चानृतं च “अवपश्यन् । जानन्नित्यर्थः। “याः आपः "मधुश्चुतः रसं क्षरन्त्यः "शुचयः दीप्तियुक्ताः "पावकाः शोधयित्र्यः। “ता “आपः देव्यः “मां रक्षन्त्विति ॥


यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे॑ दे॒वा यासूर्जं॒ मद॑न्ति ।

वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥४

यासु॑ । राजा॑ । वरु॑णः । यासु॑ । सोमः॑ । विश्वे॑ । दे॒वाः । यासु॑ । ऊर्ज॑म् । मद॑न्ति ।

वै॒श्वा॒न॒रः । यासु॑ । अ॒ग्निः । प्रऽवि॑ष्टः । ताः । आपः॑ । दे॒वीः । इ॒ह । माम् । अ॒व॒न्तु॒ ॥४

यासु । राजा । वरुणः । यासु । सोमः । विश्वे । देवाः । यासु । ऊर्जम् । मदन्ति ।

वैश्वानरः । यासु । अग्निः । प्रऽविष्टः । ताः । आपः । देवीः । इह । माम् । अवन्तु ॥४

अपां "राजा “वरुणः “यासु अप्सु वर्तते । "सोमः “यासु अप्सु वर्तते । "यासु अप्सु स्थिताः "विश्वे सर्वे "देवाः “ऊर्जम् अन्नं "मदन्ति। “वैश्वानरः "अग्निः “यासु "प्रविष्टः । “ताः “आपः देव्यः “इह स्थितं "मामवन्तु ॥ ॥ १६ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.४९&oldid=311847" इत्यस्माद् प्रतिप्राप्तम्